मुद्गलपुराणं खण्डः ६ विकटचरितम्
॥ मुद्गलपुराणं खण्डः ६॥
॥ अथ श्रीमुद्गलपुराणे षष्ठः खण्डः प्रारभ्यते ॥
(Page खं. ६ अ. १ पान १)
६.१ शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
सूत त्वया महाप्राज्ञ कथितं परमाद्भुतम् ।
लम्बोदरस्य माहात्म्यं तेनाऽहं तृप्तिमागतः ॥ १॥
अहो गणेशमाहात्म्यं सर्वसन्तोषकारकम् ।
श्रवणेनैव साक्षात्तु ब्रह्मसायुज्यदायकम् ॥ २॥
अधुना वद माहात्म्यं विकटस्य विशेषवित् ।
सर्वसिद्धिप्रदं पूर्णं सूत योगामृतं परम् ॥ ३॥
अन्यन् मुद्गलविप्रेण दक्षाय कथितं पुरा ।
पृष्टं दक्षेण किं तात वद तन्मे प्रविस्तरात् ॥ ४॥
तव सङ्गेन सन्तुष्टा वयं सर्वे विशेषतः ।
भवामः कृतकृत्याश्च कथाश्रवणमात्रतः ॥ ५॥
सूत उवाच ।
सम्यक् पृष्टं त्वया विप्र भार्गवाणां शिरोमणे ।
सारग्राही न सन्देहः शौनक त्वं विशेषतः ॥ ६॥
भवतां प्रीतिकामार्थं वदिष्यामि विशेषतः ।
चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥ ७॥
न गणेशात् परं किञ्चिद् विद्यते वेदवादतः ।
अल्पपुण्ययुतानां तु न प्रीतिस्तत्र वर्धते ॥ ८॥
पुरा पृष्टो महायोगी योगं दक्षेण वीप्सता ।
तदेवाऽहं वदिष्यामि शृणुत ब्राह्मणाः परम् ॥ ९॥
दक्ष उवाच ।
धन्यं मे जन्मकर्मादि येन ते दर्शनं प्रभो ।
प्राप्तं पुण्यवशेनैव परं मुद्गलयोगदम् ॥ १०॥
अधुना वद माहात्म्यं विकटस्य विचक्षण ।
श्रुत्वा लम्बोदरस्यैव तृष्णा मे वर्धते मुने ॥ ११॥
कीदृशोऽयं गणाध्यक्षः कीदृशं ब्रह्म तस्य वै ।
केन योगेन लभ्यश्च कति तस्यावतारकाः ॥ १२॥
किं विहारः किमर्थं स भूमौ देवः समागतः ।
कान् दैत्यान् हतवान् विप्र कथं देवैश्च संस्तुतः ॥ १३॥
इत्यादि विविधं तस्य चेष्टितं वद मानद ।
भवादृशा महाभागाः परोपकृतिकारकाः ॥ १४॥
संसाराब्धौ निमग्नानां नौकारूपा मता बुधैः ।
भवन्तो नात्र सन्देहस्तारयस्वधुना च माम् ॥ १५॥
सूत उवाच ।
दक्षस्य विनयेनैवं भावेन तोषसंयुतः ।
मुद्गलस्तमथोवाच परं तच्छृणु सौख्यदम् ॥ १६॥
मुद्गल उवाच ।
धन्योऽसि दक्ष येन त्वं गणनाथकथां मुहुः ।
प्रश्नेन भक्तिसंयुक्तो वर्धयसि सुसारवित् ॥ १७॥
साक्षाद्ब्रह्मसुतस्तत्र चित्रं किं भवति त्वयि ।
भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहम् ॥ १८॥
विकटस्य च माहात्म्यं ब्रह्मभूतकरं परम् ।
सर्वसिद्धिप्रदं तुभ्यं कथयामि समासतः ॥ १९॥
अत्रेतिहासं मुख्यं वै विधे शृणु पुरा भवम् ।
कथयामि विचित्रं ते विकटाख्यानसंयुतम् ॥ २०॥
आदिमाया महाशक्तिः शक्तिलोके निरामये ।
संस्थिता सेव्यमाना सा देवीभिः सेश्वरात्मभिः ॥ २१॥
एकदा पूजने सक्तां नियमस्थां विशेषतः ।
गणेशानस्य तां दृष्ट्वा पप्रच्छुः शक्तयः पराः ॥ २२॥
महाकाली प्रजानाथ महालक्ष्मीस्तथैव च ।
महासरस्वती देव्योऽन्याश्च नानाविधा मताः ॥ २३॥
महाकालीमहालक्ष्मीमहासरस्वत्य ऊचुः ।
त्वं साक्षात् सर्वरूपाऽसि जगद्ब्रह्मप्रकाशिनी ।
त्वदीयध्यानयोगेन ब्रह्मभूता भवन्ति च ॥ २४॥
धर्मार्थकाममोक्षाणां दात्री त्वं कथिता बुधैः ।
वेदेषु सर्वशक्तीनां मूलभूता त्वमञ्जसा ॥ २५॥
(Page खं. ६ अ. १ पान २)
ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति ।
ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे ॥ २६॥
कर्मणां फलदात्री त्वं तपसां ज्ञानधारिणाम् ।
त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः ॥ २७॥
त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परम् ।
ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थतः ॥ २८॥
सदा नामावलिं तस्य वदसि जगदम्बिके ।
भ्रमार्थं सर्वजन्तूनां गुह्यगोपनकारणात् ॥ २९॥
सर्वसत्ताधरी देवी त्वमेवात्र न संशयः ।
अस्मान् मोहयुतान् शक्ते किमर्थं कुरुषे वद ॥ ३०॥
लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् ।
नित्यं दृष्ट्वा प्रसङ्क्षुब्धा भवामः परमाद्भुते ॥ ३१॥
दास्यस्त्वदीयपादस्य नान्यत्त्वत्तः परं कदा ।
वेदमार्गेण सर्वेशि जानीमो वद साम्प्रतम् ॥ ३२॥
मुद्गल उवाच ।
तिसृभिः शक्तिमुख्याभिः पृष्टा सा शक्तिरुत्तमा ।
स्नेहेन ता जगादाथ रहस्यं शृणु मुख्यकम् ॥ ३३॥
आदिशक्तिरुवाच ।
शृणुध्वं शक्तयः सर्वा रहस्यं मे हृदि स्थितम् ।
सर्वसिद्धिप्रदं पूर्णं त्रय्याद्याः परमाद्भुतम् ॥ ३४॥
यथावदथ कल्याण्यस्तथाऽहं सर्वगा यतः ।
गणेशस्यांशरूपत्वाद्गणभावसमाश्रिता ॥ ३५॥
पुरा वयं समुत्पन्नाश्चत्वारो देवमुख्यकाः ।
शम्भुर्विष्णुरविर्देव्यो गणेशानादहं किल ॥ ३६॥
नामरूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकम् ।
तत्राऽहं ब्रह्मभूतत्वात् संस्थिता नात्र संशयः ॥ ३७॥
नामरूपात्मकस्यापि नाशोत्पत्ती प्रकीर्तिते ।
तत्र स्थितमतो ब्रह्माऽसत्स्वानन्दमयं मतम् ॥ ३८॥
उत्पत्तिनाशभूतेषु तदाधारं सदात्मगम् ।
सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मकं परम् ॥ ३९॥
असत्सन्मयरूपश्च विष्णुः साम्ये व्यवस्थितः ।
नेतिरूपः शिवस्तत्र चतुर्थः कथ्यते परः ॥ ४०॥
चतुर्णां चैव संयोगे स्वानन्दः पञ्चमः स्मृतः ।
स्वसंवेद्येन योगेन लभ्यते योगसेवया ॥ ४१॥
अयोगः पञ्चभिर्हीनो व्यतिरेकप्रभावतः ।
संयोगाऽयोगयोर्योगे गाणेशो योग उच्यते ॥ ४२॥
पञ्चधा चित्तवृत्तीनां चालकस्तेन कथ्यते ।
चिन्तामणिः सदा देव्यः पश्यध्वं योगमार्गतः ॥ ४३॥
मायारूपा स्वयं सिद्धिर्भ्रान्तिदा विविधा सदा ।
भ्रान्तिधारकरूपा सा बुद्धिः शास्त्रेषु कथ्यते ॥ ४४॥
तयोः स्वामी गणेशानः स्वानन्दनगरे स्थितः ।
योगशान्तिमयः साक्षाल्लक्षलाभपिता हृदि ॥ ४५॥
संयोगश्च गकाराख्यो ह्ययोगश्च णकारकः ।
तयोः स्वामी गणाधीशो वयं तस्य कलात्मिकाः ॥ ४६॥
अतस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः ।
न मोहार्थं महादेव्यो गुह्यं गोपयितुं च न ॥ ४७॥
एतत् सर्वं समाख्यातं मदीयनियमात्मकम् ।
चित्ते चिन्तामणिं देव्यो ध्यायामि भक्तिसंयुता ॥ ४८॥
काममोहितचित्तानां न प्रत्यक्षो गजाननः ।
भवते भावहीनानां भजतामपि सर्वदा ॥ ४९॥
अज्ञानावरणैर्युक्ता मां वदन्ति परात्पराम् ।
गणास्तस्य वयं सर्वे शम्भुविष्णुमुखाः किल ॥ ५०॥
गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते ।
कण्ठाधः सगुणं ब्रह्म तयोर्योगे स देहभृत् ॥ ५१॥
(Page खं. ६ अ. २ पान ३)
इत्युक्त्वा विररामाथ शक्तिः स्वानन्दवासिनी ।
असत्पात्री प्रजानाथ विस्मितास्ता बभूविरे ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते शक्तिध्यानवर्णनं नाम प्रथमोऽध्यायः ॥ ६.१
६.२ शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
महाकालीमुखा देव्यः श्रुत्वा योगं पुरातनम् ।
विस्मितास्ताः पुनः सर्वा वच ऊचुः प्रहर्षिताः ॥ १॥
शक्तय ऊचुः ।
महामाये त्वया प्रोक्तं सर्वसंशयनाशनम् ।
श्रुत्वा वयं गणेशस्य योगं ज्ञानयुताः कृताः ॥ २॥
काममोहितचित्तानां न प्रत्यक्षो भवेत् कदा ।
गणेशानस्त्वया प्रोक्तो जन्मकोटिशतैरपि ॥ ३॥
गणेशप्राप्तिहीना ये जन्तवश्चेश्वरास्तथा ।
जन्म तेषां विशेषेण निष्फलं सम्मतं बुधैः ॥ ४॥
अहो ज्ञानयुतं देहं प्राप्य सर्वार्थदायकम् ।
सर्वदं गणनाथं ये न भजन्तेऽतिगूढकाः ॥ ५॥
रासभादिसमा देवि ज्ञातव्या ज्ञानवर्जिताः ।
कामयुक्तस्वभावेन त्यजन्ति गणनायकम् ॥ ६॥
कामस्य चरितं शक्ते वद विस्तरतः परम् ।
कामनाशकरं चापि येन ढुण्ढिः प्रलभ्यते ॥ ७॥
त्वमस्माकं परा काष्ठा गुरुरूपेण संस्थिता ।
देहि विघ्नेश्वरं मातर्भजिष्यामोऽखिलाः प्रभुम् ॥ ८॥
आदिशक्तिरुवाच ।
गणनाथावतारस्य तस्योपासनमात्रतः ।
विकटस्य स्वयं कामः खलो नश्यति तत्क्षणात् ॥ ९॥
अत्र वोऽहं पुरा जातमितिहासं वदामि हि ।
येन कामव्यथाहीना भविष्यन्ति जनाः सदा ॥ १०॥
कैलासे गिरिवर्ये तु शङ्करः स्वेच्छयैकदा ।
पार्वतीमोहनार्थाय भीमरूपधरोऽभवत् ॥ ११॥
अदृष्ट्वा शङ्करं साऽपि शोकयुक्ता बभूव ह ।
एतस्मिन्नन्तरे तत्रेन्द्रस्तं द्रष्टुं समाययौ ॥ १२॥
मघवोग्रस्वरूपास्यं दृष्ट्वा कैलासनायकम् ।
राक्षसं तं विदित्वा स क्रोधयुक्तो बभूव ह ॥ १३॥
वज्रं तत्याज तं हन्तुं महेन्द्रः सहसा परम् ।
शिवदेहं समासाद्य निष्फलं तद्बभूव ह ॥ १४॥
ततः क्रोधसमायुक्तः शङ्करोऽग्निं समासृजत् ।
तृतीयं नेत्रमुद्घाट्य दग्धुं देवपतिं स्वयम् ॥ १५॥
सहसाऽग्निं स दृष्ट्वा तु तं सस्मार बृहस्पतिम् ।
स ज्ञात्वा तत्क्षणं गत्वा प्रणनाम महेश्वरम् ॥ १६॥
प्रसाद्य गिरिजानाथमिद्रं भयसमाकुलम् ।
अग्निना त्यक्तमानम्यं तत्पादस्थं चकार ह ॥ १७॥
इन्द्रस्तं विविधैः स्तोत्रैः प्रभुं स्तुत्वा क्षमापयत् ।
(Page खं. ६ अ. २ पान ४)
अज्ञानजं महेशानोऽपराधं तस्य चाक्षमत् ॥ १८॥
ततः शिवं समागत्याग्निस्तदंशसमुद्भवः ।
प्रणम्य प्रत्युवाचेदं किं करोमि महेश्वर ॥ १९॥
त्वदाज्ञया महादेव त्यक्त्वा देवपतिं खलम् ।
समागतं महेशान कार्यमाज्ञापयोत्तमम् ॥ २०॥
निःसृतोऽहं त्वदंशाद्वै न भविष्यामि निष्फलः ।
सर्वं ब्रह्माण्डमथ वा ग्रसिष्यामि त्वदाज्ञया ॥ २१॥
अग्नेस्तद्वचनं श्रुत्वा शङ्करस्तमुवाच ह ।
पतस्व त्वं समुद्रे वै मत्पुत्रो राक्षसाकृतिः ॥ २२॥
सर्वैरवध्यभावेन भविष्यसि महाबलः ।
त्रैलोक्याधिपतिर्भूत्वा धर्मलोपं करिष्यसि ॥ २३॥
वृन्दा धर्मध्वजस्यैव पत्नी तव भविष्यति ।
पुत्री सती गणेशेन शप्ता चापत्यदर्शनात् ॥ २४॥
तां पातिव्रत्यहीनां वै करिष्यति जनार्दनः ।
तदा मच्चक्रपातेन मरिष्यसि न संशयः ॥ २५॥
ततो मद्देहगो भूत्वा मद्रूपस्त्वं भविष्यसि ।
राक्षसाकृतिरूपाद्वै जातस्तस्मात्तथा भव ॥ २६॥
एवमुक्त्वा महादेवस्तं प्रचिक्षेप शक्तयः ।
जलधौ तत्र घोषश्च बभूव भयदायकः ॥ २७॥
ततस्तत्र समुद्भूतो बालकस्तेजसा युतः ।
तद्बीजाद्ब्रह्मणाऽऽगत्य कृतो नाम्ना जलन्धरः ॥ २८॥
तस्य मौञ्ज्यादिकं कर्म चकार जलधिः स्वयम् ।
कालनेम्यादयो दैत्या बभूवुस्तस्य पार्श्वगाः ॥ २९॥
शिवस्य वरदानेन जिग्ये ब्रह्माण्डमण्डलम् ।
जलन्धरस्ततो देवा वनवासं प्रचक्रिरे ॥ ३०॥
वने तपःस्थितां वृन्दां दानवोऽपि ददर्श सः ।
उपयेमे कदा तां च गान्धर्वेणैव शक्तयः ॥ ३१॥
तया रेमे सदा दैत्यो मोहितो मायया भृशम् ।
न बुबोध गतं कालं साऽपि तद्गतमानसा ॥ ३२॥
ततः कर्मविहीनं तु चकार स धरातलम् ।
उपोषणेन संयुक्ता देवादयो बभूविरे ॥ ३३॥
कदाचिन्नारदस्तत्र जगामासुरनायकम् ।
तेन सम्पूजितो योगी तं जगाद जलन्धरम् ॥ ३४॥
नारद उवाच ।
धन्योऽसि जलधेः पुत्र सर्वरत्नविलासकृत् ।
तथापि शृणु दैत्येश स्त्रीरत्नं नास्ति ते गृहे ॥ ३५॥
पार्वत्या न समं कुत्र वर्तते सा विशेषतः ।
रत्नभूता न सन्देहः शङ्करेणानुभाविता ॥ ३६॥
एवमुक्त्वा महायोगी नारदोंऽतर्दधे स्वयम् ।
सोऽपि श्रुत्वा विशेषेण कामबाणार्दितोऽभवत् ॥ ३७॥
दूतः सम्प्रेषितस्तेन शङ्करं स समागतः ।
जगाद तं निशुम्भश्च महादेवं महाखलः ॥ ३८॥
निशुम्भ उवाच ।
शिवस्त्वं नग्नताद्यैश्च चिह्नैर्युक्तो न ते प्रभो ।
पार्वती रत्नभूता सा योग्या भवति सर्वदा ॥ ३९॥
ब्रह्माण्डाधिपतिः साक्षात् सर्वश्रिया युतोऽधुना ।
जलन्धरश्च तस्मै त्वं देहि शैलसुतां प्रभो ॥ ४०॥
प्रतापवान् क्रोधसमायुक्तो नो चेत् जलन्धरः ।
हत्वा त्वां तां बलात् सोऽपि ग्रहीष्यति न संशयः ॥ ४१॥
वचस्तस्य समाकर्ण्य क्रोधयुक्तः सदाशिवः ।
शूलं धृत्वा निशुम्भं तं हन्तुं देवः प्रचक्रमे ॥ ४२॥
ततो भयसमायुक्तो माययाऽसुरनायकः ।
पपालाऽऽगत्य वृत्तान्तं कथयामास संसदि ॥ ४३॥
(Page खं. ६ अ. २ पान ५)
निशुम्भभाषितं श्रुत्वा ततः क्रोधसमायुतः ।
जलन्धरो ययौ तेन युद्धार्थं सैन्यसंयुतः ॥ ४४॥
तमागतं समालोक्य महादेवः प्रतापवान् ।
विष्णुमुख्यैः स युद्धाय ययौ दैत्याधिपेन च ॥ ४५॥
देवानां दानवानां च युद्धं परमदारुणम् ।
अभूद्वर्णयितुं देव्यः शक्यते न कदाचन ॥ ४६॥
वर्षमात्रं महाघोरं ततो दैत्यो महेश्वरम् ।
मायया मोह्य सङ्गृह्य तं चिक्षेप गुहान्तरे ॥ ४७॥
कालनेमिमुखांस्तत्रास्थाप्य सङ्ग्राममण्डले ।
जगाम पार्वतीं दैत्यो मायया शङ्कराकृतिः ॥ ४८॥
तमागतं समालोक्य ज्ञानदृष्ट्या महासती ।
बुबोध विह्वलाङ्गं चान्तर्धानमकरोत् स्वयम् ॥ ४९॥
सा सस्मार महाविष्णुं गत्वा हिमगिरिं तदा ।
समागतं विलोक्यैव वृत्तान्तं सर्वमब्रवीत् ॥ ५०॥
श्रुत्वा तां सान्त्वयामास केशवः परवीरहा ।
जलन्धरस्वरूपेण वृन्दां मोहयितुं ययौ ॥ ५१॥
जलन्धराकृतिस्थं तं दृष्ट्वा विष्णुं बुबोध सा ।
शशाप त्वं महाविष्णो भव शैलाकृतेर्धरः ॥ ५२॥
ततोऽतिभयसंयुक्तो विष्णुः शापसमन्वितः ।
सिद्धक्षेत्रे समागम्य पूजयामास विघ्नपम् ॥ ५३॥
गुहायां शङ्करश्चैव सावधानो बभूव ह ।
ध्यानेनैव महोग्रेण तोषयामास विघ्नपम् ॥ ५४॥
वरदानप्रसिद्ध्यर्थमाययौ तं गणेश्वरः ।
तं दृष्ट्वा शङ्करश्चादौ प्रणतो भक्तिसंयुतः ॥ ५५॥
तुष्टाव विविधैः स्तोत्रैर्गणेशं सर्वसिद्धिदम् ।
कथयामास वृत्तान्तं प्रणम्य करसम्पुटैः ॥ ५६॥
ततः स्वहस्तगं ढुण्ढिर्ददौ तस्मै महात्मने ।
चक्रं सुदर्शनं नाम्ना तं जगाद सदाशिवम् ॥ ५७॥
मां स्मृत्वा युद्धकाले तं चक्रेण जहि दानवम् ।
रक्ष सर्वान् महादेव विजयी प्रभविष्यसि ॥ २८॥
एवमुक्त्वा गणेशानोंऽतर्दधे शङ्करस्ततः ।
चक्रं गृह्य गुहायाः स निर्जगाम बहिः स्वयम् ॥ ५९॥
दण्डकारण्यदेशे तु विष्णुर्विघ्नेश्वरं गतः ।
तस्मै प्रत्यक्षभावेन वरं ददौ गणेश्वरः ॥ ६०॥
श्रीगणेश उवाच ।
मा चिन्तां कुरु विष्णो त्वं मामस्मृत्वा गतः पुरा ।
तेन शापयुतो जातोऽधुना शरणमागतः ॥ ६१॥
अत्रैव तपसा तेऽहं वरदश्च पुराऽभवम् ।
तेन ते वै सहाम्यद्यापराधं माधवाधुना ॥ ६२॥
कलया त्वं शिलासंस्थो भविष्यसि न संशयः ।
पूर्णरूपेण देवेशः स्वस्याकृतिधरो भव ॥ ६३॥
नरास्त्वां पूजयिष्यन्ति शिलारूपधरं प्रभुम् ।
तत्र देवस्वरूपेण तिष्ठस्यत्र न संशयः ॥ ६४॥
पुनर्मां हृदि सन्ध्याय जलन्धरस्वरूपधृक् ।
वृन्दां गच्छ महाविष्णो सा तेऽधीना भविष्यति ॥ ६५॥
एवमुक्वा गणेशानोंऽतर्दधे भक्तवत्सलः ।
विष्णुर्जलन्धरो भूत्वा ययौ वृन्दां तु शक्तयः ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते शिवविष्णोर्वरप्रदानं नाम द्वितीयोऽध्यायः ॥ ६.२
६.३ कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
जलन्धरस्वरूपेण आगतं तं जनार्दनम् ।
नानावीरसमायुक्तं तादृशैः सेवकैर्वृतम् ॥ १॥
नागरा मानयामासुरन्ये सर्वे सुहृज्जनाः ।
जित्वा महेश्वरं देवं तं समागतमब्रुवन् ॥ २॥
ततो गणेशमायाभिर्मोहिता तं समीपगा ।
वृन्दा हर्षसमायुक्ता पुपूज परमेश्वरम् ॥ ३॥
मोहितः केशवो देव्यस्तां दृष्ट्वा गुणसंयुताम् ।
रूपेणाप्रतिमां पूर्णयौवनेन विराजिताम् ॥ ४॥
एकान्ते स तया सार्धं रेमे नारायणः स्वयम् ।
साऽपि स्नेहसमायुक्ता रेमे तेन सुविह्वला ॥ ५॥
अधुना शङ्करस्यैव वृत्तान्तं कथयाम्यहम् ।
शृणुध्वं शक्तयः सर्वा गणेशमायया युतम् ॥ ६॥
शङ्करः क्रोधसंयुक्तो युयुधे तेन वैरिणा ।
चक्रेण छेदयामास दैत्यानां बलमुत्कटम् ॥ ७॥
जलन्धरः स्वयं तेन युयुधे मायया युतः ।
राक्षस्या देवता दैत्या युयुधुश्च परस्परम् ॥ ८॥
वृन्दया सह विष्णुश्च रेमे तत्र मुदा युतः ।
जलन्धरः स चक्रेण तस्मिन् काले हतोऽभवत् ॥ ९॥
ततस्ते देवविप्रेन्द्रास्तुष्टुवुः शङ्करं परम् ।
तैः सार्धमगमत् सोऽपि कैलासं पर्वतेश्वरम् ॥ १०॥
ततश्च धर्मसंयुक्ता बभूवुर्मानवा ध्रुवम् ।
विश्वमानन्दसंयुक्तं बभूव स्वस्वकर्मतः ॥ ११॥
नित्यं विष्णुस्तया सार्धं क्रीडायुक्तो बभूव ह ।
समागतास्तत्र दैत्याः शशंसुश्चेष्टितं महत् ॥ १२॥
प्रतापवान् शङ्करेण हतो दैत्यो जलन्धरः ।
तच्छ्रुत्वा विस्मिताः सर्वे कोऽयं क्रीडति वृन्दया ॥ १३॥
ततोंऽतर्धाय चात्मानं स्वयं विष्णुः समास्थितः ।
वृन्दा देहं समाज्वाल्य ययौ स्वर्गमनुत्तमम् ॥ १४॥
तां दृष्ट्वा मोहसंयुक्तो विष्णुस्तत्र रुरोद ह ।
स्मृत्वा वृन्दाचरित्राणि मोहितो मायया भृशम् ॥ १५॥
वृन्दाचितां समाश्रित्य विललाप जनार्दनः ।
दैत्याः पातालगाः सर्वे बभूवुर्भयसंयुताः ॥ १६॥
देवैः सम्बोधितो विष्णुर्मुनिभिर्न बुबोध सः ।
रुरोद कामबाणार्तस्तां स्मृत्वा दारुणं महत् ॥ १७॥
ततस्तस्य महाविष्णोः कामबाणार्दितस्य च ।
वीर्यं पपात भूपृष्ठेऽमोघं तेजोयुतं बभौ ॥ १८॥
तस्माच्च पुरुषो जज्ञे कामरूपातिगो बभौ ।
विचचार महीपृष्ठे विष्णुस्तत्र समास्थितः ॥ १९॥
ततो देवैश्च सा वृन्दा प्रार्थिता मुनिभिर्भृशम् ।
विष्णोः पत्नी भवाशु त्वं तपसाऽऽराधितस्य ते ॥ २०॥
सा तथेति समुच्चार्य वृक्षरूपा बभूव ह ।
विष्णुः शिलास्वरूपेणोपयेमे तां शुभावहाम् ॥ २१॥
कार्तिके शुक्लपक्षे च द्वादश्यां सा जनार्दनम् ।
उपयेमे महादेव्यस्तेन संहर्षितोऽभवत् ॥ २२॥
तां गृह्य केशवो देवो विकुण्ठमगमत् स्वयम् ।
सर्वे हर्षसमायुक्ता बभूवुरमरादयः ॥ २३॥
एवं कामः समुत्पन्नो महातेजोयुतः स्वयम् ।
बभ्राम वनसंस्थः स तत्र शुक्रः समाययौ ॥ २४॥
शिवपञ्चाक्षरं मन्त्रं ददौ तस्मै महात्मने ।
स गत्वा तं प्रणम्यैव वनं तपश्चचार ह ॥ २५॥
तपसोग्रेण शम्भुं स तोषयामास नित्यदा ।
निराहारेण नित्यं जजाप तं मन्त्रमुत्तमम् ॥ २६॥
(Page खं. ६ अ. ३ पान ७)
एवं तस्योग्रतपसा विभ्रान्ताः सुरमानुषाः ।
दिव्यवर्षसहस्रेण स्थातुं शक्ता न तेऽभवन् ॥ २७॥
ततो देवैर्महेशानः प्रार्थितस्तं ययौ मुदा ।
बोधयामास दैत्येशं वरं ब्रूहि समब्रवीत् ॥ २८॥
ततः स शङ्करं दृष्ट्वा प्रणनाम कृताञ्जलिः ।
समुत्थाय पुपूजाऽसौ तुष्टुवे भक्तिसंयुतः ॥ २९॥
यजुर्वेदभवेनैव रौद्रस्तोत्रेण शङ्करम् ।
कामासुरः प्रसन्नात्मा तोषयामास भावतः ॥ ३०॥
सन्तुष्टं शङ्करं दृष्ट्वा तं जगाद महासुरः ।
हर्षेणोत्फुल्लनेत्रः स वरदं भक्तवत्सलम् ॥ ३१॥
कामासुर उवाच ।
यदि प्रसन्नभावेन वरदोऽसि महेश्वर ।
तव भक्तिं च मे देहि राज्यं ब्रह्माण्डकस्य वै ॥ ३२॥
उपत्तिस्थितिसंहारयुतास्तेभ्यो भयं न मे ।
सम्भवेत्तादृशं नाथ कुरुष्व बलसंयुतम् ॥ ३३॥
उत्पत्तिस्थितिसंहारकारका ये महेश्वराः ।
तेभ्यो मे मरणं नैव भवेद्देव तथा कुरु ॥ ३४॥
आरोग्यादिसमायुक्तं सङ्ग्रामे जयशालिनम् ।
कुरु मां देवदेवश सर्वातिगं प्रभावतः ॥ ३५॥
यद्यदिच्छामि तत्तन् मे सफलं त्वदनुग्रहात् ।
सर्वकालेषु भवतु नमस्ते परमेश्वर ॥ ३६॥
शक्तिरुवाच ।
कामासुरस्य वाक्यं वै श्रुत्वा विस्मितमानसः ।
शङ्करस्तमथोवाच तपसा बद्धभावतः ॥ ३७॥
शिव उवाच ।
दुर्लभं यत्त्वया काम प्रार्थितं देवदुःखदम् ।
दास्यामि तपसा तुष्टो महोग्रेणासुरोत्तम ॥ ३८॥
त्वया ये ये वराः सर्वे प्रार्थितास्ते महासुर ।
सफलाः सन्तु मद्वाक्यात्त्वं श्रेष्ठश्च भविष्यसि ॥ ३९॥
एवमुक्त्वा महादैत्यमन्तर्धानमथाऽकरोत् ।
शिवः सोऽपि महादेव्योऽभवत्तत्रैव संस्थितः ॥ ४०॥
हर्षेण महता युक्तो जगाम शरणं स्वयम् ।
शुक्रं सर्वविचारज्ञं स्वगुरुं प्रणनाम ह ॥ ४१॥
कथयामास वृत्तान्तं सोऽपि संहर्षितोऽभवत् ।
श्रुत्वा योगीन्द्रमुख्यश्च दैत्याचार्यो महायशाः ॥ ४२॥
महिषासुरपुत्रीं स उपयेमे वरोद्धतः ।
तृष्णां रूपयुतां पूर्णगुणयुक्तां च तादृशीम् ॥ ४३॥
ततो दैत्यगणान् सर्वान् समागतान् दिगन्ततः ।
दैत्येशांस्तान् पुरस्कृत्य शुक्रस्तं ह्यभ्यषेचयत् ॥ ४४॥
वेदमन्त्रैर्महाभागो ब्राह्मणैर्विधिसंयुतः ।
कामासुरोऽभवद्राजश्रिया हृष्टो विलासवान् ॥ ४५॥
पञ्च तस्य प्रधानानि बभूवुश्च महौजसः ।
रावणः शम्बरश्चैव महिषो बलिदुर्मदौ ॥ ४६॥
नगरं निर्ममे भूमौ सर्वशोभासमन्वितम् ।
रतिदं नाम तस्यापि चकारोशनसेरितः ॥ ४७॥
तत्र जग्मुश्च वासार्थं दैत्यदानवराक्षसाः ।
चातुर्वर्ण्यसमायुक्तं शुशुभे शोभया परम् ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कामासुरराज्यप्राप्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ६.३
(Page खं. ८ अ. ४ पान ८)
६.४ कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कदाचिद् दैत्यराजेन्द्रो बलिमुख्यान समागतान् ।
जगाद हर्षसंयुक्तः कामासुरः प्रतापवान् ॥ १॥
कामासुर उवाच ।
बले रावणमुख्याश्च वचनं मे हितावहम् ।
शृणुध्वं नीतितत्त्वज्ञा यदि हृद्यं भवेत् परम् ॥ २॥
ब्रह्माण्डं हि प्रजेष्यामि वरदर्पेण निश्चितम् ।
भवद्भिः संयुतोऽहं वै तथा शुक्रेण रक्षितः ॥ ३॥
वरदानस्य माहात्म्यं वृथा भवति चान्यथा ।
न वयं जयसंहीना भविष्यामः कदाचन ॥ ४॥
कामासुरस्य तद्वाक्यं श्रुत्वा दैत्येन्द्रसत्तमाः ।
हर्षयुक्ता पुनस्तं ते ऊचुः प्राञ्जलयः परम् ॥ ५॥
दैत्येशा ऊचुः ।
सम्यगुक्तं महाभाग वयं सर्वे त्वदात्मकाः ।
प्रजेष्यामो महेशेन्द्रान् प्रतापेन प्रभो च ते ॥ ६॥
न ते पराक्रमस्यैव तुलां ब्रह्माण्डमण्डले ।
लभते कोऽपि दैत्येन्द्रस्तत्र शुक्रः सहायकृत् ॥ ७॥
ततः सर्वे समागम्य शुक्रं नीतिविशारदम् ।
प्रणम्याऽऽपूज्य तेनैव युताः सर्वेऽपि निर्ययुः ॥ ८॥
अपारसेनया युक्तश्चतुरङ्गसुशोभया ।
शुशुभे कामसंज्ञोऽसौ तारायुक्तो यथा विधुः ॥ ९॥
नानावाहनगा वीराः शस्त्रहस्ता द्रुमैर्युताः ।
पर्वतानां धराः केचिन्निर्ययू रणदुर्मदाः ॥ १०॥
यथा पाथोनिधिश्चैव सर्वत्र जलरूपधृक् ।
तथा सैन्यं धरायां सङ्ख्यातिगं दृश्यते हि तत् ॥ ११॥
बलिरावणमुख्या वै यत्र तिष्ठन्ति शक्तयः ।
नृपालैः किन्तु सेनाभिर्युद्धं कर्तुं क्षमं भवेत् ॥ १२॥
राजानः शरणं केचिद्ययुस्तं च मृताः परे ।
केचित् त्यक्त्वा वनं राज्यं ययुर्भयसमन्विताः ॥ १३॥
एवं भूमण्डलं जित्वा सप्तद्वीपसमन्वितम् ।
दैत्येशा हर्षसंयुक्ता बभूवुश्च जयान्विताः ॥ १४॥
ततः पातालमाविश्य शेषं नागसमन्वितम् ।
वशं कृत्वा ययुस्तेऽपि स्वर्गं देवगणैर्युतम् ॥ १५॥
समागतं महादैत्यैर्युतं कामासुरं खलम् ।
ज्ञात्वा देवगणाः सर्वे भयभीता बभूविरे ॥ १६॥
विचार्य गुरुणा सार्धं शङ्करं ते ययुस्ततः ।
त्यक्त्वा राज्यं भयोद्विग्ना ब्रह्मविष्णुमुखाः सुराः ॥ १७॥
ततो दैत्येन्द्रमुख्याश्च शून्यां दृष्ट्वाऽमरावतीम् ।
प्रवेशं चक्रिरे सर्वे कामासुरपुरोगमाः ॥ १८॥
इन्द्रासने समासीनो दैत्यपैः संवृतो बभौ ।
कामासुरस्ततो दैत्यान् स्थापयामास सन्निधौ ॥ १९॥
ततस्तैः संयुतः सोऽपि प्रजापतिपदं ययौ ।
तत्रैव तादृशं दृष्ट्वा ब्रह्मासनगतोऽभवत् ॥ २०॥
बुभुजेऽसौ कियत्कालं भोगान्नानाविधान् खलैः ।
विकुण्ठमगमत् सोऽपि दैत्यपैः सुसमावृतः ॥ २१॥
तत्र शून्यं प्रदृश्यैव हर्षयुक्तो बभूव ह ।
कामासुरः स्वयं रेमे नानादैत्येन्द्रमुख्यकैः ॥ २२॥
ततो दैत्यगणान् सोऽपि जगाद हर्षसंयुतः ।
मोहेन मोहितोऽत्यन्तं गर्वयुक्तो वचः परम् ॥ २३॥
कामासुर उवाच ।
किं मया न जितं दैत्यास्तद्वदेत जयाम्यहम् ।
विष्णुमुख्याश्च देवेन्द्रा दुद्रुवुः क्लीबभावतः ॥ २४॥
न कोऽपि रणभूमौ वै सङ्ग्रामाय समागतः ।
देवेन्द्रा युद्धहीनास्तु भवामो जयशालिनः ॥ २५॥
(Page खं. ६ अ. ४ पान ९)
ततस्तं शम्बरो दैत्यः प्राह वैरसमन्वितः ।
प्रेरितो दैत्यवर्यैश्चासुराणां हितकारकः ॥ २६॥
शम्बरासुर उवाच ।
शम्भुं जय महाराज देवमुख्यैश्च संवृतम् ।
तदा ब्रह्माण्डकस्यैव राजा त्वं तु भविष्यसि ॥ २७॥
न त्वां वरप्रदो देवः शिवः शृणु वचो हितम् ।
स्वधर्मसंयुतं राजन् सर्वेभ्यः सुखदायकम् ॥ २८॥
कर्मणां फलदातृत्वं देवानां कर्म निर्मितम् ।
स्वधर्मस्थं विजानीहि नोचेन्नश्यन्ति देवताः ॥ २९॥
प्रवर्तत इदं कर्माधारं सर्वं तदाज्ञया ।
कर्मणा त्वं समर्थश्च जातोऽस्यत्र न संशयः ॥ ३०॥
वयं तु तपसा हीनास्तेन राजंस्त्वदाश्रिताः ।
भवामस्तमथो शम्भुं जय त्वं दैत्यपैर्वृतः ॥ ३१॥
देवनाथः स्वयं शम्भुस्तस्माद्देवान् प्रगृह्य सः ।
शत्रून्नः पश्य दैत्येन्द्र संस्थितः प्रबभूव ह ॥ ३२॥
सुराश्चासुरकाः प्रोक्ताः पश्य वेदेषु मानद ।
शिवो देवमयः प्रोक्तः कथं दैत्यहितो भवेत् ॥ ३३॥
कामासुरः शम्बरस्य वचः श्रुत्वा प्रतापवान् ।
मोहयुक्तः स्वभावेन तथ्यं मेने तु शक्तयः ॥ ३४॥
दैत्यपैः संवृतः सद्यः सन्नद्धैः शङ्करं ययौ ।
तमागतं समाज्ञाय शिवश्चिन्तातुरोऽभवत् ॥ ३५॥
देवैः सह विचार्येवं दृष्ट्वा दारुणरूपकम् ।
कामासुरं पपालाऽसौ त्यक्त्वा कैलासमात्मनः ॥ ३६॥
अरण्ये देवसंयुक्तो यत्र तत्र गुहासु सः ।
भयभीतः स्वभावेन वासं चक्रे सदाशिवः ॥ ३७॥
ततः कामासुरो दुष्टो दृष्ट्वा शून्यं पुरं महत् ।
शैवं हर्षसमायुक्तो दैत्यपैः प्रविवेश ह ॥ ३८॥
कैलासशिखरारूढः कामासुरःप्रतापवान् ।
भोगान् कल्पितसम्भूतान् बुभुजे चासुरैः सह ॥ ३९॥
एवं ब्रह्माण्डमुग्रः स स्वयं जित्वा ननन्द ह ।
कृतकृत्यमिवात्मानं मेने दैत्येन्द्रनायकः ॥ ४०॥
ततो बहौ गते काले पुत्रं शोषणसंज्ञितम् ।
ज्येष्ठं कैलासनाथं वै चकार भयवर्जितः ॥ ४१॥
दुःपूरं स चकारैव विकुण्ठाधिपतिं खलम् ।
कनिष्ठं स्वसुतं कामासुरो दुष्टश्च शक्तयः ॥ ४२॥
बलिं सौरस्य लोकस्य नाथं चक्रे महासुरः ।
रावणं शक्तिलोकस्य तथा बलसमन्वितम् ॥ ४३॥
शम्बरं ब्रह्मलोकस्याधिपं दुष्टं चकार ह ।
इन्द्रलोकस्य नाथं तु महिषं रणदुर्मदम् ॥ ४४॥
दुर्मदं यमपुर्यां स स्थापयामास निर्भयः ।
एवं नानाऽसुरांश्चक्रे स्थापितान् भुवनेषु च ॥ ४५॥
स्वयं सर्वसमायुक्त आययौ भूमिमण्डलम् ।
स्वपुरे राज्यमुग्रं स चकार जगतो बलात् ॥ ४६॥
स्त्रीमद्यमांसकाद्यैश्च संसक्तः सन्महाबलः ।
भोगांस्त्रिलोकगांस्तत्र बुभुजे स्वसुहृज्जनैः ॥ ४७॥
न बुबोध गतं कालं यथा कालेन वञ्चितः ।
आत्मानममृताकारं मेने स्वमदसंयुतः ॥ ४८॥
एवं कामासुरो दुष्टः शक्तयः स चकार ह ।
चराचरमयं सर्वं स्वाधीनं बलगर्वितः ॥ ४९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कामासुरविजयवर्णनं नाम चतुर्थोऽध्यायः ॥ ६.४
(Page खं. ६ अ. ५ पान १०)
६.५ मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
अहो कामासुरस्यैवं प्रभावः परमाद्भुतः ।
शस्त्रहीनेन माये वै जितं सर्वं चराचरम् ॥ १॥
एतादृशो महादैत्यो न श्रुतस्ते मुखाम्बुजात् ।
अधुना तस्य नाशं तु वद देवि सुदुर्गमम् ॥ २॥
आदिशक्तिरुवाच ।
कालिमुख्याः शृणुध्वं च शक्तयो मे वचो हितम् ।
यथा तं गणनाथः स जिग्ये सर्वैः सुदुर्जयम् ॥ ३॥
एकदा स्वसभासंस्थं कामासुरं महानृपम् ।
जगुर्दैत्याधिपाः सर्वे कृताञ्जलय आदरात् ॥ ४॥
दैत्येशा ऊचुः ।
महाराज महाराज कृतकृत्योऽसि निश्चितम् ।
तथापि शृणु वाक्यं नः सर्वेषां ते हितावहम् ॥ ५॥
चराचरं तु दैत्येशा जित्वा राज्यं प्रचक्रिरे ।
कालेन निहताः सर्वे देवैश्छद्मप्रदर्शिभिः ॥ ६॥
अतस्त्वमपि राजेन्द्र शत्रुभावसमाश्रितान् ।
देवान् शम्भुमुखान् सर्वान् मारयस्व प्रयत्नतः ॥ ७॥
अमरा वेदवादेषु कथिता देवपा गणाः ।
शस्त्रादिभिश्च ते सर्वे न मरिष्यन्ति कर्हिचित् ॥ ८॥
अतः शृणु महादैत्य विचारं शत्रुनाशकम् ।
कर्महीनप्रभावेण मरिष्यन्त्यमराः किल ॥ ९॥
कर्मान्ना देवताः सर्वा नष्टेऽन्ने नाशमाप्नुयुः ।
पुरा प्रोक्तं तु वेदेषु तादृशं कुरु मानद ॥ १०॥
तेनैवामररूपाश्च वयं निहतकण्टकाः ।
भवामो नात्र सन्देहस्त्वत्प्रसादेन नित्यदा ॥ ११॥
तेषां तद्वचनं श्रुत्वा कामासुरश्च हर्षितः ।
साधु साधु भवद्भिः सङ्कथितं तानुवाच ह ॥ १२॥
अधुना दैत्यपैः सर्वैः कर्तव्यं कर्मखण्डनम् ।
महाबलाश्च गच्छध्वं भूमिं सर्वां मदाज्ञया ॥ १३॥
तथेति तं प्रणम्यादौ हर्षाद्दानवमुख्यकैः ।
पृथिव्यां तैः कृतं कर्मखण्डनं मदसंयुतैः ॥ १४॥
ब्राह्मणादींश्च सन्ताड्य वर्णाश्रमविवर्जितान् ।
चक्रुस्ते पापकर्माणो दानवा दुर्जयाः खलाः ॥ १५॥
कामस्य प्रतिमा दुष्टैः कृतास्तैः स्थापितास्ततः ।
देशे देशे पुरे ग्रामे जनैः पूज्या इमा मताः ॥ १६॥
ततो हाहारवं सर्वे वर्णाश्रमयुता जनाः ।
स्नानादि नैव चक्रुस्ते दैत्यसन्त्रासतापिताः ॥ १७॥
न स्वाहा न स्वधा कुत्र न वषट्कार एव च ।
वर्णाश्रमविहीनाश्चातिष्ठंस्ते ब्राह्मणादयः ॥ १८॥
केचिन् मुनिगणा देव्यो महोग्रं वनमाश्रिताः ।
स्वधर्मनिरतास्तत्रावसंस्ते विगतज्वराः ॥ १९॥
ततोऽभवन् महादेवा उपोषणपरायणाः ।
शोकसंविग्नचित्तास्ते मिलिता भयविह्वलाः ॥ २०॥
कामासुरस्य नाशार्थं विचारं चक्रुरञ्जसा ।
न किञ्चित् प्रापुरभवन्नतिदुःखयुतास्ततः ॥ २१॥
तत्राऽऽजगाम योगीन्द्रो मुद्गलः परमार्थवित् ।
तं दृष्ट्वा देवदेवास्ते हर्षिता अभवन् बुधम् ॥ २२॥
उत्थाय तं प्रणेमुस्ते शम्भुविष्णुमुखाः सुराः ।
भृग्वादयश्च योगीन्द्राः पूजयामासुरादरात् ॥ २३॥
आसने सुखमासीनं कृत्वा करपुटान् मुनिम् ।
शिवश्चिन्तातुरोऽत्यन्तं पप्रच्छ विनयान्वितः ॥ २४॥
श्रीशिव उवाच ।
धन्या वयं महायोगिन् दर्शनेन च ते प्रभो ।
गाणपत्यस्य पूज्यस्य सर्वेषां पावनात्मनः ॥ २५॥
(Page खं. ६ अ. ५ पान ११)
अस्माकमादिकाले तु गुरुर्भृशुण्डिकः परः ।
तेन सम्बोधिता विप्र वयं ज्ञानयुता मुदा ॥ २६॥
गुरुस्तस्य मुनीन्द्रस्य सर्वसिद्धिप्रदायकः ।
गाणपत्याग्रणीः साक्षात् समस्तेन न वर्तते ॥ २७॥
शिष्यशिष्यान् महाभाग तारयस्वाधुना प्रभो ।
नोचेदन्नविहीनान्नो मृतान् पश्यसि देवपान् ॥ २८॥
कामासुरेण दुष्टेन स्थानभ्रष्टाः कृता वयम् ।
अधुना कर्मनाशाद्वै हीना अन्नेन वै कृताः ॥ २९॥
उत्पत्तिस्थितिसंहारकर्तृभ्यो मरणं मुने ।
उत्पत्तिस्थितिसंहारयुक्तेभ्यस्तस्य नो भवेत् ॥ ३०॥
अतो योगीन्द्रमुख्य त्वं वदोपायं महागुरो ।
कामासुरस्य नाशार्थं करिष्यामो जवान्विताः ॥ ३१॥
चराचरस्य रक्षार्थं कुरु कार्यमनुमत्तमम् ।
दुष्टं संहर योगीन्द्र मार्गदर्शनभावतः ॥ ३२॥
यथा ज्ञानोपदेशेनाज्ञाननाशं करोषि तु ।
तथा हिंसा न ते स्वामिन् भविष्यति कदाचन ॥ ३३॥
इति तस्य वचः श्रुत्वा मुद्गलः शङ्करस्य तु ।
दयया गणनाथं स स्मरन् जगाद तं वचः ॥ ३४॥
मुद्गल उवाच ।
शृणु शम्भो जगन्नाथ विष्णो देवादयो वचः ।
कथयामि हितार्थाय कामासुरविनाशनम् ॥ ३५॥
साक्षादीश्वरूपस्त्वं गणेशांशः सदाशिव ।
तवाग्रे किमहं ब्रूयां विद्यानाथस्य मानद ॥ ३६॥
तव दर्शनमात्रेण कृतकृत्या भवन्ति वै ।
नरा ईश न सन्देहस्तं किं ब्रूमि भयापहम् ॥ ३७॥
तथापि कथयिष्यामि त्वदाज्ञापालनार्थतः ।
गणेशं सर्वभावेन भजध्वं सर्वदेवताः ॥ ३८॥
स्वानन्दस्थस्त्रिभिर्भावैर्हीनो देवो न संशयः ।
स तं क्षणार्धमात्रेण हनिष्यति महासुरम् ॥ ३९॥
पूर्वस्मिन् यत्र वै शम्भो सिद्धिः प्राप्ता त्वया तथा ।
देवैः सर्वैश्च विप्रैश्चाधुना तत्र गतिं कुरु ॥ ४०॥
भूस्वानन्दे महाभाग आराधय गजाननम् ।
मयूरेशं विधानेन सर्वसिद्धिप्रदायकम् ॥ ४१॥
एकाक्षरेण मन्त्रेण चरध्वं तप उत्तमम् ।
स्वल्पकालेन विघ्नेशः प्रसन्नो भविता स्वयम् ॥ ४२॥
एवमुक्त्वा महायोगी मुद्गलस्तान् प्रणम्य तु ।
जगाम स्वेच्छया योगाद्गणेशभजने रतः ॥ ४३॥
ततो देवाश्च विप्रास्ते हर्षयुक्ता बभूविरे ।
मयूरेशं समाजग्मुर्दण्डकारण्यगं परम् ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मुद्गलदेवसमागमो नाम पञ्चमोऽध्यायः ॥ ६.५
६.६ भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
मयूरनामकं क्षेत्रं भूस्वानन्दमयं कथम् ।
बभूव तत् समाचक्ष्व परं कौतूहलं त्विदम् ॥ १॥
पुरा कथं शिवाद्यैश्च सिद्धिः प्राप्ता जगन्मयि ।
वद तत्र कथं तेषां भृशुण्डी चाऽभवद् गुरुः ॥ २॥
कीदृशं क्षेत्रमुख्यं तु केन तत्र गजाननः ।
स्थापितः पूर्वकाले वै के के सिद्धिमवाप्नुयुः ॥ ३॥
वद शक्ते मयूरस्य माहात्म्यं सर्वसिद्धिदम् ।
क्षेत्रस्य स्वल्पकालेन लभते स्वेप्सितं नरः ॥ ४॥
मुद्गल उवाच ।
एवं पृष्टा महामाया शक्तिभिश्च प्रजापते ।
भक्तियुक्ताभिरत्यन्तमादरात्ता उवाच सा ॥ ५॥
तत्तेऽहं शृणु वक्ष्यामि सर्वसिद्धिप्रदायकम् ।
श्रवणेन न सन्देहो ब्रह्मभूतपदप्रदम् ॥ ६॥
आदिशक्तिरुवाच ।
अत्राहं कथयिष्यामीतिहासं परमाद्भुतम् ।
भृशुण्डिनः शिवादीनां संवादात्मकमुत्तमम् ॥ ७॥
कदाचित् प्रलये वृत्ते नष्टे स्थावरजङ्गमे ।
ब्रह्मविष्णुशिवाद्याश्च लयं ययुः स्वभावतः ॥ ८॥
ततोऽतिलयवेगेन पञ्चभूतानि शक्तयः ।
लयं प्राप्तानि सर्वत्र शून्यरूपं बभूव ह ॥ ९॥
ततो जागृन्मयं ब्रह्म स्थूलभूतं लयं गतम् ।
तथा सूक्ष्मं महादेव्यः स्वाप्नं प्रलयवेगतः ॥ १०॥
समभावमयं ब्रह्म सौषुप्तं तल्लयं गतम् ।
ततः प्रकृतिरूपा सा पुरुषे तन्मयी ह्यभूत् ॥ ११॥
पुरुषो ब्रह्मणि स्वात्मैकभावं संस्थितोऽभवत् ।
ब्रह्म ब्रह्मणि संस्थं वै बभूव स्वात्मगं परम् ॥ १२॥
एवं महालये प्राप्ते क्षेत्रं स्वानन्दवाचकम् ।
स्वसंवेद्यस्वरूपेण स्थितं ब्रह्मपदप्रदम् ॥ १३॥
तदा विघ्नेश्वरः साक्षाद् योगनिद्रापरायणः ।
क्षेत्रे मयूरे सुष्वाप तदाकारधरः प्रभुः ॥ १४॥
ततो बहौ गते काले निद्राहीनो बभूव ह ।
निःश्वासतोऽभवन्नस्य सोङ्कारा निगमाः पुरा ॥ १५॥
तैः स्तुतो बोधितश्चैव ससर्ज सकलं पुनः ।
प्रकृतिं पुरुषाद्यं च नानातत्त्वस्वरूपकम् ॥ १६॥
तत्त्वैस्त्रिगुणकं सृष्टं स्थूलसूक्ष्मसमात्मकम् ।
त्रिविधं तु विराड्रूपं नानाभेदप्रसूतकम् ॥ १७॥
ततस्त्रिविधरूपं च नानाभिन्नं बभूव ह ।
चराचरात्मकं ब्रह्म पञ्चभूतमयं बभौ ॥ १८॥
भिन्नानि पञ्चभूतानि व्यवस्थासंयुतानि तु ।
बभूवुरादिकालेऽहं तेषां सृष्टिं वदामि वः ॥ १९॥
नाभेः समुद्भवस्तस्य ब्रह्मा लोकपितामहः ।
मुखाद्विष्णुः स्वयं पाता गणेशस्य चतुर्भुजः ॥ २०॥
नेत्राच्छिवः समुत्पन्नो वामाङ्गात्तस्य चाऽभवम् ।
अहं भानुर्दक्षिणाङ्गात् पञ्च देवाः पुरातनाः ॥ २१॥
अज्ञानेन समायुक्ता न विदुः स्वपरं तदा ।
देवा ज्ञानप्रसिद्ध्यर्थं तपश्चेरुर्महाद्भुतम् ॥ २२॥
दिव्यवर्षसहस्रेण प्रसन्नो गणनायकः ।
हृदिस्थं दर्शयामास बीजमेकाक्षरं स्वकम् ॥ २३॥
मन्त्रं प्राप्य महेशाना जेपुर्विघ्नेशमाभजन् ।
गते वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ॥ २४॥
आदौ शङ्करहृद्देशे दर्शयामास रूपकम् ।
नरनागमयं पूर्णं चतुर्भुजादिचिह्नितम् ॥ २५॥
तं दृष्ट्वा विस्मितः सोऽपि चित्ते विचारमाकरोत् ।
नरकुञ्जररूपोऽयं चित्ते मे कः प्रतिष्ठति ॥ २६॥
(Page खं. ६ अ. ६ पान १३)
यावत्तं प्रष्टुमारेभे तावदन्तर्हितं वपुः ।
ततः सोऽपि गणेशस्य पुनर्ध्यानयुतोऽभवत् ॥ २७॥
न ददर्श महद्रूपं सर्वमङ्गलमङ्गलम् ।
ततो विह्वलचित्तोऽसौ जगाम विष्णुसन्निधौ ॥ २८॥
तदा सोऽपि विसृज्यैव ध्यानं समुत्थितोऽभवत् ।
शिवस्तस्मै स्ववृत्तान्तं कथयामास हृद्गतम् ॥ २९॥
शिवाय स जगादैवं स्वध्यानस्थं जनार्दनः ।
एवं क्रमेण पञ्चैते देवेशा मिलिता जगुः ॥ ३०॥
परस्परं विचार्यैते ध्यानं विस्मितमानसाः ।
ऊचुः कोऽयं नरश्चैवाभवत् ध्याने समागतः ॥ ३१॥
ततस्ते तुष्टुवुर्देवं यस्मै कस्मै नमो नमः ।
सर्वेषां मूलरूपाय प्रसीद करुणानिधे ॥ ३२॥
तत आकाशजां वाणीं शुश्रुवुस्ते महौजसः ।
ब्रह्मविष्णुमहेशानशक्तिसूर्याः सुखप्रदाम् ॥ ३३॥
आकाशवागुवाच ।
गणेशोऽहं महादेवाश्चित्तवृत्तिप्रचालकः ।
यस्य तप्तं तपो घोरं स एवाऽहं न संशयः ॥ ३४॥
प्रसन्नेन मयाऽऽदौवस्तपसा हृदि दर्शितम् ।
बीजमेकाक्षरं मे वै सिद्धा यूयं जपात्ततः ॥ ३५॥
साक्षान्मे दर्शने देवा नाधिकारोस्ति निश्चितम् ।
योगहीनप्रभावत्वात्ततश्चान्तर्हितोऽभवम् ॥ ३६॥
भृशुण्डिनं महाभक्तं पृच्छध्वं सर्वमञ्जसा ।
गत्वा नत्वा स वै साक्षात् ज्ञानदाता भविष्यति ॥ ३७॥
तत् ज्ञात्वा देवदेवा मां भविष्यथ समर्थकाः ।
सन्द्रष्टुं नात्र सन्देहस्ततः सिद्धिमवाप्स्यथ ॥ ३८॥
एवमुक्त्वा गणेशानः स्वस्थः सोंऽतर्हितोऽभवत् ।
शिवादयः प्रणम्यैव युयुस्तं मुनिपुङ्गवम् ॥ ३९॥
अमलाश्रमसंस्थं तं ददृशुर्विष्णुमुख्यकाः ।
भृशुण्डिनं प्रणम्यैते संस्थिता हर्षसंयुताः ॥ ४०॥
ऊचुः प्राञ्जलयः सर्वे तं मुनिं शुण्डयायुतम् ।
एकमेव स्थितं पूर्णयोगानन्दमयं परम् ॥ ४१॥
देवेशा ऊचुः ।
धन्यं जन्म तपो विद्या ज्ञानं ते पाददर्शनात् ।
धन्योऽपि योगिनां मध्य आदिमध्यान्तवर्जितः ॥ ४२॥
सोऽपि तान् पूजयामास ज्ञात्वा देवतमान् मुनिः ।
कृत्वाऽऽतिथ्यं जगादैवं भृशुण्डी परमार्थवित् ॥ ४३॥
भृशुण्ड्युवाच ।
जगतां मूलरूपाश्च भवन्तो जगदीश्वराः ।
समागता मदीये मे आश्रमे भाग्यगौरवात् ॥ ४४॥
किमर्थमागता देवाः कार्यं ब्रूत करोम्यहम् ।
आदिमध्यान्तभावज्ञा विश्वपालाः परेश्वराः ॥ ४५॥
