शिवप्रोक्तं दक्षिणकैलासमहिमवर्णनम्
- शिवपार्तवतीसंवादे -
शिव उवाच -
शिवे दक्षिणकैलासो विलासस्याश्रयो मम ।
स यथोत्तरकंलासस्तथैव सुखदः सदा ॥ १॥
सुवर्णमुखरी नाम नदी तत्रास्ति शोभना ।
यत्तीर्थस्नानमात्रेण मुच्यते सर्वकिल्बिषेः ॥ २॥
तत्तीरे कोटिशः सन्ति बिल्ववृक्षा मनोहराः ।
अखण्डबिल्वपत्राणि राजन्ते यत्र कोटिशः ॥ ३॥
सुवर्णमुखरीतीरे बहवः सन्ति शाङ्कराः ।
ते सर्वे नियताहारा भस्मोद्धूलितविग्रहाः ॥ ४॥
शिवपूजारताः सर्वे निरीहा निर्मलाशयाः ।
शिवनामैकनिरतास्त्यक्तभोगा निराकुलाः ॥ ५॥
ध्यायन्ति ते महादेवं मामनाद्यन्तमव्ययम् ।
निष्कलं निर्गुणं शान्तं शिवमक्षरमच्युतम् ॥ ६॥
सर्वाधारमनाधारं विदित्वा मां वसन्ति ते ।
तत्र त्यक्ततनुर्मर्त्यः कीटो वा मशकोऽथवा ॥ ७॥
भुक्त्वा भोगान्यथाकामं मत्स्वरूपं प्रयाति च ।
तत्रास्ति पर्वतः कश्चित्स मदात्मक एव हि ॥ ८॥
स तु लिङ्गमयो यस्माल्लिङ्गाकारः स पर्वतः ।
तस्य शैलस्य विधिवद्वैशाखे माघमसि वा ॥ ९॥
कृत्वा प्रदक्षिणं सम्यग्ब्रह्महत्या विमुच्यते ।
कर्पूरगौरं तल्लिङ्गं पश्चिमाभिमुखं सदा ॥ १०॥
वर्णान्तरं प्रतियुगं तस्य लिङ्गस्य जायते ।
विष्णुब्रह्मादयो देवा सततं शिवपूजकाः ॥ ११॥
तल्लिङ्गमतियत्नेन पूजयन्ति मुमुक्षवः ।
सुवर्णमुखरीतार्थे स्नात्वा सम्यग्थाविधि ॥ १२॥
अशेषपापनिर्मुक्ता भविष्यन्ति न संशयः ।
स्नात्वा तत्र विधानेन पितॄन्सन्तर्प्य वारिणा ॥ १३॥
अन्नादिभिश्च सन्तर्प्य सर्वपापैः प्रमुच्यते ।
तत्तीरे श्राद्धकरणा पितॄणामृणबन्धनात् ॥ १४॥
मुच्यते मनुजः सद्यः पद्मपत्रमिवाम्भसा ।
तत्र स्नात्वा विधानेन स्वशक्त्या शिवयोगिने ॥ १५॥
देयं सुवर्णं यत्नेन मत्प्रीत्यर्थमतन्द्रितैः ।
भोजनीयः प्रयत्नेन शिवयोगी यथासुखम् ॥ १६॥
स दुग्धपरमान्नाद्यैर्यथेष्टं घृतमिश्रितैः ।
शिवक्षेत्रमिदं यस्मादत एवात्र शाङ्कराः ॥ १७॥
भोजनीयाः प्रयत्नेनं तोषणीया धनादिभिः ।
एकस्मिन्भोजिते शैवे भोजिताः कोटिशो द्विजाः ॥ १८॥
यतः शैवमुखद्वारा भुज्यते गिरिजे मया ।
परन्तु शुद्धया भक्त्या विनयेन विचक्षणैः ॥ १९॥
भोज्यते यदि शैवेन्द्रस्तदा तद्भुज्यते मया ।
शिवयोगिनि सन्तुष्टे सन्तुष्टोऽस्म्यहमम्बिके ॥ २०॥
शिवयोगिस्वरूपेण सञ्चराम्यहमेव हि ।
शिवक्षेत्रेषु सर्वेषु पूज्या हि शिवयोगिनः ॥ २१॥
अहं तु पूजितः सत्यं शिवयोगिनि पूजिते ।
तत्राद्रकृत्तिकायोगे सन्ध्यायामष्टमीदिने ॥ २२॥
सम्पूज्यं मां बिल्वपत्रैर्ब्रह्महत्या विमुच्यते ।