शक्तय ऊचुः ।
महालये भृशुण्डी च कथं लयविवर्जितः ।
वद शक्ते मुनेस्तस्य चरितं परमाद्भुतम् ॥ ४६॥
मुद्गल उवाच ।
महालक्ष्मीमुखीनां तु देवीनां प्रश्नमुत्तमम् ।
श्रुत्वा ता जगदम्बा सा कथयामास हर्षिता ॥ ४७॥
पुरा भृशुण्डिचरितं मया रम्यं प्रकाशितम् ।
श्रुत्वा संशयहीनास्तां पप्रच्छुर्विनयान्विताः ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते भृशुण्डिपञ्चदेवसमागमो नाम षष्ठोऽध्यायः ॥ ६.६
(Page खं. ६ अ. ७ पान १४)
६.७ स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय उचुः ।
अहो शक्ते महाच्चित्रं चरित्रं मुख्यकं श्रुतम् ।
भृशुण्डिनश्च सन्तुष्टा वयं जाता न संशयः ॥ १॥
अधुना मुनिदेवानां संवादं वद सौख्यदम् ।
यत्र विघ्नेश्वरस्यैव ज्ञानं सङ्गीयतेऽमलम् ॥ २॥
आदिशक्तिरुवाच ।
शृणुध्वं शक्तयः सर्वाः पुरावृत्तं कथानकम् ।
सर्वपापहरं पुण्यं सर्वसिद्धिप्रदायकम् ॥ ३॥
भृशुण्डिवचनं श्रुत्वा हर्षिताः शङ्करादयः ।
ऊचुस्तं प्रणिपत्यैव वृत्तान्तं पूर्वसम्भवम् ॥ ४॥
शिवादय ऊचुः ।
कोऽसौ गणेश्वरः स्वामिन् नरकुञ्जरवेषभृत् ।
तस्य ज्ञानं वदस्व त्वं कथं चित्तप्रचालकः ॥ ५॥
भृशुण्ड्युवाच ।
संयोगवाचकः प्रोक्तो गकारश्च णकारकः ।
अयोगात्मकसंज्ञो वै तयोः स्वामी गणेश्वरः ॥ ६॥
अविनाशिपदं वेदे प्रोक्तं तद्गजवाचकम् ।
मस्तकं तस्य देवेशा ज्ञातव्यं मायया कृतम् ॥ ७॥
नाशवद्विश्वमेतद्वै तदेव देहरूपगम् ।
कण्ठाधो नात्र सन्देहस्तयोर्योगे गजाननः ॥ ८॥
चतुःपदार्थरूपाश्च भुजास्तस्य महात्मनः ।
चतुर्भुजस्तेन साक्षाद्गणेशः परिकीर्तितः ॥ ९॥
जीवात्मपरमात्मानौ पादौ तस्य महात्मनः ।
द्विपदो गणराजोऽतः कथ्यते वेदवादतः ॥ १०॥
तस्योदरात् समुत्पन्नं जगद्ब्रह्म महेश्वराः ।
तेन लम्बोदरः साक्षात् कथितोऽसौ गणेश्वरः ॥ ११॥
भ्रान्तिदा गणराजस्य मायासिद्धिः प्रकीर्तिता ।
वामाङ्गाद्भिन्नरूपा सा बभूवे योगरूपिणी ॥ १२॥
पञ्चचित्तमयी साक्षाद्बुद्धिर्भ्रान्तिधरा परा ।
दक्षिणाङ्गाद्गणेशस्य निःसृता ज्ञानरूपिणी ॥ १३॥
तयोः स्वामी गणेशानो योगशान्तिमयः स्वयम् ।
भक्तवत्सलभावेन देहधारी बभूव ह ॥ १४॥
स एव ज्ञानगो देवा भवतां कार्यसिद्धये ।
बभूव तं भजध्वं तु तेन सर्वं शुभं भवेत् ॥ १५॥
श्रुत्वैवं विस्मिता भूत्वा देवेशास्तं प्रणम्य तु ।
ऊचुर्विस्मितचित्तास्ते गुरुं भृशुण्डिनं वचः ॥ १६॥
ब्रह्मादय ऊचुः ।
त्वं साक्षाद्गणराजो वै शुण्डादण्डविराजितः ।
अस्माकं गुरुराद्यश्च बोधदातर्नमोऽस्तु ते ॥ १७॥
त्वदीयवचनेनैव गणेशार्थविचक्षणाः ।
जाता वयं महायोगिंस्तद्भक्ताः सार्थकाः प्रभो ॥ १८॥
अधुना वद माहात्म्यं भजनस्य विशेषतः ।
तत्र स्थानं च मन्त्रादिविधियुक्तं महामुने ॥ १९॥
भृशुण्ड्युवाच ।
समाधिना भवन्तोऽपि गताः पुरा महेश्वराः ।
भेदाभेदादिहीने तु ब्रह्मणि तन्मयत्वतः ॥ २०॥
अधुना दण्डकारण्ये तादृशं क्षेत्रमुत्तमम् ।
स्वानन्दाख्यं च तत्रैव तपध्वं गणपे रताः ॥ २१॥
मूर्तिं कृत्वा गणेशस्य दृष्टां स्वहृदि तादृशीम् ।
पूजयध्वं विधानेन ततः सिद्धिमवाप्स्यथ ॥ २२॥
एवमुक्त्वा महायोगी भृशुण्डी विरराम ह ।
गणेशभक्तराजेन्द्रो देवेशास्तं जगुः पुनः ॥ २३॥
शिवाद्या ऊचुः ।
कुत्र क्षेत्रं स्थितं विप्र प्रलये समुपस्थिते ।
कीदृशं तस्य माहात्म्यं वद योगीन्द्रसत्तम ॥ २४॥
तत्र मूर्तिः पुरा केन स्थापिता गणपस्य च ।
किमर्थं भूमिसंस्थोऽयं गणेशः सम्बभूव ह ॥ २५॥
(Page खं. ६ अ. ७ पान १५)
तत्र सिद्धिं समाजग्मुः सेव्य विघ्नेश्वरं नराः ।
माहात्म्यं तत् समाचक्ष्व सर्वज्ञोऽसि महामुने ॥ २६॥
गणनाथेन साक्षात्त्वं दर्शितो गुरुरादरात् ।
वयं शिष्यास्त्वदीयाश्च शाधि सर्वान् हिताय नः ॥ २७॥
तेषां वचनमाकर्ण्य भृशुण्डी पुनरब्रवीत् ।
गाणपत्यविचारज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ २८॥
भृशुण्ड्युवाच ।
क्षेत्रं गणेश्वरस्यैव त्रिविधं परिकीर्तितम् ।
तेषां भेदं प्रवक्ष्यामि शृणुध्वं त्वेकचेतसः ॥ २९॥
स्वर्गे शम्भुगृहे चैव पाताले शेषमन्दिरे ।
पृथिव्यां तु मयूरेशे क्षेत्रं विघ्नपतेः स्मृतम् ॥ ३०॥
तत्र कर्मप्रसिद्ध्यर्थं भूमिगं शाश्वतं सदा ।
वक्ष्यामि तस्य माहात्म्यं ब्रह्माकारस्य देवपाः ॥ ३१॥
प्रकृतिः सर्वरूपा तु पुरुषश्चात्मसंज्ञकः ।
तयोः संयोगभावे तु स्वानन्दः परिकथ्यते ॥ ३२॥
स्वसंवेद्येन योगेन लभ्यते मानवैः परम् ।
तदेव गणराजस्य क्षेत्रं जानीत भूमिगम् ॥ ३३॥
तत्रैव संस्थितः साक्षाद्गणेशो योगवाचकः ।
तेन संरचितं स्वस्य मायया ब्रह्मदायकम् ॥ ३४॥
तस्य रूपं कथयितुं निजानन्दं न शक्यते ।
सर्वक्षेत्रसमायोगो ज्ञातव्यं क्षेत्रमुत्तमम् ॥ ३५॥
ततः स्वस्येच्छया देवा गणेशेन स्वमायया ।
सृष्टं चतुर्विधं तस्मात् क्षेत्रात् खेलनभावतः ॥ ३६॥
पश्चिमाङ्गादसद्रूपं ब्रह्म शक्तिमयं परम् ।
निःसृतं तत् द्विधा जातं स्वभावेन महेश्वराः ॥ ३७॥
रतिर्भोगमयी प्रोक्ता कामः सर्वप्रमोहकः ।
भोक्ता तयोः समायोगे द्वारं तच्च प्रकीर्तितम् ॥ ३८॥
हृदि सर्वजनानां या रतिरुत्पद्यते परा ।
तया मोहितचित्तास्ते भ्रमन्ति विषये रताः ॥ ३९॥
तत्र चालकरूपेण संस्थितः पुरुषो महान् ।
कामस्तेन जनाः सर्वे नाना कार्ये परायणाः ॥ ४०॥
भोगो यस्य तथा भोक्ता मोहहीनौ यदा हृदि ।
तदा शाक्तं लभेत् सोऽपि ब्रह्मासद्वाचकं परम् ॥ ४१॥
तेन द्वारेण विघ्नेशं साधयित्वा च योगिनः ।
गच्छन्ति तेन देवेन्द्रा द्वारं शास्त्रे प्रकथ्यते ॥ ४२॥
उत्तराङ्गाद्गणेशस्य समुद्भूतं स्वभावतः ।
ब्रह्म सौरं सदा सत्यवाचकं देवसत्तमाः ॥ ४३॥
तदेव द्विविधं जातं कर्म ज्ञानप्रभेदतः ।
इच्छया गणराजस्य तच्छृणुध्वं विधानतः ॥ ४४॥
कर्माधारं जगत् सर्वं कर्म सृष्टं प्रवर्तते ।
अन्ते कर्मगतं भावि शास्त्रेषु तन्मयत्वतः ॥ ४५॥
आधारात्मकभावेन संस्थिता धरणी परा ।
कर्मरूपा महामाया संज्ञा सूर्यस्य भामिनी ॥ ४६॥
वराहो ज्ञानरूपश्च सदा निःसङ्गभावतः ।
कर्मजातिषु तिष्ठेत्तु स एव रविवाचकः ॥ ४७॥
कर्मयोगयुताः केचित् केचित् ज्ञानपरायणाः ।
भ्रमन्ति द्विविधे भावे यन्त्रिता मोहसंयुताः ॥ ४८॥
कर्ममोहं परित्यज्य ज्ञानमोहं तथा जनः ।
तयोर्योगेऽमृतं ब्रह्म प्राप्नुयात् रविवाचकम् ॥ ४९॥
अथवा सौरमार्गेण लभ्यते भक्तमुख्यकैः ।
तदेव द्वाररूपं वै वदन्ति गणपस्य च ॥ ५०॥
तेन द्वारेण योगीन्द्रा गच्छन्ति गणनायकम् ।
बुधैस्तद् द्वारमाख्यातमुत्तराङ्गं विशेषतः ॥ ५१॥
ततो गणेश्वरस्यैव पूर्वाङ्गान्निःसृतं परम् ।
ब्रह्मानन्दमयं पूर्णं समभागप्रकाशकम् ॥ ५२॥
सत्यासत्यात्मके देवाः समरूपेण संस्थितम् ।
वैष्णवं सर्वमान्यं तु तदेव द्विविधं बभौ ॥ ५३॥
लक्ष्मीः शोभात्मिका प्रोक्ता यशोरूपा विशेषतः ।
द्विविधं शोभया युक्तं कृतं तया विशेषतः ॥ ५४॥
लक्ष्म्या न समता कुत्र दृश्यते देवसत्तमाः ।
शोभा सा परमा माया मोहदा कथ्यते बुधैः ॥ ५५॥
यत्र लक्ष्मीश्च तत्रैव यशः सर्वं प्रतिष्ठितम् ।
भुक्तिमुक्तिमयी साक्षाल्लक्ष्मीः सर्वत्र पठ्यते ॥ ५६॥
तस्याश्चालकरूपश्च विष्णुः साम्ये व्यवस्थितः ।
आनन्दभुक् विशेषेण द्वन्द्वमायाधरो बभौ ॥ ५७॥
तयोर्योगे समाकारं ब्रह्म वेदेषु पठ्यते ।
आनन्दवाचकं विप्रैर्वैष्णवैः प्राप्यते परम् ॥ ५८॥
गणेशप्राप्तये देवा द्वारमानन्दधारकम् ।
तच्च क्षेत्रस्य पूर्वाङ्गं गाणेशस्य प्रकथ्यते ॥ ५९॥
ततो दक्षिणभागाद्वै ब्रह्माव्यक्तमयं परम् ।
निःसृतं नेति कर्तृत्वात् त्रयाणां नेतिरूपकम् ॥ ६०॥
तदेव शाङ्करं ब्रह्म सहजं सर्वसम्मतम् ।
मायया तत् द्विधा भूतं नरनारीस्वभावतः ॥ ६१॥
स्वेच्छारूपा महामाया पार्वती कथिता बुधैः ।
इच्छया त्रिविधं स्वस्याः सृजते सा न संशयः ॥ ६२॥
तत्र मोहविहीनश्च शङ्करः कथ्यते परः ।
स्वाधीनः शैवभक्तेभ्यश्चतुर्थं ब्रह्म उच्यते ॥ ६३॥
तयोर्योगे महेशाना ब्रह्माव्यक्तं प्रकीर्तितम् ।
द्वारं दक्षिणगं तेन लभ्यते गणनायकः ॥ ६४॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥ ६५॥
तदेव गणराजस्य क्षेत्रं स्वानन्दवाचकम् ।
चतुर्द्वारयुतं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते स्वानन्दक्षेत्रस्वरूपवर्णनं नाम सप्तमोऽध्यायः ॥ ६.७
६.८ नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
चतुर्द्वारमयं क्षेत्रं कथितं देवनायकाः ।
अधुना द्वारविस्तारं कथयामि समासतः ॥ १॥
पूर्वद्वारे स्थितौ देवौ लक्ष्मीनारायणावुभौ ।
ताभ्यां तु विविधं सृष्टं स्वस्वस्थानार्थमादरात् ॥ २॥
ब्रह्माण्डे वैष्णवान्येव क्षेत्राणि विविधानि च ।
तानि तेन प्रसृष्टानि गणेशकृपया पुरा ॥ ३॥
लक्ष्म्या तद्वत् प्रसृष्टानि क्षेत्राणि विविधानि तु ।
लक्ष्मीवासकराण्येव प्रोक्तानि शास्त्रसम्मतम् ॥ ४॥
दक्षिणद्वारगौ शक्तिशिवौ देवौ तथाऽमराः ।
गणेशकृपया युक्तौ परौ क्षेत्राणि चक्रतुः ॥ ५॥
(Page खं. ६ अ. ८ पान १७)
क्षेत्राणि यानि ब्रह्माण्डे स्वयं शैवानि शङ्करः ।
ससृजे च ततः शक्तिः शाक्तानि विविधानि वै ॥ ६॥
रतिकामौ ससृजतुः पश्चिमद्वारसंस्थितौ ।
प्रभावाद्विघ्नराजस्य क्षेत्राणि किल मायया ॥ ७॥
क्षेत्राणि मातृकाणां च रत्या सृष्टानि यत्नतः ।
दिक्पालक्षेत्ररूपाणि सृष्टानि मदनेन तु ॥ ८॥
उत्तरद्वारसंस्थौ तौ महीवाराहकौ परौ ।
स्वक्षेत्राणि ससृजतुः परौ गणपमायया ॥ ९॥
संज्ञाक्षेत्राणि यावन्ति भूम्यां सृष्टानि तानि तु ।
सौराण्येवं वराहेण सृष्टानि विविधानि तु ॥ १०॥
परिवारयुता देवाः परं तेपुस्तपो महत् ।
क्षेत्रज्ञाः क्षेत्रसंयुक्ताः गणेशस्य महात्मनः ॥ ११॥
नानामन्त्रजपेनैव ध्यात्वा देवं गजाननम् ।
तोषयामासुरत्यन्तभक्त्या नित्यं विशेषतः ॥ १२॥
उपोषणयुतानि क्षेत्राणि ता देवतास्तथा ।
पूजयामासुरव्यग्राः क्षेत्रस्थं गणनायकम् ॥ १३॥
एवं वर्षशते पूर्णे प्रसन्नोऽभूद्गजाननः ।
आययौ तान् वरान् दातुं स क्षेत्रान् देवमुख्यकान् ॥ १४॥
तं दृष्ट्वा सहसोत्थाय प्रणेमुस्ते गजाननम् ।
पुपूजुस्तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ १५॥
सक्षेत्रा देवा ऊचुः ।
ब्रह्मणे विघ्नराजाय स्वानन्दस्थाय ते नमः ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ १६॥
गणेशाय नमस्तुभ्यं भुक्तिमुक्तिप्रदायिने ।
नानाखेलकरायैव ज्येष्ठराजाय ते नमः ॥ १७॥
सृष्टिकर्त्रे च संहर्त्रे पात्रे मोहप्रचारिणे ।
गुणेशाय गुणानां तु चालकाय नमो नमः ॥ १८॥
परेशाय परेशेभ्यो मोहदाय गजानन ।
सर्वयोगमयायैव योगेशाय नमो नमः ॥ १९॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिमयाय च ।
सिद्धिबुद्धिप्रदात्रे ते नमश्चिन्तामणे नमः ॥ २०॥
पूर्वाङ्गे विष्णुरूपाय दक्षिणाङ्गे शिवात्मने ।
पश्चिमाङ्गे च मायायै रवये उत्तराङ्गके ॥ २१॥
चतुर्विधं गणेशान सृष्ट्वा खेलसि नित्यदा ।
नानाविधं तथा त्वां तु कश्च स्तोतुं क्षमो भवेत् ॥ २२॥
वयं धन्या वयं धन्या दृष्टवन्तो गजाननम् ।
ब्रह्मणस्पतिनामानं ब्रह्मणां चालकं परम् ॥ २३॥
यं स्तोतुं न समर्थाश्च वेदाः साङ्गा गजानन ।
किं प्रस्तुमश्च देवेश अतस्त्वां प्रणमामहे ॥ २४॥
एवं स्तुत्वा गणेशानं देवाः क्षेत्रसमन्विताः ।
प्रणेमुस्तं प्रहर्षेण भक्तिभावसमन्विताः ॥ २५॥
ततस्तान् प्रत्युवाचेदं वचनं गणनायकः ।
भक्तान् भक्तिप्रियः साक्षात्तपसा तोषितः परः ॥ २६॥
श्रीगणेश उवाच ।
वरं ब्रूत महाभागाः सक्षेत्रा देवमुख्यकाः ।
दास्यामि तपसा तुष्टो भक्त्या स्तोत्रेण चेप्सितम् ॥ २७॥
स्तोत्रं भवत्कृतं चैव यः पठिष्यति मामकम् ।
स मत्प्रियो भवेद्देवाः शृणुयाच्छ्रावयेत्तथा ॥ २८॥
भुक्तिमुक्तिप्रदं चैव धनधान्यविवर्धनम् ।
पुत्रपौत्रप्रदं पूर्णं भविष्यति सुसिद्धिदम् ॥ २९॥
मम सन्निधिगो भूत्वा पठति स्तोत्रमुत्तमम् ।
सर्वक्षेत्रभवं पुण्यं लभते नात्र संशयः ॥ ३०॥
गणेशवचनं श्रुत्वा देवा हर्षसमन्विताः ।
(Page खं. ६ अ. ८ पान १८)
तं ते प्रणम्य सक्षेत्रा जगुर्भक्तिसमन्विताः ॥ ३१॥
सक्षेत्रा देवा ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा ते पादपद्मे नो भक्तिरस्तु च नित्यदा ॥ ३२॥
किमर्थं तु वयं सर्वे सृष्टा वद गजानन ।
कार्यं ब्रूहि करिष्यामस्त्वदाज्ञावशभावतः ॥ ३३॥
स्वानन्दे वासकार्यार्थं देहि स्थानं महोदर ।
तत्र त्वां पूजयिष्यामो नित्यं भक्तिसमन्विताः ॥ ३४॥
स्वस्वज्ञानयुतान्नाथ कुरु सर्वान् महामते ।
त्वदीया वशगाः सर्वे ज्ञानयुक्ता भजामहे ॥ ३५॥
भृशुण्ड्युवाच ।
तेषां वचनमाकर्ण्य गणेशः करुणानिधिः ।
जगाद तान् महाभागान् भक्तियुक्तान् महेश्वरान् ॥ ३६॥
श्रीगणेश उवाच ।
धर्मार्थकाममोक्षान् वै ददतु क्षेत्रकाणि मे ।
वरदानात् समर्थानि स्वस्वकार्येषु सेविनाम् ॥ ३७॥
धर्मदान्यर्थदान्येव कानिचित् सेविनां तथा ।
कामदानि भवन्त्येव मोक्षदानि विभागशः ॥ ३८॥
कानिचिन् मरणे सद्यस्तत्रैव फलदानि तु ।
कानिचित् क्रमयोगेन मुख्यक्षेत्रप्रदानि तु ॥ ३९॥
तथा देवाश्च तत्रस्थाः पूजनेन फलप्रदाः ।
दर्शनेन भवन्त्येवं स्वस्वक्षेत्रप्रियात्मकाः ॥ ४०॥
नामानि गणनाथश्च चकार विविधानि सः ।
काशीप्रयागकाद्यानि वक्तुं नैव प्रशक्यते ॥ ४१॥
पुनः स तानुवाचाऽसौ गणेशः करुणानिधिः ।
क्षेत्राणि स्वकलांशेन स्थातव्यं स्वस्थलेषु वै ॥ ४२॥
पूर्णांशेन मदीयेऽत्र क्षेत्रे स्वानन्दरूपिणि ।
वासं कृत्वा सदा मां तु भजिष्यथ निरन्तरम् ॥ ४३॥
स्वक्षेत्रस्थास्तथा देवाः कलांशेन भवेत वै ।
क्षेत्रेऽत्र पूर्णभावेन मां भजेताथ मानदाः ॥ ४४॥
स्वस्वकार्येषु दक्षा वै भविष्यथ न संशयः ।
मद्भक्तिभावसंयुक्ताः सक्षेत्रा गर्वहीनकाः ॥ ४५॥
सर्वक्षेत्राणि ये भूम्यां करिष्यन्ति विधानतः ।
देवान् यथाविधि प्राज्ञा पूजयिष्यन्ति मानवाः ॥ ४६॥
तेन संस्कारयोगेन मत्क्षेत्रे वासमाश्रिताः ।
ब्रह्मभूता भविष्यन्ति मत्क्षेत्रे मरणे सति ॥ ४७॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
क्षेत्राणि हर्षयुक्तानि संस्थितान्येव तत्र तु ॥ ४८॥
पूजयित्वा गणेशानं स्वस्वस्थानकमाययुः ।
सक्षेत्रा देवताः सर्वा ज्ञानयुक्ता बभूविरे ॥ ४९॥
यथा गजाननः प्राह तथा सर्वे महेश्वराः ।
कृत्वा पुनर्गणेशानं समाजग्मुः प्रहर्षिताः ॥ ५०॥
तत्र ते संस्थिता देवाः सक्षेत्रा ह्रस्वरूपकाः ।
स्वानन्दक्षेत्रके सर्वेऽभजन्नित्यं तमादरात् ॥ ५१॥
एतत् क्षेत्रामराणां वै चेष्टितं यः शृणोति वा ।
पठेद्वा तस्य विघ्नेशः क्षेत्रवासं तु दास्यति ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते नानाक्षेत्रदेवोत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ६.८
(Page खं. ६ अ. ९ पान १९)
६.९ मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
द्वारेषु देवपाः सन्ति द्वारधारकभावतः ।
तेषां पूजनमार्गं तु वद विघ्नेश्वरस्य च ॥ १॥
भृशुण्ड्युवाच ।
क्षेत्रमध्ये गणेशानस्तिष्ठति सर्वदायकः ।
शुण्डादण्डमुखः श्रीमांश्चतुर्बाहुधरः प्रभुः ॥ २॥
पृथूदरो विशालाक्षस्त्रिनेत्रः स्वस्तिकासनः ।
पाशाङ्कुशधरः सोऽपि दन्ताभयविराजितः ॥ ३॥
नाभिशेषो विचित्रैश्च भूषणैर्वस्त्रकादिभिः ।
नागयज्ञोपवीती तु शूर्पकर्णो विराजति ॥ ४॥
तस्य वामाङ्गभागे च सिद्धिः सर्वप्रदाऽमराः ।
द्विभुजा संस्थिता माया चामरव्यजनान्विता ॥ ५॥
दक्षिणाङ्गे तथा बुद्धिर्द्विहस्ता ज्ञानरूपिणी ।
सुगन्धवस्तुलेपार्थं संस्थिता सेवनोत्सुका ॥ ६॥
सम्मुखे मूषकस्तस्य मयूरश्च विराजति ।
प्रमोदाऽऽमोदकाद्याश्च गणाः पृष्ठे स्थितास्तथा ॥ ७॥
वैदिकेन च मार्गेण नमोंऽतेन प्रपूजयेत् ।
पौराणिकेन देवेशा गणेशं सर्वसिद्धिदम् ॥ ८॥
ततः पूर्वदिशायां स गत्वा द्वारसमास्थितम् ।
पूजयेद्गणनाथं तं सशक्तिपरिवारकम् ॥ ९॥
द्विभुजं गणनाथं तु वामभागे जगन्मयीम् ।
माञ्जारीं द्विभुजां तस्य पूजयेद्भक्तिसंयुतः ॥ १०॥
तत्र ध्यानं समाख्यामि गजवक्त्रं गजाननम् ।
एकहस्ते धृतांऽभोजं द्वितीयाऽऽलिङ्गितप्रियम् ॥ ११॥
कपोलौ मदसंस्रावयुक्तौ भ्रमरसंयुतौ ।
सदानन्दमयं देवाश्चिन्तयेद्गणनायकम् ॥ १२॥
द्विभुजां शक्तिमुख्यां वै दक्षिणाऽऽलिङ्गितप्रियाम् ।
वामहस्तेन पद्मं सा बिभ्रतीं चिन्तयेद् हृदि ॥ १३॥
भक्ताभीष्टप्रदां पूर्णां सदानन्दसमन्विताम् ।
मायां संसारदुःखानां नाशिनीं भक्तिकारिणाम् ॥ १४॥
देवेशा ऊचुः ।
माञ्जारिका त्वया प्रोक्ता माया गणपतेः प्रिया ।
तस्याः स्वरूपगं ज्ञानं वद नो गुरुसत्तम ॥ १५॥
भृशुण्ड्युवाच ।
जारः सर्वत्र शब्दश्च व्यभिचार्यर्थवाचकः ।
सर्वेषु जारभावेषु मता नानार्थकारिणी ॥ १६॥
तेषु पुरुषरूपेण स्थित आत्मा सदैककः ।
तस्य जारादिकं नास्ति भ्रान्तिभावात्मकं कदा ॥ १७॥
तथापि देहसंस्थश्च माययात्मा प्रमोहितः ।
द्वन्द्वभावेषु देवेन्द्रास्तदाकारो बभूव ह ॥ १८॥
आत्मनो जारभावं तु दर्शयन्ति निरन्तरम् ।
मोहयित्वा क्रीडति तेन स्वयं शक्तिरुत्तमा ॥ १९॥
माञ्जारी सा समाख्याता मां प्रति जारदर्शिनी ।
गणपः क्रीडति द्वन्द्वविहारस्थः सदा तया ॥ २०॥
तयोः पुत्रौ मानसिकौ लक्ष्मीनारायणौ मतौ ।
समीपे संस्थितौ तत्र द्वारे धर्मप्रदायकौ ॥ २१॥
तेषां पूजनकं कार्यं यथाविधि सुरेश्वराः ।
तेन धर्मस्य भवति सम्प्राप्तिस्तस्य शाश्वती ॥ २२॥
विधिं तत्र प्रवक्ष्यामि यात्रायाः सर्वदायकम् ।
देवेशास्तादृशं कार्यं तेन सिद्धिमवाप्स्यथ ॥ २३॥
मासे भाद्रपदे चैव शुक्लपक्षे विशेषतः ।
प्रतिपद्दिनमारभ्य द्वारयात्रा प्रकीर्तिता ॥ २४॥
प्रातः स्नात्वा महानद्यां गणेशं प्रतिपूजयेत् ।
ततः स्नानं नरः कृत्वा द्वारदेवीं समर्चयेत् ॥ २५॥
पुनः स्नानं ततः कृत्वा गणेशं पूजयेत् स्वयम् ।
(Page खं. ६ अ. ९ पान २०)
उपोषणयुतश्चैव सदा तिष्ठेत् स देवपाः ॥ २६॥
नियमस्थः स्वभावेन गणेशस्मरणादिकम् ।
कुर्यात्तद्वत् द्वितीयायां दक्षिणद्वारमर्चयेत् ॥ २७॥
तत्र द्वारे गणेशानो द्विभुजः परिकीर्तितः ।
माया च द्विभुजा प्रोक्ता पूर्ववत् ध्यानगावुभौ ॥ २८॥
विरजा नाम विख्याता शक्तिस्तत्र महेश्वराः ।
तस्य ज्ञानकरं चैवार्थं वदामि सुखप्रदम् ॥ २९॥
त्रिविधं तु रूजोरूपं मलिनं सर्वगं बभौ ।
तत्र मोहविहीनं यद्विरजं ब्रह्म कथ्यते ॥ ३०॥
गणेशसंयुता देवी तन्मयी विरजा परा ।
तयोर्मानसिकौ पुत्रौ पार्वतीशङ्करौ मतौ ॥ ३१॥
तेषां पूजा प्रकर्तव्या नरेण सर्वभावतः ।
तया सर्वार्थसंसिद्धिर्लभ्यते नात्र संशयः ॥ ३२॥
तृतीयायां ततो वै स पश्चिमद्वारदेवताम् ।
पूजयेद्विधिसंयुक्त उपोषणपरायणः ॥ ३३॥
देवीगणेश्वरौ तत्र पूर्वं ध्यानात्मकौ स्थितौ ।
आश्रया नाम शक्तिः सा सर्वाश्रयधरा बभौ ॥ ३४॥
तयोर्मानसिकौ पुत्रौ रतिकामौ प्रकीर्तितौ ।
तेषां पूजां प्रकुर्यात् स तेन कामान् लभेन्नरः ॥ ३५॥
ततश्चतुर्थिकायां स गच्छेदुत्तरगां पराम् ।
द्वारशक्तिं महादेवा भुक्तिमुक्तिसमन्विताम् ॥ ३६॥
देव्या गणेश्वरस्यात्र ध्यानं पूर्ववदुच्यते ।
तयोर्मानसिकौ पुत्रौ महीवराहकौ मतौ ॥ ३७॥
तेषां पूजा प्रकर्तव्या पूर्ववन्नियमेन च ।
तया मुक्तिमवाप्नोति यात्रामात्रेण मानवः ॥ ३८॥
चतुर्थ्यां गणनाथं स पूजयेद्विधिसंयुतः ।
मध्याह्नसमये देवा उपोषणपरायणाः ॥ ३९॥
रात्रौ जागरणं कुर्यात् पञ्चम्यां पारणं चरेत् ।
द्विजैः सह नरः साक्षाच्चतुर्विधफलं लभेत् ॥ ४०॥
एवं माघे शुक्लपक्षे द्वारयात्रां समाचरेत् ।
ज्येष्ठे मासि तथा देवा वार्षिकं त्रिविधं स्मृतम् ॥ ४१॥
अथवा प्रतिमासेषु शुक्लपक्षे समाचरेत् ।
द्वारयात्रामथो नित्यं नरः सर्वार्थसिद्धिभाक् ॥ ४२॥
अथवा गणराजस्य यात्रार्थं यः समागतः ।
तस्मिन् काले चरेद्यात्रां द्वारभूतां महेश्वराः ॥ ४३॥
न तत्र नियमः प्रोक्तो मासपक्षतिथिष्वपि ।
चतुर्भिर्दिवसैर्जन्तुः कुर्याद्यात्रां विधानतः ॥ ४४॥
अन्यच्च सम्प्रवक्ष्यामि द्वारयात्रामयं विधिम् ।
देहसामर्थ्ययुक्तानां चतुर्विधफलप्रदम् ॥ ४५॥
शुक्ला चतुर्थिका प्रोक्ता तस्यां द्वारमयीं चरेत् ।
यात्रां चतुर्विधां प्रोक्तामेकवासरमध्यतः ॥ ४६॥
सूर्योदयात् समारभ्य पूजां स्वल्पां समाचरेत् ।
यावन्नास्तगतो भानुस्तावन्मध्ये समापयेत् ॥ ४७॥
किञ्चिद्दिवसशेषे स गणनाथस्य पूजनम् ।
विधियुक्तं नरो भक्त्या कुर्यात्तस्मिन् दिने स्वयम् ॥ ४८॥
अथवा स्वेच्छया कोऽपि यात्रार्थं तु समागतः ।
तत्रैकदिवसे यात्रां प्रकुर्याच्छक्तिभावतः ॥ ४९॥
वृद्धानां रोगयुक्तानां नियमो नैव विद्यते ।
बालानां स्वेच्छया तत्र यात्रा प्रोक्ता मनीषिभिः ॥ ५०॥
अथवा ब्राह्मणेनैव नरो यात्रां समाचरेत् ।
द्वाररूपां स्वयं तत्र वाहनस्थो गतिं चरेत् ॥ ५१॥
(Page खं. ६ अ. १० पान २१)
शक्त्याः प्रमाणभावेन पूजयेत् द्वारसंयुतम् ।
गणेशं विधिसंयुक्तश्चतुर्विधफलं लभेत् ॥ ५२॥
गणेशं द्वारसंयुक्तं यो नरः पूजयेत् कदा ।
यत्र तत्र गतश्चाऽसौ धर्मकामार्थमोक्षभाक् ॥ ५३॥
न तस्य मरणे देवा या मतिः सा गतिर्भवेत् ।
न भूम्यादिविकारश्च नीचोच्चो नैव विद्यते ॥ ५४॥
एतत् द्वारस्य माहात्म्यं यः शृणोति नरोत्तमः ।
स वै संस्कारयोगेन भुक्तिं मुक्तिं लभेत् पराम् ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरेशद्वारयात्राविधिवर्णनं नाम नवमोऽध्यायः ॥ ६.९
६.१० द्वाररहस्यवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
पञ्चदेवा ऊचुः ।
क्षेत्रस्य मानसम्भूतं माहात्म्यं वद विस्तरात् ।
कियन्मानं समाख्यातं क्षेत्रं स्वानन्दवाचकम् ॥ १॥
अन्यच्च वद योगीन्द्र धर्मकामार्थमोक्षगान् ।
अर्थान् येनैव तेषां स ज्ञानयुक्तो भवेन्नरः ॥ २॥
पूर्वस्थे तु कथं द्वारे धर्म एकः प्रतिष्ठति ।
तथाऽर्थो दक्षिणद्वारि पश्चिमे काम एव च ॥ ३॥
उत्तरद्वारसंस्था तु कथं मुक्तिर्महामुने ।
चतुर्ब्रह्मसु चत्वारि विभक्तानि कथं वद ॥ ४॥
आदौ शाक्तं साधयित्वा पश्चात् सौरं लभेन्नरः ।
ततो वैष्णवकं बह्म ततः शैवं समाधिना ॥ ६॥
ततो गाणेश्वरं ब्रह्म प्रलभेन्नात्र संशयः ।
क्रमेण योगभूमिस्थो ब्रह्मभूतो नरो भवेत् ॥ ६॥
अन्नादौ वैष्णवं ब्रह्म द्वारभूतं नरोत्तमः ।
यात्रामार्गेण विप्रेश साधयेत् कथितं त्वया ॥ ७॥
ततः शैवं ततः शाक्तं ततः सौरं विधानतः ।
विपरीतं कथं प्रोक्तं वद कारणमत्र तु ॥ ८॥
शक्तिसूर्यावतिक्रम्य कथं वैष्णवगो भवेत् ।
अकस्माद् भ्रान्तभावेन भ्रष्टो भवति मानवः ॥ ९॥
शक्तिरुवाच ।
एवं पृष्टो महायोगी भृशुण्डी परमार्थवित् ।
जगाद तान् महादेवान् तच्छृणुध्वं तु शक्तयः ॥ १०॥
भृशुण्ड्युवाच ।
धर्मः स्वधर्मरूपश्च सर्वसिद्धिप्रदायकः ।
अर्थः समर्थरूपाख्यो ज्ञातव्यः सर्वदायकः ॥ ११॥
कामः शरीरभोगाख्यो हृद्यः सौख्यप्रदायकः ।
मुक्तिश्चतुः शरीरेभ्यो हीनत्वे परिकीर्तिता ॥ १२॥
धर्मः सर्वसमानाख्यो यथा भवति सर्वदा ।
कर्मानुसारभावेन फलं नित्यं ददाति सः ॥ १३॥
स्वं परं नैव देवेशाः कदा धर्मस्य वर्तते ।
शुभाशुभं कृतं येन तादृशं स फलं लभेत् ॥ १४॥
(Page खं. ६ अ. १० पान २२)
समानं वैष्णवं ब्रह्म तेन धर्मः स्थितोऽभवत् ।
पूर्वद्वारे महाभागाः सर्वधर्मप्रकाशकाः ॥ १५॥
आदौ स्वधर्मनिष्ठश्चेत्ततः सर्वं नरोत्तमः ।
लभते नात्र सन्देहः कारणं धर्म एव च ॥ १६॥
विष्णोरङ्गमयो धर्मो विष्णुद्वारे समाश्रितः ।
अतः प्रथमधर्मार्थं पूर्वद्वारं समाचरेत् ॥ १७॥
अर्थः समर्थरूपाख्य ईश्वरान्न परोत्तमः ।
समर्थस्तेन देवेन्द्रा अर्थस्तत्र समाश्रितः ॥ १८॥
समर्थभावेन यदि केऽपि तिष्ठन्ति देवताः ।
ते सर्वे तत्कलांशाश्च ज्ञातव्या नाऽत्र संशयः ॥ १९॥
ईश्वरः सर्वशास्त्रेषु शिव एकः प्रकीर्तितः ।
अर्थः शिवाङ्गात् सम्भूतस्तेन तं संश्रितोऽभवत् ॥ २०॥
धर्मं कृत्वा समर्थश्च भवते मानवोत्तमः ।
सर्वकार्येषु देवेन्द्राः क्रम एवं प्रकीर्तितः ॥ २१॥
द्वितीयाश्रितयात्रातो दक्षिणद्वारसम्भवा ।
कथिता सर्वभावज्ञैर्नरेभ्यः सर्वसिद्धये ॥ २२॥
कामो भोगात्मकः प्रोक्तो देहाय विषयप्रदः ।
विषयानां समाख्यातं कारणं शक्तिरञ्जसा ॥ २३॥
शक्तेरङ्गात् समुद्भूतः कामस्तेन महेश्वराः ।
तामाश्रित्य स्थितः सोऽपि सर्वकामविवर्धनः ॥ २४॥
आदौ धर्मं समाश्रित्य समर्थो जायते नरः ।
ततः कामान् स्वयं भुङ्क्ते सर्वान्नानासुखप्रदान् ॥ २५॥
तृतीयं द्वारमेतस्मात् कामभोगफलप्रदम् ।
कृतं यात्राविधाने तु ज्ञातव्यं विबुधैः सदा ॥ २६॥
मोक्षो जन्ममृतिभ्यां च हीनः सङ्कीर्तितो बुधैः ।
शुक्लां गतिं ददत्तत्र सूर्यस्तिष्ठति नित्यदा ॥ २७॥
आत्मा सूर्य इति प्रोक्तं तस्मान् मोक्षः प्रलभ्यते ।
तेन सूर्यं समाश्रित्य मोक्षस्तत्रैव तिष्ठति ॥ २८॥
कामेभ्यो धर्मसंयुक्तस्तृप्तो भवति मानवः ।
इच्छेन् मुक्तिं ततो यत्नाद्वितृष्णो देवसत्तमाः ॥ २९॥
वासनायुक्तभावेन मुक्तौ नैव प्रवर्तते ।
अतो मुक्तिमयं द्वारं चतुर्थं परिकीर्तितम् ॥ ३०॥
एतद् द्वारस्य देवेशा रहस्यं कथितं मया ।
श्रवणात् सौख्यदं पूर्णं भवेत पठनात्तथा ॥ ३१॥
एतत् क्रमार्थप्रामाण्यात् पूर्वं धर्मसमाश्रितम् ।
वैष्णवं तत्र कर्तव्यं द्वारं विघ्नेशनिर्मितम् ॥ ३२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्ग्ले महापुराणे
षष्ठे खण्डे विकटचरिते द्वाररहस्यवर्णनं नाम दशमोऽध्यायः ॥ ६.१०
(Page खं. ६ अ. ११ पान २३)
६.११ क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
चतुरस्रं गणेशस्य क्षेत्रं शास्त्रे प्रकीर्तितम् ।
ब्रह्मभूतमयं साक्षादेकं द्वादशयोजनम् ॥ १॥
गणेशात् पूर्वदिग्देशे शतं च धनुषां स्थितम् ।
द्वारमष्टाविंशतिकं तत्रार्धेन विहीनकम् ॥ २॥
दक्षिणस्यां गणेशानाद् द्विगुणं द्वारमुत्तमम् ।
पूर्वद्वाराच्च सम्प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥ ३॥
ततः पश्चिमदिग्भागे गणेशाद् द्वारमुत्तमम् ।
द्विगुणं दक्षिणाङ्गात्तु किञ्चिन्न्यूनं बुधैः पुरा ॥ ४॥
गणेशादुत्तरे भागे परं द्वारं च संस्थितम् ।
पश्चिमात् पादहीनं तदधिकं किञ्चिदञ्जसा ॥ ५॥
एतावान् क्षेत्रविस्तारः कथितो देवसत्तमाः ।
नवखण्डाद्विभिन्नं तु क्षेत्रं गाणेश्वरं मतम् ॥ ६॥
क्षेत्राणि प्रलयेषु श्रेष्ठानि दैवतसत्तमाः ।
प्रगच्छन्ति लयं नैव रक्षितानि स्वदैवतैः ॥ ७॥
महाप्रलयवेलयां तत्त्वानि त्रिगुणैः सह ।
लयं गच्छन्ति वेगेन कालस्य परमात्मनः ॥ ८॥
तदा क्षेत्राणि सर्वाणि स्वस्वदेवयुतानि च ।
लयं गच्छन्ति देवेशा निश्चितं योगिभिः पुरा ॥ ९॥
महाप्रलयकाले तु गाणेशं क्षेत्रमीदृशम् ।
नाशहीनं प्रभावेण परं तिष्ठति सर्वदा ॥ १०॥
देवेशा ऊचुः ।
क्षरं क्षेत्रमिदं वाक्यं कथितं वेदवादिभिः ।
कथं नाशविहीनं तद्वद योगीन्द्रसत्तम ॥ ११॥
स्वानन्दः सर्वसंयोगे जायते नाऽत्र संशयः ।
क्षेत्रस्याख्या कथं प्राप्ता स्वानन्दस्य वद प्रभो ॥ १२॥
भृशुण्ड्युवाच ।
क्षेत्रं गाणेश्वरं शास्त्रे सर्वमान्यं न विद्यते ।
ब्रह्मणस्पतिक्षेत्रत्वात् ब्रह्मरूपं च तत् स्मृतम् ॥ १३॥
यथा स्वानन्दरूपश्च स्वसंवेद्यात्मकः स्मृतः ।
तथा स्वानन्दक्षेत्रं तु ब्रह्माकारं प्रकीर्तितम् ॥ १४॥
देहः सगुणरूपस्तु निर्गुणं तस्य मस्तकम् ।
तयोर्योगे यथा देहस्तथा क्षेत्रं प्रकीर्तितम् ॥ १५॥
भ्रान्तिरूपा स्वयं सिद्धिर्देहधात्री बभूव ह ।
भ्रान्तिधारकरूपा च बुद्धिः क्षेत्रं तथा स्मृतम् ॥ १६॥
सङ्गहीनतया सर्वं स्त्रीपुम्भावसुखं स्मृतम् ।
गणेशसिद्धिबुद्धीनां तथा क्षेत्रं प्रकीर्तितम् ॥ १७॥
बहुनाऽत्र किमुक्तेन गणेशस्य किमप्यहो ।
क्षेत्रादिकं ब्रह्ममयं प्राकृतं नैव विद्यते ॥ १८॥
यत्किञ्चिद्गणराजस्य तत्तद्ब्रह्मप्रवाचकम् ।
लोकादिकं मुनीन्द्रैश्च ब्रह्मणस्पतिरुच्यते ॥ १९॥
गणेशक्षेत्रसम्भूतानि क्षेत्राणि समन्ततः ।
तत्रैव मरणे देवाः फलदानि भवन्ति च ॥ २०॥
धर्मार्थकाममोक्षाणां प्रदानि कथितानि तु ।
गाणेशं पञ्चमं ब्रह्म ब्रह्मभूतपदप्रदम् ॥ २१॥
ततो द्वारस्य यात्रायां धर्मार्थकाममुक्तयः ।
संस्थितास्तत्र लभ्यन्ते यात्राकारिजनैः पराः ॥ २२॥
क्षेत्रे मरणतो देवाश्चतुर्भिर्वर्जितो भवेत् ।
नरः सद्यस्तु संस्काराद्ब्रह्मभूतो न संशयः ॥ २३॥
सुरासुरमयं क्षेत्रं गाणेशं ब्रह्मवाचकम् ।
साक्षात् कृतं शिवाद्यैश्च क्षेत्रं दैवं ततः स्मृतम् ॥ २४॥
कमलमस्तकस्थत्वात् पश्चादासुरकं स्मृतम् ।
तयोर्योगे स्वसंवेद्यं सर्वादौ तत् प्रकथ्यते ॥ २५॥
यदैकद्वारयात्रां यः करोति च चतुर्षु सः ।
(Page खं. ६ अ. ११ पान २४)
आप्नुयात्तद्भवं सौख्यं मानवो यत्र कुत्रगः ॥ २६॥
यस्मात् कस्मात् समायातः सकृद्यात्रां समाचरेत् ।
क्षेत्रस्य च गणेशस्य द्वारगां सर्वमाप्नुयात् ॥ २७॥
यो नित्यं द्वारयात्रां स क्षेत्रसंस्थः समाचरेत् ।
वन्द्यः क्षेत्रस्थलोकानामन्ते ब्रह्ममयो भवेत् ॥ २८॥
ब्रह्माण्डे न समं किञ्चिद्गणेशक्षेत्रकेण तु ।
चतुर्भिर्वर्जितं प्रोक्तं पञ्चमं तच्चतुर्मयम् ॥ २९॥
बुधैर्गणेश्वरक्षेत्रं त्रिविधं परिकीर्तितम् ।
बाह्यान्तरादिभेदैश्च शृणुत देवनायकाः ॥ ३०॥
गर्भागारं गणेशस्य वासगं योजनार्धकम् ।
बभुर्गणपतेश्चैवावतारास्तत्र संस्थिताः ॥ ३१॥
गाणेशा मुद्गलाद्या ये तत्र ते संस्थिता बभुः ।
सेवार्थं गणराजस्यान्ये जना भवनागताः ॥ ३२॥
तदेव चतुरस्रं तु चतुर्द्वारसुशोभितम् ।
भक्तेभ्यः सिद्धिदं पूर्णं मनोरथसुपूरकम् ॥ ३३॥
गणेशात् पूर्वदिग्भागे धनुषां च शतानि तु ।
षट्किञ्चिन्न्यूनमानानि द्वारं सर्वार्थदं मतम् ॥ ३४॥
तत्र बुद्धिः स्थिता साक्षाद्विद्याभिः सेविता स्वयम् ।
कलाभिः पूजयित्वा तां ज्ञानवान् पुरुषो भवेत् ॥ ३५॥
गणेशाद्दक्षिणे भागे द्विगुणं दूरगं भवेत् ।
पूर्वद्वाराद्दक्षिणगं द्वारं गर्भाश्रितं महत् ॥ ३६॥
तत्र प्रमोदकाद्याश्च गणा ब्रह्मसुखे रताः ।
संस्थिताः पूजनेनैव गाणपत्यपदप्रदाः ॥ ३७॥
गणेशात् पश्चिमे भागे द्वारं गर्भगृहस्य च ।
द्विगुणं दक्षिणद्वाराद् दूरगं परिकीर्तितम् ॥ ३८॥
तत्र सिद्धिः स्वयं देवाः संस्थिता पूजनेन तु ।
नाना सिद्धिसमायुक्ता नाना सिद्धिप्रदायिनी ॥ ३९॥
पादन्यूनेन मानेन पश्चिमद्वारतस्तथा ।
उत्तरद्वारमाख्यातं गणेशसम्मुखे बुधैः ॥ ४०॥
तत्र देव्यश्चतुःषष्टिर्योगिन्यः संस्थिता बभुः ।
परिवारयुताः सर्वा योगसिद्धाश्च मातरः ॥ ४१॥
तासां पूजनमात्रेण योगं विद्यात् स मानवः ।
अन्तर्धानादिकं नाना कामदं नात्र संशयः ॥ ४२॥
गर्भागारस्य यात्रां यो नित्यं कुर्यान्नरोत्तमः ।
अथवा तु चतुर्थ्यां वै सर्वकामार्थसिद्धये ॥ ४३॥
यात्रार्थं मानवो देवाः समागतो भवेद्यदा ।
तदा कुर्यादथो भक्त्या यात्रां गर्भगृहस्य च ॥ ४४॥
गर्भागारात् परं क्षेत्रं देवालयमिति श्रुतम् ।
तत्र देवादयः सन्ति स्वर्गस्थाः सेवनोत्सुकाः ॥ ४५॥
त्रियोजनप्रमाणेन चतुरस्रं च तन्मतम् ।
द्वाराणि तस्य चत्वारि कथयामि समासतः ॥ ४६॥
गणेशात् पूर्वदिग्भागे किञ्चिन्न्यूनानि दूरतः ।
शतानि पूर्वद्वारं तु धनुषां हि चतुर्दश ॥ ४७॥
तत्र भैरवराजेन्द्रो नग्नः सर्वभयङ्करः ।
त्रिशूली मुक्तकेशश्चातिष्ठत् स्वतेजसान्वितः ॥ ४८॥
तस्य पूजनमात्रेण वाञ्छितं लभते नराः ।
यातनां न लभेत् सोऽपि नानाकर्मसमुद्भवाम् ॥ ४९॥
तस्माद् द्विगुणमानेन गणेशाद् दूरतः शिवः ।
नीलकण्ठश्च देवेशा दक्षिणद्वारपोऽभवत् ॥ ५०॥
तस्य पूजां प्रकुर्याद्यस्तया बन्धनतो नरः ।
मुच्यते नात्र सन्देहो विषबाधाविवर्जितः ॥ ५१॥
(Page खं. ६ अ. १२ पान २५)
पश्चिमे विघ्नराजात्तु दक्षिणाद् द्विगुणे स्थितः ।
दूरे यः कृत्तिवासाः स द्वारदेवः प्रकीर्तितः ॥ ५२॥
तस्य पूजनमात्रेणाऽऽसुरं कर्म विनश्यति ।
ईप्सितं लभते चापि यात्रामात्रेण मानवः ॥ ५३॥
उत्तरे गणनाथाद्वै पश्चिमात् पादहीनतः ।
द्वाराद् द्वारं स्थितं देवास्तत्र भीमेश्वरः स्थितः ॥ ५४॥
तस्य यात्रां प्रकुर्याद्यः सद्यः सत्तासमन्वितः ।
भवेत् स मानवश्चारोग्यं लभेत निरन्तरम् ॥ ५५॥
तृतीयक्षेत्ररूपं तु कथितं विस्तरान् मया ।
चतुर्द्वारयुतं पुण्यं मयूरं तन्मतं परम् ॥ ५६॥
क्षेत्रात् सर्वत्र देवेशा योजनं चतुरस्रगम् ।
देवक्षेत्रं समाख्यातं चतुर्विधपदप्रदम् ॥ ५७॥
क्षेत्रात् पूर्वविभागस्थो नरो गच्छेन् मृतः स्वयम् ।
विकुण्ठे नात्र सन्देहस्तत् क्षेत्रं वैष्णवं यतः ॥ ५८॥
दक्षिणे क्षेत्ररूपात्तु मृतो योजनमध्यगः ।
स कैलासे वसेन्नूनं शैवं क्षेत्रं यतः स्मृतम् ॥ ५९॥
मयूरात् पश्चिमे क्षेत्राद्योजनस्थो मृतो भवेत् ।
शक्तिलोकं वसेत् सोऽपि शाक्तं क्षेत्रं च तत् स्मृतम् ॥ ६०॥
मयूरादुत्तरे देवा यो मृतो योजनस्थितः ।
स सौरे संवसेन्नित्यं सूर्यक्षेत्रं यतः स्मृतम् ॥ ६१॥
एवं क्षेत्रस्य माहात्म्यं प्रमाणसहितं मया ।
कथितं श्रवणाच्चैव पठनात् पापहारकम् ॥ ६२॥
तत्र गत्वा महेशाना पूजयेत गजाननम् ।
स्थापयित्वाऽचलां मूर्तिं सिद्धिं प्राप्स्यथ निश्चितम् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते क्षेत्रप्रमाणवर्णनं नाम एकादशोऽध्यायः ॥ ६.११
६.१२ मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
पुरा कल्पे महाभाग मयूरे द्वारसंश्रिताम् ।
यात्रां कृत्वा नराः सिद्धिमलभंस्तद्वदस्व नः ॥ १॥
देवभूमौ मृता ये वै तेषां सिद्धिं वदस्व च ।
एकद्वाराश्रितां यात्रां कृत्वा के सिद्धिमाप्नुयुः ॥ २॥
श्रुत्वा कथां महारम्यां हर्षश्चेतसि वर्धते ।
सर्वज्ञोऽसि न सन्देह आदिमध्यान्तगस्तथा ॥ ३॥
भृशुण्ड्युवाच ।
पुरा जातां कथां रम्यां शृणुध्वं देवसत्तमाः ।
स्वगुरुं मुद्गलं नत्वा कथयामि समासतः ॥ ४॥
द्राविडे ब्राह्मणः कश्चिद्विद्याहीनो बभूव ह ।
तत्रैवान्त्यजजातिस्थो नरो मूढस्तथाऽभवत् ॥ ५॥
माता पिता तस्य हीनौ तथा त्यक्तौ सुहृज्जनैः ।
त्यक्त्वा स्वदेशभूमिं बभ्रमतुस्तौ महीतलम् ॥ ६॥
प्रसङ्गात्तु जनानां तौ मयूरे दैवयोगतः ।
समागतौ जनैर्युक्तौ तस्थतुस्तत्र हर्षतः ॥ ७॥
स्नात्वा प्रभातकाले तौ शमीदूर्वादलं तथा ।
(Page खं. ६ अ. १२ पान २६)
गृह्य विघ्नेशपूजार्थं जग्मतुः स्नेहभावतः ॥ ८॥
अन्त्यजेन स्वकीया च प्रदत्ता ब्राह्मणाय तु ।
पूजा दूर्वादिसंयुक्ता गणेशार्थं स्वधर्मतः ॥ ९॥
ब्राह्मणो गणराजं तं पूजयामास भावतः ।
विधिमन्त्रैर्विहीनस्तु जलपत्रादिभिः परम् ॥ १०॥
ततस्तौ जनसङ्घातैर्जग्मतुर्देवसत्तमाः ।
गर्भागारद्वारसंस्थां यात्रां चक्रतुरादरात् ॥ ११॥
पूर्वद्वारे समागम्य बुद्धिं सम्पूज्य तं पुनः ।
गणेशं पूजयित्वा तौ तस्थतुस्तत्र देवपाः ॥ १२॥
उपोषणसमायुक्तौ विधानेन बभूवतुः ।
द्वितीये दिवसे यात्रां क्षुधितौ तौ न चक्रतुः ॥ १३॥
यात्रां त्यक्त्वा गतौ हर्षात्त्यक्त्वा क्षेत्रं महाद्भुतम् ।
अकस्मात् ज्ञानसंयुक्तौ विद्यायुक्तौ बभूवतुः ॥ १४॥
जातिस्मरौ विशेषेण विचारं चक्रतुः परम् ।
अहो वर्णयितुं क्षेत्रमाहात्म्यं न प्रशक्यते ॥ १५॥
एकद्वारस्य यात्रा तु कृताऽऽवाभ्यां ततः परम् ।
ज्ञानं विद्यायुतं प्राप्तं सम्पूर्णां किं स्तुवः कृताम् ॥ १६॥
ततः स्वनगरं गत्वा सर्वमान्यौ बभूवतुः ।
तेन संस्कारयोगेन गणेशभजने रतौ ॥ १७॥
भक्तेर्बलेन तौ देवा अन्ते स्वानन्दलोकगौ ।
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतौ बभूवतुः ॥ १८॥
एवं नाना जना द्वारसिद्धिं तत्र प्रलेभिरे ।
न मया वर्णनं शक्यमन्यैर्वर्षशतैरपि ॥ १९॥
अन्यद्वारेषु सर्वेषु यथोक्तफलभोगिनः ।
न सन्देहो बभूवुः कथयितुं नैव शक्यते ॥ २०॥
मयूरे ये मृताः क्षेत्रे तेषां सिद्धिं वदाम्यहम् ।
देवमुख्याश्च शृणुत सर्वसन्तोषवर्धिनीम् ॥ २१॥
पुरा शूद्रः समायातः कश्चिद्दैववशेन तु ।
कुष्ठरोगसमायुक्तो मयूरे धूम्रनामकः ॥ २२॥
तत्रोच्छिष्टादिकं भुञ्जन् भिक्षायां निरतोऽभवत् ।
मासमध्ये मृतः सोऽपि भृशं रोगेण पीडितः ॥ २३॥
स स्वानन्दं समाश्रित्य ब्रह्मभूतो बभूव ह ।
एवं नाना जनाः क्षेत्रे ब्रह्मभूता मयूरके ॥ २४॥
तेषां न शक्यते वक्तुं चरित्रं देवसत्तमाः ।
यथोक्तफलभोक्तारो बभूवुर्नात्र संशयः ॥ २५॥
तत्र क्षेत्रस्थिता देवा नराः पापपरायणाः ।
मृता क्षेत्रे यदा तेषां भयं यमकृतं न हि ॥ २६॥
नग्नभैरवनामाऽसौ कथितः क्षेत्रपालकः ।
दण्डधारक एवं तु सदा मायूरवासिनाम् ॥ २७॥
तस्याधीनं समग्रं तु क्षेत्रं वैनायकं परम् ।
शुद्धं कृत्वा नरं दण्ड्यं स्वानन्दे स्थापकोऽभवत् ॥ २८॥
देवेशा ऊचुः ।
कोऽसौ नग्नस्वरूपेण भैरवः सर्वभैरवः ।
कीदृशी यातना विप्र मयूरे पापकारिणाम् ॥ २९॥
भृशुण्ड्युवाच ।
मायासङ्गविहीनोऽयं सदा साक्षिवदुच्यते ।
तेन नग्न इति ख्यातो गाणपत्याग्रणीः परः ॥ ३०॥
यस्माद्भीतानि तत्त्वानि जगत् संवर्तयन्ति तु ।
ब्रह्मा सृष्टिकरो देवा विष्णुः पाता च तद्भयात् ॥ ३१॥
हरः संहारकारी च सूर्यस्तपति नित्यदा ।
सम्मोहधारिणी शक्तिः सदा भवति तद्भयात् ॥ ३२॥
इत्यादि सकलं तस्माद्भीतं स्वस्वपदे स्थितम् ।
स्वस्वकर्मकरं प्रोक्तं तेन भैरवकः स्मृतः ॥ ३३॥
मायया गणराजेन सृष्टः सर्वार्थदायकः ।
(Page खं. ६ अ. १२ पान २७)
गाणेशानां न सन्देह इतरेषां भयङ्करः ॥ ३४॥
गर्भागारं गणेशस्य रहस्यं रूपमुच्यते ।
अतस्तत्रैव देवेशाः स्थातव्यं यत्नतः सदा ॥ ३५॥
तत्र पूजादिकं कार्यं सत्कर्मादिकमुत्तमम् ।
न तत्रानृतकामादिकर्तव्यं मानवेन च ॥ ३६॥
न च मूत्रमलत्यागः कर्तव्यस्तत्र देवपाः ।
सदा गाणेशभावेन स्थातव्यं मानवैः सदा ॥ ३७॥
क्षेत्रे पुण्यं यथा प्रोक्तमधिकं ह्यन्यदेशतः ।
तथा तत्र कृतं पापमधिकं भवतीत्यहो ॥ ३८॥
अतः क्षेत्रेषु पापानि नाचरेत्तु नरोत्तमः ।
यथाशास्त्रं विधानेन पुण्यं तेषु समाचरेत् ॥ ३९॥
अन्यक्षेत्रेषु पापं यत् कृतं नश्यति तत्क्षणात् ।
क्षेत्रेषु पञ्चदेवानां ब्रह्मादिपदगेषु वै ॥ ४०॥
नरैस्तेषु कृतं पापं मयूरे नश्यति क्षणात् ।
मयूरे यत् कृतं पापं वज्रलेपं तु तत् स्मृतम् ॥ ४१॥
विधिं तत्र प्रवक्ष्यामि शृणुत देवसत्तमाः ।
येन संशयहीनाश्च भविष्यथ विचारतः ॥ ४२॥
मयूरे यत् कृतं पापं देवालये विनश्यति ।
देवालये कृतं चैतद्गर्भागारे लयं व्रजेत् ॥ ४३॥
गर्भागारे कृतं पापं द्वारयात्राबलेन च ।
नश्यत्यत्र न सन्देहः प्रदक्षिणविधानतः ॥ ४४॥
द्वारयात्राकृतं पापं वज्रलेपमयं भवेत् ।
तदेव यातनां दत्त्वा नरस्य नाशमेष्यति ॥ ४५॥
यदा जन्मादि प्रारभ्य मरणान्तं समाचरेत् ।
पापं मयूरक्षेत्रे स यातनां प्रलभेन्नरः ॥ ४६॥
दशवर्षसहस्राणि नग्नभैरवनायकः ।
भैरवीं यातनां दत्त्वा शुद्धं करोति मानवम् ॥ ४७॥
यातना त्रिविधा तस्य भैरवस्य महात्मनः ।
कथयामि समासेन तां शृणुध्वं महेश्वराः ॥ ४८॥
अग्निकुण्डादिकं तत्र संस्थितं भैरवस्थले ।
याम्याल्लक्षाधिकं प्रोक्तमुग्रं वक्तुं न शक्यते ॥ ४९॥
आदावेव स तां दत्त्वा पश्चाद यमसमां प्रभुः ।
ददाति यातनां घोरां भैरवो भयदायकः ॥ ५०॥
ततो भूतपिशाचादि सम्भूतां प्रददाति सः ।
ततः शुद्धं नरं कृत्वा स्वानन्दे स्थापयिष्यति ॥ ५१॥
चत्वारिंशत्सहस्राणि भैरवीं यातनां स्वयम् ।
ददाति तु ततो याम्यां त्रीणि साहस्त्रकाणि हि ॥ ५२॥
ततस्त्रीणि सहस्राणि पैशाचीयोनिसम्भवाम् ।
ददाति क्रोधसंयुक्तो नग्नः शूलधरः प्रभुः ॥ ५३॥
एवं सर्वं समाख्यातं यातनाजं महद्भयम् ।
यथा मयूरक्षेत्रस्थो नरो विन्द्यान् मृतः परम् ॥ ५४॥
पापरूपा नरा ये वै गाणेशे संस्थिताः खलाः ।
तान् स्वयं भैरवाधीशो बहिः कुर्याद्भयप्रदः ॥ ५५॥
पुण्यशीलान् हृदिस्थश्च समानाय्य महेश्वराः ।
भैरवः क्षेत्रगान् कृत्वा रक्षेद्वै नित्यमादरात् ॥ ५६॥
मयूरक्षेत्रसंस्था ये क्षेत्रसंन्यासधारकाः ।
न तेषां दुःखलेशश्च भवेद्देवेन्द्रसत्तमाः ॥ ५७॥
लक्ष्म्या नारायणस्तान् वै धर्मयुक्तान् करोति सः ।
पार्वत्या शङ्करस्तद्वन्नानार्थान् सन्ददाति वै ॥ ५८॥
रत्या कामः स्वयं तेभ्यो नाना कामान् ददाति हि ।
भूम्या वराहकश्चैव ज्ञानं ददाति शाश्वतम् ॥ ५९॥
अतः सर्वं परित्यज्य मयूरं तत् समाश्रयेत् ।
सुहृद्भिस्तं तु देवेशा ब्रह्मभूतं वदन्ति हि ॥ ६०॥
नानायोनिगतो जन्तुस्तत्र स्त्रीपुत्रसंयुतः ।
देहपोषणसक्तश्च बभूवे देवसत्तमाः ॥ ६१॥
नरदेहं समाश्रित्य गाणेशक्षेत्रगो यदि ।
न भवेत् स सदा ज्ञेयो रासभैस्तुल्यभावगः ॥ ६२॥
पञ्चमं ब्रह्मरूपं यत्तदेव भूमिगं मतम् ।
क्षेत्ररूपेण तद्ये वै न सेवन्ते समाः पशोः ॥ ६३॥
स्वर्गेषु देवमुख्याश्चेच्छन्ति मानवदेहकम् ।
गत्वा मयूरक्षेत्रे तु मरिष्यामः सुभाग्यतः ॥ ६४॥
तत्रैव मरणे ब्रह्म प्राप्यते पञ्चमं परम् ।
धर्मार्थकाममोक्षास्तु यदिच्छन्ति परात्परम् ॥ ६५॥
काश्यादिक्षेत्रमुख्येषु यत्कृतं सुकृतं नरैः ।
तेन संस्कारयोगेन मयूरं लभ्यते परम् ॥ ६६॥
इति सर्वं समाख्यातं वासरूपं विशेषतः ।
पठनाच्छ्रवणान्नित्यं क्षेत्रवासफलप्रदम् ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरक्षेत्रवासशुभाशुभवर्णनं नाम द्वादशोऽध्यायः ॥ ६.१२
६.१३ मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवा ऊचुः ।
कथं गणेशक्षेत्रस्य नाम जातं मयूरकम् ।
एतत् कौतूहलं ब्रूहि भृशुण्डिन् परमार्थद ॥ १॥
भृशुण्ड्युवाच ।
पुरा कल्पे महेशाना भवद्भिस्तत्र विघ्नपः ।
आराधितः स वै साक्षाद्वरदस्तान् समाययौ ॥ २॥
मयूरवाहनो भूत्वा दशहस्तो दशायुधः ।
लम्बोदरो गजमुखः प्रसन्नात्मा महेश्वरः ॥ ३॥
उवाच तान् वृणुध्वं मे वरांश्च मनसीप्सितान् ।
दास्यामि तपसा तुष्टो भक्त्या स्तोत्रादिना परान् ॥ ४॥
तैर्मानसेप्सितं सर्वं वृत्तं तस्माद्गजाननात् ।
पुनस्तं ते गणाध्यक्षमूचुः प्राञ्जलयोऽमराः ॥ ५॥
मूषको वाहनं तेऽभून् मयूरध्वज चाधुना ।
मयूरारूढ एव त्वमागतोऽसि गजानन ॥ ६॥
अस्मिन् क्षेत्रे मयूरस्थो दृष्टस्त्वं गणनायक ।
अतो मयूरजन्माख्यं क्षेत्रं जातं त्वया कृतम् ॥ ७॥
अद्य प्रभृतिरेतत्तु क्षेत्रं मायूरनामकम् ।
भवेत्तत् सर्वविख्यातं त्वत्प्रसादाद्गजानन ॥ ८॥
मयूरक्षेत्रनाथस्त्वं मयूरेशो भव प्रभो ।
नाम्ना सर्वत्र विख्यातो भक्तानुग्रहकारकः ॥ ९॥
तथेति तानुवाचाथ गणेशोंऽतर्दधे स्वयम् ।
देवेशा अभवन्नत्वा स्वस्वकार्यपरायणाः ॥ १०॥
एतद्वः सर्वमाख्यातं कारणं नामधारणे ।
क्षेत्रस्य क्षेत्रनाथस्यान्यच्छृणुध्वं महेश्वराः ॥ ११॥
चित्राकारा महामाया ह्यनन्तखेलकारिणी ।
मयूरा सा समाख्याता मयूरेशस्तु तत्पतिः ॥ १२॥
चतुर्ब्रह्ममयं क्षेत्रं मायारूपं मयूरकम् ।
विहारतस्तत्र देवा मयूरेशः प्रकीर्तितः ॥ १३॥
(Page खं. ६ अ. १३ पान २९)
देवेशा ऊचुः ।
चतुर्भुजो गणाध्यक्षो मयूरे संस्थितोऽभवत् ।
कथं दशभुजः सोऽपि बभूव वद योगिप ॥ १४॥
भृशुण्ड्युवाच ।
भूस्वानन्दमयं क्षेत्रमेकं सर्वादिसम्मतम् ।
गाणेशं तत्र देवेशा न चित्रं किञ्चिदञ्जसा ॥ १५॥
एकाक्षरभवं ध्यानं प्रथमं परिकीर्तितम् ।
सर्वादौ तत् सुविख्यातं क्षेत्रसंस्थं बभूव ह ॥ १६॥
सप्तकोट्यो महामन्त्रा गणेशस्य महात्मनः ।
सर्वे मयूरक्षेत्रे ते कल्पभेदे स्थिता बभुः ॥ १७॥
अनन्तरूपधारी स हिताय गणपोऽभवत् ।
लोकानां तानि सर्वाणि मयूरे सम्भवन्ति हि ॥ १८॥
मयूरक्षेत्रगश्चैव गणेशो भक्तकारणात् ।
नानाक्षेत्रस्य भावेन तिष्ठति कलयाऽमरः ॥ १९॥
अतः सर्वाणि रूपाणि गाणेशानि विशेषतः ।
मायूरे संस्थितान्येव मूलभूते महेश्वराः ॥ २०॥
शक्तिरुवाच ।
भृशुण्डिवचनं श्रुत्वा हर्षयुक्ताः सुरेश्वराः ।
ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ २१॥
ब्रह्माद्या ऊचुः ।
दण्डकारण्यदेशे तु गणेशस्य महात्मनः ।
क्षेत्रं मुख्यं कथं जातं तन्नो वद महामुने ॥ २२॥
भृशुण्ड्युवाच ।
स्वस्वकर्मकृतं देवास्तस्य दण्डः प्रकीर्तितः ।
शुभाशुभमयः शास्त्रे नरैर्भोक्तव्य एव च ॥ २३॥
दण्डानां नाशकं पूर्णं तेनारण्यं प्रकीर्तितम् ।
शून्यवत् सर्वशास्त्रेष्वरण्यं तत्कथ्यते बुधैः ॥ २४॥
ब्रह्मभूयपदं पूर्णं परं चादण्डवाचकम् ।
दण्डकारण्यकं तेन नाम तस्य विशेषतः ॥ २५॥
दण्डकारण्यगे देवो ब्रह्मभूतमयः परः ।
गणेशो वेदवादेष्वदण्डिनां स हितावहः ॥ २६॥
अदण्डिनश्च योगीन्द्राः कथिताः शुकमुख्यकाः ।
योगेशो ब्रह्मणां नाथो गणेशस्तत्र राजति ॥ २७॥
इतिहासं प्रवक्ष्यामि पुरा वृत्तं सुरेश्वराः ।
सृष्टान्यरण्यमुख्यानि ब्रह्मणा कार्यसिद्धये ॥ २८॥
दण्डकारण्यकं तेषु गणेशं लालसं सदा ।
उवाच वेधसं नत्वा कृत्वा करपुटं पुरा ॥ २९॥
दण्डकारण्यमुवाच ।
ब्रह्मभूयप्रदं देवं भजिष्यामि पितामह ।
तदर्थं मन्त्रराजं मे देहि सर्वज्ञ मुख्यक ॥ ३०॥
ब्रह्मोवाच ।
गणेशं भज भावेन ब्रह्मभूतः स वै स्मृतः ।
समूहानां प्रभुः पूर्णः समूहा ब्रह्मवाचकाः ॥ ३१॥
स्वानन्दनगरं यस्य सिद्धिर्बुद्धिः प्रिये परे ।
लक्षलाभौ सुतौ प्रोक्तौ वाहनं मूषकः परः ॥ ३२॥
गजाननमयो यस्य देहश्च नररूपधृक् ।
सर्वं ब्रह्ममयं तेन ब्रह्मणस्पतिरुच्यते ॥ ३३॥
एवमुक्त्वा ददौ तस्मै मन्त्रमेकाक्षरं परम् ।
तं नमस्कृत्य तच्चैव जगाम तपसे स्वयम् ॥ ३४॥
दिव्यवर्षसहस्रेण ज्ञानं गाणेशकं परम् ।
लब्ध्वाऽरण्यं महादेवस्ततो भक्तिं चकार ह ॥ ३५॥
तद्ययौ गणराजस्तु प्रसन्नो भक्तवत्सलः ।
जगाद वृणु ते चित्ते स्थितं वरमरण्यक ॥ ३६॥
तं दृष्ट्वा दण्डकारण्यं समुत्थाय ननाम तु ।
पूज्यं स्तोतुं गणाधीशं चक्रमे तत्कृताञ्जलिः ॥ ३७॥
दण्डकारण्यमुवाच ।
नमस्ते गजवक्त्राय गणेशाय महोदर ।
ब्रह्मणे ब्रह्मपालाय विघ्नेशाय नमो नमः ॥ ३८॥
हेरम्बाय चतुर्बाहुधराय कञ्जपाणये ।
(Page खं. ६ अ. १३ पान ३०)
पाशाङ्कुशधरायैव परेशाय नमो नमः ॥ ३९॥
अनादये च सर्वेषामादिरूपाय ते नमः ।
ज्येष्ठानां ज्येष्ठरूपाय ज्येष्ठाय वै नमो नमः ॥ ४०॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
सिद्धिबुद्धिप्रदात्रे ते मूषकध्वजिने नमः ॥ ४१॥
मूषकोपरिसंस्थाय गणेशाय परात्मने ।
नानामायाप्रचालाय मयूरेशाय ते नमः ॥ ४२॥
नायकानां विशेषेण नायकाय विनायक ।
नायकैर्वर्जितायैव नायकत्वप्रदायिने ॥ ४३॥
विघ्नेशाय महाविघ्नधारिणे सर्वदायिने ।
पददात्रे तथा हन्त्रे विघ्नेशैस्ते नमो नमः ॥ ४४॥
अमेयशक्तये तुभ्यं सर्वपूज्याय ते नमः ।
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ॥ ४५॥
अधुना वरदोऽसि त्वं तदा मे नाम सार्थकम् ।
कुरु नित्यं वस स्वामिन् मम देहे गजानन ॥ ४६॥
भक्तिं देहि त्वदीयां मे सदा ब्रह्मप्रकाशिनीम् ।
तेनाऽहं कृतकृत्यश्च भविष्यामि गजानन ॥ ४७॥
एवमुक्त्वा गणेशानं प्रणनाम कृताञ्जलिः ।
भक्तिभावसमायुक्तं तञ्जगाद गजाननः ॥ ४८॥
श्रीगजानन उवाच ।
त्वया कृतमिदं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति महारण्य भुक्तिमुक्तिप्रदं परम् ॥ ४९॥
त्वयोक्तं सफलं सर्वं भविष्यति सदा प्रियम् ।
मामेव सर्वभावेन भजिष्यसि न संशयः ॥ ५०॥
नानावतारवांश्चैव त्वद्देहस्थोऽहमञ्जसा ।
भविष्यामि गणेशोक्त्वांऽतर्दधे देवसत्तमाः ॥ ५१॥
अतो गणेशक्षेत्रं तु दण्डकारण्यमुत्तमम् ।
सकलं तत्र सेवार्थं देवास्तस्य समाययुः ॥ ५२॥
तेषां क्षेत्राणि देवेशा दण्डकारण्यगानि तु ।
तेषु स्थिता विशेषेण भजन्ते गणनायकम् ॥ ५३॥
सर्वेष्वरण्यदेशेषु गणेशः प्रतितिष्ठति ।
दण्डकारण्यमध्ये स विशेषेणावतारकृत् ॥ ५४॥
दण्डकारण्यकं सर्वं गणेशक्षेत्रमुच्यते ।
मयूरक्षेत्रं तन्मध्ये भिन्नं स्वानन्दवाचकम् ॥ ५५॥
ब्रह्माद्या ऊचुः ।
धन्योऽसि योगिनां मध्ये सर्वसंशयनाशकः ।
श्रुत्वा त्वद्वदनाम्भोजान्न तृप्यामः कथामृतम् ॥ ५६॥
अधुना कृपया विप्र द्वारयात्रां विधानतः ।
वद क्षेत्रस्य त्रिविधामितिहासयुतां प्रभो ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरेशनामदण्डकारण्यवरप्रदानवर्णनं नाम त्रयोदशोऽध्यायः ॥ ६.१३
(Page खं. ६ अ. १४ पान ३१)
६.१४ द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
पुराकल्पभवां सर्वां कथयामि कथां पराम् ।
सङ्क्षेपेण महाभागाः शृणुध्वं भक्तिसंयुताः ॥ १॥
काचिद्विप्रस्य भार्या तु पीडिता दुर्जनैः पुरा ।
सा सतीभावरक्षार्थं यत्नयुक्ता बभूव ह ॥ २॥
वने पतिविहीना सा तानुवाच महाखलान् ।
अद्य प्रारभ्य वश्चाह्नि पञ्चमे स्त्री भवाम्यहम् ॥ ३॥
सत्यं वाक्यं न सन्देहो गच्छध्वं वनवासिनः ।
एवमुक्ता गताश्चौरा हर्षिताः स्वगृहं ततः ॥ ४॥
सा वने शोकसंयुक्ता विचारमकरोत्तदा ।
यज्ञार्थं यजमानस्य भर्ता मे सङ्गतोऽभवत् ॥ ५॥
करोमि किं समीपस्थं गच्छामि च मयूरकम् ।
तत्र धर्मस्य संस्थानं वर्तते नात्र संशयः ॥ ६॥
यात्रामात्रेण तत्रैव स्वस्वधर्मः प्रलभ्यते ।
एवं विचार्य सा देवी मयूरेशं जगाम ह ॥ ७॥
स्नात्वा गणेशतीर्थे सा सम्पूज्य गणनायकम् ।
पूर्वद्वारस्थितां शक्तिं सर्वयुक्तां पुपूज ह ॥ ८॥
पुनश्चैव मयूरेशं पूजयित्वा विधानतः ।
सत्यसम्पालनार्थाय स्वगृहं तत्क्षणाद्ययौ ॥ ९॥
ततस्ते वनगा दुष्टास्तां ययौ पञ्चमेऽहनि ।
सा सस्मार गणेशानं धर्मशक्तियुतं परम् ॥ १०॥
तस्याः स्मरणमात्रेणाग्निस्तान् सर्वान् ददाह च ।
सा विस्मिता गणेशानममन्यत विशेषतः ॥ ११॥
मृता सा धर्मशक्तिस्थं गणेशं चिन्त्य मानदा ।
विकुण्ठमगमत् सा वै विष्णुना मानिता भृशम् ॥ १२॥
पुनः कल्पे मयूरे सा पतियुक्ता बभूव ह ।
ब्राह्मणी तं पुनर्भक्त्या सिषेवे धर्मतत्परा ॥ १३॥
अन्ते स्वानन्दगा चैव बभूवे देवनायिका ।
ब्रह्मभूता महाभक्त्या पत्या युक्ता महाद्भुतम् ॥ १४॥
एवं नाना जनास्तत्र नाना वर्णसमुद्भवाः ।
नरा नार्यश्च देवेशा महासिद्धिं प्रलेभिरे ॥ १५॥
अन्यच्च दक्षिणद्वारसंस्थां शृणुत चादरात् ।
येन संशयहीनाश्च भविष्यथ विशेषतः ॥ १६॥
मद्रदेशमहीपालः शास्त्रज्ञो बलसंयुतः ।
बभूव सर्वनीतिज्ञः प्रजापालनलालसः ॥ १७॥
कदा सामन्तकैः सर्वैः पीडितोऽतितरां नृपः ।
न समर्थो बभूवैव तेषां निग्रहणे बलात् ॥ १८॥
ततोऽतिशोकसंयुक्तो राज्यं त्यक्त्वा महामतिः ।
जगाम मुनिशार्दूलं शौनकं कर्मसिद्धये ॥ १९॥
ज्ञात्वा वृत्तान्तमेवं तु तस्य राज्ञश्च शौनकः ।
जगाद गच्छ राजेन्द्र मयूरेशं सुसिद्धिदम् ॥ २०॥
तत्र दक्षिणभागे तु द्वारमर्थात्मकं परम् ।
यात्रामात्रेण सर्वार्थदायकं तत् समाचर ॥ २१॥
प्रणम्य भद्रसेनस्तं मयूरेशं समागतः ।
दक्षिणद्वारगां यात्रां चकार भक्तिसंयुतः ॥ २२॥
पुनः स्वनगरं गत्वा स्मृत्वा विघ्नेश्वरं नृपः ।
जित्वा सर्वान् भद्रसेनः शत्रून् राज्यं चकार ह ॥ २३॥
एवं यात्राविधानेन समर्थो जायते नरः ।
स्वस्वजातिभवं देवा अर्थं विन्दति निश्चितम् ॥ २४॥
ततः सोऽपि गणेशानं दक्षिणद्वारगं सदा ।
भुञ्जानो भोगमभजन् मृतः कैलासगोऽभवत् ॥ २५॥
(Page खं. ६ अ. १४ पान ३२)
पुनर्वैश्योऽभवत् सोऽपि मयूरे देवसत्तमाः ।
नित्यं गणेश्वरं देवेमभजद्भक्तिसंयुतः ॥ २६॥
अन्ते स्वानन्दगो भूत्वा क्षेत्रे मरणतः स्वयम् ।
ब्रह्मभूतः स वैश्योऽपि नाम्ना मेघो बभूव ह ॥ २७॥
एवं नाना जना देवा अर्थयुक्ता बभूविरे ।
तत्रैवं कति वो ब्रूयां शक्यते न मया क्वचित् ॥ २८॥
अधुना पश्चिमद्वारसम्भूतं कथयाम्यहम् ।
चरित्रं सर्वभावज्ञाः शृणुध्वं परमार्थदम् ॥ २९॥
भारके नगरे रोगादिभिर्वैश्यः प्रपीडितः ।
दरिद्रो भोगहीनश्च सामो नाम्ना बभूव ह ॥ ३०॥
तेन स्कन्दपुराणस्थं माहात्म्यं संश्रुतं कदा ।
स्वानन्दक्षेत्रजं तेन विस्मितः प्रबभूव ह ॥ ३१॥
देवाः समागतो यात्रार्थं मयूरे पुरा स वै ।
यथाशास्त्रं विधानेन तीर्थदेवं पुपूज ह ॥ ३२॥
अतीव पीडितः सोऽपि रोगैस्तेन चकार ह ।
दारिद्र्येण तथा यात्रां पश्चिमद्वारसंस्थिताम् ॥ ३३॥
ततो रोगविनिर्मुक्तो बभूवे हर्षसंयुतः ।
स्वगृहं पुनरागत्य वैश्यवृत्तिं चकार ह ॥ ३४॥
धनाढ्यः स बभूवाऽपि सर्वमान्यः सुरेश्वराः ।
पश्चिमद्वारसंयुक्तमभजद्गणनायकम् ॥ ३५॥
स्वगृहे भोगसंयुक्तो बुभुजे विविधान् रसान् ।
अन्ते जगाम शक्तेः स लोकं परमसौख्यदम् ॥ ३६॥
पुनः क्षेत्रे बभूवाऽपि ब्राह्मणो वेदपारगः ।
मयूरे गणनाथं स शिवशर्माऽभजत्परम् ॥ ३७॥
क्षेत्रसंन्यासभावेन मयूरेशं समाश्रितः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ३८॥
अथोत्तरभवां यात्रां शृणुध्वं देवसत्तमाः ।
कर्णाटे शूद्रजातिस्थो बभूवे भीमनामकः ॥ ३९॥
कदा श्रुत्वा पुराणं स खेदयुक्तो बभूव ह ।
व्यर्थं मायामयं सर्वं तत्त्यजाम्यहमादरात् ॥ ४०॥
मुक्तिः सम्पूर्णभावेन लभ्यते केन कर्मणा ।
तदेव साधनीयं वै मया मानवदेहिना ॥ ४१॥
ततो बभ्रामातिखेदसंयुक्तो यत्र तत्र ह ।
वने ददर्श शूद्रः स विश्वामित्रं तपोधनम् ॥ ४२॥
तं प्रणम्य स्थितस्तत्र बभौ तेनाऽपि सत्कृतः ।
पप्रच्छ मुक्तिदं मार्गं तं जगाद स हर्षितः ॥ ४३॥
विश्वामित्र उवाच ।
महाश्रमयुतैश्चैव सत्कर्मभिर्विशेषतः ।
अनेकजन्मसम्भूतैर्नरो मुक्तिमवाप्नुयात् ॥ ४४॥
अतो गच्छ महाक्षेत्रे मयूरेशस्य शूद्रज ।
उत्तरद्वारगां यात्रां कुरु मुक्तिमवाप्स्यसि ॥ ४५॥
आयासेन विहीनस्तु मुक्तिं तत्रैवमाप्नुयाः ।
मा खेदं कुरु शूद्र त्वं गच्छ गच्छ ममाज्ञया ॥ ४६॥
भीमस्तं कौशिकं नत्वा मयूरेशं समाययौ ।
उत्तरद्वारगां यात्रां चकार विधिसंयुतः ॥ ४७॥
अत्यन्तलोलुपत्वात् स मुक्तिद्वारं चकार ह ।
पुनः स्वगृहमागत्य चकार कर्म देहजम् ॥ ४८॥
स्वधर्मेण युतो नित्यं स्त्रीपुत्राद्यैः स संयुतः ।
त्रिवर्णस्थजनानां वै सेवां चकार हर्षितः ॥ ४९॥
मुक्तियुक्तं गणेशानमभजन्नित्यमादरात् ।
(Page खं. ६ अ. १४ पान ३३)
अन्ते जगाम सूर्यस्य लोकं तेजोमयं परम् ॥ ५०॥
ततः क्रमेण शूद्रः स शुक्लगत्या महेश्वराः ।
मोक्षरूपो बभूवाऽपि क्षेत्रयात्राप्रभावतः ॥ ५१॥
एवं नानाविधास्तत्र मुक्तिं प्राप्ता विशेषतः ।
तेषां मया चरित्रं यत्तद्वक्तुं न प्रशक्यते ॥ ५२॥
अथ देवेश्वराः पूर्णां यात्रां द्वारसमाश्रिताम् ।
कथयामि भवत्प्रीत्या सर्वसिद्धिप्रदायिनीम् ॥ ५३॥
मालवेंऽत्यजजातिस्थो बभूवे दुन्दुभिस्वनः ।
नाम्ना ख्यातश्च पापात्मा विचचार महीतलम् ॥ ५४॥
द्रव्यलोभी नरादींश्च हत्वा कोटरगोऽभवत् ।
मुमोच ब्राह्मणं सोऽपि न गां वा पापनिश्चयः ॥ ५५॥
कदाचिन् मार्गगः कश्चिद्वैश्यो द्रव्यसमन्वितः ।
मालवाद्दण्डकारण्यं जगाम क्रयकारणात् ॥ ५६॥
स दृष्ट्वा द्रव्यसंयुक्तं महामार्गसमाश्रितम् ।
नाना जनैश्च सङ्कीर्णं तमनु प्रययौ खलः ॥ ५७॥
वैश्यं क्रमेण देवेशा मयूरेशं समागतम् ।
अनु तं सोऽपि दुर्बुद्धिराययौ दुन्दुभिस्वनः ॥ ५८॥
स वैश्यो गणनाथस्य यात्रायां निरतोऽभवत् ।
अन्त्यजोऽपि तथा तत्र यात्रां तेन चकार ह ॥ ५९॥
चतुर्द्वाराणि कृत्वा तु संस्थिता विविधा जनाः ।
चाण्डालस्तत्र मायूरे तद्वत्तस्थौ स वै खलः ॥ ६०॥
ततस्तस्य च दुर्बुद्धेर्बुद्धिभेदो बभूव ह ।
विचारमकरोच्चित्ते स स्वयं दुन्दुभिस्वनः ॥ ६१॥
अहो मयाऽतिमूर्खेण पापं नानाविधं कृतम् ।
का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ६२॥
ततो वैश्यं प्रणम्यैव गतः स्वस्थानमादरात् ।
स्वधर्मसंयुतो भूत्वा चकार कर्म देहजम् ॥ ६३॥
पूर्वद्वारजपुण्येन स्वधर्माचारसंयुतः ।
दक्षिणद्वारजेनैव सत्तायुक्तो बभूव ह ॥ ६४॥
पश्चिमद्वारपुण्येन रोगाद्यभिविवर्जितः ।
धनाढ्यो विविधान् भोगान् बुभुजेऽसौ सुहृद्वृतः ॥ ६५॥
उत्तरद्वारजेनैव यात्रायाः फलरूपिणा ।
महामोक्षं शुक्लगत्यांऽत्यजो लेभे महेश्वराः ॥ ६६॥
न शक्यते मया वक्तुं चरित्रं द्वारकारिणाम् ।
नानावर्णाश्रमे संस्थाश्चतुर्वर्गयुता बभुः ॥ ६७॥
नारीनरः पशुस्थश्च जीवस्तत्र समागतः ।
द्वारयात्रां तु कुर्यात् स चतुर्विधं फलं लभेत् ॥ ६८॥
इति द्वारस्य यात्रायाश्चरितं संशृणोति चेत् ।
पठति तस्य सर्वं तु सफलं कर्म सम्भवेत् ॥ ६९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते द्वारयात्रावर्णनं नाम चतुर्दशोऽध्यायः ॥ ६.१४
(Page खं. ६ अ. १५ पान ३४)
६.१५ देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
देवालयस्य द्वाराणि चत्वारि कथितानि च ।
तेषां चरित्रकं देवाः कथयामि सुसेविनाम् ॥ १॥
बभूव शूद्रजातिस्थो गुर्जरे मानवः खलः ।
नाम्ना शम्भुरिति ख्यातो द्रव्ययुक्तः सुहृत्प्रियः ॥ २॥
स सायाह्ने जगामैव किञ्चित् कार्यार्थमादरात् ।
ग्रामाद्बहिश्च तत्राऽपि प्रेतैः संवेष्टितोऽभवत् ॥ ३॥
दृष्ट्वा प्रेतान् महोग्रान् स भयभीतो बभूव ह ।
ततस्तं विविशुः सर्वे प्रेताः परमदारुणाः ॥ ४॥
तत्रैव पतितः शूद्रस्तदर्थं सुहृदस्ततः ।
समाययुस्तं सङ्गृह्य स्वगृहं प्रययुः खलम् ॥ ५॥
ततः पिशाचतुल्यः स विचचार महीतलम् ।
तदर्थं सुहृदः सर्वेऽभवन् यत्नपरायणाः ॥ ६॥
तथाऽपि तं महाप्रेता मुमुचुर्न कदाचन ।
तत्तत् क्षेत्राणि तीर्थानि बभ्रमुस्तेन संयुताः ॥ ७॥
तदपि प्रेतराजास्तं मुमुचुर्न प्रतापतः ।
सुहृदस्तेन संयुक्ता महत् क्षेत्रं समाययुः ॥ ८॥
मयूरेशं समभ्यर्च्य शम्भुं गृह्य सुहृज्जनाः ।
जग्मुस्ते भैरवं देवं नग्नरूपधरं परम् ॥ ९॥
दर्शनेन महेशाना भैरवस्य महात्मनः ।
प्रेतास्त्यक्त्वा ययुः सर्वे शम्भुं भीता न संशयः ॥ १०॥
स्वस्थप्रकृतिगं दृष्ट्वा विस्मिताः सुहृदोऽखिलाः ।
पुनर्विघ्नेशमापूज्य ययुः स्वनगरं ततः ॥ ११॥
नग्नभैरवदेवस्य दर्शनेन महेश्वराः ।
पिशाचप्रेतदोषेभ्यो मुक्तः सञ्जायते नरः ॥ १२॥
ग्रहभूतादिजा नाना पीडादोषा भवन्ति न ।
कदाचिदपि देवेशा नग्नभैरवदर्शनात् ॥ १३॥
नाना जना महाक्षेत्रे तं प्रणम्य विधानतः ।
यात्रामात्रेण दोषैश्च बभूवुर्वर्जिताः पुरा ॥ १४॥
न वक्तुं शक्यते तत्र मया वर्षशतैरपि ।
सङ्क्षेपेण ततो देवाः कथितं तस्य चेष्टितम् ॥ १५॥
अथ दक्षिणद्वारस्य चरित्रं कथयामि वः ।
तत्र देवेश्वरः साक्षान्नीलकण्ठः स्थितोऽभवत् ॥ १६॥
गणेशानं समाराध्य पपौ विषं समुद्रजम् ।
महोग्रं शङ्करो देवः सर्वभस्मकरं परम् ॥ १७॥
यस्य स्पर्शेन विष्णुश्च श्यामरूपो बभूव ह ।
विषयुक्तः पपाताऽसौ गर्वयुक्तप्रभावतः ॥ १८॥
गणेशस्मरणं कृत्वा विषहीनो बभूव ह ।
महाविष्णुः शिवेनैवोपदिष्टः परवीरहा ॥ १९॥
गणेशकृपया तत्तु विषं पीतं महात्मना ।
शङ्करेण ततो दाहसंयुक्तः स बभूव ह ॥ २०॥
मयूरेशेति संस्मृत्य दाहहीनो बभूव ह ।
सकृच्छीतलदेहः स मयूरेशं समाययौ ॥ २१॥
तत्रैव संस्थितः सोऽपि नीलकण्ठो महेश्वरः ।
सेवार्थं गणराजस्य धाराधीशो बभूव ह ॥ २२॥
तं प्रणम्य जनाः सर्वे विषहीना भवन्ति ते ।
इतिहासं वदाम्यत्र शृणुध्वं परमेश्वराः ॥ २३॥
दण्डकारण्यदेशस्थः कश्चित्तु क्षत्रियोऽभवत् ।
सुलोचन इति ख्यातो नानाशास्त्रविशारदः ॥ २४॥
तेन भूपेन राजानो जिताः शस्त्रबलेन वै ।
निस्तेजसः पुनस्तं ते शरणं जग्मुरादृताः ॥ २५॥
तमुग्रदण्डकर्तारं ज्ञात्वा सर्वे नृपास्ततः ।
विषबाधां ददुस्तस्मै किञ्चिच्छद्मबलेन वै ॥ २६॥
स्वयं व्याकुलचित्तः सन् ज्ञात्वा विषभवां व्यथाम् ।
(Page खं. ६ अ. १५ पान ३५)
स जगाम मयूरेशं प्रधानैस्तत्क्षणान्नृपः ॥ २७॥
उद्देशेन गणेशस्य महद्विषं महेश्वराः ।
स्तम्भितं स ततो राजा क्षेत्रे समागतोऽभवत् ॥ २८॥
तावद्विषेण भूपालः पीडितोऽतितरां किल ।
देहचेष्टाविहीनः स बभूवे देवसन्निधौ ॥ २९॥
प्रधानास्तं प्रगृह्यैव यात्रां चक्रुर्यथाविधि ।
देवालयस्य द्वारस्थां दक्षिणे नीलकण्ठजाम् ॥ ३०॥
नीलकण्ठं प्रपूज्यैव तस्य तीर्थं स्वमस्तके ।
राजा वन्द्य महेशानं विषहीनो बभूव ह ॥ ३१॥
ततो विघ्नेश्वरं राजा पूज्य स्वस्थानगोऽभवत् ।
सुलोचनः शशासैव धरां सन्दण्ड्य दुर्जनान् ॥ ३२॥
एवं यात्राविधानेन विषहीनो नराधिपः ।
नीलकण्ठसमायुक्तं गणेशमभजत् परम् ॥ ३३॥
अन्ते कैलासगो राजा बुभुजे विविधं सुखम् ।
पुनश्च ब्राह्मणो जातः क्षेत्रे मायूरसंज्ञिते ॥ ३४॥
तत्रैव गणराजं स सदा भक्तिपरायणः ।
अभजद्धर्मशीलश्च नाम्ना ख्यातो महेश्वराः ॥ ३५॥
एवमन्ते जगामाऽसौ स्वानन्दे गणपं परम् ।
ब्राह्मणो ब्रह्मभूतो वै बभूव परमद्युतिः ॥ ३६॥
एवं नाना जनास्तत्र नीलकण्ठं प्रदृश्य वै ।
सिद्धिं प्राप्ता महेशाना मया वक्तुं न शक्यते ॥ ३७॥
अधुना पश्चिमद्वारसंस्थं माहात्म्यमुत्तमम् ।
कथयामि महेशाना देवागारस्य सिद्धिदम् ॥ ३८॥
महिषासुरपुत्रश्च बभूव ह गजासुरः ।
तेन त्रैलोक्यगं सर्वं पीडितं सचराचरम् ॥ ३९॥
अजेयः सर्वभूतानां महाबलयुतो सुरः ।
कर्मखण्डनभावेनापीडयत् सकलामरान् ॥ ४०॥
ततश्च शोकसंयुक्तो शङ्करश्च मयूरगः ।
पूजयामास विघ्नेशं ततो दैत्यं जघान ह ॥ ४१॥
ततः क्षेत्रं समाश्रित्य संस्थितः पार्वतीपतिः ।
गणेशेन कृतः सोऽपि द्वाराधीशो महेश्वरः ॥ ४२॥
कृत्तिवासाः स्वयं शम्भुर्देवागारस्य मानदः ।
पश्चिमद्वारसंस्थोऽभूद्भजतां भावपूरकः ॥ ४३॥
अत्रेतिहासं मुख्यं यत् सङ्क्षेपेण वदाम्यहम् ।
शृणुध्वं सर्वपापघ्नं गणेशे भक्तिदायकम् ॥ ४४॥
आन्ध्रदेशे द्विजः कश्चित् पापकर्मपरायणः ।
आसुरं धर्ममाश्रित्य दुर्विनीतो बभूव ह ॥ ४५॥
तदर्थं सुहृदः सर्वे नाना यत्नपरायणाः ।
हृदिस्थं राक्षसं वारयितुं शेकुर्न ते कदा ॥ ४६॥
तदाऽतिशोकसंयुक्ता ययुः कञ्चित्तपस्विनम् ।
तेनैव कथितः सर्ववृत्तान्तो द्विजसम्भवः ॥ ४७॥
तपस्वी उवाच ।
मलं त्यक्त्वा द्विजश्चायमकरोन्न कदा पुरा ।
शौचभ्रमयुतस्तत्र राक्षसः पिङ्गलो ययौ ॥ ४८॥
अपवित्रं द्विजं दृष्ट्वा ससार हृदि राक्षसः ।
करोति कर्म तेनाऽयमासुरं नित्यमादरात् ॥ ४९॥
अतः क्षेत्रे मयूरे वै कृत्तिवासोऽधरङ्गतः ।
द्वारयात्राविधानेन पूजयध्वमनेन तु ॥ ५०॥
तेनायं राक्षसो मुक्तो भविष्यति न संशयः ।
नान्यथाऽयुतवर्षैश्च समीचीनः कदाचन ॥ ५१॥
ततस्ते हर्षिताः सर्वे तं गृह्य क्षेत्रमाययुः ।
देवागारस्य यात्रां ते चक्रुः पश्चिमद्वारगाम् ॥ ५२॥
कृत्तिवाससमभ्यर्च्य द्विजः सद्यश्च देवपाः ।
(Page खं. ६ अ. १५ पान ३६)
रक्षोहीनो बभूवाऽपि स्वधर्मसहितोऽभवत् ॥ ५३॥
ततः स्वगृहमागत्य गणेशमभजद् द्विजः ।
कृत्तिवासः समायुक्तमन्ते कैलासगोऽभवत् ॥ ५४॥
पुनः स ब्राह्मणो भूत्वा मयूरेशं समाश्रितः ।
क्षेत्रसंन्यासभावेनाऽभजत्तं नित्यमादरात् ॥ ५५॥
अन्ते गणपतौ सोऽपि ब्रह्मभूतो बभूव ह ।
एवं पश्चिमद्वारस्य माहात्म्यं कथितं मया ॥ ५६॥
नाना जना महेशानाः पश्चिमद्वारकारिणः ।
रक्षोभावविहीनाश्च बभूवुर्नाऽत्र संशयः ॥ ५७॥
अतः परं प्रवक्ष्यामि देवागारस्य देवपाः ।
उत्तरद्वारसंयुक्तं चरित्रं सर्वकामदम् ॥ ५८॥
राक्षस्यां कुम्भकर्णात्तु बभूवे राक्षसाधिपः ।
भीमः सर्वत्र शैवस्य मार्गध्वंसनकारकः ॥ ५९॥
तेन शैवा धृताः केचित् पुरा केचिच्च् संहताः ।
ततः कदा द्विजः कोऽपि महापाशुपतो धृतः ॥ ६०॥
स उपोषणसंयुक्तः शिवं ध्यात्वा समास्थितः ।
कारागारे राक्षसस्य वधार्थं ह्युद्यतोऽभवत् ॥ ६१॥
हृदिस्थं शङ्करं सोऽपि तं पुपूज विशेषतः ॥ ६२॥
शङ्करः क्षुभितोऽत्यन्तं भीमं हन्तुं समाययौ ।
युद्धं कृत्वा स भीमेन ताडितस्तु पपाल ह ॥ ६३॥
समागत्य मयूरेशं प्रार्थयामास शङ्करः ।
तं पूज्य प्रययौ तत्र जघान भीममुल्बणम् ॥ ६४॥
स एव भीमनाथस्तु स्थापितोऽभूद् द्विजैः पुरा ।
शैवास्तं हर्षसंयुक्ताः पुपूजुर्भक्तिभावतः ॥ ६५॥
ततः स भीमनाथस्तु मयूरे भक्तिकारणात् ।
समागतो मयूरेशं पूजयामास नित्यदा ॥ ६६॥
द्वाराधीशं चकारैव गणेशस्तं महेश्वराः ।
देवागारस्य देवेशमुत्तरे भीमशङ्करम् ॥ ६७॥
पूजयित्वाऽमरेशानं सत्तायुक्तो नरोऽभवत् ।
अत्रेतिहासमाद्यं यत् कथयामि समासतः ॥ ६८॥
दण्डकारण्यदेशस्थो राजा परमधार्मिकः ।
उग्रसेन इति ख्यातः सर्वविद्याविशारदः ॥ ६९॥
बलहीनो महीपालो बभूवे वायुदूषितः ।
जडवच्चेष्टया हीनः संस्थितो दुःखसंयुतः ॥ ७०॥
नानोपायांश्चकाराऽसौ शान्तये वैद्यनायकैः ।
तथाऽपि रोगनिर्मुक्तो न बभूव नराधिपः ॥ ७१॥
ततोऽकस्मान् महादैत्यः सुखभोक्ता समागतः ।
बलात् सर्वं नरेन्द्रस्य राज्यं जग्राह तत्क्षणात् ॥ ७२॥
ततोऽतिभयसंयुक्ताः प्रधानास्तं प्रगृह्य वै ।
मयूरेशं समायाताः पप्रच्छुर्जयदायकम् ॥ ७३॥
गाणेशैः क्षेत्रसंस्थैश्च कथितं द्वारसम्भवम् ।
माहात्म्यं तच्च ते श्रुत्वा हर्षयुक्ता बभूविरे ॥ ७४॥
नृपं गृह्य प्रधानास्ते देवागारस्य चोत्तरे ।
द्वारयात्रां विधानेन चक्रुः परमभक्तितः ॥ ७५॥
ततो रोगविहीनस्तु राजा सत्तायुतोऽभवत् ।
गणेशं पूज्य सैन्येन युतः स्वनगरं ययौ ॥ ७६॥
देवं गणेशं स्मृत्वा युतं भीमेशेन भूमिपः ।
युयुधे तेन दैत्येन शस्त्रास्त्रैर्विविधैर्बलात् ॥ ७७॥
ततो दैत्यः समाक्रुद्धो मल्लयुद्धाय तं ययौ ।
राजा तं योधयामास स्मृत्वा विघ्नेश्वरं हृदि ॥ ७८॥
दैवी सत्ता समायाता राज्ञो देहे तयामरः ।
क्षीणशक्तिः पपालैव सुखभोक्ता महाबलः ॥ ७९॥
(Page खं. ६ अ. १५ पान ३७)
चकार नगरं गत्वा स ततो राज्यमुत्तमम् ।
भीमेशसंयुतं नित्यमभजद्गणनायकम् ॥ ८०॥
अन्ते कैलासगो भूत्वा बुभुजे भोगमुत्तमम् ।
पुनर्मयूरक्षेत्रे च ब्राह्मणः स बभूव ह ॥ ८१॥
गाणेशानेन मार्गेणाभजत्तं गणनायकम् ।
अन्ते स्वानन्दगः सोऽपि तल्लीनः प्रबभूव ह ॥ ८२॥
एवं नानाविधा देवाः सिद्धिं प्राप्ता विशेषतः ।
देवागारस्थभीमेशयात्रया नात्र संशयः ॥ ८३॥
अधुना पूर्णयात्राया देवालयस्य देवपाः ।
माहात्म्यं कथयामीह सङ्क्षेपेण पुरा भवम् ॥ ८४॥
द्राविडे शूद्रजातिस्थो बभूव विषयप्रियः ।
नाम्ना कदा स्वकार्यार्थं मार्गसंस्थो बभूव ह ॥ ८५॥
तत्राशुचिस्वभावस्थं राक्षसः प्रविवेश तम् ।
तेनासुरस्वभावस्थः शूद्रो बभूव सर्वदा ॥ ८६॥
ततः पिशाचकैः सोऽपि धृतो हृदि विशेषतः ।
प्रविश्य चेष्टया हीनः कृतः पैशाचकोऽभवत् ॥ ८७॥
ततो वीर्यविहीनं तं नानारोगैः प्रपीडितम् ।
एतादृशं गृहीत्वा तु सुहृदो दुःखमाययुः ॥ ८८॥
विदुषा ब्राह्मणेनाऽपि सुहृदश्चोपदेशिताः ।
मयूरेशं समागम्य यात्रां चक्रुर्यथाविधि ॥ ८९॥
देवागारस्य सम्पूर्णां चतुर्द्वारसमन्विताम् ।
तत्र सर्पेण दष्टाश्च यात्रां चक्रुस्तथाऽपि ते ॥ ९०॥
नग्नभैरवदेवस्य पूजनेन पिशाचकाः ।
तं त्यक्त्वा प्रययुः सर्वे भयभीताः सुरेश्वराः ॥ ९१॥
नीलकण्ठं समालोक्य विषबाधा पपाल ह ।
कृत्तिवासः समालोक्य राक्षसः प्रययौ ततः ॥ ९२॥
भीमेशं पूजयित्वा तु वीर्ययुक्तो बभूव ह ।
ततो विघ्नेशमापूज्य स्वगृहं स जगाम ह ॥ ९३॥
विस्मितो मानसेऽत्यन्तं सस्मार गणनायकम् ।
चतुर्द्वारयुतं तं सोऽभजद्भावसमन्वितः ॥ ९४॥
अन्ते शैवे समागम्य लोके भोगान् मनोगतान् ।
बुभुजे स पुनः क्षेत्रे मयूरे क्षत्रियोऽभवत् ॥ ९५॥
क्षेत्रसंन्याससंयुक्तोऽभजत्तं गणनायकम् ।
स्वानन्दे ब्रह्मभूतः स बभूवान्ते सुरेश्वराः ॥ ९६॥
एवं नानाविधा लोका ययुः सिद्धिं महेश्वराः ।
देवागारस्य तत्रैव ब्रूयां कति तु यात्रया ॥ ९७॥
देवालयस्य यात्राया माहात्म्यं यः शृणोति चेत् ।
पठेद्वा तस्य विघ्नेशः प्रसन्नो भवति प्रभुः ॥ ९८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते देवागारद्वारयात्रामाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ६.१५
(Page खं. ६ अ. १६ पान ३८)
६.१६ गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
गर्भालयस्य यात्राया माहात्म्यं कथयाम्यहम् ।
शृणुध्वं भाग्यसंयुक्ता देवेशास्तत् समासतः ॥ १॥
मूर्खः कोऽपि पुरा विप्रो वङ्गदेशे बभूव ह ।
विष्णुदत्त इति ख्यातः पशुतुल्यः स्वभावतः ॥ २॥
तं दृष्ट्वा पितरौ तस्य काश्यपौ दुःखसंयुतौ ।
कश्यपं जग्मतुस्तेन श्रुतो वृत्तान्त उल्बणः ॥ ३॥
गर्भागारस्य माहात्म्यं कथयामास कश्यपः ।
पूर्वद्वारभवं तौ तं प्रणम्य ययतुर्गृहम् ॥ ४॥
पुत्रं गृह्य मयूरेशं जग्मतुर्भक्तिसंयुतौ ।
यात्रां पुत्रेण संयुक्तौ चक्रतुः परमादरात् ॥ ५॥
गर्भालयस्य पूर्वस्थद्वारगां बुद्धिमालभत् ।
सम्पूज्य स महाविद्यां ज्ञानयुक्तो बभूव ह ॥ ६॥
ततो हर्षसमायुक्तौ पितरौ तं प्रगृह्य च ।
स्वाश्रमं जग्मतुर्देवा विस्मितौ पुत्रचेष्टया ॥ ७॥
ततो बुद्धियुतं देवं गणेशमभजन् परम् ।
अन्ते कैलाससंस्थं तं गणपं जग्मुरादरात् ॥ ८॥
तत्रैव विविधान् भोगान् पुनर्भुक्त्वा महेश्वराः ।
मयूरे ब्राह्मणाः क्षेत्रे बभूवुः शीलसंयुताः ॥ ९॥
तत्र विघ्नेश्वरं नित्यमभजन् भक्तिभावतः ।
अन्ते स्वानन्दगा भूत्वा ब्रह्मभूता बभूविरे ॥ १०॥
एवं नाना जना देवाः सिद्धिं प्राप्ता मयूरके ।
गर्भागारस्य पूर्वद्वारस्थयात्राविधानतः ॥ ११॥
तत्र वक्तुं महादेवाः शक्यते न कदाचन ।
अतः सङ्क्षेपतः प्रोक्तं पूर्वद्वारयशोऽमलम् ॥ १२॥
अधुना दक्षिणद्वारयात्रामाहात्म्यमुत्तमम् ।
गर्भागारस्य वक्ष्यामि शृणुध्वं चैकचेतसः ॥ १३॥
काश्मीरे शूद्रजात्यां कः पापकर्मा बभूव च ।
देवालयं समालोक्याभजद्देवान् सुदारुणः ॥ १४॥
कदा वैश्यं समालोक्य द्रव्ययुक्तं प्रलोभतः ।
तमनुप्रययौ दुष्टः प्रहन्तुं खड्गधारकः ॥ १५॥
वैश्योऽपि यत्नमास्थाय सार्थयुक्तो बभूव ह ।
तथापि पापकर्मा तं न मुमोच कदाचन ॥ १६॥
वैश्यः समागतः सार्थैर्जनैः क्षेत्रे मयूरके ।
शूद्रस्तत्र समायातो जिघांसुर्भाग्यगौरवात् ॥ १७॥
तत्र यात्रां चकाराऽसौ वैश्यो भावसमन्वितः ।
शूद्रः स्वयं स्थितश्चैव यात्राहीनः खलात्मवान् ॥ १८॥
द्वितीये दिवसे सर्वे दक्षिणद्वारगां पराम् ।
यात्रां चक्रुस्ततः शूद्रस्तेषामनुययौ खलः ॥ १९॥
गर्भागारस्थितान् पूज्य दक्षिणद्वारपान् जनाः ।
प्रमोदाद्यास्ततः सर्वे पुरो जग्मुर्महेश्वराः ॥ २०॥
शूद्रस्तत्र समासीनः पुनः स्वस्थानमाययौ ।
गणेशं पूज्य पापात्मा पुण्यवान् स बभूव ह ॥ २१॥
विचारमकरोच्चित्ते मया पापानि नित्यशः ।
अहो कृतानि तान्येव पीडयिष्यन्ति मां किल ॥ २२॥
अहो देवालये देवा मया सङ्खण्डिता मुधा ।
जनाः सम्पूजयन्तस्तान् किं कृतं पापरूपिणा ॥ २३॥
एवं विचार्य स्वस्थाने त्यक्त्वा वैश्यं जगाम ह ।
काश्मीरममरान् सर्वानभजद्भक्तिसंयुतः ॥ २४॥
अन्ते जगाम कैलासे गणेशं भक्तिसंयुतः ।
अभजत् स पुनर्देवान् मयूरे वैश्यजोऽभवत् ॥ २५॥
(Page खं. ६ अ. १६ पान ३९)
गणेश्वरं तत्र देवं क्षेत्रसंन्यासमार्गतः ।
अभजच्चान्तकाले स तद्देहे लीनतां ययौ ॥ २६॥
नानाविधा जना एवं ययुः सिद्धिं सुरेश्वराः ।
तत्र वक्तुं न शक्यं तु मया भवति नित्यशः ॥ २७॥
अतः परं प्रवक्ष्यामि पश्चिमद्वारसंश्रितम् ।
माहात्म्यं यत् पुरा जातं गर्भागारस्य सौख्यदम् ॥ २८॥
विदर्भे क्षत्रियः कश्चिद्राज्यहीनो बभूव ह ।
सुदासः सर्वशास्त्रज्ञः क्षत्रियो पीडितो भृशम् ॥ २९॥
वनं गत्वा स राजर्षिः शोकयुक्तो बभूव ह ।
तत्राऽऽजगाम देवर्षिर्नारदः परमार्थवित् ॥ ३०॥
राज्ञा सम्पूजितो योगी हर्षयंश्च जगाद तम् ।
गच्छ क्षेत्रे मयूरे त्वं ततः सिद्धिमवाप्स्यसि ॥ ३१॥
गर्भागारस्य राजेन्द्र पश्चिमद्वारसंश्रिताम् ।
सिन्द्धिं पूज्य महाराजो भविष्यसि यथा पुरा ॥ ३२॥
एवमुक्त्वा नारदश्च विघ्नेशं संस्मरन् ययौ ।
राजा तथा चकाराऽसौ भक्तियुक्तेन चेतसा ॥ ३३॥
गर्भागारस्य यात्रां स चकार विधिसंयुतः ।
पश्चिमद्वारगामेकां ततस्तत्रैव संस्थितः ॥ ३४॥
कौडिन्यनगरे राजा सुबाहुः पीडितोऽभवत् ।
शूलेन दारुणेनैव मृत्युरूपेण देवपाः ॥ ३५॥
रात्रौ स्वप्ने महाभीमं पुरुषं स ददर्श ह ।
तेन सन्ताडितोऽत्यन्तं मुमूर्छ भयसंयुतः ॥ ३६॥
पुनः संज्ञायुतं भूपमुवाच पुरुषः परः ।
राज्यं देहि सुदासाय विदर्भदेशसम्भवम् ॥ ३७॥
मरिष्यसि न चेद्राजन् सकुलो नात्र संशयः ।
मयूरेशं समाश्रित्य स्थितं गच्छाधुना खल ॥ ३८॥
ततः पुरुषरूपं तं न ददर्श महीपतिः ।
शूलहीनो बभूवाऽसौ तं जगाम सुदासकम् ॥ ३९॥
विदर्भदेशगं राज्यं तं प्रणम्य ददौ परम् ।
स्वराज्यं स जगामैव वैरमुत्सृज्य देवपाः ॥ ४०॥
राजा सिद्धियुतं नित्यमभजद्गणनायकम् ।
अन्ते कैलासगः सोऽपि बभूवे कामनायुतः ॥ ४१॥
पुनः स ब्राह्मणो जातो मयूरे वर्मसंयुतः ।
गणेश्वरं तत्र नित्यमभजद्भक्तिसंयुतः ॥ ४२॥
अन्ते जगाम स्वानन्दे गणेशं गणपप्रियः ।
ब्रह्मभूतोऽभवत्तत्र क्षेत्रवासप्रभावतः ॥ ४३॥
एवं नाना जनाः सिद्धिं पश्चिमद्वारतो ययुः ।
यात्रामात्रेण गर्भागारस्य कति वदाम्यहम् ॥ ४४॥
अथोत्तरस्थितं द्वारं गर्भागारस्य मानदाः ।
चरित्रं तस्य वक्ष्यामि श्रवणात् सर्वसौख्यदम् ॥ ४५॥
पाञ्चालदेशगः कश्चिद्वैश्यो विषयलम्पटः ।
न बुबोध गतं कालं द्रव्ययुक्तः स्वभावतः ॥ ४६॥
स्त्रीमांसमदिरासक्तो बभूवे नित्यमादरात् ।
एकदा तत्र देशे तु परचक्राद्भयं परम् ॥ ४७॥
त्यक्त्वा स्वदेशं वैश्यश्च पपाल सकुटुम्बकः ।
आययौ दण्डकारण्यं निवासार्थं भयातुरः ॥ ४८॥
तत्र मार्गस्थभावेन क्षेत्रं प्राप्तं मयूरकम् ।
तद्दिने पश्चिमद्वारयात्रां चक्रुर्जनाः पराम् ॥ ४९॥
द्वितीयेऽह्नि स वैश्यस्तु लज्जया संयुतोऽभवत् ।
उत्तरद्वारयात्रार्थमुद्यतोऽभूज्जनैः स्वयम् ॥ ५०॥
गणेशं पूजयित्वा स गर्भागारं जगाम ह ।