वैशाखपौर्णमास्यां यः सम्पूजयति तत्र माम् ॥ २३॥
व्यतीपातेन युक्तायां स मोक्षमधिगच्छति ।
यो मां बिल्वदलँस्तत्र कोमलः पूजयिष्यति ॥ २४॥
स सद्य एव संसारान्मुक्तो भवति सर्वथा ।
शेषः प्रत्यहमागत्य तत्र रत्नैर्मनोहरैः ॥ २५॥
तदेव लिङ्गममलं सम्पूजयति सादरम् ।
अत्युत्तमैर्लक्षरत्नैर्भक्त्या प्रीत्याऽन्वहं मुदा ॥ २६॥
तत्र कश्चिद्गजो नित्यं नियमेनैव सादरम् ।
तुण्डेन जलमानीय मुदा मामभिषिञ्चति ॥ २७॥
ततश्च बिल्वपत्राणि भक्त्यादाय स्वशुण्डया ।
मामयति यत्नेन पुष्पैर्नानाविधैरपि ॥ २८॥
अयं यदा समायाति मत्पूजार्थमिह द्विप ।
तत्पूर्वं फणिराड्रत्नैः पूजां कृत्वा स गच्छति ॥ २९॥
तानि रत्नानि दृष्ट्वाऽयं हस्ती ग्रावाभिशङ्कया ।
दूरीकरोति यत्नेन सकोपः सत्वरं शिवे ॥ ३०॥
एवं प्रत्यहमेवायं रत्नानि विमलान्यपि ।
दूरीकृत्वैव बिल्वैर्मां पूजयामास भक्तितः ॥ ३१॥
गजस्य चेष्टितं दृष्ट्वा विस्मितो भुजगेश्वरः ।
केन दूरीकृतान्येतद्रत्नानि विविधान्यपि ॥ ३२॥
एवं विचिन्तयन्भूरि शेषः शोकवशं गतः ।
शिवपूजाविधाने यत्पातकं समुपार्ज्यते ॥ ३३॥
तत्कृते दुःखलेशोऽपि कस्य वा नोपजायते ।
इत्थं विचिन्त्य भूयोऽपि रत्नैर्नानाविधैः फणी ॥ ३४॥
पूजयित्वा च मां भक्त्या याति लोकं स्वकं पुनः ।
एवमेव समागत्य पूजयित्वा पुनः पुनः ॥ ३५॥
स यात्यायाति सततं पुनरायाति याति च ।
उभाभ्यां हस्तिनागाभ्यामेवमन्वहमादरात् ॥ ३६॥
लिङ्गरूपे मयि प्रीत्या पूजा विरचिता मुहुः ।
ततः कदाचित्सफणी पूजां कृत्वा प्रयत्नतः ॥ ३७॥
कोऽयमायाति तं द्रक्ष्ये नूनमद्येति तस्थिवान् ।
शिवपूजाविहन्तारं निहनिष्यामि तत्त्वतः ॥ ३८॥
देवो वा मानुषो वास्तु यो वा को वाभवत्वयम् ।
इति निश्चित्य नागेन्द्रः क्वचित्कोणे निलीय सः ॥ ३९॥
तस्थौ तदा द्विपेन्द्रोऽपि पूजार्थं समुपागतः ।
द्विपोऽपि तानि रत्नानि व्यपनीय स्वशुण्डया ॥ ४०॥
बिल्वपत्रैः प्रसूनैश्च पूजां कर्तुं प्रचक्रमे ।
द्विपस्तस्मिन्दिने भूयो बिल्वपत्राण्युपाहरत् ॥ ४१॥
पूजयामास मां भक्त्या शिवमेकमनामयम् ।
तमेवं वीक्ष्य नागेशः सत्वरं सूक्ष्मरूपधृक् ॥ ४२॥
तद्दन्तितुण्डद्वारेण शिरोमध्यं जगाम सः ।
ततस्तद्दंशितो दन्ती द्वारस्तम्भे शिलामये ॥ ४३॥
शिरः सङ्घर्षयामास सक्रोधं क्रोधसंयुतः ।
ततः सङ्घर्षणेनैव स्फुटितं तच्छिरस्तदा ॥ ४४॥
निर्जगाम ततो भोगी नागेन्द्रशिरसस्तदा ।
ततो विषार्दितो दन्ती मृतो भूमौ पपात च ॥ ४५॥
पतिते दन्तिवर्येऽस्मिन्नागे च गतजीविते ।
प्रादुरास तदा देवि सद्योऽहं लिङ्गमध्यतः ॥ ४६॥