पुपूज तत्र वैश्योऽपि चतुःषष्टिश्च योगिनीः ॥ ५१॥
(Page खं. ६ अ. १६ पान ४०)
ततः श्रमेण संयुक्तः पुनर्गणपतिं ययौ ।
पूजयित्वा जगामाऽसौ यथेष्टं विषयप्रियः ॥ ५२॥
ततो बुद्धिश्च वैश्यस्य विपरीता बभूव ह ।
तया युक्तो महेशाना विचारमकरोद् हृदि ॥ ५३॥
मया विषययुक्तेन कृतं कर्म भयावहम् ।
का गतिर्मरणे मे तु भविष्यति सुदारुणा ॥ ५४॥
अहो क्षेत्रस्य माहात्म्यं मया वक्तुं न शक्यते ।
विपरीता मतिर्जाता ममापि दुष्टचेतसः ॥ ५५॥
योगिनीनां दर्शनेन शुद्धचित्तो भवेन्नरः ।
योगप्रियस्तथाऽहं वै जातः सत्यं च शास्त्रगम् ॥ ५६॥
योगिनीसंयुतं ढुण्ढिं वैश्यः स्वधर्ममास्थितः ।
अभजन्नित्यमानन्दान्निन्दयन् विषयान् सदा ॥ ५७॥
अन्ते जगाम कैलासे गणेशे कामनायुतः ।
तत्र भुक्त्वा महाभोगान् पुनः पपात भूतलम् ॥ ५८॥
मयूरक्षेत्रगो भूत्वा क्षत्रियो धर्मसंयुतः ।
क्षेत्रसंन्यासभावेन विघ्नेशमभजत् सदा ॥ ५९॥
अन्ते विघ्नेश्वरः सोऽपि ब्रह्मभूतो बभूव ह ।
पूर्वसंस्कारभावेन योगसिद्धो महेश्वराः ॥ ६०॥
एवं नाना जनास्तत्र ययुः सिद्धिमनुत्तमाम् ।
तत्रैवं कति वो ब्रूयां सङ्ख्यातुं न प्रशक्यते ॥ ६१॥
अतः परं प्रवक्ष्यामि सम्पूर्णां तु महेश्वराः ।
गर्भागाराश्रितां यात्रां परां माहात्म्यसंयुताम् ॥ ६२॥
आत्रेयो ब्राह्मणः कश्चित् पुरा मूर्खो बभूव ह ।
पितरौ सम्मृतौ तस्याऽनाथो बभ्राम भूतले ॥ ६३॥
विषयेषु विशेषेण प्रीतियुक्तस्तथाऽमराः ।
भ्रमन् समागतः सोऽपि मयूरे दैवगौरवात् ॥ ६४॥
तत्र कश्चिद् द्विजः सुज्ञः सेवार्थं क्षेत्रगोऽभवत् ।
तं गृह्य ब्राह्मणो गर्भागारयात्रां चकार ह ॥ ६६॥
संसर्गेण द्विजस्याऽसौ यात्रां चकार दुष्टधीः ।
स्वयं विद्यानिधिर्जातो यथाऽन्ये ब्राह्मणास्तथा ॥ ६६॥
पूर्वद्वारं समालोक्य दक्षिणस्थं जगाम ह ।
तत्र मार्गे पपाताऽसौ तथापि द्वारगोऽभवत् ॥ ६५॥
प्रमोदादीन् समालोक्य विषये निःस्पृहोऽभवत् ।
पश्चिमे सिद्धिमालोक्य भाग्ययुक्तो महेश्वरः ॥ ६८॥
योगिनीस्तत आलोक्य पुण्यशीलो बभूव ह ।
एवं यात्रां सकृत् कृत्वा पुनः स्वगृहगोऽभवत् ॥ ६९॥
ततो द्विजं प्रणम्याऽसौ स्वदेशं तु जगाम ह ।
तं तादृशं विलोक्यैव विस्मिताः सुहृदोऽभवन् ॥ ७०॥
विवाहं कारयामासुः सुहृदस्तस्य धीमतः ।
स गणेशं विचिन्त्यैवाऽभजद्गर्भाश्रितं तदा ॥ ७१॥
अन्ते कैलासगो भूत्वा गणेशं तत्र चाभजत् ।
भुक्त्वा भोगान् पपाताऽसौ मयूरे ब्राह्मणोऽभवत् ॥ ७२॥
गणेश्वरं तत्र देवा अभजन् नान्यचेतसा ।
अन्ते स्वानन्दगः सोऽपि ब्रह्मभूतो बभूव ह ॥ ७३॥
मयूरे गर्भयात्रायां निरताः सकृदप्यहो ।
ययुस्ते सिद्धिमाद्यं कथयितुं न प्रशक्यते ॥ ७४॥
गर्भागारस्य माहात्म्यं शृणोति द्वारजं त्विदम् ।
पठेद्वा तस्य विघ्नेशो ददते चेप्सितं फलम् ॥ ७५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते गर्भागारयात्रामाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ६.१६
(Page खं. ६ अ. १७ पान ४१)
६.१७ मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शिवाद्या ऊचुः ।
एतादृशा महाभागाः कथं कैलासमाययुः ।
अञ्जसा सेव्य योगीन्द्र गणेशं वद कारणम् ॥ १॥
भृशुण्ड्युवाच ।
सकामा गणराजस्य भक्ता ये देवसत्तमाः ।
अन्तरे विषयेष्वेते संसक्ताः सम्भवन्ति च ॥ २॥
न तेषां गणराजस्य स्वानन्दे गतिरुच्यते ।
निष्कामानां पदं तद्वै भक्तानां जन्मनाशनम् ॥ ३॥
अतः कैलासगाः सर्वे गणेशं पूज्य योगिनः ।
बभूवुस्तत्र विघ्नेशमभजन्नान्यचेतसः ॥ ४॥
तदा कैलासनाथे ते स्वानन्दं देवसत्तमाः ।
गमिष्यन्ति न सन्देहः पुनरावृत्तिवर्जितम् ॥ ५॥
भुक्तिमुक्तिप्रिया ये वै कैलासात् सम्पतन्ति चेत् ।
ते पुनर्विघ्नराजं तं भजन्ते नान्यचेतसः ॥ ६॥
कैलासे गणपं गत्वा भोगयुक्ता भवन्ति ये ।
ते पुनर्मृत्युलोकेषु पतन्त्यत्र न संशयः ॥ ७॥
ब्रह्मभूता भवन्त्यन्ते स्वानन्दस्था महेश्वराः ।
गणेशेनैव रचितं क्रीडार्थं तत्तथाऽभवत् ॥ ८॥
अधुना क्षेत्रबाह्या वै देवभूमिः प्रकीर्तिता ।
तस्या माहात्म्यमुख्यं यत् कथयामि समासतः ॥ ९॥
दण्डकारण्यदेशस्थः शूद्रः कश्चिद्बभूव ह ।
दारिद्र्यदोषसंयुक्तो बभ्राम वसुधातले ॥ १०॥
क्षुधया पीडितोऽत्यन्तं ज्वरयुक्तो बभूव ह ।
स पूर्वद्वारबाह्यायां देवभूम्यां ममार ह ॥ ११॥
सङ्गृह्य वैष्णवा देवा विमानेन गणा नरम् ।
विकुण्ठे स्थापयामासुः शूद्रं क्षेत्रप्रभावतः ॥ १२॥
पूर्वद्वारात् समारभ्य योजनं वैष्णवं मतम् ।
तत्र सिद्धिं ययुः केचिद्वक्तुं शक्यं न वै भवेत् ॥ १३॥
अन्यच्च देवदेवशाः शृणुध्वं दक्षिणे भवम् ।
चरित्रं शिवभावाख्यं द्वारात् सङ्क्षेपतः परम् ॥ १४॥
ब्राह्मणस्तत्र सम्भूतो जगाम वृत्तिकारणात् ।
तस्मात् समागतः सोऽपि श्रमयुक्तोऽभवत् परम् ॥ १५॥
ममाराह्नि द्वितीये स सद्यः कैलासगोऽभवत् ।
माहात्म्याद्देवभूम्यास्तु शैव्याः क्षेत्रान् महेश्वराः ॥ १६॥
अथ पश्चिमभागात्तु द्वाराच्छाक्तं मतं परम् ।
क्षेत्रं योजनमात्रं तु तस्य वक्ष्यामि चेष्टितम् ॥ १७॥
चाण्डालः कोऽपि देवेशा विदर्भादागतोऽभवत् ।
कार्यार्थं ज्वरयुक्तश्च बभूवाऽतीव पीडितः ॥ १८॥
ममार पञ्चमे देवा दिवसे दैवगौरवात् ।
शक्तिलोकं जगामाऽसौ माहात्म्याच्छाक्तसम्भवात् ॥ १९॥
अथोत्तरभवं चित्रं चरित्रं शृणुत प्रियाः ।
सौरलोकप्रदं पूर्णं क्षेत्रादुत्तरभागतः ॥ २०॥
भिल्लः कश्चिन् महाभागाः कदा कार्यार्थमाययौ ।
दष्टः सर्पेण तत्रैव ममार भाग्यगौरवात् ॥ २१॥
सौरं लोकं समाश्रित्य मुमुदे सोऽपि देवपाः ।
मयूरक्षेत्रद्वारात्तूत्तरे सौरप्रभावतः ॥ २२॥
अनेकनार्य एवं च नरा वर्णाश्रमस्थिताः ।
भ्रष्टाश्चाऽपि महेशाना ययुः सिद्धिं विशेषतः ॥ २३॥
तेषां चरित्रकं कैस्तु वक्तुमत्र न शक्यते ।
सङ्क्षेपेण मया किञ्चित् कथितं पूर्वसम्भवम् ॥ २४॥
फलं मयूरक्षेत्रेऽपि मरणेनाऽधुना लभेत् ।
तस्य माहात्म्यमुख्यं यत् कथयामि समासतः ॥ २५॥
(Page खं. ६ अ. १७ पान ४२)
चाण्डालः कोऽपि पापात्मा परस्त्रीलालसोऽभवत् ।
आन्ध्रे वनं समाश्रित्य जघ्ने लोकान् समागतान् ॥ २६॥
नानापापयुतो दुष्टो वर्णने न प्रशक्यते ।
ग्रन्थबाहुल्यभावाद्वै परदोषप्रकीर्तनात् ॥ २७॥
दुष्टो जगाम मायूरे सुहृज्जनयुतः कदा ।
भगिनीगृहसंस्थे स भागिनेयविवाहगः ॥ २८॥
पापानि तस्य दुष्टस्य बहिः क्षेत्रात् स्थितानि च ।
पुनः प्रतीक्षयन्ते तं क्रोधयुक्तानि देवपाः ॥ २९॥
नरं मयूरे पापानि यत्र कुत्र कृतानि वै ।
तं मुक्त्वा बहिरेवाऽपि प्रवेशात् संस्थितानि तु ॥ ३०॥
पुनर्यदि समायातमनु तं पापकानि तु ।
गच्छन्ति शुद्धरूपस्थं यत्र सोऽपि गमिष्यति ॥ ३१॥
कदाचित्तेन किञ्चिद्वै यदि पापं कृतं भवेत् ।
ततः पुनः प्रविश्याऽपि भुञ्जते तानि तं नरम् ॥ ३२॥
अतो मयूरक्षेत्रं वै न त्याज्यं देहधारिणा ।
पापप्रवेशहीनत्वात् सदा सेव्यं महेश्वराः ॥ ३३॥
यदा नरः समुद्युक्तो भवति स्वगृहात् कदा ।
मयूरेशं गमिष्यामि यात्रार्थं नात्र संशयः ॥ ३४॥
तदा पापानि तस्यैव विचारं कुर्वते परम् ।
महाभयकरो विघ्नः प्राप्तश्चास्माकमुल्बणः ॥ ३५॥
मयूरे यदि देही तु गमिष्यति तदा वयम् ।
स्थास्यामः कुत्र पापानि चरितुं विघ्नमुत्तमम् ॥ ३६॥
ततः पापानि सर्वाणि तं नरं यत्नभावतः ।
पीडयामासुरत्यन्तं येन व्यग्रो नरो भवेत् ॥ ३७॥
द्रव्यहानिं तथा पुत्रं पुरं पशुगृहादिकम् ।
पापानि कुर्वते नाशसंयुक्तं देवसत्तमाः ॥ ३८॥
तेन सम्पीडितो धत्ते यात्रार्थं न मनोऽपि सः ।
अतः सर्वमनादृत्य मयूरेशं समाश्रयेत् ॥ ३९॥
कामं नानाविधान्येव पापानि कुरुतां सदा ।
अन्ते मयूरकं गच्छेत् किं करिष्यन्ति तानि तम् ॥ ४०॥
येन केन विचारेण मयूरे देवसत्तमाः ।
वासः सदा प्रकर्तव्यो ब्रह्मभूयस्य कारणात् ॥ ४१॥
अन्यत्र विविधैर्युक्तो भोगै राज्यादिभिस्तथा ।
मयूरे श्रेष्ठकस्तस्माद्दारिद्र्यादियुतो भवेत् ॥ ४२॥
मयूरक्षेत्रे मरणे स्वानन्दं लभते नरः ।
अन्यत्र भोगयुक्तश्चेज्जन्ममृत्युयुतो भवेत् ॥ ४३॥
विषयासक्तचित्तश्चेन् मयूरेशं तथापि हि ।
समाश्रयेद् दुराचारो यातनां लभते पराम् ॥ ४४॥
अधुना शृणुत प्राज्ञा अन्त्यजस्य तु चेष्टितम् ।
प्रकृतं कथयिष्यामि बहुना किं विचक्षणाः ॥ ४५॥
चाण्डालो भगिनीगेहे मयूरे संस्थितोऽभवत् ।
ममार तत्र सर्पेण स दष्टो देवसत्तमाः ॥ ४६॥
गाणपत्या विमानं तु समानीय तदर्थतः ।
सङ्गृह्य ब्रह्मभूतं तं चक्रुः क्षेत्रमृतेः फलात् ॥ ४७॥
मयूरे न चकाराऽसौ चाण्डालः पापमल्पकम् ।
तेन सद्यो बभूवैव ब्रह्मस्थो नीचयोनिजः ॥ ४८॥
मरणे ब्रह्मभूतश्च भवत्यत्र न संशयः ।
मयूरे तस्य किं देवाः कथयामि चरित्रकम् ॥ ४९॥
एवं नाना जनाद्याश्च पशुपक्ष्यादि सम्भवाः ।
मयूरे ब्रह्मभूताश्च बभूवुर्मरणात् पुरा ॥ ५०॥
अथो देवेशमुख्याश्च शृणुध्वं त्वेकचेतसः ।
(Page खं. ६ अ. १८ पान ४३)
चित्रं चरित्रकं वक्ष्ये मयूरे सम्भवं परम् ॥ ५१॥
वणिजो गर्दभं चैकं धृत्वा कार्यार्थमादरात् ।
भारेण संयुतं चक्रुरन्नाद्यैस्तं महेश्वराः ॥ ५२॥
ते तं गृह्य मयूरेशं समाजग्मुः स्वकारणात् ।
गर्दभस्तत्र भारेण पीडितस्तु ममार ह ॥ ५३॥
स ब्रह्मणि तदाकारो बभूवे देवसत्तमाः ।
पशुजातिज एवं तु नराणां तत्र का कथा ॥ ५४॥
एवं क्षेत्रप्रभावेण जना नाना महेश्वराः ।
सिद्धिं प्राप्ता विशेषेण मया वक्तुं न शक्यते ॥ ५५॥
इदं क्षेत्रभवं चित्रं चरितं शृणुयान्नरः ।
पठेद्यः श्रावयेद्वाऽपि सर्वार्थं प्रलभेत् सदा ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरक्षेत्रमरणप्राप्तिमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ॥ ६.१७
६.१८ गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
क्षेत्रस्थानां च यात्राया माहात्म्यं वद योगिप ।
के के मुख्या महाक्षेत्रे पूज्या लोकैर्निरन्तरम् ॥ १॥
भृशुण्ड्युवाच ।
उत्तराभिमुखो देवो गणेशः क्षेत्रमध्यगः ।
संस्थितस्तस्य वामाङ्गे सिद्धिः सेवार्थमास्थिता ॥ २॥
चामरैर्व्यजनैर्युक्ता नानासिद्धिसमन्विता ।
सेवते गणराजं सा सती भक्तिसमन्विता ॥ ३॥
दक्षिणाङ्गे तथा बुद्धिर्विद्याभिः संयुता स्वयम् ।
कलाभिश्च सरस्वत्याः समीपे सेवने स्थिता ॥ ४॥
सुगन्धिवस्तुभिर्युक्ता सती परमार्थवाचका ।
गणेशं भावसंयुक्ता भजते नित्यमादरात् ॥ ५॥
पुरतो लक्षलाभौ तु भक्तिनम्रात्मकन्धरौ ।
सेवेते तं गणाध्यक्षं नानोपचारसंयुतौ ॥ ६॥
पृष्ठभागे महादेव्यो भ्रामर्या धारका मदाः ।
नानाशक्तियुता देवं सेवन्ते भक्तिसंयुताः ॥ ७॥
समास्थितश्चासनाधो गणेशस्येक्षुसागरः ।
कमलं सागरोत्थं तु सहस्रदलराजितम् ॥ ८॥
तीव्रादिशक्तिसंयुक्ते तत्र विघ्नेश्वरः सदा ।
तिष्ठन्तीमे हितं देवाः सेवन्ते रससंयुताः ॥ ९॥
एवं गणेश्वरः सर्वैः पूजनीयो विशेषतः ।
तैर्युक्तः सर्वदश्चैव भवत्यत्र न संशयः ॥ १०॥
मयूराखू तत्पुरश्च संस्थितौ करसम्पुटैः ।
तत्पुरः सिद्धयोगिन्यो नीराजयन्ति विघ्नपम् ॥ ११॥
पृष्ठभागे तथा तस्य प्रमोदाद्याश्च सायुधाः ।
संस्थिता भक्तिसंयुक्ताः पूजनीया नरेण ते ॥ १२॥
अथ पूर्वदिशायां तु धर्ममण्डप उच्यते ।
तत्र विष्णुः स्वयं साक्षात्तिष्ठति सेवनोत्सुकः ॥ १३॥
सर्वान् कथयते धर्मान् गाणेशान् तत्र संस्थितः ।
गाणपत्यप्रियत्वात् स पूजनीयो विशेषतः ॥ १४॥
(Page खं. ६ अ. १८ पान ४४)
तथा दक्षिणगः शम्भुरर्थमण्डपमाश्रितः ।
स गाणेशान् कथयते शब्दार्थान् विविधान् परान् ॥ १५॥
गुह्यानर्थान् सदा देवः प्रकाशयति सर्वदा ।
गाणेशज्ञानकुशला भवन्ते तेन मानवाः ॥ १६॥
मण्डपः कामसंज्ञस्तु दिशि देवाः समीपगाः ।
पश्चिमायां स्थिता तत्र महाशक्तिर्महेश्वरः ॥ १७॥
गणेशकामानायां सा कुरुते सर्वमानवान् ।
सौख्यमाद्यं कथयते गाणेशं परमाद्भुतम् ॥ १८॥
उत्तरे मण्डपो मुक्तेस्तत्र सूर्यः प्रतिष्ठते ।
गणेशभक्तियुक्तो बोधयते विविधान् नरान् ॥ १९॥
गाणेशीं मुक्तिमाद्यां तु पूर्णमोक्षप्रदायिनीम् ।
प्रकाशयति तत्रस्थो जनैः सम्पूजितो रविः ॥ २०॥
गणेशसन्निधाने तु मुद्गलाद्या महेश्वराः ।
महाभक्ताः प्रतिष्ठन्ते भक्तिं सम्बोधयन्ति ते ॥ २१॥
दक्षिणाङ्गे पुरस्तस्य मुद्गलो भक्तनायकैः ।
अव्याहतगतिः सोऽपि गुह्यधारक उच्यते ॥ २२॥
वामाङ्गे गणराजस्य पुरो योगिसमन्वितः ।
शुको गाणेशयोगं बोधयते सकलान् परम् ॥ २३॥
पूजनीयौ प्रयत्नेन गणेशपुरतः स्थितौ ।
मुद्गलश्च शुको देवाः प्रियौ विघ्नेश्वरस्य तौ ॥ २४॥
मण्डपा देवमुख्यानां कथिताश्च ततः परम् ।
विनायकाः स्थिता अष्टौ वक्रतुण्डादयः पराः ॥ २५॥
ततोऽष्टमातरः प्रोक्तास्ततोऽष्टौ भैरवा मताः ।
दिशां भागेषु देवेशाः पूजनीयाः प्रयत्नतः ॥ २६॥
ततो गणेशवामाङ्गे चतुर्थी सङ्कटा स्थिता ।
दक्षिणाङ्गे तथा शुक्ला तिष्ठति सेवनोत्सुका ॥ २७॥
पृष्ठभागे शमी तद्वत् पुरो मन्दार एव च ।
दूर्वा पुरः स्थिता एते सेवन्ते गणनायकम् ॥ २८॥
नग्नभैरवदेवश्च पूर्वभागे समाश्रितः ।
भक्तियुक्तः स्वभावेन सेवते गणनायकम् ॥ २९॥
तथा दक्षिणगो देवा नीलकण्ठः प्रतापवान् ।
सेवते विघ्नराजं स समागत्य निरन्तरम् ॥ ३०॥
पश्चिमे कृत्तिवासास्तु भीमेशश्चोत्तरे तथा ।
समागत्य गणेशानं सेवेते भक्तिसंयुतौ ॥ ३१॥
ततो दिक्पालरूपाश्च सेवन्ते द्विरदाननम् ।
समागत्य सशस्त्रास्ते नित्यं भक्तिसमन्विताः ॥ ३२॥
एते मुख्यात्मकाः प्रोक्ता गर्भागारनिवासिनः ।
केचिद्वासकरास्तत्र केचित् सेवार्थमागताः ॥ ३३॥
अतः परं प्रवक्ष्यामि सदा गर्भगृहस्थितान् ।
विनायकान् महाभागान् सर्वसिद्धिप्रदायकान् ॥ ३४॥
विदर्भाद्वक्रतुण्डश्च बल्लाळः यल्लिगः तथा ।
हेरम्बश्च महेशाना विद्यापुरसमाश्रितः ॥ ३५॥
विघ्नेशः पारिनेरस्थो भालचन्द्रस्तथैव च ।
गङ्गातटस्थो ज्ञानेशो दत्तात्रेयेण संयुतः ॥ ३६॥
चिन्तामणिः स्थावरस्थोऽमराः सिद्धिविनायकः ।
सिद्धिक्षेत्रस्थ एवं तु महागणपतिस्तथा ॥ ३७॥
मणिपूःस्थो विघ्नहरो विजयस्थो विनायकः ।
कश्यपालयसंस्थश्च एलास्थो लक्षविघ्नपः ॥ ३८॥
बङ्गालस्थो गणेशानो विघ्नराजो महेश्वराः ।
जीर्णपूःस्थस्तथाऽऽशापूरको ह्यमलक्षेत्रगः ॥ ३९॥
प्रवालस्थो गणेशश्च राजवेश्मस्थ एव च ।
इत्यादि बहवस्तत्र भवन्ति गणपाः स्थिताः ॥ ४०॥
मयूरेशं समाश्रित्य गर्भागारनिवासिनः ।
(Page खं. ६ अ. १८ पान ४५)
भवन्ति विघ्नराजाश्च सर्वे तस्य कलात्मकाः ॥ ४१॥
गर्भागारं गणेशस्य मूर्तिरूपं महत्परम् ।
ज्ञातव्यं सर्वभावेन सेवनीयं विशेषतः ॥ ४२॥
शतकोटिगणेशानाः संस्थिता देवसत्तमाः ।
गर्भागारं समाश्रित्य निश्चितं गणपेन च ॥ ४३॥
नरैश्च मुनिभिर्देवैः स्थापिता गणनायकाः ।
गर्भागारे च ते सर्वे बुधैस्तेभ्योऽधिका मताः ॥ ४४॥
गर्भागारे गणेशानं स्वनाम्नाङ्कितमादरात् ।
स्थापयेत्तेन देवेशा जगद्ब्रह्म च स्थापिते ॥ ४५॥
केनाऽपि पुण्यं वक्तुं न शक्यते देवसत्तमाः ।
मयूरे गणनाथस्य स्थापने सम्भवं परम् ॥ ४६॥
जीर्णोद्धारं तु यः कुर्यात् स सम्पूर्णफलं लभेत् ।
मूर्तिखण्डं नरो दृष्ट्वा साङ्गं कुर्यात्तथा फलम् ॥ ४७॥
देवेशा ऊचुः ।
आश्चर्यं भासते वाक्यं त्वदीयं गुरुसत्तम ।
एते गणेश्वरास्तत्र कथं तिष्ठन्ति तद्वद ॥ ४८॥
मानं वद महाभाग सर्वेषां च यथातथम् ।
तेन संशयहीनाश्च भविष्यामो वयं प्रभो ॥ ४९॥
भृशुण्ड्युवाच ।
परमाणुस्वरूपेण केचित्तत्र गणेश्वराः ।
केचित्तु त्रसरेणुभिः समाने देहधारकाः ॥ ५०॥
अङ्गुष्ठपर्वमात्रेण देहेन शम्भुमुख्यकाः ।
देवाश्च मुनयः सर्वे तिष्ठन्त्यत्र न संशयः ॥ ५१॥
चतुर्हस्तप्रमाणेन मयूरेशश्च तिष्ठति ।
पीठादिसंयुतो देवाः सिद्धिबुद्धी द्विहस्तगे ॥ ५२॥
हस्तमात्रेण सर्वे ते पूर्वस्मिन् कथिता मया ।
तिष्ठन्ति गणराजस्य सदा सेवार्थलालसाः ॥ ५३॥
चतुर्धनुः प्रमाणेन धर्ममण्डप एव यः ।
तस्माद् द्विगुणितः प्रोक्तः समन्तादर्थमण्डपः ॥ ५४॥
तस्माद् द्विगुणितः प्रोक्तः काममण्डप एव च ।
पादहीनस्तथा प्रोक्तस्तस्मान् मुक्तेश्च मण्डपः ॥ ५५॥
गणेशाद्वै दशधनुर्द्वारे धर्मस्य मण्डपः ।
पूर्ववद् द्वारगाः सर्वे मण्डपाः स्वस्वमानतः ॥ ५६॥
मण्डपात् पूर्वदिग्देशे वक्रतुण्डः स्थितो मतः ।
बुधैर्दशधनुर्दूरे ज्ञातव्यं मानतोऽमराः ॥ ५७॥
दश पञ्चधनुर्दूरे संस्थस्तत्रैकदन्तकः ।
एवं पञ्च प्रवृद्ध्या तु धनुषां दिक्षु विघ्नपाः ॥ ५८॥
अष्टभ्यो गणनाथेभ्यो दूरे पञ्चधनुष्कतः ।
मातृका संस्थिताश्चैव वृद्ध्या क्षेत्रं यथाऽभवत् ॥ ५९॥
तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता ।
वृद्धिन्यूनत्वमानेन क्षेत्रसामान्यभावतः ॥ ६०॥
तेभ्यः पञ्चधनुष्के तु चतुर्थी संस्थिता मता ।
पूर्वभागे तथाऽन्याश्च वृद्धिन्यूनत्वमानतः ॥ ६१॥
ततः पञ्चधनुष्के तु दूरे पूर्वदिशि स्थितः ।
नग्नभैरवनामा चान्ये तद्वत् क्षेत्रमानतः ॥ ६२॥
तेभ्यः पञ्चधनुष्के तु दिक्पालाः संस्थिता मताः ।
वृद्धिन्यूनत्वमानेन यथा क्षेत्रं प्रकीर्तितम् ॥ ६३॥
पूर्वेशानदिशोर्मध्ये प्रजापतिः स्थितः स्वयम् ।
नैरृती पश्चिमाऽऽशागः शेषस्तत्र महेश्वराः ॥ ६४॥
तेभ्यः पञ्चधनुष्के तु वज्रादीनि स्थितानि च ।
क्षेत्रमानप्रमाणेन वृद्धिन्यूनेन निश्चितम् ॥ ६५॥
(Page खं. ६ अ. १९ पान ४६)
एवं सर्वं मया प्रोक्तं यथाशास्त्रं विधानतः ।
गर्भागारस्य विस्तारमाहात्म्यं देवसत्तमाः ॥ ६६॥
अन्ये नाना गणेशाना गाणेशाः संस्थिताः परे ।
सेवार्थं गणनाथस्य गर्भागारे जगद्धिताः ॥ ६७॥
इदं शृणोति पठति यश्चित्रं भक्तिसंयुतः ।
स सर्वपापहीनश्च भवेद्वै देवसत्तमाः ॥ ६८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते गर्भागारस्य प्रमाणवर्णनं नाम अष्टादशोऽध्यायः ॥ ६.१८
६.१९ क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
अधुना वद माहात्म्यं देवागारस्य मानद ।
के के मुख्या जनैः पूज्याः संस्थिता गणपे रताः ॥ १॥
भृशुण्ड्युवाच ।
द्वारकासहितो विष्णुर्देवागारे समाश्रितः ।
पूर्वभागे गणेशात्तु दिशि देवेन्द्रसत्तमाः ॥ २॥
यावन्ति वैष्णवान्येव क्षेत्राणि विविधानि च ।
मथुराद्यानि सर्वाणि पूर्वभागे स्थितानि वै ॥ ३॥
तत्र मध्ये महेशाना द्वारकाशतमञ्जसा ।
धनुषां तु प्रमाणेन गर्भागारात् प्रकीर्तिता ॥ ४॥
तत्र कृष्णश्च रामश्च प्रद्युम्नो ह्यनिरुद्धकः ।
समातस्थुर्गणेशस्य भक्त्यर्थं भक्तसत्तमाः ॥ ५॥
गणेशानं पुष्टिपतिं स्थापयित्वा जनार्दनः ।
सेवते तं महाभागा द्वारकावासिनस्तथा ॥ ६॥
गोमती कुण्डरूपेण स्वयं तत्रैव संस्थिता ।
स्नानमात्रेण जन्तूनां ब्रह्महत्यां विनश्यति ॥ ७॥
कृष्णपक्षे नरो नारी श्रावणे तु जनार्दनम् ।
मयूरे पूजयेत् क्षेत्रे वासकृत् सर्वदायकम् ॥ ८॥
तेषां पूजनमात्रेण सद्यः पापविवर्जितः ।
मनेप्सितं लभेद् देवाः शतयज्ञफलं तथा ॥ ९॥
मथुरावामभागे तु द्वारकायाः समास्थिता ।
तावन्मानेन देवेशाः सर्वार्थस्य प्रदायिनी ॥ १०॥
बालरूपधरौ तत्र रामकृष्णौ समास्थितौ ।
पूजनीयौ नरेणैव सर्वकामफलप्रदौ ॥ ११॥
गौरीविनायकं तत्र स्थापयित्वा स्वहर्षतः ।
जनैः सह महाभक्तौ सेवेते तं जनार्दनौ ॥ १२॥
तत्रैव यमुना साक्षात् संस्थिता हृदरूपिणी ।
तस्यां स्नानेन देवेशाः सर्वपापक्षयो भवेत् ॥ १३॥
कृष्णाष्टम्यां विशेषेण तयोर्यात्रा प्रकीर्तिता ।
मासे मासे जनानां सा दहति ह्यशुभं महत् ॥ १४॥
अयोध्या दक्षिणाङ्गेऽस्यास्तावन्मानेन संस्थिता ।
द्वारकायाश्च तत्रैव शरयूकुण्डकं स्थितम् ॥ १५॥
तत्र स्नानेन जन्तूनां पापं नश्यति तत्क्षणात् ।
इहजन्मकृतं सर्वं स्वर्गदं कुण्डमञ्जसा ॥ १६॥
तत्र रामो लक्ष्मणश्च भरतः शत्रुसूदनः ।
(Page खं. ६ अ. १९ पान ४७)
स्थिताः संस्थाप्य हेरम्बं सेवायां तत्परा जनैः ॥ १७॥
चैत्रशुक्लनवम्यां तु यात्रां तत्र प्रकुर्वते ।
क्षेत्रवासिन आनन्दाद्वार्षिकीं दुरितापहाम् ॥ १८॥
द्वारकायाः पुरोभागे व्यासः सत्यवतीसुतः ।
संस्थितः सर्वधर्मज्ञो दशधनुःप्रमाणतः ॥ १९॥
तत्पुरो नृहरिश्चैव वामनस्तत्पुरोऽभवत् ।
मत्स्यस्तत्पुरतो विष्णुस्ततो बुद्धः प्रकीर्तितः ॥ २०॥
नरनारायणौ देवौ तत्पुरः संस्थितौ किल ।
हयग्रीवस्ततः प्रोक्तः समानमानतः स्थितः ॥ २१॥
तथा वामाङ्गभागे ये धनुषां दशके परे ।
तिष्ठन्ति विष्णुरूपाश्च मथुरायाः सुखप्रदाः ॥ २२॥
तान् शृणुध्वं महेशानाः कथयामि समासतः ।
कूर्मः परशुरामश्च कल्की पृश्निसुतस्तस्था ॥ २३॥
कपिलः सिद्धेशः शेषः सनकाद्याश्च योगिनः ।
भजन्ति स्वस्वनामाङ्कानास्थाप्य गणनायकान् ॥ २४॥
अयोध्यायाः पुरः सप्त संस्थिताश्च जनार्दनाः ।
तावन्मानेन देवेशास्तान् शृणुध्वं समासतः ॥ २५॥
नारदः कार्तवीर्यश्चात्रितो यज्ञस्तथा परः ।
ऋषभश्च पृथुर्वैन्यो मोहिनी या स्मृता बुधैः ॥ २६॥
स्वस्वेष्टनामकांस्तत्रास्थाप्य विघ्नेश्वरान् परान् ।
भजन्ते भावयुक्ताश्च सदा क्षेत्रनिवासनः ॥ २७॥
द्वादश्यां प्रतिमासेषु पूजनीयाः क्रमेण तु ।
चतुर्विंशतिदेवेश विष्णवः क्षेत्रवासिभिः ॥ २८॥
द्वारकास्थसमायुक्तास्तत्र विष्ण्वंशसम्भवाः ।
अवान्तरे स्थिताः सर्वे मयूरे हितकारकाः ॥ २९॥
स्वयं विष्णुस्ततस्तत्र तिष्ठति क्षेत्रगोऽमराः ।
विकुण्ठं तत् समाख्यातं धनुषां द्विशतात्मकम् ॥ ३०॥
एकादश्यां जनाः साक्षात् पूजयन्ति निरन्तरम् ।
तेन सौभाग्यसंयुक्ता भविष्यंन्ति मयूरके ॥ ३१॥
अन्ये नानाऽवताराश्च क्षेत्राणि विविधानि तु ।
संस्थितानि मयूरेऽस्मिन् गणेशे भक्तिकारणात् ॥ ३२॥
विकुण्ठवासी भगवान् सदा सिद्धिविनायकम् ।
स्थाप्य पूज्यं विधानेन भजतेऽनन्यभावतः ॥ ३३॥
अन्ये ये स्वस्वनाम्ना ते गणेशान् स्वेष्टरूपकान् ।
विष्णवः स्थापयित्वा तं भजन्तेऽनन्यभावतः ॥ ३४॥
गर्भागारस्य देवेशाः पूर्वाङ्गं वर्णितं मया ।
सङ्क्षेपेणाधुना तद्वत् दक्षिणाङ्गं तु वर्णये ॥ ३५॥
गर्भागारात् स्वयं काशी संस्थिता मध्यभागतः ।
धनुषां द्वे शते तस्या मानं क्षेत्रे प्रकीर्तितम् ॥ ३६॥
तत्र तिष्ठति विश्वेशो देवो भक्तिपरायणः ।
ढुण्ढिराजं समास्थाप्य भजतेऽनन्यचेतसा ॥ ३७॥
मणिकर्णी ह्रदस्तत्र वर्तते पापहारकः ।
स्नानेन मानवस्यैव ब्रह्मघ्नः पातकं व्रजेत् ॥ ३८॥
भागीरथी सरस्तत्र वर्तते देवनायकाः ।
सद्यः स्नानेन पापानि लयं गच्छन्ति निश्चितम् ॥ ३९॥
प्रदोषे पूजनं तस्य कुर्वन्ति क्षेत्रवासिनः ।
माघकृष्णचतुर्दश्यां यात्रां कुर्वन्ति मानवाः ॥ ४०॥
वार्षिकीं विश्वनाथस्य यात्रां क्षेत्रनिवासिनः ।
जनाः कुर्वन्ति ते सर्वे भवन्ति सुखभोगिनः ॥ ४१॥
तस्या वामाङ्गके देवास्तावन्मानेन संस्थिता ।
अवन्ती सर्वदा पुण्या महाकालश्च शङ्करः ॥ ४२॥
क्षिप्रानदीभवं कुण्डं वर्तते तत्र पापहृत् ।
(Page खं. ६ अ. १९ पान ४८)
महाकालस्य कुण्डं तु स्नानेन पापनाशनम् ॥ ४३॥
सोमवारे प्रदोषे तमर्चयन्ति विशेषतः ।
ते सर्वे धनधान्यैश्च संयुक्ता निवसन्ति हि ॥ ४४॥
काश्या दक्षिभागे तु तावन्मानेन संयुता ।
मायापुरी महेशाना दक्षयज्ञच्छिदीश्वरः ॥ ४५॥
प्रदोषे च त्रयोदश्यां शनियुक्ते महेश्वरम् ।
पूजयेत्तं नरश्चैव क्षेत्रस्थः सर्वमाप्नुयात् ॥ ४६॥
तत्र द्वारं च गङ्गायाः संस्थितं कुण्डरूपकम् ।
नरः स्नानेन सद्यश्च फलं प्राप्नोति वाञ्छितम् ॥ ४७॥
काश्याश्च पुरतो देवास्त्र्यम्बकः संस्थितो महान् ।
धनुषां शतकेनैव मानेन तस्य क्षेत्रकम् ॥ ४८॥
नदीस्वरूपेण गोदावरी तत्र महानदी ।
संस्थिता स्नानमात्रेण गोघ्नाद्यघं विनश्यति ॥ ४९॥
कपिलं गणनाथं स त्र्यम्बकः स्थाप्य नित्यदा ।
पुपूज भक्तिसंयुक्तो गाणपत्यप्रभाववित् ॥ ५०॥
क्षेत्रगो वैद्यनाथस्तु तावन्मानेन तत्पुरः ।
स्थितः सर्वार्थदो देवो भक्तानां भवनाशकृत् ॥ ५१॥
भवरोगविनाशार्थं वैद्य एकः शिवः स्मृतः ।
ददाति गणनाथाख्यमौषधं योगमिच्छताम् ॥ ५२॥
उत्कटेशस्तत्पुरश्च तावन्माने संस्थितः ।
उत्कण्ठां भक्तिमिच्छन् सन् गणेशस्य महात्मनः ॥ ५३॥
त्र्यम्बकस्य तथा वामे रामेशः संस्थितः शिवः ।
तावन्मानेन तत् क्षेत्रे समुद्रः कुण्डरूपतः ॥ ५४॥
तत्पुरः सोमनाथस्तु तत्पुरो मल्लिकार्जुनः ।
तावन्मानेन संयुक्तौ स्वस्वतीर्थसमन्वितौ ॥ ५५॥
दक्षिणाङ्गे त्र्यम्बकस्य घुसृणेशः स्थितः प्रभुः ।
तथोङ्कारेश्वरो देवोऽप्यमलेश्वरसंयुतः ॥ ५६॥
सरःस्वरूपेण तत्र नर्मदा संस्थिता नदी ।
दर्शनेनेह यत् पापं जन्तूनां नाशयेत् सदा ॥ ५७॥
स्नानमात्रेण देवेशा दशजन्मकृतं महत् ।
पापं नश्यति जन्तोश्च निश्चितं मुनिभिः पुरा ॥ ५८॥
ततः केदारशम्भुश्च क्रमेण देवसत्तमाः ।
तावन्मानेन संयुक्ताः शिवा एते प्रकीर्तिताः ॥ ५९॥
स्वस्वनाम्नाङ्कितान् सर्वे सदाऽऽस्थाप्य गणेश्वरान् ।
सेवन्ते भक्तिसंयुक्ताः शिवा एते प्रकीर्तिताः ॥ ६०॥
कृष्णपक्षे चतुर्दश्यां मासे मासे महेश्वराः ।
सेवनीयाः प्रयत्नेन क्षेत्रवासिभिरादरात् ॥ ६१॥
ततः पुरो महाक्षेत्रे कैलासे वासकारकः ।
शिवः साक्षात् स्थितस्तत्र धनुषां च चतुःशते ॥ ६२॥
क्षेत्रं कैलासनाथस्य तत्र भागीरथी नदी ।
स्वयं स्थिता विशेषेण स्नानमात्रेण सर्वदा ॥ ६३॥
महागणपतिं स्थाप्य पूजति नित्यमादरात् ।
भजते तं शिवः साक्षाद्गाणपत्याग्रणीर्महान् ॥ ६४॥
अन्यशङ्करक्षेत्राणि शिवा नानाविधा मताः ।
संस्थितानि स्थिताः सर्वे क्षेत्रसंन्यासभक्तितः ॥ ६५॥
तेषां स्थानादिकथयितुं देवा न प्रशक्यते ।
स्वस्वनामयुतान् पूजन्त्यास्थाप्य गणनायकान् ॥ ६६॥
दक्षिणे कथितं शैवं परं देवालयं मया ।
सङ्क्षेपेण महाभागा अधुना पश्चिमं वदे ॥ ६७॥
शतेषु गर्भागाराच्च धनुषां पञ्चसु स्थिता ।
महालक्ष्मीः स्वयं साक्षाद्भक्तेभ्यः कामदायिनी ॥ ६८॥
लक्ष्मीकुण्डभवं तीर्थं संस्थितं तत्र पापहृत् ।
(Page खं. ६ अ. १९ पान ४९)
स्नानमात्रेण सद्यो दरिद्रतानाशकारकम् ॥ ६९॥
तस्या वामाङ्गके शक्तिर्महाकाली समास्थिता ।
कालीसरश्च तत्रैव संस्थितं पापनाशनम् ॥ ७०॥
महासरस्वती शक्तिर्दक्षिणाङ्गे स्थिता तथा ।
सारस्वतं महत् कुण्डं तत्र जाड्यविनाशनम् ॥ ७१॥
स्वानन्दवासमास्थाप्य भजते गणनायकम् ।
महालक्ष्मीर्महेशाना अष्टम्यां पूज्यते नरैः ॥ ७२॥
सिद्धीशं तु महाकाल्यास्थाप्य भक्तिपरायणा ।
भजते नित्यमानन्दाद्भूतायां पूज्यते तथा ॥ ७३॥
बुद्धीशं तु तृतीयायां महासरस्वती नरैः ।
शक्तियुक्ता स्थाप्य नित्यं भजते पूज्यते परा ॥ ७४॥
महालक्ष्म्याः पुरश्चैव विष्णुकाञ्ची स्थिता पुरी ।
लक्ष्म्या विष्णुः स्थितस्तत्र भजते स्थाप्य विघ्नपम् ॥ ७५॥
अष्टम्यां पूजनीयोऽसौ क्षेत्रवासिभिरादरात् ।
पापनाशकरस्तेषां भवते सर्वदायकः ॥ ७६॥
तत्पुरो मातृकाणां च धनुषां द्विशतात्मकम् ।
क्षेत्रं तु संस्थितं तत्र माहेश्वर्या महाद्भुतम् ॥ ७७॥
तत्पुरस्तावता मानेन युतं क्षेत्रमुत्तमम् ।
कौमार्यस्तत्र संस्था सा तीर्थेनैव समायुता ॥ ७८॥
ततः क्षेत्रं समाख्यातं वाराह्याः सर्वदं परम् ।
तत्र शक्तिः स्थिता साक्षाद्वाराही दुरितापहा ॥ ७९॥
तत ऐन्द्र्या महाक्षेत्रं पूर्वमानेन कीर्तितम् ।
ऐन्द्री गणेश्वरं तत्र भजतेऽनन्यचेतसा ॥ ८०॥
महाकाल्याः पुरश्चैव पूर्वमानेन संस्थिता ।
नारसिंही महाशक्तिर्दैत्येभ्यो भयदायिनी ॥ ८१॥
ततः शाकम्भरी शक्तिश्च ततो रक्तदन्तिका ।
ततो भीमा महेशानाः संस्थिता तीर्थसंयुता ॥ ८२॥
अथो महासरस्वत्यास्तावन्मानेन संस्थिता ।
पुरस्तु वैष्णवी देवी ततो ब्राह्मी स्थिता मता ॥ ८३॥
चामुण्डा च ततः प्रोक्ता तत्पुरस्त्रिपुरा मता ।
समानमानभावेन संस्थिता शक्तयः पराः ॥ ८४॥
कुण्डरूपेण तीर्थानि स्वस्वक्षेत्रगतानि तु ।
कृत्वा ताः शक्तयः सर्वाः मयूरे संस्थिताः सदा ॥ ८५॥
स्वस्वनाम्नाङ्कितानास्थाप्य गणेशांश्च देवपाः ।
भजन्तेऽनन्यभावेन गाणपत्यस्वभावतः ॥ ८६॥
अन्यानि शक्तिक्षेत्राणि शक्तयश्च समाश्रिताः ।
नरैस्तासां नवम्यां तु यात्रा कार्या सुखप्रदा ॥ ८७॥
तासां नामादिकं देवा मया वक्तुं न शक्यते ।
मुख्यास्तु नवकोट्यो वै ज्ञातव्यं विबुधैः सदा ॥ ८८॥
धनुः पञ्चशतं तस्माच्छक्तिर्लम्बोदरं परम् ।
आस्थाप्य भजते तस्या यात्राऽष्टम्यां प्रकीर्तिता ॥ ८९॥
अथोत्तरगतान् वक्ष्ये देवान् देवालये स्थितान् ।
समासेन महेशानाः शृणुत परमार्थदान् ॥ ९०॥
गर्भागारात् समारभ्य चतुःशतं पितामहः ।
धनुषां क्षेत्रगः सोऽपि तिष्ठति वेदसंयुतः ॥ ९१॥
तावन्मानेन वामाङ्गे तस्याग्निः संस्थितो महान् ।
अग्निभिः सहितस्तत्र सेवते गणनायकम् ॥ ९२॥
दक्षिणाङ्गे स्वयं कर्म सह तिष्ठति कर्मभिः ।
सूर्यकलांशसम्भूतास्त्रयो मुख्या इति स्मृताः ॥ ९३॥
ब्रह्माणं च समाश्रित्य सरः सारस्वतं स्थितम् ।
सरस्वती नदीरूपा तत्र तिष्ठति नित्यदा ॥ ९४॥
(Page खं. ६ अ. १९ पान ५०)
तत्र स्नानेन पापानि प्रणश्यन्ति महान्ति चेत् ।
जाड्यभावो नश्यति च नराणां देवसत्तमाः ॥ ९५॥
सिद्धिबुद्धिपतिं स्थाप्य सेवते चतुराननः ।
सदा गणेशपूजायां तत्परो भक्तिसंयुतः ॥ ९६॥
तथाऽग्निश्च महात्मानं विनायकं निरन्तरम् ।
आस्थाप्य भक्तिसंयुक्तो भजते नित्यमादरात् ॥ ९७॥
आग्नेयं तत्र कुण्डं तु सर्वाघशमनं स्थितम् ।
स्नानमात्रेण जन्तूनामग्निलोकप्रदं भवेत् ॥ ९८॥
कर्मनाशकरं कुण्डं समीपं कर्मणः स्थितम् ।
स्नानेन त्रिविधं तत्र कृतं कर्म विनश्यति ॥ ९९॥
ब्रह्मणः पुरतो देवा धनुषां द्विशतात्मकम् ।
क्षेत्रं वेदाङ्गनाम्नश्च परं सूर्यस्य संस्थितम् ॥ १००॥
भानुक्षेत्रं तत्पुरस्तावता मानेन संयुतम् ।
इन्द्रनाम्नस्तत्पुरस्तु क्षेत्रं सर्वप्रदायकम् ॥ १०१॥
अग्नेः पुरस्तथा क्षेत्रं रवेस्तावत्प्रमाणकम् ।
ततः क्षेत्रं गभस्तेश्च यमस्य च ततः परम् ॥ १०२॥
कर्मणश्च पुरोभागे तावन्मानयुतं महत् ।
सुवर्णरेतसः क्षेत्रं ततो दैवाकरं मतम् ॥ १०३॥
ततः क्षेत्रं तु मित्रस्य ततो विष्णोः प्रकीर्तितम् ।
वरुणस्य क्षेत्रमिन्द्रात् पुरः सर्वाघनाशनम् ॥ १०४॥
यमात् पुरस्तु सूर्यस्य क्षेत्रं तत्र प्रकीर्तितम् ।
समानमानभावेन स्थिता द्वादश भानवः ॥ १०५॥
स्वस्वतीर्थैः समायुक्ताः कुण्डरूपैर्महेश्वराः ।
स्वस्वनाम्ना स्थाप्य सेवन्ते गणेशान्निरन्तरम् ॥ १०६॥
तत्पुरः शिवकाञ्ची तु तस्यां शक्त्या शिवः स्थितः ।
सोमयुक्तो प्रदोषे स जनैः पूज्यः सुखप्रदः ॥ १०७॥
भजते सर्वभावेनास्थाप्य हेरम्बमादरात् ।
तीर्थं तस्य स्थितं तत्र सर्वाघशमनं परम् ॥ १०८॥
जनैः पूज्यः प्रतिपदि क्षेत्रस्थोऽग्निः प्रतापवान् ।
सर्वपापनिहन्ता च द्रव्यलाभप्रदो भवेत् ॥ १०९॥
सप्तम्यां सर्वदा देवाः पूजनीयः पितामहः ।
जाड्यभावहरः सोऽपि भवत्यत्र न संशयः ॥ ११०॥
भानुसप्तमिकायां तु कर्म सम्पूजयन्ति ये ।
सर्वदोषविहीनाश्च कर्मणां सम्भवन्ति ते ॥ १११॥
सङ्क्रमेषु सदा पूज्य भानून् द्वादश संस्थितान् ।
सर्वरोगादिनिर्मुक्ता भवन्ति क्षेत्रवासिनः ॥ ११२॥
तेषां पुरः स्वयं नित्यं तिष्ठति सौरलोकगः ।
चतुःशतं तु धनुषां क्षेत्रं तस्य महात्मनः ॥ ११३॥
रविवारे तु देवेशः पूजनीयो निरन्तरम् ।
नरः सर्वार्थसंसिद्धिं लभते मुक्तिमुत्तमाम् ॥ ११४॥
वरदं गणनाथं संस्थाप्य पूजापरायणः ।
भजते आदिदेवस्तं सूर्यः कालभृतां वरः ॥ ११५॥
तत्पुरश्चन्द्रमा देवाः संस्थितः शतमानतः ।
धनुषां क्षेत्रमेतत्तु तस्य सर्वान्नदायकम् ॥ ११६॥
ततः पुरो बुधः प्रोक्तस्तावता मानकेन च ।
तत्पुरः संस्थितो जीवः क्षेत्रवासपरायणः ॥ ११७॥
चन्द्रवामाङ्गसंस्थश्च भौमो देवपरायणः ।
तत्पुरो भार्गवः श्रेष्ठस्तत्पुरस्तु शनैश्चरः ॥ ११८॥
चन्द्रस्य दक्षिणे भागे राहुः सर्वारिमर्दनः ।
तत्पुरः केतुरेवं च नक्षत्राणि ततः पुरः ॥ ११९॥
आस्थाप्य स्वस्वनामाङ्कान् गणेशान् भक्तितत्परः ।
भानि ग्रहा भजन्ते तं क्षेत्रवासपरायणाः ॥ १२०॥
(Page खं. ६ अ. १९ पान ५१)
स्वस्वाङ्कितेषु वारेषु पूजनीया इमे नरैः ।
पूर्णिमायां तमश्चैवामावास्यायां च केतुकः ॥ १२१॥
अन्ये सूर्यावताराश्च स्वस्वक्षेत्रैः स्थिताः किल ।
तेषां नामादि कथयितुं देवाः शक्यते न वै ॥ १२२॥
देवालयादष्टदिक्षु भैरवा अष्टमुख्यकाः ।
नाना भैरवसंयुक्ताः संस्थिता देवतत्पराः ॥ १२३॥
तत इन्द्रो हव्यवाहः पूर्वभागे समाश्रितौ ।
यमपो निरृतिस्तद्वद्दक्षिणाङ्गे च तिष्ठतः ॥ १२४॥
पश्चिमे वरुणो वायुः तिष्ठतः क्षेत्रसेवकौ ।
धनपो निरृतिस्तद्वदुत्तराङ्गे समास्थितौ ॥ १२५॥
अष्टम्यां भैरवाः पूज्या जनैः पैशाचनायकाः ।
भूतादीनां विशेषेण भवन्ति भयनाशकाः ॥ १२६॥
दशम्यां दश दिक्पालाः पूजनीयाः प्रयत्नतः ।
चौरादिजं भयं सर्वं नाशयिष्यन्ति सर्वदा ॥ १२७॥
स्वस्वनामाङ्कितानास्थाप्य दिगीशा गणेश्वरान् ।
पूजयन्ति भजन्ते तं भैरवाश्च महेश्वराः ॥ १२८॥
पूजनीयौ द्वितीयायामश्विनौ पूर्वदिक् स्थितौ ।
द्वारस्य सन्निधाने तु धनुषां शतमानतः ॥ १२९॥
देवागारे गणेशं संस्थाप्य नित्यं महाप्रभुम् ।
भजतस्तेन सर्वेषां रूपलावण्यदौ मतौ ॥ १३०॥
दक्षिणे संस्थितौ तद्वद्गौरीस्कन्दौ परेश्वरम् ।
आस्थाप्य पूज्य विघ्नेशं भजतो नित्यमादरात् ॥ १३१॥
तयोः पूजनमात्रेण भवेत् सौभाग्यसंयुतः ।
स्वाचारनिष्ठभावेन चित्तं सुनियतं भवेत् ॥ १३२॥
षष्ठ्यां स्कन्दं भजेन्नित्यं तृतीयायां च पार्वतीम् ।
मयूरेशयुते देवास्ताभ्यां सौख्यं लभेन्नरः ॥ १३३॥
सर्वे वासुकिमुख्याः पश्चिमे नागा महाबलाः ।
संस्थिता द्वारसामीप्ये नागकुण्डं तथाऽमलम् ॥ १३४॥
पञ्चम्यां पूजनीयास्ते दारिद्र्यनाशकारकाः ।
सर्वव्याधिविहीनं तु कुर्वते मानवं सदा ॥ १३५॥
उत्तरे धननाथं तु पूजयेद्धननायकम् ।
एकादश्यां विशेषेण द्वारसामीप्यसंस्थितम् ॥ १३६॥
त्रयोदश्यां धर्मराजं पूजयेन्नात्र संशयः ।
धर्मप्रदं जनानां च सदा पुण्यविवर्धनम् ॥ १३७॥
अन्ये देवगणाः सर्वे स्थिता देवालये किल ।
पूर्णिमायां जनैः पूज्याः क्षेत्रवासिभिरादरात् ॥ १३८॥
यमस्य सन्निधाने तु पितरः क्षेत्रवासिनः ।
संस्थितास्ते नरैः पूज्या अमायां वंशवर्धनाः ॥ १३९॥
त्रयस्त्रिंशत् कोटिमिता देवाः सर्वत्र संस्थिताः ।
तेषां स्थानादि देवाः कथयितुं नैव शक्यते ॥ १४०॥
देवागारस्य देवेशाः कथितं यात्रया युतम् ।
माहात्म्यं देवजातीनां सर्वकामफलप्रदम् ॥ १४१॥
मयूरस्यापि अधुना कथयामि चरित्रकम् ।
तत्स्थानां शृणुत प्राज्ञाः सर्वसिद्धिप्रदायकम् ॥ १४२॥
देवागाराच्छते द्वे तु धनुषां संस्थितो भृगुः ।
भृगुतीर्थं महत् क्षेत्रे कुण्डं पापप्रदाहकम् ॥ १४३॥
तत्र स्नानेन जन्तूनां वन्ध्यदोषो विनश्यति ।
तथा पूज्य प्रजानाथं भृगुं सर्वमवाप्नुयात् ॥ १४४॥
रोहिण्यां तस्य यात्रा वै कर्तव्या क्षेत्रवासिभिः ।
तेन तुष्टो महायोगी भृगुः सर्वार्थदो भवेत् ॥ १४५॥
स्वनामसंयुतं सोप्यास्थाप्य विघ्नेश्वरं परम् ।
पूजत्यनन्यभावेन गाणपत्यस्वभावतः ॥ १४६॥
(Page खं. ६ अ. १९ पान ५२)
तस्य वामाङ्गगः साक्षात्तावन्मानेन संस्थितः ।
पुलहस्तं प्रपूज्यैव कर्मयुक्तो भवेन्नरः ॥ १४७॥
कुण्डं पुलहतीर्थाख्यं दोषहन्तृ स्थितं परम् ।
भजत्यास्थाप्य गाणेशो गणेशं नान्यभावतः ॥ १४८॥
यात्रा मृगशिरसि च तस्य प्रोक्ता मयूरके ।
कर्तव्या क्षेत्रवासिभिर्महापुण्यप्रवर्द्धिनी ॥ १४९॥
दक्षिणाङ्गे क्रतुश्चैव कुण्डं कृत्वा स्वतीर्थजम् ।
गणेश्वरं स्थाप्य योगी भजतेऽनन्यचेतसा ॥ १५०॥
आर्द्रायां स जनैः सर्वैः पूजनीयः प्रयत्नतः ।
यज्ञस्य फलदाता च भवेद्यात्राविधानतः ॥ १५१॥
भृगोः पुरश्च धनुषां शतं तत्र स्थितो मतः ।
च्यवनश्च तथा धाता विधाता देवसत्तमौ ॥ १५२॥
क्रमेण भार्गवाः सर्वे मुनयस्तत्र संस्थिताः ।
शतानि पञ्च तत् क्षेत्रं धनुषां शौनकादयः ॥ १५३॥
पूजनीयाश्च पञ्चम्यामृषयः सर्वभावनाः ।
श्रवणे मानवैस्तत्स्थैः पुण्यदाः सम्भवन्ति च ॥ १५४॥
पुलहस्य पुरस्तद्वत् पौलहा मुनयः सदा ।
तिष्ठन्ति पूजनीयास्ते रेवत्यां सर्वदा मताः ॥ १५५॥
क्रतोरग्रे महेशानाः क्रतुवंशसमुद्भवाः ।
तिष्ठन्ति मुनयः सर्वयोगज्ञाः पुण्यवर्धनाः ॥ १५६॥
अश्विन्यां पूजनीयाश्च मताः सर्वार्थदायकाः ।
गणेशमास्थाप्य विप्राः सेवन्ते भक्तितत्पराः ॥ १५७॥
तत्पुरो देवगन्धर्वा विश्वावसुपुरोगमाः ।
धनुषां द्वे शते तेषां क्षेत्रं ख्यातं मयूरके ॥ १५८॥
उर्वशी चैव रम्भाद्यास्ततो ह्यप्सरसः पुरः ।
धनुषां शतकं क्षेत्रं तासां तत्र प्रकीर्तितम् ॥ १५९॥
पूजनीया नरैः पुष्पैर्गन्धर्वाः पुण्यवर्धनाः ।
पुर्नवसावप्सरसः पूजनीया विशेषतः ॥ १६०॥
नानामुनिगणा अन्ये भवन्ते संस्थिताः पराः ।
विश्वामित्रो याज्ञवल्क्यस्तथा पाराशरोऽग्रणीः ॥ १६१॥
श्वेतकेतुर्वामदेवो परो रैभ्यो निदाघकः ।
इत्याद्याः बहवो देवाः कथयितुं न शक्यते ॥ १६२॥
स्वस्वनाम्नाङ्कितांस्ते संस्थाप्य लम्बोदरान् सदा ।
भजन्ते तीर्थसंयुक्ताः पूजनीयाः सुखप्रदाः ॥ १६३॥
पूर्वभागाश्रितं सर्वं कथितं वः समासतः ।
अधुना दक्षिणं वक्ष्ये मयूरं सर्वदायकम् ॥ १६४॥
देवालयाद्दक्षिणाच्चतुःशतं च प्रकीर्तितम् ।
धनुषां क्षेत्ररूपं तु वसिष्ठस्य महात्मनः ॥ १६५॥
स्वनामाङ्कितमास्थाप्य गणेशं भजते सदा ।
तत्र कुण्डं तु वासिष्ठं स्नानेन पापनाशनम् ॥ १६६॥
भरण्यां पूजनीयोऽसौ वंशवृद्धिकरो भवेत् ।
यात्रा तस्य समाख्याता मयूरे सुखदायिका ॥ १६७॥
तस्य वामाङ्गभागे चात्रिः सर्वार्थप्रदायकः ।
गणेश्वरं स संस्थाप्य भजते स्वाभिधानकम् ॥ १६८॥
तीर्थं तत्र स्थितं तस्य स्नानमात्रेण मानदम् ।
कृत्तिकायां विशेषेण पूजनीयो नरैः सदा ॥ १६९॥
दक्षिणाङ्गे वसिष्ठस्य पुलस्त्यः संस्थितोऽभवत् ।
स्वनामाङ्कितमास्थाप्य ढुण्ढिं भजति देवपाः ॥ १७०॥
कुण्डं तस्य च तीर्थाख्यं परं स्नानेन सत्वदम् ।
आसुरभावसम्भूतं मलं दहति सेविनाम् ॥ १७१॥
पूजनीयो धनिष्ठायां विशेषेण महामुनिः ।
सर्वार्थदायको भावी यात्राकारिण एव च ॥ १७२॥
वसिष्ठाच्च पुरोभागे वासिष्ठा मुनयोऽपरे ।
(Page खं. ६ अ. १९ पान ५३)
द्वे शते धनुषां क्षेत्रं तेषां तत्र स्थिता द्विजाः ॥ १७३॥
अत्रेः पुरस्तथात्रेयास्तावन्मानेन संस्थिताः ।
पुलस्त्याग्रे च पौलस्त्या भवन्ति मुनयः स्थिताः ॥ १७४॥
स्वस्वतीर्थसमासक्ताः स्थाप्य विघ्नेश्वरांस्तथा ।
पूजयन्ति स्वनामस्थान् भक्तियुक्ता महर्षयः ॥ १७५॥
मघायां चैव वासिष्ठाश्चित्रायामत्रिसम्भवाः ।
हस्ते पौलस्त्यकाः पूज्याः क्षेत्रवासिभिरादरात् ॥ १७६॥
अन्ये मुनिगणा नाना सदा तत्रैव संस्थिताः ।
तेषु मुख्यान् प्रवक्ष्यामि शृणुध्वं देवसत्तमाः ॥ १७७॥
कण्वश्च जैमिनिश्चैको द्वितश्च त्रितरैवतौ ।
मेधातिथिर्भरद्वाजो जमदग्निश्च गौतमः ॥ १७८॥
इत्यादि बहवोऽन्ये स्थिताः संस्थाप्य गणेश्वरान् ।
पूजनीया नरेणैव सर्वधर्मविवर्धनाः ॥ १७९॥
कथितेषु महेशाना नक्षत्रेषु विशेषतः ।
यात्रा तेषां समाख्याता सर्वाघशमनी परा ॥ १८०॥
ततः पुरः पिशाचेशा भूतेशाः सिद्धचारणाः ।
संस्थिताः पूजनीयास्ते भौमवारे विशेषतः ॥ १८१॥
अतः परं पश्चिमस्थं वदामि पापहारकम् ।
चित्रं मयूरे माहात्म्यं क्षेत्रवासिभवं परम् ॥ १८२॥
देवालयादष्टशतं धनुषां स्थानमुत्तमम् ।
दक्षस्य तत्र देवेशा दक्षतीर्थं सरः स्थितम् ॥ १८३॥
तत्र स्नानेन दुर्बुद्धिः परा नश्यति तत्क्षणात् ।
सुबुद्धिर्जायते सद्यो जनानां भावितात्मनाम् ॥ १८४॥
महायात्राऽयभिजिति तस्य प्रोक्ता सुखप्रदा ।
कर्तव्या क्षेत्रवासीभिः परा सद्बुद्धिदायिका ॥ १८५॥
दक्षस्य वामभागे तु मरीचिः संस्थितो महान् ।
तावन्मानेन संयुक्तः स्वतीर्थेन समन्वितः ॥ १८६॥
स्वातौ तस्य महायात्रा कर्तव्या वृद्धिदायिनी ।
क्षेत्रवासिभिरानन्दाद्योगीन्द्रस्य महात्मनः ॥ १८७॥
अङ्गिरास्तस्य दक्षस्य दक्षिणे योगिसत्तमः ।
पूजनीयो विशेषेण ज्ञानदाता भवेत् सदा ॥ १८८॥
तीर्थं तत्र समाख्यातं कुण्डरूपेण योगिनः ।
स्नानेन भक्तिसंयुक्तो लभेज्ज्ञानं च मानवः ॥ १८९॥
दक्षादयस्त्रयः प्रोक्ताः संस्थाप्य गणनायकम् ।
स्वस्वनामाङ्कितं देवाः पूजयन्ति निरन्तरम् ॥ १९०॥
दक्षाग्रे दक्षसम्भूताश्चतुर्वर्णप्रकाशिकाः ।
पुत्र्यः षष्टीर्महाभागाः सेवन्ते गणनायकम् ॥ १९१॥
तासां क्षेत्रं समाख्यातं चतुः शतधनुर्मितम् ।
रविवारे पूजनीया वंशसौभाग्यवर्धनाः ॥ १९२॥
तासां पुरः प्रजाः सर्वा नरैस्ताभ्यः समुद्भवाः ।
संस्थिता पूजनीयास्ता धनिष्ठायां सुखप्रदाः ॥ १९३॥
द्वे शते धनुषां तासां क्षेत्रं चैव प्रकीर्तितम् ।
गणेशमास्थाप्य सर्वाः सेवन्ते नित्यमादरात् ॥ १९४॥
मरीचेस्तु पुरोभागे मारीचाः काश्यपादयः ।
संस्थितास्ते नरैः पूज्याः शततारे धनप्रदाः ॥ १९५॥
चतुःशतानि तत् क्षेत्रं धनुषां च प्रकीर्तितम् ।
स्थाप्य विघ्नेश्वरान् सर्वे पूजयन्ति निरन्तरम् ॥ १९६॥
पुरोभागे ह्यङ्गिरसः स्थिता आङ्गिरसाः सदा ।
तावन्मानेन संयुक्तास्तीर्थयुक्ता महर्षयः ॥ १९७॥
लम्बोदरांस्त आस्थाप्य स्वस्वनामाङ्कितान् सदा ।
(Page खं. ६ अ. १९ पान ५४)
पूजयन्ति विशेषेण भक्तिभावसमन्विताः ॥ १९८॥
आश्लेषायां महायात्रा तेषां कार्या नरैः परा ।
पुत्रपौत्रप्रवृद्ध्यर्थं क्षेत्रवासिभिरादरात् ॥ १९९॥
अन्ये मुनिवरास्तत्र संस्थिता गणपे रताः ।
तेषु श्रेष्ठान् प्रवक्ष्यामि महायोगीन्द्रकांस्तथा ॥ २००॥
दुर्वासा गालवश्चैव त्रिशिरा नै वो मुनिः ।
अगस्त्यश्च मृकण्डस्तु मार्कण्डेयो दधीचिकः ॥ २०१॥
कथितेषु दिनेष्वेते पूजनीया महात्मभिः ।
सर्वसौख्यप्रदातारो भवन्ते योगिसत्तमाः ॥ २०२॥
तीर्थयुक्तां गणेशानास्थाप्य सम्पूजयन्ति ते ।
मुनयो भक्तिसंयुक्ता क्षेत्रवासपरायणाः ॥ २०३॥
अतश्च किन्नराः साध्याः पुरो विद्याधरास्तथा ।
सेवन्ते गणनाथं संस्थाप्य क्षेत्रनिवासिनः ॥ २०४॥
पूजनीया नरैः सर्वे सर्वकारिण आदरात् ।
एवं सङ्क्षेपतः प्रोक्तं माहात्म्यं पश्चिमाश्रितम् ॥ २०५॥
अथोत्तरभवं देवाः कथयामि समासतः ।
मयूरक्षेत्रसंस्थानां चरित्रं सुखदं भवेत् ॥ २०६॥
देवागारात्तु धनुषां देवपाः शतपञ्चके ।
वसवोऽष्टौ स्थिताश्चैवास्थाप्य गाणेश्वरं परम् ॥ २०७॥
स्वस्वतीर्थभवं कुण्डं कृत्वा भक्तिपरायणाः ।
भजन्ते पूर्णिमायां ते पूजनीया विशेषतः ॥ २०८॥
तेषां वामाङ्गभागे तु धेनवः कामदायिकाः ।
संस्थिता तावता मानेन युतास्तीर्थसंयुताः ॥ २०९॥
गणेश्वरं ताः संस्थाप्य स्वस्वनामयुतं पराः ।
पूजयन्ति विधानेन भक्तियुक्ता महौजसः ॥ २१०॥
द्वादश्यां ता नरैः पूज्याः कामधेनुमुखाः सुराः ।
क्षेत्रवासिभिरानन्ददायिकाः कामपूरिकाः ॥ २११॥
दक्षिणाङ्गे सितश्चैव देवलश्च समास्थितौ ।
गणेश्वरं तौ संस्थाप्य पूजतो योगिसत्तमाः ॥ २१२॥
उत्तरायां विशेषेण पूजनीयौ नरैः सदा ।
एकनिष्ठाप्रदौ स्यातां नराणां पापहारकौ ॥ २१३॥
वसूनां च पुरोभागे क्षेत्रं शतधनुर्द्वयम् ।
गार्ग्याणां ते नरैर्विद्याप्रदाः पूज्या विशेषतः ॥ २१४॥
उत्तराषाढनक्षत्रे यात्रा तेषां प्रकीर्तिता ।
गर्गः स्वयं महायोगी भजते गणनायकम् ॥ २१५॥
गवां पुरो महेशाना मौद्गला गणपप्रियाः ।
सेवन्ते विघ्नराजं ते तावन्मानेन संस्थिताः ॥ २१६॥
देवा विप्राश्च माण्डूका देवलासितयोः पुरः ।
सेवन्ते गणनाथं ते सर्वे भक्तियुताः सदा ॥ २१७॥
उत्तराभाद्रनक्षत्रे मौद्गला मानवैः सदा ।
पूजनीया विशेषेण योगदाः सम्भवन्ति ते ॥ २१८॥
माण्डूकाः पूर्वफल्गुन्यां पूजनीया नरैः सदा ।
व्याधिदोषहरास्ते तु भवन्त्यत्र न संशयः ॥ २१९॥
असिताद्या इमे सर्वे स्वस्वनामाङ्कितं परम् ।
पूजयन्ति गणेशं संस्थाप्य तीर्थसमन्विताः ॥ २२०॥
तेषां पुरो महात्मानो मुनयस्तत्र संस्थिताः ।
मुख्यांस्तेषु प्रवक्ष्यामि शृणुध्वं योगिसत्तमान् ॥ २२१॥
धौम्यश्च वाल्मीकिवाचक्नवी मङ्कणको मुनिः ।
कहोडश्च सुमन्तुर्वै वैशम्पायन एव च ॥ २२२॥
जाबालिः पर्वतः पैल ऋष्यशृङ्गः प्रतापवान् ।
(Page खं. ६ अ. २० पान ५५)
लोमशश्च विभाण्डोऽन्यो बल्लवाद्या महर्षयः ॥ २२३॥
स्वस्वतीर्थयुतास्ते संस्थाप्य विघ्नेश्वरान् सदा ।
पूजयन्ति महाभागाः स्वस्वनामसमन्वितान् ॥ २२४॥
उत्तराषाढनक्षत्रे पूजनीया नरैः सदा ।
सर्वपापहरास्ते वै भवन्ते योगिसत्तमाः ॥ २२५॥
तत्पुरो गुह्यकाश्चैव हनूमान् पवनात्मजः ।
यक्षा रक्षोगणाः सर्वे भजन्ते गणनायकम् ॥ २२६॥
स्थाप्य ढुण्ढिं स्वतीर्थैस्तु युता ध्यानपरायणाः ।
उत्तराभाद्रनक्षत्रे पूजनीयाः शुभप्रदाः ॥ २२७॥
मुक्तेरीशानभागे तु सरः प्रणवसंज्ञितम् ।
प्रणवाकृति तत्रैव स्नाने मूर्ध्नि ध्वनिर्भवेत् ॥ २२८॥
तत्रोङ्कारगणेशश्च सरस्वत्या समन्वितः ।
चतुर्थ्यां पूजनीयोऽसौ सर्वसिद्धिप्रदायकः ॥ २२९॥
तत्पुरो भैरवस्यैव दूता नग्नस्य सर्वतः ।
रक्षार्थं संस्थिता देवा महाबलसमन्विताः ॥ २३०॥
अन्ये नानाविधास्तत्र स्थितास्तेषां महात्मनाम् ।
नामादिकं बहुत्वात् कथयितुं नैव शक्यते ॥ २३१॥
इदमुत्तरगं प्रोक्तं मयूरस्य चरित्रकम् ।
सङ्क्षेपेण महादेवाः सर्वसिद्धिप्रदायकम् ॥ २३२॥
यात्रादिसंयुतं यस्तु शृणोति क्षेत्रवासिनाम् ।
मुख्यानां चरितं पुण्यं स सर्वं प्रलभेत् सुखम् ॥ २३३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते क्षेत्रवासिचरितवर्णनं नामैकोनविंशतितमोऽध्यायः ॥ ६.१९
६.२० मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
मयूरं कीदृशं देवालयं विप्र किमात्मकम् ।
गर्भागारं तथा योगिन् वद गाणेशरूपकम् ॥ १॥
भृशुण्ड्युवाच ।
चित्रं नानाविधं सर्वं मायारूपं मयूरकम् ।
तदेव गणनाथस्य रूपं ज्ञातव्यमुत्तमम् ॥ २॥
दिवुः क्रीडात्मको धातुर्मायाक्रीडाकरः स्वयम् ।
गणेशस्तस्य रूपं यद्देवागारं प्रकीर्तितम् ॥ ३॥
यथा गर्भश्च देवेन्द्राः शुक्रशोणितसम्भवः ।
द्वाभ्यामेकत्वमापन्नो जायते द्वन्द्वधारकः ॥ ४॥
मायामायिकयोर्योगे तथा स्वानन्द उच्यते ।
गर्भागारं तदेवाऽपि ज्ञातव्यं योगिभिः परम् ॥ ५॥
स्वानन्दे वसतिस्तस्य गणेशस्य महात्मनः ।
स एव मूर्तिमास्थाय सन्तस्थावुत्तरामुखः ॥ ६॥
एतत् सर्वं रहस्यं यत् कथितं सर्वमञ्जसा ।
तं सेवध्वं महेशानास्तेन सर्वमवाप्स्यथ ॥ ७॥
देवेन्द्रा ऊचुः ।
क्षेत्रं गणपतेर्योगिन् सर्वं गाणेशरूपकम् ।
तत्र स्थिता विशेषेण देवविप्रादयः प्रभो ॥ ८॥
तेषां पुरीषमूत्रादिव्यवहारः कथं भवेत् ।
स्त्रीसङ्गपुत्रपौत्राद्यं सर्वं तद्दुर्घटं भवेत् ॥ ९॥
भृशुण्ड्युवाच ।
(Page खं. ६ अ. २० पान ५६)
साक्षाद्गणेश्वरस्यैव देहो योगमयोऽमराः ।
न तस्य बाधते किञ्चिन् मृतरूपमिदं कदा ॥ १०॥
लोकानामुपकाराय जलपृथ्व्यादिकं तथा ।
रचितं सर्वसामान्यं तत्र वासेन लभ्यते ॥ ११॥
गणेशः सर्वयोगानामधिपो नात्र संशयः ।
न गणेशस्वरूपस्य विक्रिया जायते ततः ॥ १२॥
योगरूपे नरास्तत्र निश्चये न मृताः किल ।
गाणेशे सम्भविष्यन्ति तदाकारा न संशयः ॥ १३॥
तथा नरादयश्चान्ये वसन्ति क्षेत्रवासिनः ।
कुर्वन्ति मलमूत्रादि देवादीनां न बाधते ॥ १४॥
देवविप्रादयस्तत्र संस्थिता व्याप्य देवपाः ।
अङ्गुष्ठपर्वमात्रेण रूपेण क्षेत्रवासिनः ॥ १५॥
मयूरं तन्मयं क्षेत्रं ज्ञातव्यं दिव्यचक्षुषा ।
मृन्मयं मानवानां तु तद्दोषस्तत्र नो भवेत् ॥ १६॥
तथापि मृन्मये क्षेत्रे गर्भागारं विशेषतः ।
मलमूत्रादिदोषैश्च संयुतं नैव कारयेत् ॥ १७॥
तेन सर्वं शुभं सर्वैर्लभ्यते मानवैः परम् ।
यथा धर्मयुतैर्नित्यं सेवनीयं मयूरकम् ॥ १८॥
भवेद्विपथभावेन मयूरे संस्थितो यदि ।
स यातनां लभेच्चोग्रां नग्नभैरवकारिताम् ॥ १९॥
देवेशा ऊचुः ।
गर्भागारे मलस्यैव नरस्त्यागं समाचरेत् ।
तस्मै भैरवदत्तां तां यातनां कीदृशीं वद ॥ २०॥
मयूरे पापकर्माणि यः करोति तु मानवः ।
स भुङ्क्ते यातनां विप्र कीदृशीं तां वदस्व नः ॥ २१॥
मयूरं केन पुण्येन लभ्यते तद्वदस्व च ।
क्षेत्रसंन्यासिनां चैव द्वारयात्रां किमात्मिकाम् ॥ २२॥
भृशुण्ड्युवाच ।
इतिहासं प्रवक्ष्यामि पुराकल्पसमुद्भवम् ।
तेन संशयहीनाश्च भविष्यथ सुरोत्तमाः ॥ २३॥
देवागारे द्विजः कश्चिद्देवानीकेति नामतः ।
अत्रिगोत्रोद्भवः सुज्ञः संस्थितोऽभूत् सुकर्मवान् ॥ २४॥
स्वधर्मसंयुतो नित्यं सिषेवे गणनायकम् ।
देवविप्रातिथिप्रेप्सुः क्षेत्रयात्रापरायणः ॥ २५॥
एवं बहौ गते काले वृद्धस्तत्र बभूव ह ।
तथापि नित्ययात्रायां रतोऽभूद् धर्मधारकः ॥ २६॥
एकदा ज्वरयुक्तश्चाजीर्णान्नेन प्रपीडितः ।
जगाम स मयूरेशं पूजनाय महायशाः ॥ २७॥
पूजयित्वा गणेशानं नित्ययात्रां चकार ह ।
तत्रापानभवो वायुः पीडयन्नतिदूषितः ॥ २८॥
हठात् सङ्गृह्य विप्रस्तं त्यक्त्वा यात्रां महामतिः ।
स्वगृहं प्रजगामाऽसौ त्वरायुक्तोऽतिदुःखितः ॥ २९॥
गच्छतोऽजीर्णदोषेणातिसारेण महात्मनः ।
मलः शिथिलभावेन निःसृतो गर्भमन्दिरे ॥ ३०॥
ततोऽतिदुःखसंयुक्तः स्नानं चक्रे स वाडवः ।
शनैः स्वगृहमागम्य शोकयुक्तो बभूव ह ॥ ३१॥
अहो मयाऽतिमूर्खेण गर्भागारे कृतं परम् ।
मलत्यागभवं पापं का गतिर्मे भविष्यति ॥ ३२॥
ततस्तत्र ममारैव स्वल्पकालेन विप्रपः ।
रोगेण पीडितोऽत्यन्तं देवानीको महायशाः ॥ ३३॥
ततस्तं भैरवस्यापि दूता नेतुं समागताः ।
बद्ध्वा सन्ताड्य विप्रं सङ्गृह्य ते भैरवं ययुः ॥ ३४॥
दृष्ट्वा स भैरवो देवस्तमुवाच द्विजाधमम् ।
किमर्थं रोगयुक्तस्त्वं गर्भागारं गतो वद ॥ ३५॥
(Page खं. ६ अ. २० पान ५७)
अत्यसाध्यशरीरेण गमनं यत्त्वया कृतम् ।
भुङ्क्ष्व पापं महादुष्ट मलत्यागभवं परम् ॥ ३६॥
साक्षाद्गणपतेः स्थाने गर्भागारे गतो भवान् ।
तस्य मस्तकमध्ये तु पपात किल ते मलः ॥ ३७॥
अस्माभिश्च सुवासेन जलेन क्षालितं तदा ।
मस्तकं तस्य देवस्य विष्ठायुक्तं तया कृतम् ॥ ३८॥
इत्युक्त्वा क्रूररूपं स दर्शयामास भैरवः ।
देवानीकाय तं सोऽपि दृष्ट्वा मूर्च्छामवाप ह ॥ ३९॥
ततस्तं सावधानं स पुनः कृत्वाऽग्निचक्रगम् ।
चकार दूतवर्यैश्च नग्नभैरव एव च ॥ ४०॥
अग्निचक्रे द्विजो नित्यं दाहयुक्तो बभूव ह ।
बभ्राम देवमुख्याश्च हाहाकाररवाकुलः ॥ ४१॥
भैरवाणां महावह्निर्मतः कोटिगुणाधिकः ।
यमस्याग्नेश्च जन्तूनां तं स्प्रष्टुं कः क्षमो भवेत् ॥ ४२॥
शतवर्षाणि विप्रेशोऽग्निचक्रं तत् समाश्रितः ।
बभ्राम दाहसंयुक्तो न ममार स मायया ॥ ४३॥
भैरवेण निबद्धः स दुःखमेव सुदारुणम् ।
बुभुजे ब्राह्मणस्तत्र मया वक्तुं न शक्यते ॥ ४४॥
ततो हैमगुहायां स निक्षिप्तो ब्राह्मणाधमः ।
शतवर्षाणि तत्रैवाभवच्छैत्येन पीडितः ॥ ४५॥
ततः स रौरवे तेन निक्षिप्तो जन्तुभिस्तथा ।
दंशितस्तत्र संस्थश्च कोटिवृश्चिकसन्निभैः ॥ ४६॥
शतवर्षाणि तत्रैव पीडितस्तेन दारुणम् ।
ततस्तप्तशिलायां स पोथितोऽभूत् पुनः पुनः ॥ ४७॥
शतवर्षाणि तत्रैव यातनां बुभुजे पराम् ।
ततः पिशाचयोनिस्थः क्षेत्रे पीडायुतोऽभवत् ॥ ४८॥
अन्नवस्त्रजलादिभ्यो हीनो बभ्राम वाडवः ।
अशुचीन् स नरान् प्राप्य तद्देहस्थो बभूव ह ॥ ४९॥
तत्रैव शास्त्रमन्त्रेण वैदिकेन द्विजोत्तमैः ।
ताडितस्तान् परित्यज्य बभ्राम यत्र तत्र ह ॥ ५०॥
एवं वर्षाणि देवेशाः शतं कृत्वा पुनश्च तम् ।
आनाय्य भैरवो देवो जगाद वचनं हितम् ॥ ५१॥
देवानीक त्वया भक्त्या यात्रार्थं गर्भमन्दिरम् ।
अशक्तेन कृतं चैव मलयुक्तं महामते ॥ ५२॥
तेन त्वं पञ्चशतकं वर्षाणां यातनाभवम् ।
दुःखं भुक्त्वा महाविप्राऽधुना तं गणपं व्रज ॥ ५३॥
इत्युक्त्वा तं महेशाना ब्रह्मभूतं चकार ह ।
एवं वः कथितं तत्र मलत्यागे महद्भयम् ॥ ५४॥
यदि स्वाधीनदेहश्चेत् ज्ञात्वा गर्भालये मलम् ।
त्यजेत् सोऽपि नरः पूर्णां यातनां प्रलभेत् पराम् ॥ ५५॥
इदं श्रुत्वा नरो यस्तु त्रासयुक्तो भवेत् कदा ।
तदारभ्य मलत्यागं न कुर्यात् स लभेद्गतिम् ॥ ५६॥
तं निर्भर्त्स्य महाक्रूरा भैरवा यातनाभवम् ।
दर्शयित्वा महद् दुःखं ब्रह्मभूतं तु चक्रिरे ॥ ५७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मलत्यागयातनाकथनं नाम विंशतितमोऽध्यायः ॥ ६.२०
(Page खं. ६ अ. २१ पान ५८)
६.२१ मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
विकर्मकारिणां क्षेत्रे कथयिष्यामि चाधुना ।
यथा दण्डः स्वहस्तैश्च क्रियते भैरवैर्महान् ॥ १॥
मयूरे क्षत्रियः कश्चिद्वासं कृत्वा स्थितोऽभवत् ।
गत्वा वनान्तरे लोकान् हत्वा द्रव्यं समग्रहीत् ॥ २॥
कुटुम्बपोषणे सक्तः शिश्नोदरपरायणः ।
चकार विविधं पापं क्षेत्रे मायूरसंज्ञिते ॥ ३॥
परस्त्रियं बलाद् गृह्यायभत्तां निरपत्रपः ।
जातिभेदादिकं सोऽपि मान्यं नैव चकार ह ॥ ४॥
भगिनीमेकलां दृष्ट्वा कदा मद्येन विह्वलः ।
हठात् गृह्य महेशाना बुभुजे कामनायुतः ॥ ५॥
चौरादीनि चकारापि ब्रह्महत्यां तथा खलः ।
गोस्त्रीवधादिकं दुष्टः किं वदामि विशेषतः ॥ ६॥
गणेशं न पुपूजासौ कदाचिदमरान् परान् ।
यात्रां नैव चकारापि पापनिष्ठो ममार ह ॥ ७॥
भैरवास्तं समागृह्य बद्ध्वा ताड्य नराधमम् ।
निन्युः स्वस्थानगं ते तु नग्नं भैरवनायकम् ॥ ८॥
क्षत्रियोऽथ महाक्रूरं दृष्ट्वा भैरवनायकम् ।
हाहा कृत्वा पपाताऽसौ मूर्च्छितो धरणीतले ॥ ९॥
सावधानं ततः कृत्वा मायया नग्नभैरवः ।
मृतिमूर्च्छाविहीनं च दुष्टं चकार सर्वपः ॥ १०॥
ततस्तं गृह्य दूतास्ते भैरवस्य महात्मनः ।
अग्निकुण्डेषु सङ्क्षिप्य दाहयामासुरञ्जसा ॥ ११॥
सहस्रे ते तं गतेषु वर्षेषु क्रोधसंयुतः ।
अग्निचक्रे समाक्षिप्य भ्रामयामासुरञ्जसा ॥ १२॥
हाहाकाररवैर्युक्तो बभ्रामाग्नौ नराधमः ।
न ममार न मूर्च्छां सोऽलभद्भैरवमायया ॥ १३॥
ततः सहस्रवर्षान्ते हैमकुण्डे समाक्षिपन् ।
भैरवास्तं महादुष्टं शीतैश्चक्रुः प्रपीडितम् ॥ १४॥
ततः सहस्रवर्षान्ते शिलायां स्थाप्य मुद्गरैः ।
चूर्णयामासुरुग्रैस्तं खलं कण्टकसंयुतैः ॥ १५॥
एवं गतानि वर्षाणि सहस्रं देवसत्तमाः ।
ततो याम्यां ददुस्तस्मै यातनां दारुणां पराम् ॥ १६॥
रुरुर्जन्तुभिरादष्टो रौरवेऽभून्नराधमः ।
स सहस्रं वर्षकाणि महोग्रैर्वह्निसन्निभैः ॥ १७॥
ततस्तैलकटाहेषु सन्तप्तेषु च तं भटाः ।
चिक्षिपुर्दारुणां सोऽपि वेदनां बुभुजे पराम् ॥ १८॥
ततः सहस्त्रवर्षान्ते तप्तवालुभिरेव तम् ।
आच्छाद्य स्थापयामासुर्भैरवाः क्षत्रियाधमम् ॥ १९॥
सहस्रं तत्र वर्षाणि बुभुजे दुःखमुल्बणम् ।
ततः स पपात पिशाचयोन्यां दुःखसंयुतः ॥ २०॥
क्षुधा तृषा समायुक्तः सदा शीतोष्णभावकैः ।
बभ्राम क्षेत्रमध्ये स पीडितो यत्र तत्र च ॥ २१॥
तत्र तं देवदूताश्च दृष्ट्वा स्वनिकटे स्थितम् ।
तदा दण्डादिभिः सर्वे ताडयामासुरोजसा ॥ २२॥
वेदशास्त्रध्वनिं श्रुत्वा होमधूमादिकं तथा ।
पपाल दुःखसंयुक्तो मन्त्रशस्त्रभयात् कदा ॥ २३॥
त्रीणि वर्षसहस्राणि भुक्त्वा दुःखं ततः परम् ।
भैरवैश्च समानीतो ननाम नग्नभैरवम् ॥ २४॥
शुद्धस्तेन समानीतो गणेशस्यैव मन्दिरे ।
गणेश्वरं तत्र दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २५॥
एवं पापप्रचारान् सन्दण्ड्य ब्रह्ममयं पुनः ।
चक्रुः क्षेत्रे मृतत्वात् कथयितुं शक्यते न वै ॥ २६॥
(Page खं. ६ अ. २१ पान ५९)
अन्यं पापकृतः कर्म दाहकं विधिमुत्तमम् ।
कथयामि समासेन शृणुध्वं शिवमुख्यकाः ॥ २७॥
ब्राह्मणः काश्यपः कश्चित् मयूरे संस्थितोऽभवत् ।
चौर्यमद्यादिकं सोऽपि चकार नित्यमादरात् ॥ २८॥
परस्त्रीलम्पटः सोऽपि शिश्नोदरपरोऽभवत् ।
ब्रह्महत्यां द्रव्यलोभाच्चकार काश्यपोऽधमः ॥ २९॥
ज्ञात्वा राज्ञा द्विजस्यैवाहृत्य सर्वं पुनर्द्विजम् ।
बद्ध्वा क्षेत्राद्बहिश्चक्रे नरैर्धर्मपरायणैः ॥ ३०॥
ततो द्विजो विलप्यैव कृत्वा शपथमागतः ।
मयूरं तत्र लोकैः स द्वारयात्रा परोऽभवत् ॥ ३१॥
द्वारयात्रारतं दृष्ट्वा लोकास्तं मेनिरे पुनः ।
ब्राह्मणं श्रद्धया युक्ता वस्त्रान्नं च ददुः परम् ॥ ३२॥
चतुर्द्वारमयीं यात्रां चकार ब्राह्मणाधमः ।
पञ्चम्यां पारणं चक्रे षष्ठ्यां सर्पेण दंशितः ॥ ३३॥
मृतं मयूरक्षेत्रे तं विषोग्रेण प्रपीडितम् ।
सङ्गृह्य भैरवाः सर्वे नग्नभैरवमाययुः ॥ ३४॥
यातनागारकं देवो दर्शयामास भीतिदम् ।
तस्मै पुनश्च विघ्नेशं दर्शयामास देवपाः ॥ ३५॥
दृष्ट्वा गणपतिं सोऽपि ब्रह्मभूतो बभूव ह ।
क्षेत्रे कृतं महत्पापं द्वाराणां यात्रया गतम् ॥ ३६॥
अन्यच्च शृणुत प्राज्ञा मयूरे चरितं भवम् ।
पुरा कल्पे समासेन कथयामि महेश्वराः ॥ ३७॥
दण्डकारण्यदेशे तु ब्राह्मणोऽत्रिकुलोद्भवः ।
बाल्यात् प्रारभ्य दुर्बुद्धिः पापकर्मपरोऽभवत् ॥ ३८॥
नाम्ना देवाः सुप्रतीको द्रव्यलोभी बभूव ह ।
चौर्यद्रव्यं जनानां सङ्गृह्य भोगान् बुभोज च ॥ ३९॥
कदा सप्तपुरीणां च यात्रार्थं जग्मुरादरात् ।
चर्तुवर्णजनाः सोऽपि तेषां मध्ये जगाम ह ॥ ४०॥
द्रव्यलोभी जनानां च चौर्यद्रव्यं समग्रहीत् ।
एवं बहुधनस्तत्र जातोऽसौ ब्राह्मणाधमः ॥ ४१॥
कृत्वा सप्तपुरीणां ते यात्रां पुनः समाययुः ।
स्वदेशं तैः समायुक्तः सोऽपि स्वगृहमाययौ ॥ ४२॥
ततः स्त्रीपुत्रकान् स्वस्य मण्डयामास भूषणैः ।
चचार तीर्थगो भूत्वा कदाचिच्चौर्यकारणात् ॥ ४३॥
द्विजः पौराणिकं दृष्ट्वा पुराणकथने रतम् ।
चौर्यार्थं तत्र पापात्मा जनमध्ये समास्थितः ॥ ४४॥
ततो मयूरक्षेत्रस्य माहात्म्यं स्कान्दसम्भवम् ।
शुश्राव सुप्रतीकश्च जनैः सर्वैर्महेश्वराः ॥ ४५॥
मयूरक्षेत्रमाहात्म्यश्रवणेन दुरात्मनः ।
द्विजस्य बुद्धिभेदो वै बभूवे दैवयोगतः ॥ ४६॥
स तु तत्र चकारापि विचारं मानसे परम् ।
अहो मया द्विजेनैव किं कृतं पापमुल्बणम् ॥ ४७॥
विषादिना हता लोका ब्राह्मणाद्या मया बहु ।
तीर्थेषु चौर्यहत्यादि पापं तु प्रकृतं मया ॥ ४८॥
काश्यां प्रदक्षिणायां तु पञ्चक्रोश्यां मया परम् ।
पापं कृतमपारं वै का गतिर्मे भविष्यति ॥ ४९॥
मद्विना ब्राह्मणः कश्चिदीदृशो न भवेत् कदा ।
यो ब्रह्मणि रतः सर्वो ब्राह्मणस्तेन कथ्यते ॥ ५०॥
एकान्तगं ततः पौराणिकं गत्वा द्विजाधमः ।
उवाच तं प्रणम्यादौ कृत्वा करपुटं वचः ॥ ५१॥
सुप्रतीक उवाच ।
(Page खं. ६ अ. २१ पान ६०)
सर्वतीर्थेषु क्षेत्रेषु पापं दुष्टः समाचरेत् ।
वज्रलेपं तदेवाऽपि कुत्र नाशं गमिष्यति ॥ ५२॥
पौराणिक उवाच ।
सप्तपुर्यादिक्षेत्रेषु नरः पापं समाचरेत् ।
तन् मयूरक्षेत्र एव प्रवेशेन लयं व्रजेत् ॥ ५३॥
चतुर्विधानि क्षेत्राणि सर्वत्र ब्रह्मगोलके ।
धर्मार्थकाममोक्षाणां प्रदानि सेवतां द्विज ॥ ५४॥
पञ्चमं ब्रह्मभूताख्यं मयूरं नात्र संशयः ।
तत्र पापं कृतं चेद्वै वज्रलेपतमं भवेत् ॥ ५५॥
एवं तस्य वचः श्रुत्वा तं प्रणम्य समाययौ ।
गृहं दारादि सङ्गृह्य मयूरेशं जगाम ह ॥ ५६॥
यथाविधि चकाराऽसौ यात्रां क्षेत्रसमुद्भवाम् ।
द्वारादिचिह्नितां सोऽपि निवासमकरोत्ततः ॥ ५७॥
देवागारं समाश्रित्याभजत्तं गणनायकम् ।
अन्ते पापविहीनः स ब्रह्मभूतो बभूव ह ॥ ५८॥
एवं नाना जनास्तत्र पतितानां महेश्वराः ।
पतिताः पापहीनाः प्रवेशे जाता मयूरके ॥ ५९॥
अधुना कथयिष्यामि चरित्रं यत् पुरातनम् ।
श्रुत्वा संशयहीनास्तं मयूरेशं भजन्ति वै ॥ ६०॥
वैश्यो धर्मध्वजो नाम द्रव्यलोभी बभूव ह ।
विषेण पितरं सोऽपि मारयामास लोभतः ॥ ६१॥
नानाद्विजादिकान् सोऽपि वन्द्य पूज्यान् दुरात्मवान् ।
विषेण मारयामास नित्यं द्रव्यार्थमुल्बणः ॥ ६२॥
स कदाचिद्वणिग्भिश्च क्रयविक्रयकारणात् ।
जगाम दण्डकारण्ये जनैः सह महाखलः ॥ ६३॥
तत्र माघे महायात्रां जग्मुर्लोका विशेषतः ।
मयूरेशं ततः सोऽपि तैर्जगाम सुहर्षितः ॥ ६४॥
द्रव्यलोभार्थमानन्दात् पुरं मायूरमाययौ ।
तत्र प्रवेशमात्रेण तं च पापानि तत्यजुः ॥ ६५॥
बहिः स्थितानि पश्यन्ति यदाऽसावागमिष्यति ।
तदा पुनः प्रवेशं वै करिष्यामो नराधमम् ॥ ६६॥
तत्र दैवप्रसङ्गेन न पापानि चकार ह ।
यथाविधि तथा यात्रां चक्रे हर्षसमन्वितः ॥ ६७॥
पुनर्मानवसङ्घैः स निर्जगाम महेश्वरः ।
मयूरेशं परित्यज्य मार्गसंस्थो बभूव ह ॥ ६८॥
तं दृष्ट्वा तस्य पापानि शुद्धं यात्राविधानतः ।
स्प्रष्टुं तान्यसमर्थानि बभूवुर्देवसत्तमाः ॥ ६९॥
ततः पापानि सर्वाणि विचारं चक्रुरादरात् ।
अहो यः क्षेत्रगो भूत्वा पापानि कुरुते सदा ॥ ७०॥
तथाऽस्माभिर्मयूरेऽयं गत्वा पापं करिष्यति ।
ज्ञातं तेन महाविघ्नैः पीडितो नैव निश्चितम् ॥ ७१॥
अधुना शुद्धरूपोऽयं बहिः सदा समागतः ।
अतः पुण्यानि नित्यं तु करिष्यति विशेषतः ॥ ७२॥
वयं कुत्र गमिष्यामो विघ्नं कुरुत सर्वतः ।
येनाऽयं पापकर्माऽपि कुरुते पापमल्पकम् ॥ ७३॥
किञ्चित् पापयुतं वैश्यं प्रविश्यामो विशेषतः ।
ततो महाघसंयुक्तं करिष्यामो न संशयः ॥ ७४॥
एवं विचार्य पापानि पापिनां हृदयेषु च ।
प्रविश्य तान् समानाय्य वैश्यं तं समपीडयन् ॥ ७५॥
अकस्माच्चौरमुख्यैश्च द्रव्यं तस्य समाहृतम् ।
तेनातिदुःखयुक्तो हि धर्मध्वजो बभूव ह ॥ ७६॥
ततः पापेषु दुर्बुद्धिश्चकार ह पुनर्मतिम् ।
(Page खं. ६ अ. २२ पान ६१)
एतस्मिन्नन्तरे तत्र ब्राह्मणं स ददर्श ह ॥ ७७॥
तं प्रणम्य स्ववृत्तान्तं कथयामास विस्तरात् ।
श्रुत्वा तं पुनरप्याह ब्राह्मणः सर्वमार्गवित् ॥ ७८॥
त्वया कृतानि पापानि तानि त्वां पीडयन्ति वै ।
अतस्त्वं सत्वरो भूत्वा मयूरेशं समाश्रय ॥ ७९॥
स्वजनैः पुत्रदारादि समानाय्य महामते ।
तत्रस्थो धर्मसंयुक्तो दुःखहीनो भविष्यसि ॥ ८०॥
तच्छ्रुत्वा स प्रणम्यादौ तं मयूरेशकं द्विजम् ।
जगाम त्वरया युक्तस्ततः सर्वान् समानयत् ॥ ८१॥
मयूरे वैश्यवृत्या च धर्मयुक्तः समास्थितः ।
धर्मध्वजश्चकाराऽसौ गणेशभजनं सदा ॥ ८२॥
पापानि भोगहीनानि बहिर्मम्रुः स्थितान्यपि ।
धर्मध्वजश्च देवेशा ब्रह्मैवान्ते बभूव ह ॥ ८३॥
क्षेत्रं नरेण मायूरं न त्याज्यं तु कदाचन ।
पीडितेन महादोषैर्मतं तदपि तद्वरम् ॥ ८४॥
अन्यत्र राज्यभोगस्थोऽथवा स्वर्गस्थ एव सः ।
मयूरे नीचजातिस्था किञ्च तेन समो न हि ॥ ८५॥
आयासेन विहीनत्वाद्ब्रह्मभूतो भवेन्नरः ।
मयूरे तेन किं तुल्यं भवेद्ब्रह्माण्डमण्डले ॥ ८६॥
इदं यः शृणुयाद्देवा श्रावयेद्वा पठेन्नरः ।
पापहीनः स्वभावेन धर्मयुक्तो भविष्यति ॥ ८७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरे यात्रार्थप्रवेशफलादिवर्णनं नामैकविंशतितमोऽध्यायः ॥ ६.२१
६.२२ क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
अथ वक्ष्यामि देवेशा मयूरप्रापकं महत् ।
पुण्यं चित्तैकभावेन शृणुध्वं सुखदायकम् ॥ १॥
कुत्र आङ्गिरसे जातो देवप्रिय इति श्रुतः ।
पुरा कल्पे स धर्मात्मा स्वधर्मनिरतोऽभवत् ॥ २॥
गणेशे प्रीतिसंयुक्तो गाणपत्यप्रियोऽभवत् ।
मुक्तिमिच्छन् सदा कर्माणि चकार विधानतः ॥ ३॥
ततस्तस्य महेशाना बुद्धिः प्रादुर्बभूव ह ।
तया सम्प्रेरितस्तीर्थानि क्षेत्राणि चकार ह ॥ ४॥
शास्त्रे विधिं समाश्रित्य पृथिव्यां मुख्यकानि सः ।
क्षेत्राणि तीर्थमुख्यानि यात्रया चाकरोद् द्विजः ॥ ५॥
ततः स्वगृहमागत्य दारापत्यैः समन्वितः ।
गणेशमभजन्नित्यं भक्तियुक्तेन चेतसा ॥ ६॥
ततश्च मानसे सोऽपि विचारमकरोत् परम् ।
अहो मयूरपक्षेत्रं सेवनीयं निरन्तरम् ॥ ७॥
ज्ञात्वा द्विजं समुद्युक्तं दारापत्यैः समन्वितम् ।
माया तं पीडयामास मयूरे वासभञ्जनात् ॥ ८॥
यात्रार्थं तेन यत्किञ्चित् गृहे द्रव्यादि सञ्चितम् ।
(Page खं. ६ अ. २२ पान ६२)
तदेव चौरमार्गेण नष्टं मायाप्रभावतः ॥ ९॥
ततोऽतिविस्मितो भूत्वा खेदयुक्तो बभूव ह ।
पापयुक्तोऽहमत्यन्तं तेन विघ्नयुतः कृतः ॥ १०॥
शुक्लवृत्त्या गमिष्यामि मयूरेशं न संशयः ।
ततो ज्वरसमायुक्तो बभूव ब्राह्मणोत्तमः ॥ ११॥
निर्जगाम ततः सोऽपि स्वगृहे ज्वरसंयुतः ।
शुक्लवृत्तिधरो भूत्वा नियम्यात्मानमात्मना ॥ १२॥
तृतीये दिवसे तत्र विघ्नेशो विघ्नहारकः ।
बभूव स द्विजस्याऽपि परं शृणुत चेष्टितम् ॥ १३॥
गणेशकृपया विप्रो ज्वरहीनो बभूव ह ।
ब्राह्मणस्य स्वरूपेण गणेशस्तं समाययौ ॥ १४॥
तस्य पुत्रं समाहूय द्रव्यं दत्वा सुपुष्कलम् ।
अन्तर्धानं चकाराऽसौ पुत्रस्तातं जगाद तु ॥ १५॥
ज्ञात्वा देवं विचार्यैव स्वस्थचित्तो बभूव ह ।
देवप्रियो मयूरेशमाजगाम द्विजोत्तमः ॥ १६॥
यात्रादिकं चकाराऽसौ गर्भागारे समाश्रितः ।
अभजद्गणराजं तमन्ते तल्लीनतां ययौ ॥ १७॥
यानि क्षेत्राणि तीर्थानि ब्रह्माण्डे सेवितानि चेत् ।
तदा नरेण मायूरक्षेत्रं लभ्यं महेश्वराः ॥ १८॥
देवेशा ऊचुः ।
चोरादयः समाख्यातास्त्वया ब्रह्मर्षिसत्तम ।
किं चक्रुर्येन पुण्येन मयूरेशे लयं ययुः ॥ १९॥
भृशुण्ड्युवाच ।
पूर्वजन्मनि माहात्म्यं संश्रुतं किञ्चिदप्यहो ।
क्षेत्रस्य पापकर्मस्था अन्ते तत् सस्मरुर्यदि ॥ २०॥
अन्ते स्मरणयोगेन पापिनोऽन्यभवे कदा ।
ययुः क्षेत्रे मरणतो लयं देवा गणेश्वरे ॥ २१॥
गाणेशस्य च मार्गस्य श्रवणं पापचेतसाम् ।
भवेन्नानाविधस्याऽपि किञ्चिद्देवेन्द्रसत्तमाः ॥ २२॥
यदि मरणकाले तु तस्य संस्मरणं भवेत् ।
पुरो जन्मनि चाज्ञानात्तस्य संसेवनं भवेत् ॥ २३॥
अथवा ज्ञानयुक्तः स नरस्तत् सकृदाचरेत् ।
यद्वा तद्वाऽऽचरेद्वापि ब्रह्मभूतः स जायते ॥ २४॥
अथासंस्कारयुक्तस्य गाणेशेनाधिकारतः ।
प्रवेशो न भवेत्तस्य चरित्रं शृणुत प्रियाः ॥ २५॥
क्षत्रियः सुलभो नामा बभूव पृथिवीपतिः ।
अङ्गदेशस्य राज्यं स चकार धर्मसंयुतः ॥ २६॥
मयूरेशस्य स श्रुत्वा माहात्म्यं क्षेत्रसम्भवम् ।
पुत्रे राज्यं परित्यज्य वासार्थं तु मनो दधे ॥ २७॥
यथाशास्त्रं विधानेन मयूरेशं समाययौ ।
चकार विधिना यात्रां स्वयं द्वारादिचिह्निताम् ॥ २८॥
ततस्तत्र स्थितो राजा वार्षिकीं विविधां पुनः ।
चकार यात्रां क्षत्रस्थो देवादीनां विधानतः ॥ २९॥
ततो मनसि सन्धार्य क्षेत्रसंन्यासकारणात् ।
सर्वानाज्ञापयामास सस्त्रीकः स उवास ह ॥ ३०॥
ततः स भैरवेणैव बुद्धिभेदयुतः कृतः ।
विचारमकरोच्चित्ते किमिदं क्षेत्रमुत्तमम् ॥ ३१॥
न काशीतुल्यतां याति क्षेत्रं ब्रह्माण्डमण्डले ।
अयं शिवसुतः प्रोक्तो मयूरेशो न संशयः ॥ ३२॥
ब्रह्म सर्वत्र योगेन तिष्ठति तेन वर्ण्यते ।
वेदादिषु गणेशानो ब्रह्मरूपी न मुख्यतः ॥ ३३॥
अतोऽहं भ्रमितो नूनं वाण्या पुराणसंस्थया ।
(Page खं. ६ अ. २२ पान ६३)
गमिष्यामि न सन्देहः क्षेत्रं काशीसमाश्रितम् ॥ ३४॥
एवं विचार्य भूपालो मयूरं त्यज्य देवपाः ।
काशीं जगाम मार्गे स ममार रोगसंयुतः ॥ ३५॥
पूर्वसंस्कारयोगेन काश्यां स ब्राह्मणोऽभवत् ।
धर्मयुक्तश्चकाराऽपि काशीवासं हितार्थतः ॥ ३६॥
मरणोन्मुखकालाय तस्मै विश्वेश्वरः स्वयम् ।
गणेशैकाक्षरं मन्त्रं ददौ तारकनामकम् ॥ ३७॥
शौनक उवाच ।
कथां विचित्रां वदसि सूत त्वं हर्षदायिनीम् ।
तत्र संशयकं छिन्धि वदिष्यामि त्वदग्रतः ॥ ३८॥
रामनामभवं मन्त्रमवदत्तारकं परम् ।
पुराणं कुत्रचित् देवं शिवपञ्चाक्षरं पुनः ॥ ३९॥
कुत्रौङ्कारं च कुत्रापि शक्तिसूर्यात्मकं परम् ।
गणेशैकाक्षरं कुत्र निश्चयो नैव जायते ॥ ४०॥
अतः संशयनाशार्थं वद सर्वज्ञसत्तम ।
त्वदन्यः संशयच्छेत्ताऽस्माकं नैव भविष्यति ॥ ४१॥
सूत उवाच ।
बिम्बरूपं महद्ब्रह्म स एव चतुराननः ।
गकाराक्षरगश्चात्र गणेशैकाक्षरे मतः ॥ ४२॥
तस्य पालकभावेन विष्णुः सर्वप्रवर्तकः ।
अकाराक्षरसंस्थश्च मन्त्रराजे महामुने ॥ ४३॥
तयोः संहारकर्ता त्वनुस्वारः शङ्करः स्मृतः ।
वरदानाद् गणेशस्य मन्त्रे जानीहि निश्चितम् ॥ ४४॥
तेषां मनोमयो भानुः स्वस्वकर्मधरो बभौ ।
सानुनासिकरूपेण मन्त्रे सोऽपि प्रतिष्ठितः ॥ ४५॥
चतुर्णां देहरूपा सा शक्तिर्वाणीमयी मता ।
सर्वत्र संस्थिता विप्र मन्त्रे दृश्यस्वभावतः ॥ ४६॥
एभिः सृष्टं जगत्सर्वमोङ्काराकृतिलक्षणम् ।
तत्र क्रीडन्ति तेनैव मन्त्र ओङ्कारसंयुतः ॥ ४७॥
एतेषामर्थभावेन गणेशश्च प्रकीर्तितः ।
स एव देवता प्रोक्ता वेदेषु वेदवादिभिः ॥ ४८॥
गणेशमन्त्रगाः सर्वे देवेशाः शङ्करादयः ।
जगन्नानाविधं ब्रह्म तथा तत्र स्थितं मतम् ॥ ४९॥
यथा देवाश्च विप्रेश कलया गणपस्य वै ।
गणेशाकाररूपास्ते तथा मन्त्राः प्रकीर्तिताः ॥ ५०॥
अन्यच्च शृणु भावेन काश्यां नानाविधा जनाः ।
तिष्ठन्ति विविधान् देवान् भजन्ते भक्तिसंयुताः ॥ ५१॥
तेषु स्वधर्मनिष्ठा ये काशीवासं यथाविधि ।
कुर्वन्ति तारकं तेभ्यो ददाति शङ्करः स्वयम् ॥ ५२॥
तेषु शाक्ताः स्थितास्तत्र तेभ्यः शक्तिमयं परम् ।
तारकं कथयामास शङ्करः करुणानिधिः ॥ ५३॥
सौरेभ्यः सौरभावाख्यं शैवेभ्यः शिवरूपकम् ।
वैष्णवं विष्णुभक्तेभ्यस्तारकं ह्यवदच्छिवः ॥ ५४॥
स्वधर्मनिरतास्तत्र कर्म चक्रुश्च नित्यशः ।
कर्माङ्गदेवप्रीत्यर्थमोङ्कारं तेभ्य आदिशत् ॥ ५५॥
गाणेशा ये स्थितास्तेभ्यः पूर्णतारकरूपकम् ।
गणेशैकाक्षरं मन्त्रं ददाति हर्षसंयुतः ॥ ५६॥
ते सर्वे तारकं प्राप्य कैलासे शिवसन्निभाः ।
अतिष्ठन् योगमास्थाय मन्त्रध्यानपरायणाः ॥ ५७॥
साक्षात्कारं प्रचक्रुस्ते ब्रह्म यन् मन्त्रगं परम् ।
तत्र तल्लीनभावेन योगिनो बभ्रमुस्ततः ॥ ५८॥
महालये महेशस्य शरीरे लीनतां ययुः ।
पुनः सृष्टौ नरा भूत्वा तत्र योगरता बभुः ॥ ५९॥
(Page खं. ६ अ. २२ पान ६४)
मन्त्रं मन्त्रार्थभावं च त्यक्त्वा ब्रह्मणि संस्थिताः ।
स्वस्वेष्टब्रह्मगा अन्ते भवंस्ते मुनिसत्तम ॥ ६०॥
ये पापकारिणः काश्यां वसन्ति यदि ते मृताः ।
तेभ्यस्तारकरूपं तु न ददाति सदाशिवः ॥ ६१॥
भैरवीं यातनां ते तु भुक्त्वा कैलासमास्थिताः ।
लये मरणसंयुक्ताः पुनर्जन्मधरा मताः ॥ ६२॥
शौनक उवाच ।
वदन्ति वै पुराणेषु मुनयो ब्रह्मवादिनः ।
क्षेत्रेषु नानाभावेषु मृता मुक्तिमवाप्नुयुः ॥ ६३॥
तीर्थानि स्नानमात्रेण मुक्तिदानि वदन्ति च ।
व्रतादीनि महाप्राज्ञ नानामतविभेदतः ॥ ६४॥
सकामानि च कर्माणि कथितानि मुनीश्वरैः ।
नानाविधानि वै तेषु संस्मृतानि फलानि च ॥ ६५॥
तेषां कर्तार एवं ये फलानि प्राप्नुवन्ति ते ।
इहैव किञ्चित् केचित्तु परत्र द्विजसत्तम ॥ ६६॥
केचित् स्वल्पफलं केचित् पुष्कलं नात्र संशयः ।
किमिदं कौतुकं विप्र वद कारणमुत्तमम् ॥ ६७॥
काश्यां मुक्तिं विशेषेण प्राप्नुवन्ति नरादयः ।
तत्रैव मरणे सूत कथं ते जन्मिनोऽभवन् ॥ ६८॥
सूत उवाच ।
शब्दब्रह्मस्वरूपोऽयं गुरुरेकः प्रकीर्तितः ।
सर्वेषां विविधानां तु शिष्याणां नात्र संशयः ॥ ६९॥
शिष्याश्चतुर्विधाः प्रोक्ता उत्तमा मध्यमास्तथा ।
अधमा अधमेषु चाधमा मुनीन्द्रसत्तम ॥ ७०॥
विषयासक्तचित्ता ये पापकर्मपरायणाः ।
दुःखयुक्ता यदाऽत्यन्तं तदर्थं कर्मसेविनः ॥ ७१॥
अधमाधमरूपाश्च कथितास्ते महर्षिभिः ।
स्वल्पं फलं प्राप्नुवन्तीह परत्र सुनिश्चितम् ॥ ७२॥
यदि कर्मफलं स्वल्पं ददाति कथितं सदा ।
तेषां तत्र रुचिर्नैवोत्पद्यते मूर्खभावतः ॥ ७३॥
तेषां वचनभावार्थं प्रवृत्त्यर्थं च कर्मणि ।
फलमेकं समाख्यातं उत्तमाधममार्गिणाम् ॥ ७४॥
परेषां लज्जया ये तु भयाद्वा कर्म कारिणः ।
अधमास्ते समाख्याताः प्राप्नुवन्त्यधिकं फलम् ॥ ७५॥
सकामा ये स्वधर्मस्थाः कर्म कुर्वन्ति नित्यशः ।
मध्यमास्ते फलं सर्वं भुञ्जन्ति कालमानतः ॥ ७६॥
निःकामाः कर्मकर्तार उत्तमास्ते फलं मुने ।
अक्षयं कल्पपर्यन्तं भुञ्जन्त्यत्र न संशयः ॥ ७७॥
तत्रैव युगमानं ते कथयामि समासतः ।
कृते कर्म कृतं सद्यः फलदं जायते मुने ॥ ७८॥
त्रेतायां च कृतं कर्मान्यकर्माबाधभावतः ।
कालेन फलसंयुक्तं भवति प्राणिनां किल ॥ ७९॥
द्वापरे परलोके वाऽन्यकर्माबाधभावतः ।
इह ते वापि भुञ्जन्ति धर्महीनप्रभावतः ॥ ८०॥
कलौ तु परलोके ते वाऽन्यजन्मनि मानवाः ।
सम्भोक्ष्यन्ति कृतं कर्म कालमानप्रभावतः ॥ ८१॥
आसुरेणैव भावेन नराः सत्तादिवर्जिताः ।
अतो जानीहि रुच्यर्थं फलं चित्रं भवत्यहो ॥ ८२॥
यथाविधि कृतं कर्म तदा फलप्रदं भवेत् ।
अन्यथा कारकायैवासुरं दद्यात् फलं सदा ॥ ८३॥
कृते कर्म कृतं येन सकृत्तस्य फलं लभेत् ।
त्रेतायां निष्फलं दृष्ट्वा तदा द्विगुणमाचरेत् ॥ ८४॥
फलं ददाति त्रिगुणं द्वापरे कर्म निश्चितम् ।
(Page खं. ६ अ. २२ पान ६५)
कलौ चतुर्गुणं प्रोक्तं इहजन्मनि सौख्यदम् ॥ ८५॥
सकृच्चापि फलं कृत्वा लभेत् सत्कर्म मानवः ।
अथवा युगधर्मेण चतुर्गुणं फलं लभेत् ॥ ८६॥
अन्यत् काश्यादि माहात्म्यसम्भवं विपरीतगम् ।
मन्यसे तत्र वक्ष्यामि शृणु संशयनाशनम् ॥ ८७॥
आत्मानुभवहीनो यो मर्त्यो मोक्षं लभेन्न वै ।
इदं मुख्यं विजानीहि ह्यन्यत्र भ्रममात्रकम् ॥ ८८॥
यथा देवगणाः सर्वेऽमराः शास्त्रे प्रकीर्तिताः ।
ब्रह्मणो दिवसान्ते ते मृत्युयुक्ता भवन्त्युत ॥ ८९॥
नराणां तत्र जन्मानि सङ्ख्याहीनानि शौनक ।
भवन्ति तेन देवाश्चामराः सङ्कीर्तिता बुधैः ॥ ९०॥
तथापि पञ्च देवाश्चेश्वराः शास्त्रे प्रकीर्तिताः ।
विघ्नयुक्ता अनीशास्ते भवन्ति पश्य मानद ॥ ९१॥
महालये मरिष्यन्ति त्रिगुणैः संयुताः किल ।
पञ्च देवा न सन्देहो ब्रह्माद्याः शास्त्रमार्गतः ॥ ९२॥
तेषां लोकेषु क्षेत्रेषु मता मुक्तिश्च तादृशी ।
मरणैः संयुतान्येव क्षेत्राणि तत्र का कथा ॥ ९३॥
इन्द्रादीनां विनाशे ते समर्था मृत्युहीनकाः ।
तेषां जन्ममृती जन्तुर्न पश्यति कदाचन ॥ ९४॥
ईश्वरत्वमतः शास्त्रे कथितं रुचिकारणात् ।