जीवयामास तौ चोभौ भक्तिनिष्ठौ मयि प्रिये ।
स्तुतस्ताभ्यां ततो यत्नात् भक्तिपूर्वं सुरेश्वरि ॥ ४७॥
वरोऽपि वव्रें यत्नेन तदायं परमोत्तमः ।
उभयोरपि नाम्नेदं लिङ्गं प्रख्यातिमेत्विति ॥ ४८॥
नामानुवृत्तिरस्त्वीश पृथिव्यामावयोः सदा ।
मुक्तिस्त्वद्दर्शनादेव भविष्यत्यद्य सर्वथा ॥ ४९॥
इत्युक्तं तद्वचः श्रुत्वा वरो दत्तस्तदा शिवे ।
तयोर्मुक्तिरभूद्देवि मत्साक्षात्कारतस्ततः ॥ ५०॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं दक्षिणकैलासमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः १९ । १-५०॥
- .. shrIshivarahasyam ugrAkhyaH saptamAMshaH . adhyAyaH 19 . 1-50 ..
Notes:
Śiva शिव describes to Pārvatī पार्वती about His yet another Residence i.e. Dakṣiṇa Kailāsa दक्षिण कैलास that has the River Suvarṇamukharī सुवर्णमुखरी with multitudes of Bilva Trees बिल्ववृक्षाः along its banks that are home to several Śāṅkara-s शङ्कराः (Devotees of Saṅkara शङ्कर) who are always immersed in His dhyana ध्यान.
He mentions the mountain that is shaped like a Śivaliṅga शिवलिङ्ग, that should be visited variously in the month of Vaiśākha वैशाख and Māgha माघ. There is a Śivaliṅga शिवलिङ्ग there, that is as white as camphor कर्पूरगौरम् that is west facing पश्चिमाभिमुखम्.
Śiva शिव mentions the merits of appeasing ŚivaYogin-s शिवयोगिनः there by several means, as a Way to Appease Him. He highlights about His worship there during Ārdrā Krittikā Yoga आर्द्राकृत्तिकायोग on evening of Aṣṭamī अष्टमी; and, on Vaiśākha Pūrṇimā वैशाख पूर्णिमा.
Śiva शिव narrates the story of the Elephant and the Serpent, who used to conduct worship at the Śivaliṅga शिवलिङ्ग in their own way, feeling upset at the other’s offerings. The Serpent finds out that it is an Elephant who removes the offerings that he makes, upon which both end up killing each other in a fight that ensues. Śiva शिव appears out of the Śivaliṅga शिवलिङ्ग and restores the lives as well as Grants Liberation (Mukti मुक्ति) to both.
The story pertains to the temple KālaHastīśvara कालहस्तीश्वर, as described further in the Chapter 19.
Encoded and proofread by Ruma Dewan