जन्ममृत्युविहीनाऽपि मुक्तिः सङ्कथिता बुधैः ॥ ९५॥
वेदशास्त्रपुराणेषु स्वानन्दो लयवर्जितः ।
सदा ब्रह्ममयत्वाद्वै तत्र मुक्तिर्विशिष्यते ॥ ९६॥
स्वानन्देनैव यद्दत्तं तदेव ब्रह्म सौख्यदम् ।
पात्रहीनप्रभावत्वाद् द्विजैरन्यत्र वर्ण्यते ॥ ९७॥
अन्यत्र मुक्तिदान्येव प्रोक्तानि शास्त्रसम्मतैः ।
वासदानि तु तीर्थानि तानि क्षेत्राणि सप्तसु ॥ ९८॥
मृतः षट्सु नरस्तासु काश्यां धर्मयुतो भवेत् ।
मरणं तारकं प्राप्य ज्ञानयुक्तो भवेत् स्वयम् ॥ ९९॥
पुनर्जन्मनि योगी स भवत्यत्र न संशयः ।
स्वेष्ठं ब्रह्म समाप्नोति निश्चितं वेदगुह्यतः ॥ १००॥
योगं श्रुत्वा नरो यस्तु पापकर्मपरायणः ।
मरणे संस्मरेद्योगं स मयूरे भविष्यति ॥ १०१॥
यत्र कुत्रस्थ आगत्य मयूरे ह्यथवा स्वयम् ।
मरिष्यति न सन्देहो महापापयुतोऽपि चेत् ॥ १०२॥
अथवा क्षेत्रमाहात्म्यं श्रुत्वा कुत्र स्थितो भवेत् ।
यदि मरणकाले स संस्मरेत् स तथा भवेत् ॥ १०३॥
मयूरस्याथ वा यात्रामेव कृत्वा नरोत्तमः ।
यत्र कुत्र मृतः सोंऽते संस्मरेत् स तथा भवेत् ॥ १०४॥
अथवा सङ्गयोगेन गणेशे रुचिमालभेत् ।
नरो मयूरक्षेत्रे स मरणं प्राप्नुयात् परम् ॥ १०५॥
शिवविष्ण्वादिलोकेषु संस्थितस्तत्र सङ्गतः ।
गणेशे प्रीतियुक्तश्चेत् स मयूरे भविष्यति ॥ १०६॥
अतिसंस्कारसंयुक्तः स क्षेत्रे धर्मसंयुतः ।
क्षेत्रसंन्यासभावेन मरणं तत्र चालभेत् ॥ १०७॥
योगिनः शान्तिरूपाश्च चित्तं त्यक्त्वा गणेश्वरे ।
लीनास्ते यत्र कुत्रापि मृता गाणेशतां ययुः ॥ १०८॥
योगिनां मरणे विप्र यादृशं स्मरणं भवेत् ।
तादृशीं न गतिं सोऽपि लभते ब्रह्मणि रतः ॥ १०९॥
तथा मयूरक्षेत्रे ये मृतास्तेषां न विद्यते ।
अन्ते मतिर्यथा विप्र गतिः सर्वत्र पठ्यते ॥ ११०॥
इदं सर्वं समाख्यातं शृणु प्रकृतमुत्तमम् ।
कथानकं महीपस्य यथा मुद्गलभाषितम् ॥ १११॥
भृशुण्ड्युवाच ।
मयूरक्षेत्रे सुलभो वासं कृत्वा ययौ पुनः ।
काश्यां तस्य मृतौ क्षेत्रं मयूरं स्मृतिगं बभौ ॥ ११२॥
तेन गणेश्वरस्यैव ददौ मन्त्रं महेश्वरः ।
सस्त्रीकः शिवरूपः कैलासे वासं चकार सः ॥ ११३॥
महालये शिवे लीनः पुनः सृष्टौ मयूरके ।
ब्राह्मणः स बभूवाऽपि सस्त्रीको भक्तिसंयुतः ॥ ११४॥
तत्र स्वल्पेन कालेन योगयुक्तो बभूव ह ।
ब्रह्मभूतः स जीवन् वै मरणे तत्र का कथा ॥ ११५॥
एवं संस्कारयोगेन मयूरे निवसन्ति ते ।
यत्र कुत्र स्थिताश्चेद्वै गमिष्यन्ति मयूरकम् ॥ ११६॥
क्षेत्रसंन्यासिनां देवा वदामि मार्गमुत्तमम् ।
आदौ द्वारयुतां यात्रां कुर्यात् संन्यासकारणात् ॥ ११७॥
पश्चात् क्षेत्रं समाश्रित्य तिष्ठेन्नियमसंयुतः ।
न गच्छेत् क्षेत्रबाह्यं संन्यासभङ्गभयाकुलः ॥ ११८॥
नानादुःखयुतश्चेत् त्यागं मयूरस्य वै न सः ।
कुर्यात्तेन गणेशेन तुल्यः सर्वत्र सम्मतः ॥ ११९॥
देवागारस्य यात्रां स कुर्याद् द्वारसमन्विताम् ।
अन्त्यां नैव समाख्यातां क्षेत्रबाह्यप्रवेशनात् ॥ १२०॥
क्षेत्रसीमास्थदेवाद्यास्तेषां कुर्यान्निरन्तरम् ।
यात्रां यात्राविचारज्ञः स योगी योगिनां गुरुः ॥ १२१॥
अत्राऽहं कथयिष्यामि चेतिहासं पुरातनम् ।
क्षेत्रसंन्यासिना युक्तं क्षेत्रं नैव भवेत् कदा ॥ १२२॥
जामदग्न्यो द्विजः कश्चित् सोमदत्त इति श्रुतः ।
बाल्यात् प्रारभ्य विघ्नेशभक्तियुक्तो बभूव ह ॥ १२३॥
स्वाश्रमात् सोऽपि सस्त्रीको मयूरेशं समाययौ ।
यात्रां कृत्वा विधानेन स्थितो द्वारादिचिह्निताम् ॥ १२४॥
ततः क्षेत्रे स वासार्थं मनो दध्रे महामतिः ।
क्षेत्रसंन्यासकं कृत्वा मयूरे संस्थितः पुरा ॥ १२५॥
तत्र रक्षोबलं प्राप्तं खरस्य दारुणं महत् ।
राक्षसं पपलुः सर्वे दृष्ट्वा क्षेत्रनिवासिनः ॥ १२६॥
दृढाऽऽग्रहं सोऽपि कृत्वा सोमदत्तो महामुनिः ।
मयूरे संस्थितो देवा मयूरेशपरायणः ॥ १२७॥
राक्षसास्तं महाभागं धृत्वा क्रोधसमन्विताः ।
ताडयामासुरत्यन्तं कर्मखण्डनकारणात् ॥ १२८॥
मुमोचाऽसौ तदापि न स्वधर्मं सोमदत्तकः ।
मद्यमांसादिकं गृह्य छलितो राक्षसैर्बहु ॥ १२९॥
तथापि धैर्यमालम्ब्य स्मृत्वा विघ्नेश्वरं द्विजः ।
मयूरेशं समभ्यर्च्य संस्थितो भयसङ्कुलः ॥ १३०॥
ततस्तं राक्षसा बद्ध्वा खरं निन्युर्महोल्बणम् ।
तेन कारागृहे क्षिप्तो मयूरेशपरायणः ॥ १३१॥
उपोषणपरः पूजां मानसीं स चकार ह ।
अतिशोकसमायुक्तो हृदि ध्यात्वा गजाननम् ॥ १३२॥
ततो विघ्नेश्वरः क्षुब्धो बभूवे भक्तकारणात् ।
चकार राक्षसेशं स सविघ्नं विघ्नदायकः ॥ १३३॥
समायाता शूर्पनखा तं जगाद खरं वचः ।
छिन्ननासिकरूपं स्ववृत्तान्तं तु न्यवेदयत् ॥ १३४॥
तच्छ्रुत्वा क्रोधसंयुक्तः खरो रामं जगाम ह ।
रामेण राक्षसैः सार्द्धं हतो मृत्युमवाप ह ॥ १३५॥
ततः क्षेत्रनिवासस्था आययुस्ते महेश्वराः ।
(Page खं. ६ अ. २३ पान ६७)
बन्धाद्विमुच्य ते सर्वे सोमदत्तं सुहर्षिताः ॥ १३६॥
एवं नानाविधैर्दुःखैः पीडितो मुनिसत्तमः ।
तथापि क्षेत्रसन्त्यागं न चकार कदाचन ॥ १३७॥
ततो गणेश्वरो देवो ययौ भक्त्या नियन्त्रितः ।
स्तुतः सम्पूजितस्तेन तमीप्सितवरं ददौ ॥ १३८॥
स ययाचे गणेशानं तव सान्निध्यगं कुरु ।
तत्र नित्यं भजिष्यामि भक्तिमार्गपरायणः ॥ १३९॥
तथेति तं चकारासौ मयूरेशो महामुनिम् ।
स बभूव महेशाना योगप्रिय इति श्रुतः ॥ १४०॥
एवं नानाविधास्तत्र क्षेत्रसंन्यासमाश्रिताः ।
सिद्धिं ययुर्महाभागा मया वक्तुं न शक्यते ॥ १४१॥
इति सर्वं समाख्यातं सङ्क्षेपेण मया परम् ।
श्रवणात् पठनात् सर्वसौख्यदं भक्तिवर्धनम् ॥ १४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते क्षेत्रसंन्यासादिवर्णनं नाम द्वाविंशतितमोऽध्यायः ॥ ६.२२
६.२३ गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
मयूरे तीर्थमुख्यं किं वद योगीन्द्रनायक ।
तीर्थानां तीर्थरूपं यत् सर्वसिद्धिप्रदायकम् ॥ १॥
भृशुण्ड्युवाच ।
क्षेत्रं ब्रह्ममयं प्रोक्तं तीर्थतीर्थं महेश्वराः ।
गाणेशं सर्वविख्यातं मुख्यं पूर्णं बभूव ह ॥ २॥
यथा पञ्चविधं सर्वं भासते विविधार्थतः ।
चतुर्विधं जगत् संस्थं पञ्चमं ब्रह्म उच्यते ॥ ३॥
गङ्गा च यमुनादेवी सरस्वती महानदी ।
त्रिगुणरूपसंयुक्तास्ताभ्यो नद्यः समुद्भवाः ॥ ४॥
तुरीया सर्वतीर्थाख्या ब्रह्मकमण्डलूद्भवा ।
तासां संयोगभावे तु पञ्चमं ब्रह्म उच्यते ॥ ५॥
तदेव तीर्थरूपेण प्रकटं सम्बभूव ह ।
गणेशमायया देवा गाणेशं तीर्थमुच्यते ॥ ६॥
भूस्वानन्दमयं क्षेत्रं गणेशेन प्रकाशितम् ।
मायया तत्र विघ्नेशोऽभवत् स्नानार्थमुद्यतः ॥ ७॥
ततोंऽकुशेन पृथ्वीं स भेदयामास मायया ।
तीर्थं ब्रह्ममयं तत्र सेवार्थं तु समाययौ ॥ ८॥
ततः स्नानं चकाराऽसौ सर्वं कार्यं गजाननः ।
अक्षयं जलसंयुक्तं कुण्डं तत्र बभूव ह ॥ ९॥
नाम तस्य चकाराऽसौ गणेशकुण्डमादरात् ।
तस्य दर्शनमात्रेण भुक्तिं मुक्तिं लभेन्नरः ॥ १०॥
जलस्पर्शादिसम्भूतं पुण्यं वक्तुं न शक्यते ।
साक्षाद्ब्रह्ममयस्यापि किं तीर्थस्य वदाम्यहम् ॥ ११॥
स्नानेन मुक्तिदा प्रोक्ता ब्रह्मकमण्डलूद्भवा ।
तुरीया सर्वतीर्थानां ज्ञातव्यं शास्त्रसम्मतम् ॥ १२॥
भागीरथी तृतीया च स्नानेन स्वर्गदायिनी ।
स्वर्णदी सा समाख्याता विशेषेण महेश्वराः ॥ १३॥
ततः सरस्वती प्रोक्ता द्वितीयपदधारिणी ।
त्रिभिर्दिनैश्च स्नानेन स्वर्गदा सा प्रकीर्तिता ॥ १४॥
यमुना च ततः ख्याता स्थूलरूपा महानदी ।
(Page खं. ६ अ. २३ पान ६८)
सप्तभिर्दिवसैः साक्षाज्जन्तूनां स्वर्गदा मता ॥ १५॥
अन्या नानाविधास्ताभ्यः कथनं नैव शक्यते ।
अतः सङ्क्षेपतः प्रोक्तं माहात्म्यं पञ्चसम्भवम् ॥ १६॥
अत्रेतिहासकं वक्ष्ये शृणुध्वं ह्येकचेतसः ।
गुर्जरे पापकर्मा तु राजा भद्रोऽभवत् पुरा ॥ १७॥
स्वधर्मं स परित्यज्य मांसस्त्रीमद्यलालसः ।
यथेच्छं वर्तयामास नानापापपरायणः ॥ १८॥
एकदा मद्यसंयुक्तः पुत्रीं दृष्ट्वा स दुर्मतिः ।
एकान्ते बुभुजे तां स हाहाकाररवाकुलाम् ॥ १९॥
इत्यादिविविधान्येव चकार देवसत्तमाः ।
पापानि तेषु किं ब्रूयां वक्तुं त्रासः प्रवर्तते ॥ २०॥
मृतं तं यमदूताश्च गृह्य निन्युर्यमालयम् ।
बद्ध्वा सन्ताड्य तत्रैकं चित्रं पूर्णं बभूव ह ॥ २१॥
गच्छता तेन सन्दृष्टं विमानं सूर्यसन्निभम् ।
गणेशकुण्डतीर्थस्य द्रष्ट्रा तच्च समाश्रितम् ॥ २२॥
तस्याङ्गवायुना स्पृष्टो भद्रः पापपरः परः ।
पापहीनो बभूवाऽपि जगाम यममन्दिरम् ॥ २३॥
यमेन नरयोन्यां स सङ्क्षिप्तो वैश्ययोनिजः ।
बभूव देवधर्माख्यः स्वधर्मनिरतः सदा ॥ २४॥
स्वर्गात् पतनकाले स सस्मार कुण्डमुत्तमम् ।
तेन संस्कारयोगेन मयूरेशं समाययौ ॥ २५॥
दृष्ट्वा गणेशकुण्डं स जातिस्मरो बभूव ह ।
ततः क्षेत्रं समाश्रित्य कुण्डपूजापरोऽभवत् ॥ २६॥
ममार कुण्डसान्निध्ये ब्रह्मभूतो बभूव ह ।
एवं संस्कारमाहात्म्यं पूर्वजन्मनि देवपाः ॥ २७॥
देवेशा ऊचुः ।
गणेशकुण्डद्रष्टा स कथं जातो महामते ।
किं जातिर्यो वद स्वामिन्नाश्चर्यं भासते परम् ॥ २८॥
भृशुण्ड्युवाच ।
चाण्डालः कोऽपि पापात्मा नित्यं पापपरोऽभवत् ।
कञ्चिद् द्रव्ययुतं दृष्ट्वा तत् पृष्ठगो बभूव ह ॥ २९॥
स आगतो मयूरेशं कथयामास मानवान् ।
जघान द्रव्यलोभी च चाण्डालो मानवान् सदा ॥ ३०॥
समाययौ मे सान्निध्यमधुनाऽत्र विशेषतः ।
मारणाय न सन्देहस्तच्छ्रुत्वा स पपाल ह ॥ ३१॥
लोका यात्रारताः सर्वे नैव मत्ताडने रताः ।
पलता तेन कुण्डं तु दृष्टं गाणेश्वरं महत् ॥ ३२॥
क्षेत्रं त्यक्त्वा गतं दूरे ममार विषयप्रियम् ।
भोगबुद्धियुतं दुष्टं निन्युरिन्द्रपुरेऽमराः ॥ ३३॥
गणेशकुण्डजेनैव दर्शनेन न संशयः ।
पापानि विलयं यान्ति भुक्तिर्मुक्तिस्ततो भवेत् ॥ ३४॥
अन्यच्छृणुत देवेशाश्चरितं कुण्डसम्भवम् ।
वैश्यः कश्चित् समायातो द्रव्यलोभी मयूरके ॥ ३५॥
प्रवेशेनास्य पापानि तं त्यक्त्वा बहिरञ्जसा ।
स्थितानि सोऽपि शुद्धः सन् बभ्राम द्रव्यकारणात् ॥ ३६॥
तत्र यात्रापरा लोका अवदंस्ते परस्परम् ।
गणेशकुण्डमाहात्म्यं सोऽपि शुश्राव मन्दधीः ॥ ३७॥
विचारमकरोच्चित्ते दर्शनेनात्र लभ्यते ।
भुक्तिर्मुक्तिः किमेवेदं वचनं सत्यगं भवेत् ॥ ३८॥
अतोऽहं विक्रयार्थं तु भवामि तत्र संस्थितः ।
तदा दर्शनमेवं मे कुण्डस्यात्र भविष्यति ॥ ३९॥
इति विचार्य खाद्यानि गृह्य कुण्डगतोऽभवत् ।
दधार मनसा दृष्ट्वा मुक्तिर्मे भवतु प्रभो ॥ ४०॥
(Page खं. ६ अ. २३ पान ६९)
पुनश्च स मयूरेशं त्यक्त्वा स्वगृहगोऽभवत् ।
तत्र स्वल्पेन कालेन ममार वैश्यजः खलः ॥ ४१॥
ततो विमानमारुह्य शुक्लगत्या महेश्वराः ।
मोक्षं जगाम वैश्यः स गणेशकुण्डदर्शनात् ॥ ४२॥
अन्यच्च शृणुत प्राज्ञा इतिहासं पुरातनम् ।
शूद्रौ मेघमणीसंज्ञौ मालवे सम्बभूवतुः ॥ ४३॥
सेवार्थं पुत्रसंयुक्तौ क्षत्रियस्य समाश्रितौ ।
स काश्यां प्रेमसंयुक्तो यात्रार्थं प्रजगाम ह ॥ ४४॥
तेन नीतौ स्वसेवार्थं सपुत्रौ शूद्रयोनिजौ ।
मेघो मार्गे ममारैव तस्य पुत्रो ददाह तम् ॥ ४५॥
तत्राऽऽवन्त्यो द्विजः कोऽपि चकारास्थिप्रसञ्चयम् ।
मणिः पप्रच्छ तं विप्रं कुत्रास्थि त्वं प्रणेष्यसि ॥ ४६॥
स उवाच गणेशस्य क्षेत्रे कुण्डं महाद्भुतम् ।
तत्रास्थित्यागमात्रेण पञ्चमं लभते पदम् ॥ ४७॥
अतो मेऽस्थि पितुस्तत्र शूद्र नेष्यामि निश्चितम् ।
तच्छ्रुत्वा सोऽपि शूद्रस्यास्थिसञ्चयं चकार ह ॥ ४८॥
काश्यां दुःखयुतो त्यक्त्वा ममार मणिरेव च ।
तस्यास्थिसञ्चयं चक्रे तस्य पुत्रो महेश्वराः ॥ ४९॥
तज्ज्ञात्वा क्षत्रियस्तं स निर्भर्त्स्य बहुधा जगौ ।
काशीं त्यक्त्वा मयूरे किमस्थित्यागं करिष्यसि ॥ ५०॥
उवाच पितुराज्ञा स मया मान्या निरन्तरम् ।
एतस्मिन्नन्तरे तत्र ब्राह्मणः शास्त्रवित् ययौ ॥ ५१॥
तं प्रणम्य विशेषेण पप्रच्छ क्षत्रियोद्भवः ।
दुराग्रहं स्वशूद्रस्य दृष्ट्वा सर्वं विधानतः ॥ ५२॥
ज्ञात्वा वृत्तान्तमेतस्य तमुवाच जनार्दनः ।
ब्राह्मणो वेदसारज्ञः क्षत्रियं शास्त्रजं वचः ॥ ५३॥
जनार्दन उवाच ।
चतुर्विधानि तीर्थानि तथा क्षेत्राणि क्षत्रिय ।
पञ्चमं गणराजस्य क्षेत्रं तीर्थं च कीर्त्यते ॥ ५४॥
ब्रह्मणस्पतिनामाऽसौ गणेशो वेदवादतः ।
तस्य लीलादिकं सर्वं नानाब्रह्ममयं बभौ ॥ ५५॥
काश्यां ये शास्त्रवादज्ञास्तेऽस्थि तत्र नयन्ति तु ।
अन्यक्षेत्रस्य गास्तद्वन्नयन्त्यस्थि मयूरके ॥ ५६॥
ततः संशयहीनः स सम्पूज्य प्रणनाम ह ।
जनार्दनं स्वगेहं स आययौ हर्षसंयुतः ॥ ५७॥
कृत्वा क्षत्रियजो यात्रां स्वगृहं प्रत्यपद्यत ।
शूद्रावस्थि समागृह्य मयूरेशं प्रजग्मतुः ॥ ५८॥
गणेशकुण्डं सम्पूज्य त्यक्त्वा तावस्थिसञ्चयम् ।
यथाशास्त्रं विधानेन यात्रां चक्रतुरादरात् ॥ ५९॥
स्वगृहं जग्मतुः शूद्रौ देवेशाः शृणुताऽपरम् ।
अस्थित्यागप्रभावेण मेघं नेतुं ययुर्गणाः ॥ ६०॥
शङ्करलोकसंस्थं तं गृह्य स्वानन्दमाययुः ।
मणिं कैलासगं ते तु ब्रह्मभूतौ प्रचक्रिरे ॥ ६१॥
एवं नाना जनास्तत्र सिद्धिं प्राप्ता विशेषतः ।
तत्र किं कथयामीह वक्तुं केन प्रशक्यते ॥ ६२॥
एतद्गणेशकुण्डस्य माहात्म्यं शृणुयान्नरः ।
श्रावयेत् स लेभेद्देवा ईप्सितं फलमुत्तमम् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते गणेशकुण्डचरितवर्णनं नाम त्रयोविंशोऽध्यायः ॥ ६.२३
(Page खं. ६ अ. २४ पान ७०)
६.२४ ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
एकदा गणनाथस्य दर्शनार्थं समाययौ ।
ब्रह्मा स्नात्वा महाकुण्डे स्तोतुं स्तोत्रं समारभत् ॥ १॥
ब्रह्मोवाच ।
नमामि तीर्थं गणनायकस्य गणेशकुण्डं गणनातिगं च ।
अनन्ततीर्थप्रभवं पुराणं संसेविनां ब्रह्मप्रदं निजात्म्यम् ॥ २॥
अभेदभेदादिविहीनरूपं चतुष्पदं पञ्चममाद्यभूतम् ।
गणेशमायाकृतदृश्यभावं नमामि कैवल्यघनं परेषाम् ॥ ३॥
भवत्प्रसूतं च तुरीयमात्म्यं भवेदरूपं किल तीर्थकानाम् ।
अहं विशुद्धोऽपि च दर्शनेनाऽभवं कृतब्रह्मकमण्डलुस्थम् ॥ ४॥
तदेव त्रैगुण्यमयं बभूव भागीरथीस्थं रविजामयं च ।
सरस्वतीस्थं च ततः प्रसूताः सरित्समूहा भुवनेषु संस्थाः ॥ ५॥
स्नानेन पापं विनिहत्य सर्वा नद्यो नराणामथ पापयुक्ताः ।
नित्यं जले ते विनिमज्य शुद्धा आयान्ति स्वस्थानमघापहारि ॥ ६॥
प्रयागतीर्थे मरणेन जन्तुर्मनीषितं तीर्थवरे लभेद्वै ।
तवावलोकेन गणेशकुण्ड तदेव सद्यो लभते सकृच्चेत् ॥ ७॥
वाचः परं ते जलबिन्दुजेऽहं स्पर्शे भवं किं प्रवदामि पुण्यम् ।
साक्षाद्गणेशाङ्कुशघातजं तन्नमामि कुण्डं गणनायकस्य ॥ ८॥
धन्योऽहमेवं तव दर्शनेन स्पर्शेन तोयस्य निमज्जनेन ।
तोये तथा ते च महानुभावं ब्रह्मैव तुष्टं च नमो नमस्ते ॥ ९॥
त्वदीयतीरे मरणं वरिष्ठं सुमङ्गलं ब्रह्ममयप्रदं तत् ।
विना श्रमेणैव नरा लभन्ते शुकादिकानां पदमत्र चित्रम् ॥ १०॥
त्वत्तोयजस्पृष्टिरहो ममास्तु स्नानं तु पानं च सदावलोकः ।
किं वर्णयाम्येव गणेशकुण्ड स्वल्पज्ञभावात्तु नमो नमस्ते ॥ ११॥
भृशुण्ड्युवाच ।
स्तोत्रं गणेशकुण्डस्य यः पठिष्यति मानवः ।
भुक्तिं मुक्तिं लभेत् सोऽपि श्रद्धया ब्रह्मभूयकम् ॥ १२॥
इदं ब्रह्मकृतं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
यत्र कुत्र स्थितायापि भक्त्या भवति पाठतः ॥ १३॥
ब्रह्मा ततो गणेशानं जगाम हर्षसंयुतः ।
पूज्य स्तुत्वा महेशानाः प्रदक्षिणपरोऽभवत् ॥ १४॥
पादस्पर्शेन तस्यापि कमण्डलुजलैर्युतः ।
न्युब्जतामगमत्तत्र नदी तस्मादजायत ॥ १५॥
ततः प्रणम्य विघ्नेशं योगमायासमन्वितः ।
सरितं तां चकर्षाऽसौ पुनर्ब्रह्मा कमण्डलौ ॥ १६॥
जगाद गणराजश्च ततस्तं हर्षसंयुतः ।
मा गृह्णीष्व विधातस्त्वं सर्वतीर्थमयीं नदीम् ॥ १७॥
मम सेवार्थमत्यन्तलालसा नित्यमाभजेत् ।
मदिच्छया नदी जाता मत्क्षेत्रे सर्वपावनी ॥ १८॥
ततस्तं प्रणतो भूत्वा ब्रह्मा शोकसमन्वितः ।
जगाद तीर्थहीनोऽहं भविष्यमि गजानन ॥ १९॥
श्रीगजानन उवाच ।
योगमायाबलेनेमां मा कर्ष त्वं पितामह ।
कमण्डलुं तीर्थजलैरापूर्य स्थानगो भव ॥ २०॥
श्रुत्वा ब्रह्मा तथा कृत्वा ययौ हर्षसमन्वितः ।
ब्रह्मकमण्डलुः साक्षान्नदी तत्र प्रतिष्ठिता ॥ २१॥
तया क्षेत्रं महेशानाः शुशुभेऽतीव विघ्नपम् ।
नद्याश्च महिमानं को वर्णयितुं क्षमो भवेत् ॥ २२॥
देवेशा ऊचुः ।
तुरीयं तीर्थमुख्यं यत् स्थितं ब्रह्मकमण्डलौ ।
कथं बभूव विप्रेश तद्वदस्व सुखप्रदम् ॥ २३॥
(Page खं. ६ अ. २४ पान ७१)
भृशुण्ड्युवाच ।
ब्रह्मा कामं च तं सृष्ट्वा स्थापयामास सर्वपः ।
दृष्ट्वा कामं स्वयं तत्र विह्वलोऽभूत् पितामहः ॥ २४॥
दृष्ट्वा सरस्वतीं वेधाः कामबाणप्रपीडितः ।
तां गृह्य स्ववशां कृत्वा मैथुनायोद्यतोऽभवत् ॥ २५॥
हाहाकाररवा देवी सस्मार गणनायकम् ।
ततः शान्तमना ब्रह्मा ज्ञानयुक्तो बभूव ह ॥ २६॥
मुक्त्वा तां गर्हयामास स्वात्मानं काममोहितम् ।
ततः क्रोधसमायुक्तः शशाप मदनं विधिः ॥ २७॥
मां प्रमोहयुतं कृत्वा क्रीडसि त्वं खलाऽधुना ।
काम शङ्करतो वह्नौ नष्टरूपो भविष्यसि ॥ २८॥
शप्त्वा कामं विधाताऽसौ ततः सस्मार देवपान् ।
मुनीन् श्रेष्ठांश्च ते सर्वे समाजग्मुः पितामहम् ॥ २९॥
श्रुत्वा वृत्तान्तमुग्रं ते शोकयुक्ताः बभूविरे ।
प्रायश्चित्तार्थमुद्युक्ताः सर्वे देवर्षयस्ततः ॥ ३०॥
ततस्तीर्थानि सर्वे ते निर्ममुर्दैवतर्षयः ।
सार्धत्रिकोटिसंज्ञानि स्वस्वतेजोयुतानि वै ॥ ३१॥
तेषु सम्मज्जितो ब्रह्मा पवित्रो न बभूव ह ।
तीर्थराजं तथा सर्वे सस्मरुर्ब्रह्महेतवे ॥ ३२॥
स वै प्रत्यक्षतां तत्र ययौ सर्वेच्छया परः ।
ब्रह्मा ममज्ज तत्रापि स्वयं शुद्धोऽभवन्न च ॥ ३३॥
ततः सूर्यः स्वदेहाद्वै यमुनां निर्ममे पराम् ।
तस्यां निमज्य धाताऽसौ पवित्रो न बभूव ह ॥ ३४॥
आदिमाया ततस्तत्र विनिर्ममे सरस्वतीम् ।
निमज्य तत्र वेधाः सोऽभवन्नैव यथा पुरा ॥ ३५॥
ततः शिवः स्वयं रेवां निर्ममे तीर्थरूपिणीम् ।
तथा निमज्य तस्यां स पवित्रो न बभूव ह ॥ ३६॥
ततो विष्णुः स्वदेहाद्वै निर्ममे पावनाय च ।
गङ्गां तस्यां निमज्याऽसौ वेधाः शुद्धोऽभवन्न च ॥ ३७॥
ततः खेदसमायुक्तो देवेशा मुनिभिः सह ।
विचार्य त्रिगुणानां तु बीजं तीर्थं प्रतुष्टुवुः ॥ ३८॥
ततः प्रसन्नभावेन तुरीयं तत्र देवपाः ।
प्रकटं तेजसा युक्तं बभूव जलमञ्जसा ॥ ३९॥
प्रकाशमयतीर्थं तद् दृष्ट्वा देवर्षयोऽमराः ।
प्रणम्यापूज्य संहर्षादूचुः प्राञ्जलयोऽभवन् ॥ ४०॥
सर्वतीर्थमिदं नाम भवतु त्रिजगत्सु ते ।
पवित्रं कुरु धातारं नमस्ते तीर्थतीर्थमु ॥ ४१॥
त्रैगुण्यमयरूपाणि तीर्थानि त्रिजगत्सु तु ।
त्रिजगत्पावनान्येव भवन्ते शास्त्रसम्मते ॥ ४२॥
ब्रह्मविष्णुमहेशानां दोषं क्षालयितुं द्रुतम् ।
न समर्थानि तेभ्यस्तु द्विजैर्जातानि निश्चितम् ॥ ४३॥
अतस्तुरीयतीर्थं चास्माभिः सम्प्रार्थितं परम् ।
त्रिगुणानां हितार्थाय पावनाय विशेषतः ॥ ४४॥
अतो हितं च सर्वेषां कुरु तीर्थात्मरूपकम् ।
एवमुक्त्वा प्रणेमुस्ते सर्वतीर्थं महेश्वराः ॥ ४५॥
ततः प्रसन्नतां यातं दर्शयामास रूपकम् ।
विधात्रे तेन निःपापो बभूव प्रपितामहः ॥ ४६॥
ततस्तीर्थं प्रणम्याऽसौ तुष्टाव सर्वसंयुतः ।
ततस्तं प्रत्युवाचेदं वचनं तीर्थमुत्तमम् ॥ ४७॥
सर्वतीर्थमुवाच ।
वरं वृणु महाभाग तुष्टं दास्यामि वाञ्छितम् ।
स्तोत्रेण सृष्टिकर्तस्वं विधातर्मा विचारय ॥ ४८॥
ब्रह्मोवाच ।
वरं ददासि तीर्थ त्वं तदा मे संस्थितं भव ।
(Page खं. ६ अ. २४ पान ७२)
कमण्डलौ सदा तेन कृतकृत्योऽस्मि निश्चितम् ॥ ४९॥
भृशुण्ड्युवाच ।
तथेति तमथोक्त्वा तत्तीर्थं तस्य कमण्डलौ ।
जानीत वरदानेन संस्थितं देवनायकाः ॥ ५०॥
तत्र स्थितं गणेशस्य ध्यानं चक्रे निरन्तरम् ।
सर्वतीर्थं हितार्थाय तस्य सेवार्थमादरात् ॥ ५१॥
उवाच विघ्नराजं सञ्चिन्त्य तीर्थं परं हृदि ।
दृश्यभावं समासाद्य न ते पादार्चनं कृतम् ॥ ५२॥
वरदानप्रभावेण ब्रह्मणः सदने प्रभो ।
स्थितं मां तेऽद्य पादाब्जसमीपस्थं कुरु प्रभो ॥ ५३॥
पवित्रं तु विधातारं कृत्वा मायूरक्षेत्रगम् ।
भविष्यामि तदर्थायाकरवं दृश्यभावकम् ॥ ५४॥
पराधीनतया स्वामिन् किं करोमि गणेश्वर ।
विघ्नहीनं कुरुष्व त्वं मां भक्तं भक्तवत्सल ॥ ५५॥
दृश्यभावं समासाद्य मयूरं नावलोकितम् ।
निरर्थकं जनुस्तस्यातस्त्वां सम्प्रार्थये प्रभो ॥ ५६॥
एवं नित्यं गणेशानं ध्यात्वा सम्प्रार्थयत् परम् ।
स्थापितं सर्वतीर्थं तद्गणेशानेन सन्निधौ ॥ ५७॥
देवेशा ऊचुः ।
तीर्थराजः प्रयागो यस्तत्र ब्रह्मा बभूव न ।
पवित्रश्च ततः श्रेष्ठं कथं तीर्थं भवेन् मुने ॥ ५८॥
कथं राजेति संज्ञा च तस्य शास्त्रे प्रकीर्तिता ।
एतत् संशयकं छिन्धि योगीन्द्रोऽसि पुरातनः ॥ ५९॥
भृशुण्ड्युवाच ।
यथा देवसमूहानां राजेन्द्रः परिकीर्तितः ।
इन्द्रान्नैवापरः श्रेष्ठो देवो भवति कुत्रचित् ॥ ६०॥
ब्रह्मादयो न देवाश्च गुणाधाराः प्रकीर्तिताः ।
पूज्यत्वाद्देवसंज्ञास्था भवन्ते चैकदेशतः ॥ ६१॥
सार्धत्रिकोटितीर्थानां तथा राजा प्रयागकः ।
प्रयागान्न परं तीर्थं श्रेष्ठं कुत्राऽपि वर्तते ॥ ६२॥
गङ्गाद्याः सरितस्तद्वद् गुणाधाराः प्रकीर्तिताः ।
तीर्थसंज्ञा तथा तासामेकलक्षणतो मता ॥ ६३॥
प्रार्थिते तीर्थराजेन तत्रैकभवकारणात् ।
गङ्गायमुनयोर्योगस्तेन सम्मिलितोऽभवत् ॥ ६४॥
गङ्गायमुनयोर्योगे स्नानजं यत् फलं लभेत् ।
तदेव महिमा तत्र तयोरेव न संशयः ॥ ६५॥
नर्मदा वरदानेन श्रेष्ठा जाता विशेषतः ।
गुणरूपा न सा प्रोक्ता जानीत शास्त्रसम्मते ॥ ६६॥
अधुना शृणुत प्राज्ञा प्रकृतं यत् कथानकम् ।
कमण्डलुस्थितत्वात्तन्नाम्ना ब्रह्मकमण्डलुः ॥ ६७॥
गां गता तेन गङ्गा सा कमण्डलूद्भवा मता ।
पूर्वगा सा समाख्याता ब्रह्मादीनां सुदुर्लभा ॥ ६८॥
तस्या मूलस्थितः साक्षाद्ब्रह्मा लोकपितामहः ।
तस्यां स्नात्वा गणेशानं भजतेऽनन्यचेतसा ॥ ६९॥
पूर्वं पितामहं तत्र नरः स्नात्वा समर्चयेत् ।
विद्यायुक्तो भवेत् सद्योंऽते परां मुक्तिमाप्नुयात् ॥ ७०॥
मध्ये शिवस्तथा तस्या मयूरे संस्थितस्ततः ।
मध्यमेश्वरनामा स भजते गणनायकम् ॥ ७१॥
मध्यमेश्वरतीर्थे यस्तस्यां स्नानं समाचरेत् ।
स सामर्थ्यं परं प्राप्यापूज्येशं मुक्तिमाप्नुयात् ॥ ७२॥
अन्ते विष्णुः स्थितस्तस्या हृषीकेश इति श्रुतः ।
स्नात्वा नित्यं गणेशानं भजतेऽनन्यमानसः ॥ ७३॥
(Page खं. ६ अ. २५ पान ७३)
तत्र तीर्थे नरः स्नात्वा हृषीकेशं समर्चयेत् ।
यशः स विपुलं प्राप्यांऽते परं मोक्षमाप्नुयात् ॥ ७४॥
यस्यास्तीरे च तीर्थानि देवास्तिष्ठन्त्यनेकशः ।
उभयत्र महेशाना मया वक्तुं न शक्यते ॥ ७५॥
कमण्डलूद्भवायास्तु दर्शनेनाघनाशनम् ।
प्रभवेत् सर्वजन्तूनां निश्चितं चेहजन्मजम् ॥ ७६॥
सञ्चितं जलबिन्दोश्च स्पर्शेनैव विनश्यति ।
पापं ह्यनेकजन्मस्थं नराणां सर्वदेहिनाम् ॥ ७७॥
जलपानेन तस्यास्तु शक्रलोकं लभेत् स्वयम् ।
स्नानेन मुक्तिमाप्नोति यत्र तत्र महेश्वराः ॥ ७८॥
मयूरे ये नरास्तस्यां स्नानं कुर्वन्ति देवपाः ।
सकृच्चेदीप्सितं सद्यो लभन्ते ते समोक्षकम् ॥ ७९॥
एतादृशी महाभागा नदी तत्र व्यवस्थिता ।
दशयोजनविस्तारस्तस्याः प्रोक्तो मनीषिभिः ॥ ८०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुप्रादुर्भावादिवर्णनं नाम चतुर्विंशतितमोऽध्यायः ॥ ६.२४
६.२५ ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
कथं देवैश्च मुनिभिः स्तुता विप्र महानदी ।
ब्रह्मणोऽर्थं तदेवापि स्तोत्रं वद सुखप्रदम् ॥ १॥
भृशुण्ड्युवाच ।
नानातीर्थबलेनैव ब्रह्माणं ते सुरर्षयः ।
शुद्धं कर्तुं समर्था न बभूवुश्च यदा पुरा ॥ २॥
ततः सर्वे विचार्यैव तुरीयं तीर्थमुत्तमम् ।
स्तोतुं करपुटा भूत्वा समारेभुः सुस्तोत्रकम् ॥ ३॥
देवर्षय ऊचुः ।
सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् ।
तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ ४॥
गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् ।
नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ ५॥
पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् ।
अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ ६॥
नाथो विधाता च भवेन्महात्मन् पापेन युक्तश्च तथा स्थितश्चेत् ।
विश्वं परं नाशमुपैष्यति त्वं प्रत्यक्षतामेहि दयाकरातः ॥ ७॥
गङ्गास्वरूपाय नमो नमस्ते ब्रह्मात्मजारूपधराय तुभ्यम् ।
तुभ्यं प्रयागाय च नार्मदाय कालिन्दिकास्थाय नमो नमो वै ॥ ८॥
कृष्णास्वरूपाय ककुद्मतीस्थ यद्देवनद्यै च पयोष्णिकायै ।
वेणीस्वरूपाय च पुष्कराय तापीप्रभासाय च सर्वतीर्थ ॥ ९॥
गोदावरीरूपधराय तुभ्यं क्षिप्रास्थसिन्धुस्थ महीस्वरूप ।
कावेरिकास्थं सरयूस्वरूपं पूर्णे नमस्तेऽस्तु कमण्डलुस्थम् ॥ १०॥
सार्धत्रिकोटीप्रवरस्थकाय तीर्थेश्वरायैव नमो नमस्ते ।
(Page खं. ६ अ. २५ पान ७४)
अनन्ततीर्थप्रवराय नित्यं क्षेत्रे मयूरे तु समास्थिताय ॥ ११॥
वाराम्पतिस्थाय सरोवराय वापीस्थकूपाय नमो नमस्ते ।
यद्यज्जलं भानुघनस्थरूपं तत्रस्थकायैव नमो नमस्ते ॥ १२॥
त्वया ततं सर्वमिदं विभाति चराचरस्थं च जलं परेश ।
कृपाकटाक्षामृतधारयाऽस्मान् रक्षस्व सन्दर्शय ते स्वरूपम् ॥ १३॥
भृशुण्ड्युवाच ।
एवं संस्तुवतां तेषां पुरस्तेजोमयं जलम् ।
प्रादुर्बभूव तत् दृष्ट्वा प्रणेमुः ससुरर्षयः ॥ १४॥
तानुवाच महातीर्थं हर्षयुक्तेन चेतसा ।
वरं वृणुत देवेशा मुनयस्तं ददाम्यहम् ॥ १५॥
भवत्कृतमिदं पुण्यं स्तोत्रं मे प्रीतिवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ १६॥
पठते शृण्वते नित्यं मयि स्नानफलप्रदम् ।
सर्वाघनाशनं सद्यो भविष्यति विशेषतः ॥ १७॥
सर्वतीर्थवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुः प्रणम्य देवेशाः प्रबद्धकरसम्पुटाः ॥ १८॥
देवर्षय ऊचुः ।
प्रसन्नं चेन् महातीर्थ तदा पितामहं परम् ।
शुद्धं कुरु तथा तस्य कमण्डलौ स्थितिं स्थिराम् ॥ १९॥
सर्वतीर्थं च ते नाम तथा ब्रह्मकमण्डलुः ।
भवतु त्वत्प्रसादेन वर एव वृतः परः ॥ २०॥
तथेति तानुवाचैव याचितं तीर्थमुत्तमम् ।
चकार देवविप्रैर्यत्तत् सर्वं कथितं मया ॥ २१॥
देवेशा ऊचुः ।
श्रुतं सर्वं विशेषेण सर्वसंशयनाशनम् ।
तथापि न च तृप्यामः परं पीत्वा कथामृतम् ॥ २२॥
माहात्म्यं कथितं विप्र तत्र सिद्धिं महाद्भुताम् ।
अलभन् के पुरा योगिन् वद तेषां चरित्रकम् ॥ २३॥
भृशुण्ड्युवाच ।
पुरा कल्पे द्विजः कश्चिद्भरद्वाजकुलोद्भवः ।
मूर्खो बभूव देवेशा विद्यासन्ध्यादिवर्जितः ॥ २४॥
तं गृह्य पितरौ तस्य स्थितं ब्रह्मकमण्डलौ ।
ब्रह्माणं ययुतः प्रीत्या नदीमूलविराजितम् ॥ २५॥
स्नात्वा नदीजले तत्र पूजयामासुरादरात् ।
विधिं कमण्डलुस्थाने बभूवुर्भक्तिसंयुताः ॥ २६॥
पुत्रस्तयोः सुबुद्ध्या वै युक्तो बभूव तत्क्षणात् ।
वेदादीन् कण्ठगान् देवा अवदत् प्रेमसंयुतः ॥ २७॥
ततो हर्षयुतौ तस्य पितरौ गृह्य तं सुतम् ।
स्वस्थानं जग्मतुः प्रीत्या मुक्तिमन्ते प्रलेभिरे ॥ २८॥
एवं नाना जनास्तत्र ज्ञानतोऽज्ञानतोऽपि वा ।
स्नानेन दर्शनेनैव ब्रह्मणः सिद्धिमाप्नुवन् ॥ २९॥
अथान्यत् कथयिष्यामि क्षत्रियो रविवंशजः ।
सुरथो मालवे राजा बभूव परवीरहा ॥ ३०॥
स्वराज्यं धर्मसंयुक्तश्चकार सचिवैर्युतः ।
बहुकाले गते तत्र विदर्भाधिपतिर्ययौ ॥ ३१॥
दिग्जयार्थं ततस्तेन युयुधे बलसंयुतः ।
पराजितो विदर्भस्य राज्ञा राजा पपाल ह ॥ ३२॥
ततो यत्नं समास्थाय ह्यन्यराजसमन्वितः ।
सङ्ग्राममकरोद्घोरं पुनः पराजितोऽभवत् ॥ ३३॥
भूपालो ब्राह्मणान् पृष्ट्वा मयूरे चागतोऽभवत् ।
मध्यमेश्वरतीर्थे स स्नात्वा शिवं पुपूज ह ॥ ३४॥
तं नमस्कृत्य सेनाभिः संयुतो युयुधे पुनः ।
भूपः सञ्जित्य वैदर्भं स्वराज्यं प्राप तत्क्षणात् ॥ ३५॥
अन्ते मुक्तिं जगामैव स्नानमाहात्म्यकारणात् ।
(Page खं. ६ अ. २५ पान ७५)
एवं तत्र ययुः सिद्धिं ज्ञानतोऽज्ञानतो जनाः ॥ ३६॥
अन्यच्च शृणुत प्राज्ञाश्चरितं पुण्यदं परम् ।
द्विजो गौतमवंशेऽभूत् स्वधर्माचारसंयुतः ॥ ३७॥
विद्याज्ञानादिसंयुक्तो न यशोऽप्यलभत् कदा ।
दीक्षादिषु प्रयत्नेनाभवत् कर्मसु तत्परः ॥ ३८॥
ब्राह्मणास्तत्कृतं कर्म दृष्ट्वा सविधि वैदिकम् ।
दोषयुक्तं विशेषेण ददृशुः पापगौरवात् ॥ ३९॥
ततोऽतिखेदसंयुक्तो जगाम सर्वतीर्थिकाम् ।
अन्ते विचार्य तस्यां स स्नानं चकार भक्तितः ॥ ४०॥
हृषीकेशं प्रपूज्यैव नमस्कृत्य गृहं ययौ ।
ततः कर्म कृतं तेन ददृशुः सविधि द्विजाः ॥ ४१॥
यद्यत्तेन कृतं देवा यशोयुक्तं बभूव ह ।
अन्ते मुक्तिं ययौ सोऽपि तीर्थसेवनपुण्यतः ॥ ४२॥
ज्ञानतोऽज्ञानतस्तत्र ययुः सिद्धिं विशेषतः ।
मया वक्तुं न शक्येत केनापि देवसत्तमाः ॥ ४३॥
अर्थान्यच्चरितं देवाः शृणुध्वं भावसंयुताः ।
दण्डकारण्यदेशैकश्चाण्डालः पापकारकः ॥ ४४॥
वने गत्वा द्विजादींश्च मारयामास नित्यदा ।
परस्त्रियं स एकान्तेऽयभत् दृष्ट्वा हठेन च ॥ ४५॥
एवं नानाविधं पापं चकार विषयप्रियः ।
एकदा धनसंयुक्तं वणिजं स दर्दश ह ॥ ४६॥
तमनु प्रययौ दुष्टः शस्त्रपाणिर्जिघांसया ।
तत्र मार्गे महेशाना ब्रह्मकमण्डलूद्भवाम् ॥ ४७॥
महानदीं स चाण्डालो ददर्श सन्निधौ गतः ।
जलस्पर्शादिकं तत्र न चकार सुदुर्मतिः ॥ ४८॥
ततो योजनमात्रेण जघान वणिजं खलः ।
द्रव्यं तस्य प्रगृह्यैव स्वगृहं पुनरागमत् ॥ ४९॥
एवं कृत्वा ततः काले ममार नीचयोनिजः ।
यामास्तं गृह्य सन्ताड्य ययुः संयमिनीं पुरीम् ॥ ५०॥
यमस्तान् प्रत्युवाचेदं वचनं धर्मलक्षणम् ।
महापापी भटा नूनमयं तदपि मुच्यताम् ॥ ५१॥
सर्वतीर्थस्य दूतेशा दर्शनं त्वभवत् पुरा ।
वणिजं हन्तुकामस्य पापनाशकरं महत् ॥ ५२॥
त्यज्यतां मानुषे देहेषु नरेनं विचक्षणाः ।
शुभाशुभं तत्र कृत्वा गमिष्यति पुनः पुरम् ॥ ५३॥
स कैवर्तोऽभवत्तत्र बङ्गाले देवसत्तमाः ।
एवं दर्शनमात्रेणेह कृतं दुरितं गतम् ॥ ५४॥
अन्यद्यज्जलबिन्दोश्च स्पर्शजं कथयाम्यहम् ।
चरितं तस्य सर्वज्ञाः शृणुध्वं सिद्धिदं परम् ॥ ५५॥
व्याधः कश्चिद्वने संस्थो बभूवे तत्र देशजः ।
ब्रह्महत्यादिकं पापं चकार नित्यमादरात् ॥ ५६॥
ददर्श द्रव्यसंयुक्तं दुष्टधीरेकदा नरम् ।
खड्गमुद्यम्य निःकोशं तं हन्तुं धावितोऽभवत् ॥ ५७॥
पपाल मानवो भीतः पृष्ठे व्याधस्तथा गमत् ।
कमण्डलूद्भवा गङ्गा प्राप्ता दैववशेन ह ॥ ५८॥
तामुल्लङ्घ्य पपालाऽसौ सोऽपि खड्गयुतस्तथा ।
व्याधः पपात दैवेनोल्लङ्घ्य तीरे दुरात्मवान् ॥ ५९॥
स तत्र जलबिन्दूनां स्पशर्युक्तो बभूव ह ।
नरो दूरं गतः सोऽपि निःश्वस्य स्वगृहं ययौ ॥ ६०॥
एवं पापसमाचारं मृतं काले सुदुर्मतिम् ।
व्याधं तं गृह्य देवेशा यमदूता यमं ययुः ॥ ६१॥
तं दृष्ट्वा धर्मराजस्तानुवाच प्रेमसंयुतः ।
(Page खं. ६ अ. २५ पान ७६)
अयं शुद्धो महाभागाः सर्वपापविवर्जितः ॥ ६२॥
कमण्डलूद्भवातीरे पपात धावनाकुलः ।
तत्र तस्या जलस्पर्शो बभूवे चास्य दर्शनम् ॥ ६३॥
दर्शनेनेहजं पापं गतं सर्वं लयं किल ।
अनेकजन्मजं पापं तोयस्य स्पर्शनाद्गतम् ॥ ६४॥
ततः परं कृतं पापं यातनादं मतं यमाः ।
तथापि नैव योग्योऽयं यातनायां विशेषतः ॥ ६५॥
ब्रह्मकमण्डलोर्यस्य दर्शनादिकमञ्जसा ।
भवेत्तस्य भटा नेदं यातनाजं भयं भवेत् ॥ ६६॥
काश्मीरे स बभूवापि ब्राह्मणो वेदपारगः ।
एवं नाना जनास्तस्यां पापहीना बभूविरे ॥ ६७॥
अथेतिहासकं वक्ष्ये पुराकल्पभवं परम् ।
शूद्रः कश्चिद्बभूवाऽपि बङ्गदेशे महेश्वराः ॥ ६८॥
श्यामो नाम महापापी शिश्नोदरपरायणः ।
चौर्यकर्मपरो नित्यं नगरेषु वनेषु च ॥ ६९॥
बभ्राम शस्त्रसंयुक्तो मारयामास नित्यदा ।
जनान्नानाविधांश्चैव मद्यमांसपरोऽभवत् ॥ ७०॥
स कदाचिद्वने संस्थो ददर्श वणिगुत्तमान् ।
द्रव्ययुक्तांस्ततो दुष्टो मार्गसंस्थो बभूव तैः ॥ ७१॥
ते ययुर्दण्डकारण्ये सोऽपि चौर्यार्थमाययौ ।
तत्रोष्णकामयोगेन जलहीनाश्च बभ्रमुः ॥ ७२॥
तृषायुक्ताः समायातास्तटे ब्रह्मकमण्डलोः ।
तस्यां जलं पपुः सर्वे पुनर्ग्रामं समाययुः ॥ ७३॥
निशि सुप्ताश्च चौरेण हता मृत्युं ययुस्ततः ।
देवेन्द्रनगरे सर्वे ययुः पुण्यप्रभावतः ॥ ७४॥
जलपानेन देवेशाः किल ब्रह्मकमण्डलोः ।
इन्द्रपुर्यां निवासं ते चक्रिरे वणिगुत्तमाः ॥ ७५॥
ततः काले मृतं चौरं गृहीतुं तं यमस्य च ।
दूता ययुर्यमं गृह्य दृष्ट्वा देवोऽब्रवीद्यमः ॥ ७६॥
धर्म उवाच ।
अयं शूद्रो महापापी तथाऽपि पुण्यवानभूत् ।
सर्वतीर्थमयीं दृष्ट्वा दुष्टकार्यवशात् किल ॥ ७७॥
जलपानं कृतं तस्यास्तत्र स्पर्शो जलस्य च ।
बभूव त्रिविधं पुण्यं तेषां वक्ष्यामि कारणम् ॥ ७८॥
इह जन्मकृतं पापं दर्शनेन लयं गतम् ।
कमण्डलूद्भवायास्तु स्पर्शेनानेकजन्मजम् ॥ ७९॥
पानेनेन्द्रपदप्राप्तिसमं पुण्यं बभूव ह ।
बाह्यान्तः पापहीनश्च पुण्ययुक्तोऽयमुच्यते ॥ ८०॥
अत एनं प्रगृह्य त्वं महेन्द्रं दूतसत्तम ।
प्रापय तत्पुरे संस्थो भोगान् भोक्ष्यति निश्चितम् ॥ ८१॥
पुनः पतिष्यति प्राज्ञः पृथिव्यां नात्र संशयः ।
दूतस्तथा चकारैव प्रणनाम यमं पुनः ॥ ८२॥
एवं नाना नरा देवा ययुः सिद्धिं विशेषतः ।
तन्न शक्यं कथयितुं न भवति शतवर्षतः ॥ ८३॥
अन्यद्वः कथयिष्यामि चेतिहासं पुरा भवम् ।
सङ्क्षेपेण महाभागा स्नानसिद्धिप्रकाशकम् ॥ ८४॥
धनप्रिय इति ख्यातो बङ्गाले कारुकोऽभवत् ।
पापनिष्ठः सदा पापं चकार दुर्मतिर्मुदा ॥ ८५॥
द्रव्यार्थं विषदानेन हतौ मातापिता स्वकौ ।
प्रणम्य ब्राह्मणादींश्च जघान विषयोगतः ॥ ८६॥
साधुभावप्रदर्शी स बाह्येन्तस्तु दुरात्मवान् ।
तेन मोहयुताः सर्वे तदधीना बभूविरे ॥ ८७॥
ततो बहौ गते काले राज्ञा ज्ञातं दुरात्मनः ।
(Page खं. ६ अ. २५ पान ७७)
कर्म तं गृह्य तस्यैव द्रव्यं नीतं समग्रकम् ॥ ८८॥
स्वदेशात्तं बहिः कृत्य राजा धर्मपरायणः ।
पालयामास लोकान् स सदा नीत्या स्वदेशगान् ॥ ८९॥
ततोऽयं दण्डकारण्ये पुत्रदारैर्जगाम ह ।
तत्रैव रोचयामास वासार्थं ग्राममुत्तमम् ॥ ९०॥
तादृशीं वृत्तिमास्थाय पुनः पापं चकार ह ।
एकदा द्रव्यसंयुक्तं वणिजं स ददर्श ह ॥ ९१॥
अनु तं विषसंयुक्तो जगाम दुष्टधीः खलः ।
साधुलक्षणसंयुक्तो लोभनाय वणिक्सुतम् ॥ ९२॥
मार्गे महानदी प्राप्ता सर्वतीर्थमयी परा ।
तस्यां स्नानं चकाराऽसौ वणिजेन समन्वितः ॥ ९३॥
प्रगच्छन्तं ततो मार्गे द्वितीये दिवसे खलः ।
विषेणामोह्य वणिजं मारयामास तत्क्षणात् ॥ ९४॥
वणिक्स स्नानपुण्येन शुक्लगत्या महेश्वराः ।
कमण्डलोर्महामोक्षं लेभे क्रमेण निश्चितम् ॥ ९५॥
धनप्रियो ममारैव कालेन स्वगृहे स्थितः ।
सोऽपि मोक्षं महादेवा लेभे स्नानप्रभावतः ॥ ९६॥
अधुनाऽन्यत् प्रवक्ष्यामि चरित्रं च कमण्डलोः ।
स्मरणेन महेशाना महासिद्धिप्रदायकम् ॥ ९७॥
गुर्जरे वैश्यजः कश्चिद् बभूवे धर्मनामकः ।
स्वधर्मनिरतो नित्यं चकार कर्म चादरात् ॥ ९८॥
तेन स्कान्दभवं तत्र माहात्म्यं संश्रुतं परम् ।
कमण्डलुप्रभावेण युक्तं स्वयं सुविस्मितः ॥ ९९॥
मनसा धारयामास धन्येयं सरितांवरा ।
मया लभ्या यदा देवी तदा मे सफलं जनुः ॥ १००॥
धर्मो नित्यं महेशानास्तां सस्मार महानदीम् ।
तत्र कोऽपि समायातः क्षत्रियो मार्गगः कदा ॥ १०१॥
तेनाऽपि संश्रुतं नाम ब्रह्मकमण्डलूद्भवम् ।
प्रातरुत्थाय स्वस्थानं जगाम क्षत्रियः खलः ॥ १०२॥
ततो बहौ गते काले धर्मसंज्ञो ममार ह ।
स्वर्गं गत्वा स विविधान् बुभुजे भोगकान् परान् ॥ १०३॥
पुनश्च ब्राह्मणः सोऽपि बभूवात्रिकुलोद्भवः ।
शिवदत्त इति ख्यातः सर्वतीर्थनदीतटे ॥ १०४॥
स्वधर्मनिरतो विप्रो न मुमोच नदीतटम् ।
तत्र स्नानादिकं सर्वं जलकार्यं चकार ह ॥ १०५॥
पूर्वपुण्यबलेनैवोत्तमतीर्थस्य सेवनात् ।
योगी बभूव तत्राऽसौ ममार तु तटे स्थितः ॥ १०६॥
ब्रह्मणि ब्रह्मभूतः स बभूवे देवसत्तमाः ।
एवं दूरस्थितस्याऽपि स्मरणेन गतिप्रदा ॥ १०७॥
येन श्रुतं महन्नाम सर्वतीर्थस्य देवपाः ।
क्षत्रियः पापकर्मा स चकार पापमुल्बणम् ॥ १०८॥
मृतं तं यमदूताः सङ्गृह्य सन्ताड्य भानुजम् ।
प्रणम्य नरके दुष्टं चिक्षिपुश्च तदाज्ञया ॥ १०९॥
पुनः श्वानो बभूवाऽपि क्षत्रियः पापकारकः ।
बभ्राम दण्डकारण्य आजगाम महानदीम् ॥ ११०॥
तत्र कीटादिभिः श्वानो मक्षिकाभिः प्रपीडितः ।
स्नानं चक्रे महानद्यां पूर्वसंस्कारयोगतः ॥ १११॥
ममार तेन पुण्येन मोक्षं लेभे न संशयः ।
सकृन्नाम्नः श्रुतस्यैव पुण्येनेदं कृतं महत् ॥ ११२॥
धन्यास्ता वीरुधो वल्ल्यस्तृणानि वृक्षकादयः ।
ब्रह्मकमण्डलोस्तीरे नान्यत्र राज्यसंयुतः ॥ ११३॥
(Page खं. ८ अ. २५ पान ७८)
यस्यास्तीरे मृतो जन्तुः शुक्लगत्या गमिष्यति ।
ब्रह्म राजा मृतोऽन्यत्र जन्मयुक्तो भविष्यति ॥ ११४॥
एवं सर्वत्र देवेशा ब्रह्मकमण्डलूद्भवा ।
शुभदा पूर्वगा प्रोक्ता मयूरेशपरायणा ॥ ११५॥
चतुर्मुखे मध्यमेशे हृषीकेशे विशेषदा ।
सर्वत्र दुर्लभा देवादीनां त्रिषु कमण्डलुः ॥ ११६॥
कोटितीर्थानि मूलेऽस्याः स्थितानि मध्यमे तथा ।
अन्ते कोटिश्च सर्वत्र तीरे कोट्यर्धमञ्जसा ॥ ११७॥
सङ्क्षेपेण मया तस्याश्चरितं कथितं परम् ।
श्रवणात् पठनाद्देवाः सर्वपापहरं भवेत् ॥ ११८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुतीर्थचरितं नाम पञ्चविंशतितमोऽध्यायः ॥ ६.२५
६.२६ सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
अधुना यानि मायूरे कमण्डलुतटेऽमराः ।
तीर्थानि तेषु मुख्यानि कथयामि समासतः ॥ १॥
मुख्यं गणेशकुण्डाख्यं तीर्थमेकं प्रकीर्तितम् ।
सङ्क्षेपतश्चरित्रं तु कथितं तस्य देवपाः ॥ २॥
अतः परं पञ्चतीर्थानि शृणुध्वं समासतः ।
गाणेशं मध्यभागे यद्धनुषां द्विशतात्मकम् ॥ ३॥
तत्र क्षेत्राणि तीर्थानि देवा मुनिनरादयः ।
स्नानं कुर्वन्ति सर्वेऽन्ये नित्यमेकं प्रयत्नतः ॥ ४॥
उभयोस्तीरगं प्रोक्तं परं ब्रह्म कमण्डलोः ।
तत्र स्नानेन गाणेशा भवन्ति जन्तवः सदा ॥ ५॥
ततः परं महातीर्थं कापिलं तादृशं मतम् ।
कमलासुरनाशाय गणेशः कपिलोऽभवन् ॥ ६॥
हत्वाऽसुरं महावीर्यमजेयं शङ्करादिभिः ।
तन्मस्तकं समाश्रित्य मयूरे संस्थितोऽभवत् ॥ ७॥
तत्राभिषेकमकरोद्ब्रह्मा मुनिगणान्वितः ।
कपिलाय गणेशस्य सूक्तैर्हर्षसमन्वितः ॥ ८॥
तत्र पञ्चामृतं नाम बभूव किल पूजनात् ।
नद्यास्तेषां च योगेन तत्तीर्थं परमं मतम् ॥ ९॥
स्नानेन कापिलं तत्र ज्ञानं साङ्ख्यात्मकं लभेत् ।
कपिलो विष्णुराख्यातोऽभवत्तत्रैव संस्थितः ॥ १०॥
ततः परं व्यासतीर्थं सर्वाज्ञानविनाशनम् ।
तावता मानयोगेन ज्ञातव्यं विबुधैः परम् ॥ ११॥
व्यासेन तत्र देवेशास्तपस्तप्तं सुदारुणम् ।
शतवर्षे गते चाढ्यं ददौ वरं गणेश्वरः ॥ १२॥
तेन भारतकं धर्माऽधर्मयुक्तं चकार ह ।
शास्त्रं ब्रह्मपदं तच्च तयोरैक्ये महेश्वराः ॥ १३॥
तत्र स्नानेनैव सद्यो जाड्यभावविवर्जितः ।
धर्माऽधर्मव्यवस्थां स ज्ञात्वा बोधयुतो भवेत् ॥ १४॥
गणेशतीर्थादथ तु पूर्वभागे समास्थितम् ।
भीमकुण्डं महेशाना भीमेशेन विनिर्मितम् ॥ १५॥
तत्र स्थित्वा तपश्चक्रे भीमेशो गणपस्य च ।
(Page खं. ६ अ. २६ पान ७९)
वरदानप्रभावेण भीमासुरं जघान सः ॥ १६॥
भीमेशतीर्थं मुख्यं वै महदैश्वर्यदायकम् ।
तत्र स्नानेनैव सद्यस्तावन्मानयुतं बभौ ॥ १७॥
कदाचिदुष्णकाले तज्जलहीनं बभूव ह ।
तीर्थं तत्रागतो भीमः पाण्डुपुत्रः प्रतापवान् ॥ १८॥
गदा प्रहारेण तेन खातं तीर्थमनुत्तमम् ।
जलं तत्र स निःष्कास्य स्नानं चक्रेऽतिभक्तितः ॥ १९॥
बलात्मकं तेन तत्रैश्वर्यं प्राप्तं महाद्भुतम् ।
धृतराष्ट्रसुतान् सर्वान् जघानैश्वर्यसंयुतः ॥ २०॥
ततः परमृषीणां च तीर्थं स्वधर्मदायकम् ।
तावन्मानेन तत्रैव तपः सामर्थ्यदायकम् ॥ २१॥
अष्टाशीति सहस्राणि मुनयो ब्रह्म तत्पराः ।
प्राप्त्यर्थं ब्राह्मणत्वस्य तपश्चेरुश्च तत्र ते ॥ २२॥
ब्रह्मभूता बभूवुस्ते स्थितास्तत्र विशेषतः ।
जीवन्मुक्तस्वभावेनाभजल्लम्बोदरं परम् ॥ २३॥
पञ्चतीर्थी समाख्याताऽमराः क्षेत्रे मयूरके ।
पञ्चसु स्नानमात्रेण ब्रह्मभूतो नरो भवेत् ॥ २४॥
आदौ स्नायात् स गाणेशे भैमे चार्षे ततः परम् ।
व्यासतीर्थे कापिले च गाणेशेंऽते क्रमं चरेत् ॥ २५॥
गणेशतीर्थात् पूर्वस्मात् क्षेत्रान्ते तीर्थमुत्तमम् ।
षट्त्रिंशत्तु शतान्येव धनुषां पापनाशनम् ॥ २६॥
दक्षिणतीरगस्तत्र शिवः शक्तिसमन्वितः ।
संस्थितस्तीर्थमाश्रित्य सर्वार्थानां प्रवर्तकः ॥ २७॥
उत्तरं तीरमाश्रित्य रमया केशवः स्थितः ।
सर्वधर्मप्रदाता तु क्षेत्रान्ते क्षेत्रधारकः ॥ २८॥
सर्वाघघ्नमिति ख्यातं तीर्थं स्नानेन देवपाः ।
षष्ठं सर्वत्र विख्यातं दुःखनाशकरं भवेत् ॥ २९॥
गणेशतीर्थकाद्देवाः प्रतीच्यां तीर्थमुत्तमम् ।
क्षेत्रान्ते संस्थितं नाम्ना सर्वपुण्यप्रदायकम् ॥ ३०॥
तीर्थस्योत्तरतीरस्थो भानुः संज्ञासमन्वितः ।
दक्षिणतीरसंस्थौ च परौ प्रकृतिपूरुषौ ॥ ३१॥
तत्र स्नानेनैव सद्यः पुण्यराशिर्भवेन्नरः ।
यद्यदिच्छेच्छुभं तत्तत् स लभेन्नात्र संशयः ॥ ३२॥
सप्तमं तीर्थमुख्यं तु पूर्वे दूरे चतुर्गुणम् ।
सप्ततीर्थेषु यः स्नायात् स वै सर्वं लभेच्छुभम् ॥ ३३॥
आदौ गाणेशके स्नायाद्भैमे चार्षे ह्यघघ्नके ।
पुण्यदेव्या स तीर्थे स कापिले गाणपे पुनः ॥ ३४॥
एवं मुख्यानि सप्तैव कथितानि समासतः ।
श्रवणात् पापनाशं तु कुर्वन्ति पठनान्नृणाम् ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते सप्ततीर्थीवर्णनं नाम षड्विंशतितमोऽध्यायः ॥ ६.२६
(Page खं. ६ अ. २७ पान ८०)
६.२७ ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
गणेशतीर्थमध्ये तु गणेशः संश्रितोऽभवत् ।
वामे सिद्धेः समाख्यातं तीर्थं स्नानेन सिद्धिदम् ॥ १॥
दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकम् ।
लक्षतीर्थं ततः सिद्धेः समीपे ध्यानदायकम् ॥ २॥
बुद्धेर्लाभस्थतीर्थं तु समीपे लाभदं परम् ।
लाभस्य सन्निधाने तु मयूरस्य प्रकीर्तितम् ॥ ३॥
स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितम् ।
लक्षस्य मौषकं तीर्थं समीपे स्नानमात्रतः ॥ ४॥
अहम्भावहरं प्रोक्तं नराणां देवसत्तमाः ।
ततश्च मौद्गलं तीर्थं ततो गार्त्समदं स्मृतम् ॥ ५॥
ततश्च शुकतीर्थं तु दत्तात्रेयस्य तत्परम् ।
अन्यानि गाणपत्यानां तीर्थानि विविधानि तु ॥ ६॥
तत्र मानं प्रवक्ष्यामि समासेन विचक्षणाः ।
धनुर्दशकमानं तु गाणेशं परिकीर्तितम् ॥ ७॥
तदर्धं सिद्धिबुद्ध्योश्चान्येषां धनुः प्रमाणकम् ।
तेषां शिष्यादिकानां तु यवमात्रं प्रकीर्तितम् ॥ ८॥
मयूराखुपुरोभागे तीर्थं ब्रह्मप्रियस्य च ।
प्रमोदस्य तथा मोदस्य योगप्रियकस्य च ॥ ९॥
गणानां तीर्थमुख्यानि तत्रैवं संस्थितान्यपि ।
एतद्गणेशतीर्थस्थतीर्थानि कथितानि तु ॥ १०॥
दक्षिणोत्तरगान्येव तीर्थानि द्विधनूंषि च ।
वक्रतुण्डादिकानां चाष्टानां देवेन्द्रसत्तमाः ॥ ११॥
अन्ये नानाऽवताराश्च गणेशस्य महात्मनः ।
तेषां तत्रैव तीर्थानि गाणपत्यप्रदानि तु ॥ १२॥
तत्र क्रमं प्रवक्ष्यामि पूर्वभागे गणेश्वराः ।
संस्थितास्तीर्थगास्तान् वै शृणुध्वं देवसत्तमाः ॥ १३॥
वक्रतुण्डश्चैकदन्तो महोदरो गजाननः ।
बल्लाळश्चैव हेरम्बो विघ्नेशो भालचन्द्रकः ॥ १४॥
ज्ञानेशः शूर्पकर्णश्च चिन्तामणिर्विनायकः ।
एते द्वादश मुख्याश्च कथितास्तेषु विघ्नपाः ॥ १५॥
संस्थांस्तु पश्चिमे भागे कथयामि समासतः ।
लम्बोदरोऽथ विकटो विघ्नेशो धूम्रवर्णकः ॥ १६॥
महागणपतिश्चैव तथा सिद्धिविनायकः ।
विघ्नहारश्च ढुण्ढीशो लक्ष्य आशाप्रपूरकः ॥ १७॥
वरदो देवदेवेशा मदोत्कट इति श्रुतः ।
एते द्वादश विघ्नेशाः संस्थितास्तीर्थगाः पराः ॥ १८॥
अन्ये नानावताराश्चाङ्गुष्ठपर्वसमाश्रिताः ।
तीर्थं मया समाख्यातं गाणेशं गणपप्रियम् ॥ १९॥
एतादृशानि चान्यानि कथयितुं न शक्यते ।
तथापि प्रब्रवीम्येव भवतां भक्तियन्त्रितः ॥ २०॥
ऋषितीर्थाच्चतुर्थ्याश्च तीर्थं कार्ष्णं च शौक्लकम् ।
चतुर्थ्यां स्नानमात्रेण चतुर्विधफलं भवेत् ॥ २१॥
ततः शम्याश्च मन्दारस्य ततस्तीर्थमुत्तमम् ।
दूर्वाया धनुषां पञ्च प्रमाणेन व्यवस्थितम् ॥ २२॥
तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयात् ।
संस्थमुत्तरत्तीरे यत्तीर्थं तद्भैरवप्रियम् ॥ २३॥
नग्नभैरवदेवेशः स्थितस्तत्र बभूव ह ।
नग्नभैरवतीर्थे तु यः स्नायाद्भावसंयुतः ॥ २४॥
यातनासम्भवं दुःखं प्राप्नुयान्न नरोत्तमः ।
तत्पुरो द्वारकातीर्थं तत्र स्नानेन मोक्षदम् ॥ २५॥
ततोऽयोध्याश्रितं तीर्थं मथुरासंश्रितं ततः ।
स्नानेन मुक्तिदं तत्र नराणामीप्सितं भवेत् ॥ २६॥
(Page खं. ६ अ. २७ पान ८१)
संस्थमुत्तरतीरे च प्रभासं रोगनाशनम् ।
तत्र स्नानेन देवेशाः सद्यो वै सुखदं भवेत् ॥ २७॥
ततः पुष्करतीर्थं च स्नानतः पापनाशकम् ।
ततः कावेरिकायाश्च तीर्थं स्नानेन मुक्तिदम् ॥ २८॥
चतुर्विंशतिकानां च ततो विष्णोः कलात्मनाम् ।
तीर्थानि पापसङ्घानां दाहकानि स्थितान्यपि ॥ २९॥
तत उत्तरतीरस्थः स्वयं विष्णुः प्रतिष्ठितः ।
एतेषु स्नानमात्रेण स लभेद्वैष्णवं पदम् ॥ ३०॥
भृगुतीर्थं ततः पश्चात् पुलहस्य प्रकीर्तितम् ।
ततः क्रतोः समाख्यातं तीर्थं पापहरं परम् ॥ ३१॥
ततो मुनिगणानां च तीर्थानि संस्थितान्यपि ।
तत्र मानं प्रवक्ष्यामि शृणुध्वं ह्येकचेतसः ॥ ३२॥
वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाः ।
विष्णुलोकप्रदान्येव ज्ञातव्यानि विशेषतः ॥ ३३॥
येषां देवोऽपदेवानामृषीनां तीर्थकानि तु ।
तत्तल्लोकप्रदान्येव स्नानेन स्नानकारिणाम् ॥ ३४॥
शुक्लगत्या लये तेषां मुक्तिं गच्छन्ति मानवाः ।
मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमण्डलोः ॥ ३५॥
एकैकं धनुराख्यातं मानं मुख्यात्मनां परम् ।
तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया ॥ ३६॥
अन्यमुनिगणादीनां तीर्थानि कथितानि च ।
अङ्गुष्ठपर्वमात्राणि ज्ञातव्यानि विशेषतः ॥ ३७॥
आदौ सृष्टिसमारम्भे स्रष्टा देवालयः किल ।
मुनयः क्षेत्रतीर्थानि तपस्तेपुः स्वसिद्धये ॥ ३८॥
मयूरे तपसा सिद्धाः स्वस्थाने सङ्गता बभुः ।
कलया मुख्यभावेन मयूरेशं समाययुः ॥ ३९॥
अतो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् ।
मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा ॥ ४०॥
अवन्तीतीर्थमाख्यातं दक्षिणे च तटे स्थितम् ।
शुक्रतीर्थमगस्त्यस्य तीर्थं सोमेश्वरस्य च ॥ ४१॥
पिशाचानां तथा तीर्थं तीर्थमेव यमस्य च ।
नैरृतस्य तथा तीर्थं हंसतीर्थं ततः परम् ॥ ४२॥
भैरवाणां महातीर्थं रुद्राणां तीर्थकानि तु ।
रामेश्वरस्य तीर्थं तु मल्लिकार्जुनकस्य च ॥ ४३॥
अधुनोत्तरतीर्थस्य सीमां वः कथयाम्यहम् ।
विष्ण्ववतारतीर्थेभ्योऽप्सरस्तीर्थं प्रकीर्तितम् ॥ ४४॥
देवतीर्थं ततः पश्चात्ततो गन्धर्वतीर्थकम् ।
इन्द्रस्याग्नेस्ततस्तीर्थे विष्णुतीर्थं तदन्तगम् ॥ ४५॥
दक्षिणतीरगं तीर्थमत्रेः पापहरं परम् ।
एकद्वितत्रितादीनां तीर्थानि गणपात्मनाम् ॥ ४६॥
ततः शम्भोर्महातीर्थं सीमासंस्थं महेश्वराः ।
गाणेशात्पूर्वभागे च तीर्थानि कथितानि वै ॥ ४७॥
अथ पश्चिमदिग्भागे तीर्थानि कथयाम्यहम् ।
सङ्क्षेपेण सुरश्रेष्ठाः शृणुध्वं विधिपूर्वकम् ॥ ४८॥
व्यासतीर्थात् परं तीर्थं काश्याश्चैव ततः परम् ।
मायापुर्याः समाख्यातं ततो विरजकं मतम् ॥ ४९॥
कृत्तिवस्त्रत्र्यम्बकेशशिवानां च ततः परम् ।
वैद्यनाथादिकानां च तीर्थानि संस्थितानि च ॥ ५०॥
ततः कैलासनाथस्य तीर्थं पापहरं परम् ।
ततो द्वादश मासानां तीर्थानि संस्थितानि च ॥ ५१॥
मलमासस्य तीर्थं तु गाणेशं नात्र संशयः ।
(Page खं. ६ अ. २७ पान ८२)
देवो गणेश्वरस्तेन कृतश्च तपसा पुरा ॥ ५२॥
मलमासे गणेशस्य पूजनं सेवनं मतम् ।
सर्वार्थसाधकं तच्च भविष्यति महेश्वराः ॥ ५३॥
ततः शिवस्य शैवानि तीर्थानि संस्थितानि च ।
लक्ष्मीतीर्थं ततः पश्चात्ततः सरस्वतीकृतम् ॥ ५४॥
विष्णुकाञ्च्यास्ततस्तीर्थं कौमार्याश्च ततः परम् ।
वाराह्यास्तीर्थमुख्यं तु तत ऐन्द्र्याः प्रकीर्तितम् ॥ ५५॥
वैष्णव्याश्च ततस्तीर्थं माहेश्वर्यास्ततः परम् ।
ब्राह्म्यास्तीर्थं ततो रक्तदन्तायाश्च प्रकीर्तितम् ॥ ५६॥
ततो वसिष्ठतीर्थं तु पौलस्त्यं तीर्थमुत्तमम् ।
ततश्चाङ्गिरसस्तीर्थं कण्वतीर्थं ततः परम् ॥ ५७॥
जैमिनेस्तीर्थमुख्यं च ततो मेधातिथेः स्मृतम् ।
कार्तवीर्यस्य तीर्थं तु मान्धातुश्च ततः परम् ॥ ५८॥
ययातेर्नहुषस्यैव ध्रुवस्य च ततः परम् ।
भरद्वाजस्य तीर्थं तु जमदग्नेस्ततः परम् ॥ ५९॥
गौतमस्य ततस्तीर्थं पाण्डवैश्च ततः कृतम् ।
ततो वरुणतीर्थं तु मरुतश्च ततः परम् ॥ ६०॥
पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततः परम् ।
तत्रैव संस्थिता देवी गयागदाधरादिभिः ॥ ६१॥
उभयोस्तीरयोः सेवि नराणां ब्रह्मदायिनी ।
तत्र पिण्डप्रदानेन ब्रह्मभूताः पितामहाः ॥ ६२॥
पितरश्च तथाऽन्ये वै भवन्ति क्षेत्रकारणात् ।
ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततः परम् ॥ ६३॥
ततः परं मुनीनां तु तीर्थानि विविधानि च ।
कथयितुं न शक्यानि मया केनापि निश्चितम् ॥ ६४॥
भैरवाणां ततस्तीर्थं स्कन्दस्य च ततः परम् ।
नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परम् ॥ ६५॥
वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च ।
पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च ॥ ६६॥
साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च तीर्थकम् ।
सीमाभूतं महेशानास्तटे दक्षिणगे परम् ॥ ६७॥
अधुनोत्तरगे तीरे व्यासतीर्थान् महेश्वराः ।
तीर्थानि संस्थितान्येव तान्यहं प्रवदामि तु ॥ ६८॥
व्यासतीर्थात् स्वयं ब्रह्मा प्रयागसंयुतः स्थितः ।
तस्य तीर्थं महत्तत्र सर्वपापप्रणाशनम् ॥ ६९॥
कर्मतीर्थं ततः पश्चात्ततोऽग्नेस्तीर्थमुत्तमम् ।
द्वादशादित्यकानां च तीर्थानि च ततः परम् ॥ ७०॥
शिवकाञ्च्यास्ततस्तीर्थं ततः सूर्यस्य तीर्थकम् ।
पूर्णस्य पूर्णभावाख्यं सर्वरोगनिकृन्तनम् ॥ ७१॥
ततो ग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः ।
तेषां तीर्थानि देवेशा देवानां यक्षरक्षसाम् ॥ ७२॥
महाकाल्यास्ततस्तीर्थं नारसिंह्यास्ततः परम् ।
शाकम्भर्यास्ततः प्रोक्तं चामुण्डायास्ततः परम् ॥ ७३॥
त्रिपुरायास्ततस्तीर्थं ततस्तीर्थानि देवपाः ।
महामायायुतानां वै शक्तीनां विविधानि च ॥ ७४॥
चतुःषष्टिमितानां च योगिनीनां मतानि वै ।
तीर्थानि योगदान्येव परदेहजकानि च ॥ ७५॥
ततश्च नैध्रुवं तीर्थं देवलस्य ततः परम् ।
मार्कण्डेयस्य तीर्थं तु भैरवाणां ततः परम् ॥ ७६॥
कालभैरवतीर्थं तु ततः क्रतुमुखाः परम् ।
तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ॥ ७७॥
ततो रैवतकं तीर्थं ततो योगमयं परम् ।
जडभरततीर्थं च योगसिद्धिप्रदायकम् ॥ ७८॥
(Page खं. ६ अ. २७ पान ८३)
ओङ्कारगणनाथस्य ततस्तीर्थं प्रकीर्तितम् ।
विद्याधराणां तीर्थं च ततः पैशाचमोचनम् ॥ ७९॥
ततो धर्मस्य तीर्थं त्वश्विनोस्तीर्थं ततः परम् ।
नागानां शेषकादीनां ततस्तीर्थशतानि च ॥ ८०॥
ततो गवां महातीर्थं सनकादेस्ततः परम् ।
चतुर्दश मनूनां च तीर्थानि च ततः परम् ॥ ८१॥
महाशक्तेस्ततस्तीर्थमसितस्य ततः परम् ।
दक्षादीनां च तीर्थानि ततो मातृगणाः स्मृताः ॥ ८२॥
तेषां तीर्थानि देवेशाः षष्टिर्दक्षस्य कन्यकाः ।
तासां तीर्थानि तत्पश्चाद्गन्धर्वाणां ततः परम् ॥ ८३॥
गुह्यकानां तु तीर्थानि ततो विभीषणस्य च ।
रावणस्य ततस्तीर्थं श्वेतकेतोस्ततः परम् ॥ ८४॥
उद्दालकस्य तीर्थं तु रक्षसां च ततः स्मृतम् ।
अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः परम् ॥ ८५॥
तीर्थानि चैव तेषां तु ततो दक्षस्य धीमतः ।
पुत्री सन्तानकादीनां तीर्थानि विविधानि च ॥ ८६॥
मारीचमौद्गलादीनां विप्राणां च ततः परम् ।
तीर्थानि पाण्डवेशस्य तीर्थं दुर्वाससः परम् ॥ ८७॥
दत्तस्य तीर्थकं प्रोक्तं निदाघस्य ततः परम् ।
हनूमतस्ततस्तीर्थं सुग्रीवस्य ततः परम् ॥ ८८॥
तीर्थं जाम्बवतः प्रोक्तं बलेस्तीर्थं ततः परम् ।
ततश्च वालखिल्यानां गालवस्य ततः परम् ॥ ८९॥
विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः ।
मृकण्डस्य ततस्तीर्थं दधीचेश्च ततः परम् ॥ ९०॥
किन्नराणां ततस्तीर्थं साध्यानां च ततः परम् ।
कामधेनुमुखीनां च गवां तीर्थं ततः परम् ॥ ९१॥
असितस्य ततस्तीर्थमिक्ष्वाकोश्च ततः परम् ।
गार्ग्याणां च ततस्तीर्थं माण्डूकानां ततः परम् ॥ ९२॥
धौम्यस्य चैव वाल्मीकेस्ततस्तीर्थं च जैमिनेः ।
वाचक्नवेस्ततस्तीर्थं ततो मङ्कणकस्य च ॥ ९३॥
प्रह्लादस्य ततस्तीर्थं दधीचेश्च ततः परम् ।
उपमन्योस्ततस्तीर्थं वैशम्पायनकस्य च ॥ ९४॥
जाजलेः पर्वतस्यैव पैलस्य च ततः परम् ।
लोमशस्य विभाण्डस्य ऋष्यशृङ्गस्य तत्परम् ॥ ९५॥
ततो मुनिगणानां च तीर्थानि विविधानि तु ।
अश्वत्थाम्नस्ततस्तीर्थं कृपस्य च ततः परम् ॥ ९६॥
ततो वराहतीर्थं तु भूम्यास्तीर्थं ततः परम् ।
प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता ॥ ९७॥
तस्यास्तीर्थं समाख्यातं सीमासंस्थं महेश्वराः ।
एतानि तीर्थमुख्यानि कथितानि समासतः ॥ ९८॥
स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः ।
मयूरवासिभिः स्वस्वसिद्धिदानि भवन्ति हि ॥ ९९॥
मयूरेऽपारतीर्थानि तेषां मानं वदाम्यहम् ।
अङ्गुष्ठपर्वमात्राणि तीर्थानि तीर्थसेविनाम् ॥ १००॥
यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः ।
त्रैलोक्ये यानि तीर्थानि नानाभेदधरणि च ॥ १०१॥
मयूरे तानि सर्वाणि संस्थितानि विशेषतः ।
अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः ॥ १०२॥
मयूरे यानि तीर्थानि न गच्छन्ति तु कुत्रचित् ।
(Page खं. ६ अ. २८ पान ८४)
स्वस्वस्थानं समाश्रित्य सेवन्ते द्विरदाननम् ॥ १०३॥
गाणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः ।
संस्थितास्ते तु गच्छन्ति मयूरे दर्शनार्थिनः ॥ १०४॥
एतत् सङ्क्षेपतः प्रोक्तं तीर्थानां तु चरित्रकम् ।
श्रवणात् पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेत् ॥ १०५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुस्थतीर्थवर्णनं नाम सप्तविंशतितमोऽध्यायः ॥ ६.२७
६.२८ नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
देवेशा ऊचुः ।
एतेषु तीर्थमुख्येषु के के सिद्धिं समाययुः ।
तेषां समासतः स्वामिंश्चरित्रं वद सौख्यदम् ॥ १॥
भृशुण्ड्युवाच ।
गच्छध्वं देवदेवेशा मयूरेशं मदाज्ञया ।
तत्र सिद्धा भविष्यन्तः सर्वं ज्ञास्यथ सिद्धिदम् ॥ २॥
स्कान्दे विस्तरतः सर्वं प्रोक्तं चैव न संशयः ।
समासतः समाख्यातं मया क्षेत्रचरित्रकम् ॥ ३॥
देवेशा ऊचुः ।
नित्ययात्रां वद स्वामिंस्तथा क्षेत्रप्रदक्षिणाम् ।
यात्रामन्यनराणां तु सर्वसिद्धिप्रदां वद ॥ ४॥
पापयुक्तः स्वभावेन मयूरे संस्थितोऽभवत् ।
चकार नगराद्बाह्यं कथं तं नग्नभैरवः ॥ ५॥
संस्कारेण समायुक्तं गाणपत्यं तथा प्रभुः ।
कथं स मानयत् क्षेत्रे तद्वदस्व समासतः ॥ ६॥
भृशुण्ड्युवाच ।
बङ्गाले ब्राह्मणः कश्चिद्गाणपत्यपरायणः ।
विश्वामित्रकुले जातो नाम्ना शम्भुर्महायशाः ॥ ७॥
हृदि तस्य समाश्रित्य नग्नो भैरवनायकः ।
बुद्धिभेदं चकाराऽसौ तेन संव्यथितो द्विजः ॥ ८॥
मयूरेशं तु द्रक्ष्यामि कदाऽहं देहधारकः ।
क्षणभङ्गुरदेहस्थः किं करोमि त्वरायुतः ॥ ९॥
ततः सपुत्रदारादिसंयुक्तो निःसृतो गृहात् ।
भिक्षाशनश्च देवेशा द्रव्यहीनतयाऽभवत् ॥ १०॥
द्वाभ्यां समागतः सोऽपि मासाभ्यां लङ्घ्य मार्गकम् ।
गणेशतीर्थगो विप्रो ननन्द हर्षयन् स्वकान् ॥ ११॥
मयूरेशं प्रपूज्यादौ यात्रां कृत्वा विधानवित् ।
क्षेत्रसंन्यासभावेनाऽभजत्तं द्विरदाननम् ॥ १२॥
अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ।
हृदि प्रभुः समाश्रित्य नरमेवं समानयत् ॥ १३॥
अथ पापपरा ये च तेषां वदामि देवपाः ।
क्षेत्रत्यागभवं चित्रं चरित्रं शृणुत प्रियाः ॥ १४॥
मयूरे ब्राह्मणः कश्चिद्वासिष्ठे जनितोऽभवत् ।
जन्मारभ्य महापापी पापनिष्ठो बभूव ह ॥ १५॥
न वेदाध्ययनं चक्रे बाल्ये चौर्यपरोऽभवत् ।
यौवने मद्यमांसादि सिषेवे स परस्त्रियम् ॥ १६॥
तस्य बुद्धिविभेदं स चकार नग्नभैरवः ।
परस्त्रियं समागृह्य विदर्भे प्रययौ खलः ॥ १७॥
एवं नानाविधं देवो नग्नो भैरवनायकः ।
चकार चाधिपत्यं स मयूरे दण्डधारकः ॥ १८॥
(Page खं. ६ अ. २८ पान ८५)
अन्यच्च कथयिष्यामि चरित्रं पापकारिणाम् ।
मयूरे ये मतिं कृत्वा न प्रापुस्तं मयूरकम् ॥ १९॥
द्राविडे वैश्यजातिस्था बभूवुः पापकारकाः ।
विषादिना जनान् जघ्नुर्द्रव्ययुक्तान्निरन्तरम् ॥ २०॥
शम्भुश्च सोमकः कुब्जः कम्बलश्चैव मित्रकाः ।
चत्वारो मद्यमांसादिबभक्षुर्नित्यमादरात् ॥ २१॥
परस्त्रीलालसाः सर्वे शिश्नोदरपरायणाः ।
न चक्रुः पुण्यलेशं ते न स्वधर्मादिकं कदा ॥ २२॥
तत्रैव नगरे कश्चिद्वैश्यः श्यामलसंज्ञितः ।
द्रव्ययुक्तो महापापी ममार दैवयोगतः ॥ २३॥
श्यालकस्तस्य तत्रस्थः स्वधर्मस्थो बभूव ह ।
नाम्ना शङ्कर आख्यातः पुण्यकर्मपरायणः ॥ २४॥
तेनास्थिसञ्चयस्तस्य कृत उद्धारकारणात् ।
गते मासे महापापा वैश्याश्चत्वार एव ये ॥ २५॥
दण्डकारण्यदेशे तु जग्मुर्विक्रयकारणात् ।
श्यामलास्थि ददौ तेभ्यः शङ्करो विनयान्वितः ॥ २६॥
जगाद तान् महाभागो मयूरेऽस्थि प्रगृह्य तु ।
त्यज्यतां गणनाथस्य तीर्थे ब्रह्मसुखप्रदे ॥ २७॥
तथेति गृह्य तस्यास्थि समाजग्मुर्मयूरकम् ।
तत्र विघ्नं चकाराऽसौ नग्नो भैरवनायकः ॥ २८॥
चौरैस्तेषां हृतं सर्वं गतस्तत्रास्थिसञ्चयः ।
ते पुनः स्वगृहं जग्मुः किञ्चिद् द्रव्ययुताः खलाः ॥ २९॥
मयूरेशस्य चक्रुर्न यात्रां पापपरायणाः ।
निश्चितामपि देवेशा बुद्धिभेदबलाश्रयात् ॥ ३०॥
एवं महाबलः सोऽपि भैरवो हृदि संस्थितः ।
गणेशाज्ञावशो भूत्वा रक्षति क्षेत्रमुत्तमम् ॥ ३१॥
एतद्भैरवनाथस्य चरित्रं यः शृणोति चेत् ।
तस्य सर्वं मयूरे तु शुभरूपं भविष्यति ॥ ३२॥
देवेशा ऊचुः ।
एतादृशो महाभागो नग्नो भैरवनायकः ।
स्तोत्रं तस्य वद स्वामिन् संस्तुमस्तं निरन्तरम् ॥ ३३॥
बुद्धिभेदात् स नः क्रुद्धः करिष्यति विशेषतः ।
क्षेत्रप्रवेशहीनांश्चेदतस्तं सेवयामहे ॥ ३४॥
भृशुण्ड्युवाच ।
सर्वमायाविहीनाय सर्वमायाप्रचालक ।
सर्वान्तर्यामिणे नित्यं नग्नभैरव ते नमः ॥ ३५॥
मयूरेशपरायैव मयूरपुरपालक ।
धर्मिष्ठानां सुपालाय नग्नभैरव ते नमः ॥ ३६॥
अधर्मनिरतांश्चैव बहिःकाराय देवप ।
सदा स्वानन्दनिष्ठाय नग्नभैरव ते नमः ॥ ३७॥
संस्कारयुक्तभावेन पापकर्मपरात्मनाम् ।
मयूरे दण्डकर्त्रे वै नग्नभैरव ते नमः ॥ ३८॥
महाबलधरायैव ब्रह्मादीनां प्रचालक ।
अमेयशक्तये देव नग्नभैरव ते नमः ॥ ३९॥
भुक्तिमुक्तिप्रदात्रे च धनधान्यविवर्धन ।
गाणेशानां प्रपालाय नग्नभैरव ते नमः ॥ ४०॥
प्रलये शूलमुद्यम्य ब्रह्माण्डभयकारक ।
शूलप्रोतमहाण्डाय नग्नभैरव ते नमः ॥ ४१॥
अट्टहासेन देवेन्द्रांस्तथा सन्त्रास्य चासुरान् ।
नृत्यसे गणनाथाग्रे नग्नभैरव ते नमः ॥ ४२॥
विश्वं ततं सर्वमिदं त्वयेश आद्यन्तमध्येषु महानुभाव ।
संरक्ष देवेश मयूरसंस्थानस्मान् कुरुष्व त्वमनन्यभावान् ॥ ४३॥
शूलिन्नमस्तेऽखिलकारणाय त्वद्भीतिभावेन जगत्प्रवृत्तिः ।
व्यापारयुक्तं विविधेषु नित्यं स्वस्वप्रकार्यं प्रकरोति चात्मन् ॥ ४४॥
(Page खं. ६ अ. २९ पान ८६)
अतस्त्वदाधारमयं परेश सुरक्ष ते भक्तियुतं कुरुष्व ।
गणेशक्षेत्रं त्वदधीनगं तुं गणेशसंस्थं कुरु ते नमो वै ॥ ४५॥
इदं स्तोत्रं महेशाना नग्नभैरवकस्य च ।
यः पठेच्छृणुयाद्वाऽपि स सर्वं प्रलभेच्छुभम् ॥ ४६॥
धनधान्यादिकं सर्वं भुक्तिमुक्तिसमन्वितम् ।
लभेदनेन देवेशास्तुविध्वं नग्नभैरवम् ॥ ४७॥
मयूरक्षेत्रत्यागश्च कदापि न भवेन्नृणाम् ।
स्तोत्रेण स्तुवतां नित्यं न किञ्चिद् दुर्लभं भवेत् ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते नग्नभैरवप्रशंसा नामाष्टाविंशतितमोऽध्यायः ॥ ६.२८
६.२९ भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
भृशुण्ड्युवाच ।
द्वारयात्रा समाख्याता सैव क्षेत्रप्रदक्षिणा ।
ज्ञातव्या देवदेवेशाः कुरुध्वं यत्नसंयुताः ॥ १॥
पुण्यकर्म नरः कुर्यात्तदा पापानि मानवम् ।
छलयन्ति विशेषेण तस्माद्यत्नपरो भवेत् ॥ २॥
नित्ययात्रां प्रवक्ष्यामि मयूरक्षेत्रवासिनाम् ।
अन्येषां सर्वदां पूर्णां शृणुध्वं सुसमाहिताः ॥ ३॥
मयूरेशं समभ्यर्च्य परिवारसमन्वितम् ।
ततोऽष्टगणपान् क्षेत्रं कुण्डं नदीं प्रपूजयेत् ॥ ४॥
शमीं मन्दारकं दूर्वां चतुर्थीं च ततः परम् ।
मुद्गलं शुकयोगीशं ततो मण्डपगो भवेत् ॥ ५॥
चतुर्देवांश्च पूर्वादिक्रमतः संस्थितो नरः ।
तत्र धर्मादिकान् श्रुत्वा यथावकाशमानतः ॥ ६॥
पुनर्गणेश्वरं नत्वा गच्छेत् स्वगृहकं ततः ।
एवं कुर्यान्नित्ययात्रां स गणेशप्रियो भवेत् ॥ ७॥
नित्ययात्रां नरो यस्तु न कुर्याद्यदि देवपाः ।
क्षेत्रवासफलं तस्य न भवेत् पूर्णमञ्जसा ॥ ८॥
यातनां स लभेदन्ते सम्पूर्णां भैरवीं पराम् ।
अतो यात्रां समाकुर्यात् क्षेत्रस्थो नियमेन तु ॥ ९॥
अधुना गणपप्रीत्यै यात्रामन्यां वदाम्यहम् ।
सम्पूर्णभक्तिदात्रीं च गाणेशीं गणपप्रियाः ॥ १०॥
गर्भागारे चतुर्दिक्षु स्थिता विघ्नेश्वराः पराः ।
षट्पञ्चाशच्च ते तेषु मुख्याः पूज्या विशेषतः ॥ ११॥
दिक्पालानां महास्त्राणि तेभ्यः पञ्च धनुः पुरः ।
सर्वत्र संस्थिताः सर्वे गणेशा गणपे रताः ॥ १२॥
चतुर्दशप्रमाणेन प्रत्येकं दिक्षु संस्थितान् ।
गणपान् पूजयेद्यस्तु गाणपत्यो भवेन्नरः ॥ १३॥
बल्लाळः कपिलो ढुण्ढिर्वक्रतुण्डो महोदरः ।
हेरम्बो गणनाथस्तु विघ्नेशो विघ्नहारकः ॥ १४॥
भालचन्द्रः शूपकर्णो ज्येष्ठराजो गजाननः ।
महोत्कटश्च देवेशा अभवन् पूर्वदिक् स्थिताः ॥ १५॥
एकैकस्मात् क्रमेणैव धनुषां पञ्चविंशतिम् ।
(Page खं. ६ अ. २९ पान ८७)
दूरे संस्था गणेशाना ज्ञातव्या भक्तिकारिभिः ॥ १६॥
तस्माद् द्विगुणमानेन दक्षिणे संस्थिताः पराः ।
तस्माच्चतुर्गुणेनैव पश्चिमे गणपा बभुः ॥ १७॥
तस्मात् पादविहीनेन गणपा उत्तरे भवन् ।
एवं क्रमेण पूज्यास्ते सर्वसिद्धिप्रदायकाः ॥ १८॥
अथ दक्षिणसंस्थांस्तु कथयामि गणेश्वरान् ।
ज्ञानेशः कर्मपश्चैव योगेशः सिद्धिविघ्नपः ॥ १९॥
चिन्तामणिश्च बुद्धीशो महागणपतिस्तथा ।
पूर्णानन्दश्च लक्ष्येशः सहजेशैकदन्तकौ ॥ २०॥
लम्बोदरो धूम्रवर्णस्तथा क्षिप्रप्रसादनः ।
एते दक्षिणगाः प्रोक्ता गर्भागारे महेश्वराः ॥ २१॥
विनायकश्च विकट आशापूरक संज्ञितः ।
धूम्रकेतुः प्रमोदश्च मोदः सुमुखदुर्मुखौ ॥ २२॥
पाशपाणिः परेशश्च लाभेशो धरणीधरः ।
मङ्गलेशश्च मूषकध्वज एते प्रकीर्तिताः ॥ २३॥
पश्चिमे देवदेवेशाः पूजनीया विधानतः ।
अथोत्तरगतान् वक्ष्ये गणेशान् भक्तपालकान् ॥ २४॥
मयूरध्वजसंज्ञश्च राजेशो विद्रुमेश्वरः ।
ओङ्कारेशो गुणेशश्च वरदः सिद्धिबुद्धिपः ॥ २५॥
गणेशश्च चतुर्बाहुस्त्रिनेत्रो गजमस्तकः ।
निधिपो गजकर्णश्च चिन्तामणिविभूषणः ॥ २६॥
एते गणेश्वराः प्रोक्ताः पूजनीया महेश्वराः ।
यात्राकारिण एवैते ददति स्वेप्सितं फलम् ॥ २७॥
अथ देवालये देवाः स्थितां यात्रां वदाम्यहम् ।
मुख्यां सर्वार्थदां पूर्णां यात्राकारिजनस्य च ॥ २८॥
अयोध्या मथुरा चैव द्वारका पूर्वमन्दिरे ।
महाविष्णुस्ततो देवाः पूजनीयो विशेषतः ॥ २९॥
काशी माया ह्यवन्ती च शिवः कैलासगस्ततः ।
गौरी स्कन्दो जनैः पूज्या दक्षिणे मुख्यभावतः ॥ ३०॥
महाकाली महालक्ष्मीर्महासरस्वती परा ।
आदिशक्तिर्जनैः पूज्या पश्चिमे विष्णुकाञ्चिका ॥ ३१॥
विधाताग्निः कर्मजडभरतोऽथ दिवाकरः ।
शिवकाञ्ची जनैः पूज्या उत्तरे देवमन्दिरे ॥ ३२॥
देवागारस्य देवेशा रहस्यं सम्प्रकाशितम् ।
यात्रां कुर्यान्नरस्तेषां सर्वसिद्धिप्रदा भवेत् ॥ ३३॥
अथो मयूरसंस्थानां रहस्यं कथयाम्यहम् ।
पुलहं च भृगुं देवाः क्रतुं सम्पूजेयन्नरः ॥ ३४॥
पूर्वभागे तथा याम्ये वसिष्ठात्री पुलस्त्यकम् ।
पश्चिमे दक्षमेवं तु मरीचाङ्गिरसौ तथा ॥ ३५॥
उत्तरे वसवोऽष्टौ च कामधेनुश्च देवलः ।
असितः पूजनीयास्ते जनैः सर्वार्थसिद्धये ॥ ३६॥
एतद्यात्राविधानं तु सङ्क्षेपेण निरूपितम् ।
सर्वसिद्धिप्रदं देवा जनेभ्यो यात्रया भवेत् ॥ ३७॥
गच्छध्वं तत्र देवेशा मयूरे भक्तिसंयुताः ।
भजिष्यथ गणेशानं ततः सर्वमवाप्स्यथ ॥ ३८॥
आदिशक्तिरुवाच ।
एवमुक्त्वा महायोगी भृशुण्डी विरराम ह ।
तस्मादेकाक्षरं गृह्य विधियुक्तं महामनुम् ॥ ३९॥
प्रणम्यापूज्य योगीशं ततः कृत्वा प्रदक्षिणम् ।
ययुर्हर्षयुताः सर्वे देवेन्द्राः पञ्च मुख्यकाः ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते भृशुण्डिदेवेन्द्रसंवादसमाप्तिवर्णनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ ६.२९
(Page खं. ६ अ. ३० पान ८८)
६.३० मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
ततो भ्रान्ता महेशाना ददृशुर्न मयूरकम् ।
स्वानन्दरूपगं ब्रह्म सस्मरुर्गणनायकम् ॥ १॥
भृशुण्डिनं हृदि ध्यात्वा पुपूजुर्गणपप्रियम् ।
ततो गणेश्वरं पूज्य प्रार्थयामासुरादरात् ॥ २॥
देवेशा ऊचुः ।
मयूरं दर्शयस्वाद्य न जानीमो वयं परम् ।
अज्ञानावरणैर्युक्तान् रक्ष नस्ते पदार्थिनः ॥ ३॥
अकस्माद् वेदमुख्याश्च बभुः साङ्गाः समागताः ।
गणेशश्वाससम्भूता देवेशान् ज्ञानदायिनः ॥ ४॥
तान् दृष्ट्वा तेजसा पुञ्जयुक्तांस्ते देवसत्तमाः ।
प्रणम्य वेदान् पप्रच्छुः के यूयं वदत प्रियाः ॥ ५॥
अज्ञानावरणैर्युक्ता गणेशस्मरणे रताः ।
वयं तत्र भवन्तोऽपि प्रेषिता गणपेन किम् ॥ ६॥
वेदा ऊचुः ।
वेदा वयं महेशानाः साङ्गा अत्र समागताः ।
किमर्थं दुःखसंयुक्ता भवन्तो वदत प्रियाः ॥ ७॥
ततः सर्वं जगुर्देवा वृत्तान्तं पूर्वसम्भवम् ।
तच्छ्रुत्वा वेदमुख्यास्तान् मयूरं तददर्शयन् ॥ ८॥
ततो ब्रह्ममयं क्षेत्रं दृष्ट्वा ज्योतिर्मयं परम् ।
प्रणेमुस्ते ततः सर्वे प्रवेशं चक्रुरादरात् ॥ ९॥
विधियुक्तं प्रचक्रुस्ते देवेशा वेदसंयुताः ।
ततो वेदाज्ञया हृष्टाः स्थापयन्ति स्म मूर्तिकाम् ॥ १०॥
सम्पूज्य ध्याननिष्ठास्ते जेपुर्मन्त्रं विधानतः ।
निराहारेण विघ्नेशं तोषयन्ति स्म देवपाः ॥ ११॥
यस्मिन् काले च देवेशैः स्थापिता मूर्तिरुत्तमा ।
भाद्रशुक्लचतुर्थी सा तदा माध्याह्नगाऽभवत् ॥ १२॥
सोमवासरसंयोगः स्वातीनक्षत्रकं महत् ।
दैवयोगेन कालश्च सम्प्राप्तः शक्तयः परः ॥ १३॥
शक्तय ऊचुः ।
सृष्टिहीनं तदा देवि कथं मासादिकं बभौ ।
एतत् कुतूहलं ब्रूहि संशयच्छेदनाय नः ॥ १४॥
आदिशक्तिरुवाच ।
दृश्यभावात्मकः कालो नश्यति स्म युगे युगे ।
सदैव ब्रह्मणि सर्वं ब्रह्माकारं प्रवर्तते ॥ १५॥
कालमानेन विघ्नेशो योगनिद्रापरोऽभवत् ।
तथा निद्राविहीनः स चकार सृष्टिमुत्तमाम् ॥ १६॥
ब्रह्मणि ब्रह्मरूपः स कालस्तत्र समास्थितः ।
अज्ञानेन जनानां चेत्तस्य संसेवनं भवेत् ॥ १७॥
तेन सिद्धियुताः सर्वे भवन्ति स्म न संशयः ।
ज्ञानतोऽज्ञानतो वाऽपि यथा वह्निकणो दहेत् ॥ १८॥
माघे शुक्लचतुर्थ्यां स गणेशो वरदोऽभवत् ।
अङ्गारकयुतायां तु मूर्तिमध्याद्विनिर्ययौ ॥ १९॥
दृष्ट्वा चतुर्भुजं ढुण्ढिं मयूरोपरि संस्थितम् ।
सिद्धिबुद्धिसमायुक्तं भालचन्द्रं महोदरम् ॥ २०॥
त्रिनेत्रं शेषनाभिं च चिन्तामणिधरं परम् ।
शूर्पकर्णं गजास्यं च एकदन्तविराजितम् ॥ २१॥
पाशाङ्कुशरदैर्युक्तमभयं दधतं प्रभुम् ।
भूषणैर्भूषितं वस्त्रै राजितं ददृशुः परम् ॥ २२॥
तत उत्थाय देवेशा मया युक्ताः प्रणम्य तम् ।
पुपूजुस्तुष्टुवुश्चैव प्रहृष्टमनसोऽभवन् ॥ २३॥
ब्रह्माद्या ऊचुः ।
अनादिरूपं मयूरोपरिस्थं निजस्य नाथं सकलावभासम् ।
मनोवचोहीनमनोवचःस्थं नमामहे तं गणनाथमीड्यम् ॥ २४॥
अजं पुराणं सकलादिपूज्यं परेशमानन्दप्रदं हृदिस्थम् ।
चतुःप्रचालं परमार्थभूतं नमामहे तं गणनाथमीड्यम् ॥ २५॥
(Page खं. ६ अ. ३० पान ८९)
जगत् स्वकोत्थानबलेन सृष्ट्वा स्वबोधगं यं जगतीशसंस्थम् ।
विदेहभावेन सदात्मसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २६॥
तयोर्विहीनं स्वसुखे प्रलीनं निजात्मगं योगधरं स्वधीस्थम् ।
अयोगरूपेण निवृत्तिसंस्थं नमामहे तं गणनाथमीड्यम् ॥ २७॥
प्रभुं स्वभक्तस्य सुशान्तिकारं सुशान्तिगं यं गजवक्त्रधारम् ।
चतुर्भुजं ह्येकरदं त्रिनेत्रं नमामहे तं गणनाथमीड्यम् ॥ २८॥
महोदरं पाशधरं सुसिद्धिप्रदं विभुं बीजममोघवीर्यम् ।
परात्परं शूर्पश्रुतिं गणेशं नमामहे तं गणनाथमीड्यम् ॥ २९॥
नमस्ते सृष्टिकर्त्रे ते ब्रह्मणे पालकाय च ।
विष्णवे शम्भवे तुभ्यं संहर्त्रे वै नमो नमः ॥ ३०॥
अनाथानां प्रणाथाय शक्तये मोहधारिणे ।
कर्मणे भानवे चैव हेरम्बाय नमो नमः ॥ ३१॥
मयूरेशाय देवाय मयूरध्वजधारिणे ।
विघ्नेशाय महाविघ्नचालकाय नमो नमः ॥ ३२॥
किं स्तुमस्त्वां गणेशान ब्रह्मणां ब्रह्मरूपिणम् ।
यत्र देवादयः शान्तिं गच्छन्ति स्म निरन्तरम् ॥ ३३॥
अतो नमामहे नाथ तेन तुष्टो भवस्व च ।
भक्तान् रक्ष महाभक्तिप्रिय विघ्नेश आदरात् ॥ ३४॥
एवमुक्त्वा प्रणेमुस्ते गणेशं भक्तिसंयुताः ।
साश्रुनेत्राः सरोमाञ्चास्तानुत्थाप्य जगाद सः ॥ ३५॥
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति ।
पठतां शृण्वतां देवा सर्वं दास्यामि वाञ्छितम् ॥ ३६॥
वरं ब्रूत विशेषेण दास्यामि मनसीप्सितम् ।
तपसा स्थापनेनैव ह्यहं स्तोत्रेण तोषितः ॥ ३७॥
देवेशा ऊचुः ।
यदि विघ्नेश सन्तुष्टो वरं दास्यसि वाञ्छितम् ।
तदा ते पादपद्मे नो भक्तिरस्तु निरन्तरम् ॥ ३८॥
अन्यच्चास्माभिरानन्दात् करणीयं किमप्यहो ।
कार्यं ब्रूहि गणाधीश करिष्यामो जवान्विताः ॥ ३९॥
श्रीगणेश उवाच ।
चतुर्मुख रजोयुक्तः सृष्टिं कुरु मदाज्ञया ।
ब्रह्मा नाम्ना भवस्व त्वं मां स्मृत्वाऽहंविवर्जितः ॥ ४०॥
विष्णुश्चतुर्भुजः सत्वयुक्तोऽसि कुरु पालनम् ।
नानावतारभृन्नित्यं मां स्मृत्वा सिद्धिमेष्यसि ॥ ४१॥
तमोयुक्तः पञ्चमुख तेन त्वं संहरस्व च ।
मां स्मृत्वा बन्धहीनश्च भविष्यसि हरो भव ॥ ४२॥
चतुर्भुजे क्रियायुक्ता त्वं ततो मोहयस्व च ।
नानाभेदविभागेन मां स्मृत्वा सिद्धिमेष्यसि ॥ ४३॥
नाम्ना शक्तिर्भवस्व त्वं सर्वशक्तियुतेऽनघे ।
सहस्रकरसूर्यस्त्वं भव नाम्ना महामते ॥ ४४॥
कर्माधारस्वरूपेण धारयस्व चराचरम् ।
मां स्मृत्वा बन्धहीनोऽपि भविष्यसि न संशयः ॥ ४५॥
एवमुक्त्वा गणाधीशो ददौ तेभ्यो विशेषतः ।
सङ्कल्पसिद्धिजं देव्यः सामर्थ्यं विविधं तथा ॥ ४६॥
शक्तयो नगराण्येवायुधानि वहनादिकम् ।
निर्मायांऽतर्दधे सद्यो मूर्तिसंस्थो बभूव ह ॥ ४७॥
देवाः स्वस्वपदे गत्वा चक्रुः सर्वं जगत्ततः ।
चराचरं यथाभागमाश्रित्य किल रेमिरे ॥ ४८॥
तत्र ये मुख्यरूपाश्च प्रजापतिमुखोद्भवाः ।
अप्रेषयन् महेशास्तान् मयूरेशहिताय च ॥ ४९॥
(Page खं. ६ अ. ३० पान ९०)
ते गणेशं समाराध्य मयूरे वरसंयुताः ।
स्वस्वव्यापारसंयुक्ता बभूवुः स्वपदे रताः ॥ ५०॥
एवं क्रमेण सर्वे तु चराचरमया मुखाः ।
मयूरेशं समाराध्य सत्तायुक्ता बभूविरे ॥ ५१॥
ततः सर्वांशभावेन मयूरेशं सिषेविरे ।
क्षेत्रवासपरा देव्यः कथितं सर्वमञ्जसा ॥ ५२॥
शङ्करेण तपस्तप्तं पुनस्तत्र मयूरके ।
गणेशवरदानेन महादेवो बभूव ह ॥ ५३॥
इदं मयूरक्षेत्रस्य माहात्म्यं कथितं मया ।
सङ्क्षेपेण महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ५४॥
शृणुयाद्यो नरो भक्त्या श्रावयेद्यः पठेत्तथा ।
धर्मार्थकाममोक्षांश्च भुक्त्वा ब्रह्ममयो भवेत् ॥ ५५॥
नानेन सदृशं किञ्चित् पावनं त्रिषु वर्तते ।
वेदशास्त्रपुराणेषु सारात् सारतमं मतम् ॥ ५६॥
पुत्रपौत्रयुतश्चात्र धनधान्यसमन्वितः ।
सुहृद्भिः संयुतः सोऽपि मोदते सुखदायकः ॥ ५७॥
अन्ते स्वानन्दवासी तु भूत्वा ब्रह्ममयो भवेत् ।
अस्य श्रवणमात्रेण नरः सर्वमवाप्नुयात् ॥ ५८॥
अपुत्रो यो लभेत् पुत्रान् गुणयुक्तांस्तु शक्तयः ।
मयूरस्यैव श्रवणात् दुर्लभं न भविष्यति ॥ ५९॥
व्रतानि सर्वभावेन यः करोति नरोत्तमः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६०॥
तीर्थानि क्षेत्रमुख्यानि सेवन्ते धर्मसंयुताः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६१॥
दानानि सर्वयज्ञांश्च यः करोति विधानतः ।
तेभ्यः शताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६२॥
वेदशास्त्रपुराणानि श्रुत्वा यत् प्राप्नुयात् फलम् ।
तस्माच्छताधिकं पुण्यमस्य श्रवणतो लभेत् ॥ ६३॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं परम् ।
किञ्चित् साधनकं प्रोक्तं सत्यं सत्यं वदाम्यहम् ॥ ६४॥
यत्र ब्रह्मपतिः साक्षात् क्षेत्रं स्वानन्दवाचकम् ।
कमण्डलुर्नदी तस्य साम्यं किं भवतीत्यहो ॥ ६५॥
ब्रह्मभूयकरं प्रोक्तं वेदादिषु इदं किल ।
तेन किं शक्तयः कुत्र समतां लभते परम् ॥ ६६॥
नित्यं भक्तियुतो जन्तुर्माहात्म्यं यः पठिष्यति ।
स गणेशो न सन्देहो दर्शनाद् दुःखहारकः ॥ ६७॥
अथवा शुक्लकृष्णायां चतुर्थ्यां नियतः पठेत् ।
सोऽपि दर्शनमात्रेण पवित्रान् कुरुते नरान् ॥ ६८॥
संस्कारहीनभावेन नरो नेदं कदाचन ।
शृणुयाच्च पठेद्वाऽपि सदा पापैः स वञ्चितः ॥ ६९॥
नहि श्रावयितव्यं तद् भक्तिहीनाय विद्विषे ।
शठाय पापयुक्ताय पाखण्डनिरताय च ॥ ७०॥
यदि विघ्नेश्वरं सर्वे भावयुक्ता भजन्ति चेत् ।
तदा जन्मधराः के वै भवन्ते विघ्नसंयुताः ॥ ७१॥
अतः पात्रं प्रदृश्य श्रावयितव्यं विशेषतः ।
भक्तियुक्तः स निन्दां तु न करिष्यति सेवितुम् ॥ ७२॥
सर्वसारं मया प्रोक्तं देव्यः सर्वपदं परम् ।
तत्र गत्वा गणेशानं सेवध्वं भक्तिसंयुताः ॥ ७३॥
देहधारणकस्यैव सार्थकं वस्तदा भवेत् ।
नो चेत् पतिततुल्यश्च देहो वश्च न संशयः ॥ ७४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरेशक्षेत्रमाहात्म्यसमाप्तिवर्णनं नाम त्रिंशत्तमोऽध्यायः ॥ ६.३०
(Page खं. ६ अ. ३१ पान ९१)
६.३१ विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
अहो भाग्यबलेनैव संश्रुतं जगदम्बिके ।
मयूरक्षेत्रमाहात्म्यं सर्वसिद्धिप्रदायकम् ॥ १॥
अधुना वद देवेशि मुद्गलेनोपदेशिताः ।
शिवाद्याः किं समाचक्रुः कामासुरभयार्दिताः ॥ २॥
आदिशक्तिरुवाच ।
गते मुनौ महाभागे मुद्गले योगिनां गुरौ ।
तं प्रणम्य शिवाद्यास्ते ययुः क्षेत्रं मयूरकम् ॥ ३॥
यथाशास्त्रं विधानेन यात्रां चक्रुः सुरर्षयः ।
ततस्तपोयुताः सर्वे गणेशमभजन् पुरा ॥ ४॥
एकाक्षरविधानेनातोषयंस्ते विनायकम् ।
ततस्तान् वरदो ढुण्ढिवेषेणैव समाययौ ॥ ५॥
मयूरोपरिसंस्थं तं दृष्ट्वा विघ्नेश्वरं पुरः ।
देवर्षयः समुत्थाय प्रणेमुर्हर्षसंयुताः ॥ ६॥
प्रणम्य परया भक्त्या पुपूजुर्विघ्नपं पुनः ।
तुष्टुवुर्विष्णुमुख्यास्तं कृताञ्जलिपुटाऽमराः ॥ ७॥
देवर्षय ऊचुः ।
नमस्तेऽस्तु मयूरेश सर्वसिद्धिप्रदायक ।
ज्ञानदात्रे स्वभक्तेभ्यः पालकाय नमो नमः ॥ ८॥
स्वानन्दवासिने तुभ्यं परात्परतराय च ।
ढुण्ढिराजाय सर्वेषां मात्रे पित्रे नमो नमः ॥ ९॥
अनादये च सर्वेषां पूज्याय परमात्मने ।
अनन्ताननधारायानन्तरूपाय ते नमः ॥ १०॥
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिवराय च ।
ज्येष्ठराजाय ज्येष्ठेभ्यो वरदाय नमो नमः ॥ ११॥
त्रिनेत्राय चतुर्बाहुधराय कञ्जपाणये ।
महोदराय सर्पेशनाभये ते नमो नमः ॥ १२॥
मायाश्रयाय मायायाश्चालकाय विलासिने ।
ब्रह्मणां ब्रह्मरूपाय गणेशाय नमो नमः ॥ १३॥
एकदन्ताय सर्वादिपूज्याय सर्वमूर्तये ।
शूर्पकर्णाय योगाय शान्तिदाय नमो नमः ॥ १४॥
पूर्वाङ्गे विष्णुरूपाय दक्षिणे शङ्करात्मने ।
पश्चिमे शक्तिदेहायोत्तरे ते भानवे नमः ॥ १५॥
किं स्तुवीमो मयूरेशं यत्र वेदाश्च योगिनः ।
शान्तिं प्राप्ता विशेषेण देवदेवेश ते नमः ॥ १६॥
चित्तं पञ्चविधं देव तत्र माया भ्रमात्मिका ।
चित्रा मयूरसंज्ञा च नमस्तत् स्वामिने नमः ॥ १७॥
माया मयूरवाच्या तु तत्र खेलकरो भवान् ।
मयूरेश इति ख्यातः साक्षाद् दृष्टो न संशयः ॥ १८॥
जन्म धन्यं वयो विद्या तपो ज्ञानादिकं परम् ।
तवाङ्घ्रिदर्शनान्नाथ कृतकृत्या भवामहे ॥ १९॥
एवं तं ननृतुः स्तुत्वा भक्त्या साश्रुविलोचनाः ।
सरोमाञ्चा मयूरेश जयेति ह्यब्रुवन् प्रभुम् ॥ २०॥
जगाद गणनाथश्च ततस्तान् भक्तिभावितः ।
वरान् वृणुत दास्यामि देवेशा भक्तियन्त्रितः ॥ २१॥
भवद्भिर्यत् कृतं स्तोत्रं मदीयं सर्वसिद्धिदम् ।
भविष्यति सदा भक्तिदायकं पठते परम् ॥ २२॥
यं यमिच्छति तं तं तु दास्यामि हर्षसंयुतः ।
पठेद्वा शृणुयाच्चेद्वा मत्प्रियः स नरो भवेत् ॥ २३॥
देवेशाद्या ऊचुः ।
प्रसन्नोऽसि गणाध्यक्ष तदा भक्तिं त्वदीयिकाम् ।
देहि कामासुरं नाथ जहि सर्वभयङ्करम् ॥ २४॥
स्थानभ्रष्टाः सुरश्रेष्ठाः कर्मभ्रष्टा मुनीश्वराः ।
कृतास्तेनासुरेणैवातस्तं जहि गजानन ॥ २५॥
तथेति गणनाथस्तानुक्त्वाऽन्तर्धानमकरोत् ।
(Page खं. ६ अ. ३१ पान ९२)
देवा हर्षयुताः सर्वे जग्मुर्गिरिगुहान्तरे ॥ २६॥
गणेशं भजमानास्ते मुनयो देवनायकाः ।
कालाकाङ्क्षिण आनन्दाद्बभूवुः शक्तिमुख्यकाः ॥ २७॥
अथ कामासुरः क्वापि सभायां संस्थितोऽभवत् ।
तत्राकाशभवां वाणीं शुश्राव भयदायिनीम् ॥ २८॥
देवैः सम्प्रार्थितं ब्रह्म मयूरेश्वरसंज्ञितम् ।
हत्वा त्वामखिलं विश्वं सुखयुक्तं करिष्यति ॥ २९॥
ततो मुमूर्च्छ तस्मात् स कामासुरो भयातुरः ।
श्रुत्वा वाचं महाक्रूरां दैत्येशास्तं समाययुः ॥ ३०॥
महायत्नेन दैत्येशाः सावधानं महासुरम् ।
चक्रुः स तानुवाचेदं वचनं खसमुद्भवम् ॥ ३१॥
तच्छ्रुत्वा क्रोधसंयुक्ता दैत्येशास्तमथाऽब्रुवन् ।
देवाः शत्रव आद्याश्चास्माकं नित्यं श्रुतेर्मुखात् ॥ ३२॥
अस्माभिः कथितं स्वामिन् जहि देवान् महामते ।
मुक्तेस्त्वया सुरेशानैस्तैरिदं दारुणं कृतम् ॥ ३३॥
उत्पत्तिस्थितिसंहारकारकेभ्यो महाप्रभो ।
तद्भवेभ्यो भयं ते न किं करिष्यति देवपः ॥ ३४॥
आज्ञापय महाभागास्मान् देवहननाय वै ।
मृता देवा यदा नाथ निःसपत्ना वयं तदा ॥ ३५॥
ततः कामासुरस्तानाज्ञापयद्देवकदने ।
कुम्भकर्णादयो जग्मुर्गिरिकन्दरकानने ॥ ३६॥
ततो मेरुगुहासंस्थान् दृष्ट्वा देवर्षिसत्तमान् ।
शस्त्राणि दैत्यास्तान् हन्तुं तत्यजुर्दैत्यनायकाः ॥ ३७॥
शिवमुख्या मयूरेशं सस्मरुर्भयसङ्कुलाः ।
एहि नाथ दयासिन्धो रक्ष नो भयसंयुतान् ॥ ३८॥
स्मृतिमात्रेण हेरम्बस्तान् ययौ मूषकध्वजः ।
मयूरोपरिसंस्थश्च शस्त्रधारक आदरात् ॥ ३९॥
तेजोराशिमयं रूपं दृष्ट्वा देवा विसिस्मिरे ।
तुष्टुवुस्तं महेशाना नानास्तोत्रैर्गजाननम् ॥ ४०॥
ततस्तेजोमयं रूपं तान् जगाद सुरर्षिकान् ।
विकटोऽहं महाभागास्तथा भजत मां चिरम् ॥ ४१॥
कामयुक्ता मया माया मयूरा विविधात्मिका ।
कामहीनोऽयमेवाहं भजध्वं कामहानतः ॥ ४२॥
मायासुखाच्च देवेशा विकटा भवत प्रियाः ।
तदा मे रूपकं द्रष्टुं भविष्यथ समर्थकाः ॥ ४३॥
तस्य तद्वचनं श्रुत्वा शोकयुक्ताः सुरर्षयः ।
बलेन चित्तमागृह्य निःकामं चक्रुरादरात् ॥ ४४॥
ततो गणेश्वरं देवा मुनयो ददृशुश्च ते ।
तं प्रणम्य स्थिताः सर्वे दैत्यशस्त्रैः प्रपीडिताः ॥ ४५॥
ततोऽतिक्रोधसंयुक्तो विकटस्तानुवाच ह ।
भयहीना मदीयेन दर्शनेन भवेत वै ॥ ४६॥
अधुना शस्त्रसंयुक्ता युध्यध्वं मे ह्यनुग्रहात् ।
कामासुरं हनिष्यामि आगतं तं महेश्वराः ॥ ४७॥
ततस्ते क्रोधसंयुक्ता देवेन्द्राः शस्त्रपाणयः ।
युयुधुर्दैत्यमुख्यैश्च तेजोयुक्ता विशेषतः ॥ ४८॥
इन्द्रेण सहसाऽऽगत्य वज्रेण निहतोऽपतत् ।
कुम्भकर्णस्ततो दैत्या प्रपेलुर्भयसङ्कुलाः ॥ ४९॥
द्विमुहूर्ते गते देव्यो राक्षसेशः प्रतापवान् ।
(Page खं. ६ अ. ३२ पान ९३)
सावधानो बभूवाऽपि पपाल भयसङ्कुलः ॥ ५०॥
जययुक्ता महेशानाः प्रणेमुर्विकटं ततः ।
जयशब्देन सर्वेशं तुष्टुवुर्हर्षसंयुताः ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते विकटप्रादुर्भावो नाम एकत्रिंशत्तमोऽध्यायः ॥ ६.३१
६.३२ देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
कामासुरवधार्थाय भक्तियुक्ता गजाननम् ।
देवर्षयः प्रार्थयन्तो निःकामाः कथमप्यहो ॥ १॥
आदिशक्तिरुवाच ।
अथो सकामनिःकाममार्गं वक्ष्यामि शक्तयः ।
शृणुध्वं भावसंयुक्ताः संशयच्छेदनाय तम् ॥ २॥
स्वदेहपोषणाद्यर्थं यशोर्थं भावसंयुताः ।
भजन्ते कामसंयुक्ता देवं जानीत तान्नरान् ॥ ३॥
स्वस्वधर्मप्रसिद्ध्यर्थं देवसेवार्थमेव ये ।
निःकामास्ते भजन्ते तं देवं भावसमन्विताः ॥ ४॥
निःकामिका कृता भक्तिर्देवेशैः शृणुत प्रियाः ।
तस्याश्चिह्नं प्रवक्ष्यामि भवती हितकाम्यया ॥ ५॥
सृष्टिस्थितिलयाद्यर्थं निर्मिता विधिमुख्यकाः ।
वयं तदेव सेवा ते खेलसि त्वं गजानन ॥ ६॥
हृदि स्थित्वा च सर्वेषां भोगांस्त्वं दोषवर्जितः ।
भुङ्क्षे तेन गणेशान सेवा ते देहपोषिका ॥ ७॥
तव प्रीत्यर्थमानन्दात् प्रकुर्मः स्वस्वधर्मजाम् ।
क्रियां सृष्ट्यादिकां नाथ तदर्थं प्रार्थयामहे ॥ ८॥
अधुना दैत्यमुख्येन सेवा ते खण्डिता परा ।
असमर्थांश्च तां कर्तुं रक्ष नः सेवनोत्सुकान् ॥ ९॥
एवं सम्प्रार्थितो देवैर्विकटो नात्र संशयः ।
देहभोगादिभावेषु यशः स्वप्य स्पृहात्मभिः ॥ १०॥
स्वधर्मसंयुतैः सर्वैः स्वस्वव्यापारजा क्रिया ।
कर्तव्या ढुण्ढिप्रीत्यर्थं निःकामा सा मता किल ॥ ११॥
अधुना प्रकृतं देव्यो महच्छृणुत चेष्टितम् ।
विकटस्य विशेषेण येन भक्तिः प्रलभ्यते ॥ १२॥
कुम्भकर्णादयः सर्वे जग्मुर्भयसमन्विताः ।
कामासुरं महावीर्यं वृत्तान्तं तं न्यवेदयन् ॥ १३॥
मयूरेशः समायातो विकटश्चेति कथ्यते ।
देवैः सम्प्रार्थितो नाथ हनिष्यति महासुरान् ॥ १४॥
तस्य दृष्टिनिपातेन देवास्तेजोयुताः कृताः ।
वयं तेजोविहीनाश्च पश्याश्चर्यं महामते ॥ १५॥
शरणं विकटं चैव शुभदं ते भविष्यति ।
अन्यथाऽसुरसङ्घानां विनाशो निश्चितोऽधुना ॥ १६॥
कुम्भकर्णवचः श्रुत्वा क्रोधयुक्तो बलिश्च तम् ।
निर्भर्त्स्य प्रत्युवाचेदं वचनं सर्वसन्निधौ ॥ १७॥
बलिरुवाच ।
किं भ्रान्तोऽसि विशेषेण वदसे विकलो यथा ।
कामासुरस्य वेगं तु सहते कः स्वरूपधृक् ॥ १८॥
(Page खं. ६ अ. ३३ पान ९४)
बलेर्वचनमाकर्ण्यासुरः कामः प्रतापवान् ।
जगाद दैत्यमुख्यांश्च हृदयेन विदूयता ॥ १९॥
कामासुर उवाच ।
वाणी सत्या बभूवापि स्वस्था मे शत्रुरागतः ।
हनिष्यामि मरिष्यामि किं वा तत्र भविष्यति ॥ २०॥
कामासुरवचः श्रुत्वा दुर्मदस्तत्र चाब्रवीत् ।
वचनं तेजसा युक्तो वीर्ययुक्तं महासुरः ॥ २१॥
दुर्मद उवाच ।
कुम्भकर्णेन दृष्टश्च विकटो नात्र संशयः ।
उत्पत्तिनाशसंयुक्तो विचारय महामते ॥ २२॥
यद् दृष्टं तत्प्रणष्टं वै पश्य वेदे विचक्षण ।
कथं त्वां स महाराज हनिष्यति वरैर्युतम् ॥ २३॥
मा चिन्तां कुरु राजेन्द्र वधिष्यामो वयं च ते ।
शत्रुं तत्र जयैर्युक्ता भविष्यामो न संशयः ॥ २४॥
अज्ञापय महादैत्यास्मांस्ते पादस्य किङ्करान् ।
पश्य नो यत् महावीर्यं देवनाशकरं परम् ॥ २५॥
देवैर्माया कृता चेयं खवाणी भयरूपिणी ।
मायया तं विनिर्माय भयार्थं दैत्यरक्षसाम् ॥ २६॥
नेयमाकाशवाणी वै विचारय महामते ।
देहधारी कथं त्वां स हनिष्यति महाबलम् ॥ २७॥
दुर्मदस्य वचः श्रुत्वा बलिमुख्या महाऽसुराः ।
हर्षयुक्ताः पुनस्तं ते जगुः सत्यं त्वयोदितम् ॥ २८॥
ततः कामासुरश्चैव सन्नद्धः सर्वदैत्यपैः ।
चतुरङ्गबलैर्युक्तैर्निर्जगाम गजाननम् ॥ २९॥
ततः शुक्रेण दैत्येन्द्रो बोधितो बहुलोक्तिभिः ।
न बुबोध मदोत्सिक्तो बलगर्वेण मोहितः ॥ ३०॥
भाविनं मुनिमुख्यश्च ज्ञात्वा काव्यो महायशाः ।
कालवेगं समाश्रित्य प्रययौ तमनु प्रभुः ॥ ३१॥
दैत्याः क्रोधयुताः सर्वे समाजग्मुः प्रहर्षिताः ।
देवमर्दनकामार्थं यत्र देवाः स्थिताः पुरा ॥ ३२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते देवदैत्यसमागमो नाम द्वात्रिंशत्तमोऽध्यायः ॥ ६.३२
६.३३ कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
समागतं महत् सैन्यं नानाशस्त्रविराजितम् ।
अपारं तत् समालोक्य देवेशा गणपं ययुः ॥ १॥
देवेशा ऊचुः ।
कामासुरः स्वयं साक्षादागतः स महाबलः ।
यस्याग्रे देवदेवेशा मशका इव सम्बभुः ॥ २॥
यस्य शस्त्रबलं स्वामिन्नमोघं सर्वदा बभौ ।
न बले सदृशस्तस्य सोऽयं कामः समागतः ॥ ३॥
रक्ष नः कामसन्त्रस्तान्नोचेत् कामः प्रतापवान् ।
देवर्षीणां गणेशान जीवग्राहं करिष्यति ॥ ४॥
तेषां वचनमाकर्ण्य तान् जगाद गजाननः ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५॥
(Page खं. ६ अ. ३३ पान ९५)
मदनुग्रहतः सर्वे समर्था देवनायकाः ।
भविष्यथ न सन्देहो युध्यध्वं दानवैः सह ॥ ६॥
विकटस्य वचः श्रुत्वा देवा हर्षसमन्विताः ।
जगर्जुः शस्त्रसंयुक्ता भयहीनाश्च शक्तयः ॥ ७॥
तेषां गर्जितशब्देन व्याप्तं सर्वं दिगन्तरम् ।
दैत्या भययुताः सर्वे बभूवुर्ये समागताः ॥ ८॥
ततः क्रोधसमाविष्टा दैत्येशा बलिमुख्यकाः ।
जगर्जुः सिंहनादैश्च शङ्खनादैः समन्ततः ॥ ९॥
ततो दैत्यगणाः सर्वे मुमुचुः शस्त्रपाणयः ।
शस्त्रवृष्टिं महोग्रां च मेघा इव शिलोच्चये ॥ १०॥
ततो देवाः स्वशस्त्रैस्तान्निवार्य युयुधुः परम् ।
दैत्या देवा महोग्राश्च युयुधुस्ते परस्परम् ॥ ११॥
नाऽभूत् स्वपरबोधोऽपि रजसा छादिते रवौ ।
जघ्नुः परस्परं देव्यः शस्त्रास्त्रैर्मर्मभेदिभिः ॥ १२॥
ततो रक्तसमोघैश्च नदी जाता दुरत्यया ।
प्रवाहबहुला रक्तै रजः शान्तं बभूव ह ॥ १३॥
एवमेकदिनं घोरं दिवानिशि निरन्तरम् ।
युद्धं बभूव दैत्यानां देवानां तु जयैषिणाम् ॥ १४॥
ततो देवा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् ।
जघ्नुः शस्त्रप्रहारैस्तु प्रपेलुर्दैत्यनायकाः ॥ १५॥
तद् दृष्ट्वा परमाश्चर्यं दैत्येन्द्राः क्रोधमादधुः ।
बलिमुख्या महावीर्या आययू रणमण्डलम् ॥ १६॥
तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहतं बलम् ।
प्रपेलुरमरास्तत्र भयभीता दिशो दश ॥ १७॥
तत इन्द्रः समायातो जघानामर्षतो बलिम् ।
वज्रेण पातयामास दानवेन्द्रं महाबलम् ॥ १८॥
ततो हर्षयुता देवा जगर्जुर्नादसंयुताः ।
महेद्रं कुम्भकर्णश्च हृदि विव्याध मुष्टिना ॥ १९॥
इन्द्रः पपात भूपृष्ठे ततो विष्णुर्महाबलः ।
चक्रं तत्याज सङ्क्रुद्धो रणभूमौ विचक्षणः ॥ २०॥
चक्रेण क्षुरधारेण हता दैत्याः समन्ततः ।
रावणः क्रोधसंयुक्तस्तं ययौ रणकाम्यया ॥ २१॥
गदया विष्णुना तत्र हतो मूर्च्छामवाप ह ।
कुम्भकर्णं तथा विष्णुर्मूर्च्छितं प्रचकार ह ॥ २२॥
ततो दुर्मदकस्तत्र महिषः शङ्करस्तथा ।
समाजग्मुर्महाविष्णुं क्रोधयुक्ताः समन्ततः ॥ २३॥
ततोऽतिव्याकुलं दृष्ट्वा केशवं शङ्करः स्वयम् ।
त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ ॥ २४॥
भानुना दुर्मदस्तत्र गदया पीडितो भृशम् ।
मूर्च्छितः स पपातैव वमन् रक्तं मुखाद् बहु ॥ २५॥
त्रिशूलेन हतस्तत्र शङ्करः शङ्करेण च ।
पपात स धरापृष्ठे मूर्च्छितो सुरनायकः ॥ २६॥
चक्रेण महिषस्तत्र विष्णुना मूर्च्छितः कृतः ।
ततो हाहारवं कृत्वा प्रपेलुर्दैत्यदानवाः ॥ २७॥
देवानां जययुक्तानां बलं दृष्ट्वा महामुनिः ।
शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे ॥ २८॥
एतस्मिन्नन्तरे तत्र महाकाली समाययौ ।
काव्यं गृह्य ययौ देवी तं चिक्षेप गुहान्तरे ॥ २९॥
ततः कामासुरः शोकयुतो दैत्यः प्रतापवान् ।
निःश्वस्य योद्धुमायातस्तस्य पुत्रौ समूचतुः ॥ ३०॥
तिष्ठ तात गमिष्यावो रणं कृत्वा महारिपुम् ।
हनिष्यावो न सन्देहः किं करिष्यति विघ्नपः ॥ ३१॥
(Page खं. ६ अ. ३३ पान ९६)
एवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलम् ।
ययतुः शङ्करं विष्णुमूचतुः क्रोधसंयुतौ ॥ ३२॥
शोषण उवाच ।
तिष्ठ तिष्ठ महादेव हत्वा दैत्यगणान् पुरा ।
अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् ॥ ३३॥
शिवोऽसि त्वं शिवातुल्यो गच्छारण्यं मरिष्यसि ।
पशुभिश्च मदग्रे तु किं करिष्यसि तद्वद ॥ ३४॥
श्रीशङ्कर उवाच ।
शोषण त्वं समर्थश्चाधुना हन्मि न संशयः ।
विकट तेजसा युक्तः पौरुषं दर्शयस्व रे ॥ ३५॥
श्रुत्वा बाणान् महाबाहुश्चिक्षिपामोघरूपकान् ।
तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे ॥ ३६॥
शङ्करस्तं महावीर्यं योधयामास वेगतः ।
सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः पुनः ॥ ३७॥
ततस्त्रिशूलघातेन शोषणश्च पपात ह ।
क्षणाल्लभ्य ततः संज्ञां शम्भुं जग्राह कोपतः ॥ ३८॥
भ्रामयित्वा प्रचिक्षेप महापर्वतमस्तके ।
ततो हर्षयुता दैत्यास्तं जयेति शशंसिरे ॥ ३९॥
दुष्पूरो विष्णुमागत्य तं जगाद सुरेश्वरम् ।
क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः ॥ ४०॥
दुष्पूर उवाच ।
किं विष्णो त्वं मदोत्सिक्तो मां न जानासि दुर्मते ।
हतास्त्वया महावीरा मदीया दैत्यनायकाः ॥ ४१॥
फलं गृहाण मत्तस्त्वं तेषां देवानुसारिणाम् ।
सहायस्त्वं हतो नूनं गमिष्यसि यमक्षयम् ॥ ४२॥
तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः ।
जगाद तं महावीर्यं दैत्यपुत्रं सुगर्वितम् ॥ ४३॥
श्रीविष्णुरुवाच ।
किं मां वदसि पापिष्ठ हनिष्यामि न संशयः ।
विकट सत्तया त्वाऽहं मा गर्वं कुरु दैत्यज ॥ ४४॥
ततः क्रोधसमाविष्टो दुष्पूरो गदया त्वहन् ।
विष्णुं तयाऽतिदुःखेन पपात धरणीतले ॥ ४५॥
ततो देवेन्द्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः ।
मारयामासुरव्यग्राः सोऽपि चिक्षेप सायकान् ॥ ४६॥
शतैः सन्ताडयामास भानुं तेजस्विनां वरम् ।
इन्द्रं शतैर्यमं वायुं ब्रह्माणं च व्यपातयत् ॥ ४७॥
ततो विष्णुश्च दुष्पूरं सावधानो जघान ह ।
चक्रेण मूर्च्छितं चक्रे दैत्यपं रणमूर्धनि ॥ ४८॥
पुनः संज्ञां समासाद्य बाणैर्विष्णुमपीडयत् ।
सहस्रैर्मूर्च्छितं कृत्वा जगर्ज हर्षयन् स्वकान् ॥ ४९॥
एवं दुष्पूरदैत्येन शोषणेन च शक्तयः ।
कृतं कर्म रणे तुल्यं जययुक्तप्रभावतः ॥ ५०॥
दैत्येन्द्रैर्बलिमुख्यैश्च सावधानैस्तदन्तरे ।
तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजतुः ॥ ५१॥
ततो देवगणान् हन्तुं दैत्येशा बलसंयुताः ।
मतिं चक्रुस्ततः क्रुद्धो बभूव द्विरदाननः ॥ ५२॥
पाशं चिक्षेप वेगेन तथांऽकुशं गजाननः ।
पाशः शोषणकण्ठं तु समागत्य स्थितोऽभवत् ॥ ५३॥
रुद्धश्वासः स पाशेन पपात शोषणो मृधे ।
हस्तौ पादौ प्रचाल्यैव ममार तत्क्षणात्ततः ॥ ५४॥
अङ्कुशः सहसाऽऽगत्य जघानोदरके ततः ।
दुष्पूरं स ममारैव पश्यतां दैत्यरक्षसाम् ॥ ५५॥
ततः पाशाङ्कुशौ तत्र चेरतू रणमण्डले ।
हत्वा दैत्याननेकांश्च हाहाकाररवाकुलान् ॥ ५६॥
(Page खं. ६ अ. ३४ पान ९७)
बलिमुख्या भयोद्विग्नास्त्यक्त्वा लज्जां च शक्तयः ।
प्रपेलुः शस्त्रहीनास्ते दशदिक्षु तथाऽपरे ॥ ५७॥
ततो विघ्नेश्वरस्यैव हस्तगौ सम्बभूवतुः ।
पाशाङ्कुशौ गणेशस्योत्तस्थुर्दृष्ट्वाऽमराः पुनः ॥ ५८॥
नीरुजो बलसंयुक्तास्तुष्टुवुर्विकटं ततः ।
दैत्याः शोकाकुलास्तद्वद्रुरुदुः सर्वतो दिशाम् ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कामासुरपुत्रवधो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ६.३३
६.३४ कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
छिन्नाङ्गा असुराः कामासुरं केचिन् महाबलम् ।
जग्मुर्भययुतं दृष्ट्वा वृत्तान्तं तमवेदयन् ॥ १॥
दैत्या ऊचुः ।
किं स्थितोऽसि महाराज मृता दैत्या महामृधे ।
तव पुत्रौ मृतौ तत्र शरणं व्रज विघ्नपम् ॥ २॥
नोचेत् दैत्यकुलानां वै मूलच्छेदो भविष्यति ।
इति तेषां वचः श्रुत्वा कामासुरो मुमूर्च्छ ह ॥ ३॥
सावधानः कृतो दैत्यै रुरोद भयसङ्कुलः ।
शोकसन्तप्तगात्रोऽसौ देवान् हन्तुं मनो दधे ॥ ४॥
गृहीत्वा शस्त्रसङ्घातान् रथारूढो बभूव ह ।
शेषसेनां समादाय विकटं प्रययौ पुरः ॥ ५॥
रणभूमौ महावीरं प्राप्तं कामासुरं परम् ।
दृष्ट्वा भययुता देवा वचो विकटमब्रुवन् ॥ ६॥
समागतः स्वयं कामासुरः स्वामिन् महायशाः ।
इदानीं गणनाथ त्वं यत् करिष्यसि तत् कुरु ॥ ७॥
ततः क्रोधयुतो देवान् विकटः प्रत्युवाच ह ।
भयहीना महेशाना युध्यध्वं मदनुग्रहात् ॥ ८॥
तस्य तद्वचनं श्रुत्वा शम्भुविष्णुमुखाऽमराः ।
गर्जित्वा घनवद्धोरं तं ययुः शस्त्रपाणयः ॥ ९॥
समागतान् महेशाद्यान् जगाद दैत्यनायकः ।
क्रोधेन महता युक्तो देवान् देवनिषूदनः ॥ १०॥
कामासुर उवाच ।
शम्भो विष्णो तथाऽन्ये तु देवेशा मे वचोऽधुना ।
शृणुध्वं किं कृतं घोरं वैरं पुत्रवधात्मकम् ॥ ११॥
मया स्नेहयुतेनैव न हताः प्राक् सुरेश्वराः ।
दयायुक्तेन तस्येदं फलं दत्तं सुरैः परम् ॥ १२॥
अधुना क्रोधसंयुक्तो हनिष्यामि सुरेश्वरान् ।
विकटं देवप हत्वा मुनीन् देवेन्द्रसत्तमाः ॥ १३॥
एवमुक्त्वा धनुः सज्जं चकार दैत्यनायकः ।
जगाद धैर्यमालम्ब्य ततस्तं शङ्करो वचः ॥ १४॥
श्रीशङ्कर उवाच ।
त्वयाऽस्माकं महादैत्य गृहीतं सकलं पुरा ।
धर्मनाशः कृतश्चैव त्रैलोक्यं पीडितं बलात् ॥ १५॥
फलं दैत्यपते तस्य त्वया प्राप्तं न संशयः ।
त्वां हनिष्यामि विकट कृपयाऽहं खलोत्तम ॥ १६॥
(Page खं. ६ अ. ३४ पान ९८)
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
गदया तं जघानैव पातयामास शङ्करम् ॥ १७॥
शङ्करं पतितं दृष्ट्वा चक्रं तत्याज केशवः ।
कामासुरं समासाद्य निष्फलं तद्बभूव ह ॥ १८॥
ततः क्रोधसमायुक्तो धनुः कामः प्रगृह्य च ।
सज्जं कृत्वा महाबाणान् ववर्ष घनवद् भृशम् ॥ १९॥
तैर्बाणैर्देवमुख्याश्च पतिता धरणीतले ।
छिन्नाङ्गा बलहीनाश्च मुमूर्च्छुस्ते ततः परम् ॥ २०॥
ततो बलिमुखाः सर्वे दानवा युद्धदुर्मदाः ।
देवान् क्रोधसमायुक्ता जघ्नुस्तत्र समन्ततः ॥ २१॥
विष्णुः कामं जघानैव बाणैः परमदारुणैः ।
सोऽपि तं मूर्च्छितं चक्रे दैतेयो गरुडध्वजम् ॥ २२॥
ततो मूर्च्छां परित्यज्य शङ्करो युयुधे भृशम् ।
कामासुरेण दैत्येन्द्रस्तं जघानासिघाततः ॥ २३॥
तथापि न चचालैव शिवः संहारकारकः ।
ततो विष्णुः समुत्तस्थौ युयुधे दानवैः सह ॥ २४॥
भानुना शरघातेन रावणस्ताडितो भृशम् ।
दुर्मदश्च तथा देव्यः पेततुस्तौ धरातले ॥ २५॥
विष्णुना चक्रघातेन हतो मूर्च्छामवाप ह ।
महिषः कुम्भकर्णश्च शङ्करश्च बलिस्तथा ॥ २६॥
ततश्चक्रेण गोविन्दो जघान दानवान् परम् ।
हाहा कृत्वा सुराः सर्वे पलायन्त दिशो दश ॥ २७॥
तत् दृष्ट्वा परमाश्चर्यं कामासुरः सुविस्मितः ।
क्रोधयुक्तो महेशानं धृत्वा ह्यास्फालयत्तदा ॥ २८॥
विष्णुं धृत्वा प्रचिक्षेप महापर्वतमस्तके ।
भानुं गृह्य धरायां स पोथयामास दारुणः ॥ २९॥
ततो हाहारवं कृत्वा देवाः सर्वे भयातुराः ।
प्रपलुश्छिन्नभिन्नाङ्गाः कामासुरनिपीडिताः ॥ ३०॥
दैत्येन्द्रस्य बलं दृष्ट्वा हर्षितो विकटः स्वयम् ।
मूषकोपरि संस्थाय ययौ सङ्ग्रामकारणात् ॥ ३१॥
कामासुरः समालोक्य आगतं तं प्रतापवान् ।
क्रोधसंरक्तचक्षुः स जगाद भयसंयुतः ॥ ३२॥
कामासुर उवाच ।
मयूरेश कथं यातः सङ्ग्रामाय मया सह ।
मूषकोपरि संस्थायाखुतुल्यस्त्वं मतोऽसि मे ॥ ३३॥
मम पुत्रौ महावीर्यौ गजानन हतौ त्वया ।
तयोः शोकेन सन्तप्तो हनिष्यामि समूषकम् ॥ ३४॥
देवैः सम्प्रार्थितस्त्वं तु किं करिष्यसि मां वद ।
मम भ्रूभङ्गमात्रेण कम्पते सचराचरम् ॥ ३५॥
उत्पत्तिस्थितिसंहारकर्तृभ्यो मे गजानन ।
तैर्युक्तेभ्यो भयं नैव भविष्यति कदाचन ॥ ३६॥
देहधारी गणाध्यक्ष किं करिष्यसि मूर्खवत् ।
अज्ञानसंयुतस्त्वं तु मरिष्यसि मदग्रतः ॥ ३७॥
कामासुरस्य वाक्यं स श्रुत्वा गणपतिः स्वयम् ।
जगाद हास्यवदनः परं तं गर्वसंयुतम् ॥ ३८॥
मूर्खोऽसि काम अत्यन्तं विकटोऽहं विचारय ।
जन्ममृत्युविहीनो वै कथं हंसि महाखल ॥ ३९॥
न सृष्टिस्थितिसंहारकर्ताऽहं दैत्यपुङ्गव ।
यदि जीवितुमिच्छा ते तदा मां शरणं व्रज ॥ ४०॥
नोचेत्त्वां पापकर्माणं हनिष्यामि न संशयः ।
गर्वं त्यज महामूर्ख ब्रह्माऽहं नात्र संशयः ॥ ४१॥
शुक्रेण कथितं सर्वं न बुद्धं मूर्खभावतः ।
(Page खं. ६ अ. ३५ पान ९९)
स्वरूपं मे त्वया दुष्टाधुनापि शरणं व्रज ॥ ४२॥
विकटस्य वचः श्रुत्वा क्रोधयुक्तो बभूव ह ।
कामासुरश्च तं हन्तुं गदां चिक्षेप दारुणाम् ॥ ४३॥
सा गदा निष्फला तत्र पपात धरणीतले ।
अकस्माद्दैत्यराजस्तु मूर्च्छितः प्रबभूव ह ॥ ४४॥
प्रहरेण महाक्रूरः सावधानो बभूव ह ।
अशक्तः सर्वदेहे स पीडां लेभेऽतिदारुणाम् ॥ ४५॥
ततो मनसि सन्धार्य विचारमकरोत् खलः ।
अहो शस्त्रं विना मां स जघान विकटः कथम् ॥ ४६॥
शक्तिहीनोऽहमत्यन्तं कथं युद्धं करोमि वै ।
शुक्रेण कथितं सत्यं ब्रह्माकारोऽयमुच्यते ॥ ४७॥
तथापि देवपक्षस्य धारकोऽयं कथं भवेत् ।
अतः संशयसंयुक्तः शरणं न व्रजाम्यहम् ॥ ४८॥
मरिष्यामि न सन्देहस्तदेव कीर्तिवर्धनम् ।
शत्रूणां शरणं चैव न योग्यं भासते हृदि ॥ ४९॥
अतोऽहं विकटं गत्वा करोमि प्रश्नमद्भुतम् ।
देवपक्षविहीनश्चेद्व्रजामि शरणं च तम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कामासुरविचारवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ६.३४
६.३५ कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
ततः कामासुरो दैत्यैर्जगाम द्विरदाननम् ।
जगाद भयसंयुक्तो वचनं हितकारकम् ॥ १॥
कामासुर उवाच ।
ब्रह्म त्वं विकट प्राज्ञ देव साहाय्यकृत् कथम् ।
सुरासुरमयं तद्वै कथमेकगुणाश्रितम् ॥ २॥
विकटस्त्वं कथं वेदे कीदृशं ब्रह्म तस्य तु ।
जन्मादिहीनभावश्चेत् कथं देहप्रधारकः ॥ ३॥
वद सर्वं विशेषेण त्वां ज्ञास्यामि यथार्थतः ।
तदा ते शरणं नाथाऽऽगमिष्यामि न संशयः ॥ ४॥
विकट उवाच ।
माया नानाविधा दैत्य सा खेलति मया धृता ।
भेदान् कृत्वा तदाधारान् मयूरेशं वदन्ति माम् ॥ ५॥
मायाशब्दं मयूराख्यं वदन्ते तत्त्वदर्शिनः ।
तस्याः स्वामिनमेवं मां मयूरेशं विलोकय ॥ ६॥
नानाभेदयुतं ब्रह्मासद्रूपं कथ्यते बुधैः ।
उत्पत्तिस्थितिसंहारसाक्षिरूपप्रदर्शनात् ॥ ७॥
तत्रामृतमयं ब्रह्म सदा भेदविवर्जितम् ।
तदेव विकटं तस्मात् सत्यं जानीहि मां परम् ॥ ८॥
सदाऽखण्डमये दैत्य कुत्र ब्रह्मणि वर्तते ।
सृष्टिस्थितिलयत्वं च साक्षिरूपं वदस्व माम् ॥ ९॥
चतुर्भिर्वर्जितं ब्रह्म चतुर्युक्तं महामते ।
तत्र नैव विजानीहि विकटेऽमृतसंज्ञिते ॥ १०॥
सर्वेषां जीवनं ब्रह्म तदेव विकटं मतम् ।
तं भजस्व विधानेन मृत्युहीनो भविष्यसि ॥ ११॥
(Page खं. ५ अ. २५ पान १००)
सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा मता ।
तयोः स्वामी गणेशश्च विचारय हृदि स्थितः ॥ १२॥
चित्तं पञ्चविधं दैत्य तत्र भ्रान्तिश्च पञ्चधा ।
भ्रान्तियुक्तं महच्चित्तं त्यक्त्वा चिन्तामणिं भज ॥ १३॥
सर्वेषां चित्तगोऽहं तु मत्प्राप्त्यर्थं महामते ।
देहधारी स्वयं भूत्वा भक्तान् शान्तिं ददाम्यहम् ॥ १४॥
सम्प्रज्ञातो नराकारो सम्प्रज्ञातात्मकं शिरः ।
तयोर्योगेऽभवं देहधारी गजं विचारय ॥ १५॥
अतोऽहं गजवक्त्रश्च दर्शनं मे सुयोगिनाम् ।
स्वसंवेद्यं भवेन्नूनं तेन स्वानन्दवासकृत् ॥ १६॥
मायाक्रीडार्थमानन्दाद्रचितं विविधं पुरा ।
स्वस्वधर्मयुतं विश्वं चित्ते तिष्ठामि नित्यदा ॥ १७॥
देवासुरमयोऽहं तु न भिन्नं मे प्रवर्तते ।
तथापि धर्मरक्षार्थं हन्मि सर्वान्न संशयः ॥ १८॥
स्वर्गेषु स्थापिता देवा नराः पृथ्व्यां मया तथा ।
असुरा विवरेष्वेवं त्रिविधं त्रिषु संस्थितम् ॥ १९॥
यदा लोभयुता देवाः पातालस्थान् महासुरान् ।
हन्तुं विष्णुमुखाः क्रोधाद् बभूवुश्चोत्सुका बलात् ॥ २०॥
तदा क्रोधयुतोऽहं तु दैत्यानां हृदि संस्थितः ।
तपःसामर्थ्यसंयुक्तान् करोमि दानवान् परान् ॥ २१॥
विघ्नकर्ताऽमराणां वै दैत्यानां विघ्नहारकः ।
भवामि तेन दैत्येन्द्रा जययुक्ताः सदाऽभवन् ॥ २२॥
असुरैर्हन्यमानाश्च देवेन्द्रा वनवासिनः ।
बभूवुः काम जानीहि संशयो न मदिच्छया ॥ २३॥
यदा दैत्या महादुष्टा मदयुक्ता बभूविरे ।
कर्मनाशप्रभावेण देवानां मूलछेदकाः ॥ २४॥
तदा देवाः समर्थाश्च प्रजघ्नुर्दैत्यनायकान् ।
दैत्यानां छिद्रकं सर्वं दर्शयामि हृदि स्थितः ॥ २५॥
ब्रह्मादीनामवध्याश्चेद्यदा दैत्या भवन्ति च ।
तदाऽहं देहधारी तान् भूत्वा हन्मि विशेषतः ॥ २६॥
यदा स्वधर्मसंयुक्ता देवा दैत्या बभूविरे ।
तदा तेषां हृदि स्थित्वा तिष्ठाम्यसुर सर्वदा ॥ २७॥
त्वया देवगणाः सर्वे पीडिता धर्मलोपक ।
अतस्त्वां हन्तुमायातो देवपक्षधरो ह्यहम् ॥ २८॥
हनिष्यामि महादुष्ट यदि मामवमन्यसे ।
जीवितुं त्वं सुखी देव वैरं त्यक्त्वा भवेच्छसि ॥ २९॥
एवमुक्त्वा महादैत्यं विकटो विरराम ह ।
कामासुरः प्रसन्नात्मा बभूवे भाविगौरवात् ॥ ३०॥
विचारमकरोच्चित्ते विकटोऽयं न संशयः ।
सुरासुरमयः पूर्णो व्रजामि शरणं ततः ॥ ३१॥
कामः करपुटं कृत्वा त्यक्त्वा शस्त्रादिकं पुरः ।
विकटं प्रणनामाथ हर्षयुक्तस्वभावतः ॥ ३२॥
प्रणम्य पूजयामास पुनर्यत्नेन विघ्नपम् ।
तुष्टाव भक्तिसंयुक्तोऽसुरः कामो गजाननम् ॥ ३३॥
कामासुर उवाच ।
नमस्ते विकटायैव गणेशाय परात्मने ।
सर्वपूज्याय सर्वेश देवासुरमयाय च ॥ ३४॥
अनन्तमाययायुक्त ब्रह्मभूतस्वरूपिणे ।
गजाननाय हेरम्ब देवेशाय नमो नमः ॥ ३५॥
शूर्पकर्णाय विघ्नानां चालकाय नमो नमः ।
भक्तानां विघ्नहर्त्रे ते ह्यभक्तानां विनाशिने ॥ ३६॥
स्वानन्दवासिने तुभ्यं योगाकारस्वरूपिणे ।
(Page खं. ६ अ. ३५ पान १०१)
योगिभ्यः शान्तिदात्रे ते योगेशाय नमो नमः ॥ ३७॥
अनामयाय सर्वादिपूज्याय ज्येष्ठरूपिणे ।
ज्येष्ठेभ्यः पददात्रे ते ज्येष्ठराजाय वै नमः ॥ ३८॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
सिद्धिबुद्धिस्वरूपाय गणानां पतये नमः ॥ ३९॥
त्रिनेत्राय नमस्तुभ्यं चतुर्बाहुधराय च ।
लम्बोदराय ब्रह्मेश ब्रह्मणां पतये नमः ॥ ४०॥
देवानां पालकायैव दैत्येभ्यो वरदायिने ।
सर्वेषां समभावाय ढुण्ढिराजाय ते नमः ॥ ४१॥
विष्णुपुत्राय शम्भोश्च शक्तेः पुत्राय काश्यप ।
वरेण्यसूनवे सर्वमात्रे पित्रे नमो नमः ॥ ४२॥
किं स्तौमि त्वां गणाधीश यत्र योगीन्द्रमुख्यकाः ।
वेदादयो विशेषेण शान्तिं प्राप्ताः स्वभावतः ॥ ४३॥
मायासुखं विशेषेण भ्रान्तिदं सर्वजन्तवे ।
त्यक्त्वा तल्लभ्यसे नाथ भक्त्या विकटया प्रभो ॥ ४४॥
अशान्तं मायया युक्तं चित्तं भ्रान्तियुतं सदा ।
विकटे शान्तिमापन्नमतस्त्वं विकटो मतः ॥ ४५॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
कामासुरो ननर्ताऽसौ रुद्धकण्ठो महायशाः ॥ ४६॥
भक्तियुक्तं मनस्तस्य दृष्ट्वा तं विकटोऽवदत् ।
वरं वरय काम त्वं दास्यामि मनसीप्सितम् ॥ ४७॥
त्वां हन्तुं क्रोधयुक्तोऽहं समागतो न संशयः ।
अधुना न हनिष्यामि शरणागतमादरात् ॥ ४८॥
त्वया कृतमिदं स्तोत्रं सर्वकामप्रदं भवेत् ।
शृण्वते पठते चैवान्ते स्वानन्दप्रदायकम् ॥ ४९॥
एवं गणपतेर्वाक्यं श्रुत्वा कामासुरश्च तम् ।
प्रणम्य हर्षसंयुक्तो जगाद द्विरदाननम् ॥ ५०॥
कामासुर उवाच ।
प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् ।
देहि स्थानादिकं देव भजामि तत्र संस्थितः ॥ ५१॥
गाणपत्यप्रियत्वं मे देहि नित्यं गजानन ।
नान्यद्याचे परं किञ्चिन्नश्वरं सर्वमञ्जसा ॥ ५२॥
अहो योगीन्द्रमुख्यानां दुर्लभं ते पदं प्रभो ।
साक्षाद् दृष्टोऽसि विघ्नेश तेन ज्ञातं मयाऽधुना ॥ ५३॥
तस्य तद्वचनं श्रुत्वा विकटो भक्तवत्सलः ।
उवाच तं महाभक्तं कामं गाणेशकामुकम् ॥ ५४॥
विकट उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महासुर ।
गाणपत्यप्रियत्वं तु सदा योगपरायणः ॥ ५५॥
तिष्ठ स्थाने स्वके दैत्य यथा पूर्वं तथा भव ।
मदीयस्मरणं नैव पूजनं यत्र कर्मणि ॥ ५६॥
आदौ तत्रासुरेणैव फलं भुङ्क्ष्व सुकर्मजम् ।
मदीयभक्तिसंयुक्तान् कुरु मत् कामसंयुतान् ॥ ५७॥
तथेति गणपं नत्वा सुरः कामो महायशाः ।
स्वस्थानं स जगामैव गणेशे भक्तिकामुकः ॥ ५८॥
तं शान्तं दैत्यमुख्याश्च दृष्ट्वा महिषकादयः ।
स्वस्वस्थानं ययुः सर्वे त्यक्त्वा कामासुरं किल ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कामासुरशान्तिवर्णनं नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ६.३५
(Page खं. ६ अ. ३६ पान १०२)
६.३६ विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः ।
विस्मिता विकटं पूज्य तुष्टुवुः करसम्पुटाः ॥ १॥
देवर्षय ऊचुः ।
अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् ।
असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ २॥
अनादिमध्यान्तविवर्जितं यत् सुजीवनं जीवनधर्मधारम् ।
सदामृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ ३॥
त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् ।
बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ ४॥
तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् ।
अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ ५॥
ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् ।
जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ ६॥
जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् ।
अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ ७॥
ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ ।
अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ ८॥
अजैर्विहीनोऽसि गजानन त्वं तथाऽपि सर्वत्र विभासि भक्त्या ।
अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ ९॥
हरिस्वरूपेण विनायक त्वं सुरक्षसीदं रजसा विधाता ।
तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ १०॥
प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण ।
क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ ११॥
सदात्मरूपेण च ढुण्ढिराज स्थितोऽसि विश्वम्भर विश्वमूर्ते ।
न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ १२॥
सदादिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् ।
सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ १३॥
स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् ।
महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ १४॥
स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च ।
अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ १५॥
नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो ।
महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ १६॥
भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् ।
स्वभक्तिकृद्बन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ १७॥
त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च ।
प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ १८॥
निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् ।
सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ १९॥
असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् ।
अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ २०॥
(Page खं. ६ अ. ३६ पान १०३)
वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च ।
शुकादिभिस्स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ २१॥
तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश सुसंस्तुतोऽसि ।
अतः प्रतुष्टो भव दीनपाल भजामहे तं विकटं परेशम् ॥ २२॥
आदिशक्तिरुवाच ।
एवं स्तुत्वा महादेव्यो विकटं त्वमरर्षयः ।
प्रणेमुर्दण्डवत् सर्वे ततश्च ननृतुः पुरः ॥ २३॥
स तानुवाच सर्वेशो विकटो भक्तियन्त्रितः ।
देवर्षीन् भक्तिसंयुक्तान् भक्तवात्सल्यवान् प्रभुः ॥ २४॥
विकट उवाच ।
वरान् ब्रूत महाभागा देवा मुनिसमन्विताः ।
दास्यामि भक्तियुक्तेभ्यो भृशं स्तोत्रेण तोषितः ॥ २५॥
इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् ।
भविष्यति जनायैव पठते शृण्वते परम् ॥ २६॥
भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ।
धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ २७॥
षट्कर्मसाधनकरं परकृत्यविनाशनम् ।
नानारोगहरं पूर्णं भविष्यति सुसेविनाम् ॥ २८॥
कारागृहगतानां च बन्धमोक्षकरं भवेत् ।
सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥ २९॥
नानापापसमूहानां दाहकं पठनात्तथा ।
सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥ ३०॥
एकविंशतिवारं यः पठिष्यति निरन्तरम् ।
स सर्वं साधयेत् सद्यो दिनानामेकविंशतिम् ॥ ३१॥
एवं विकटवाक्यं ते श्रुत्वा देवर्षिसत्तमाः ।
जगुस्तं प्रणिपत्यैव भक्तियुक्ताश्च शक्तयः ॥ ३२॥
देवर्षय ऊचुः ।
कामासुरं महावीर्यं शान्त्या युक्तं गजानन ।
दृष्ट्वा सर्वे च सन्तुष्टा भवामो नात्र संशयः ॥ ३३॥
अधुना कर्मसंयुक्ता भविष्यन्ति द्विजादयः ।
देवाः स्वपदसंस्थास्तु स्वस्वधर्मयुता जनाः ॥ ३४॥
जातं वरस्य कृत्यं यदधुना किं वृणीमहे ।
तव भक्तिं स्थिरां देहि यथा कामभयं न हि ॥ ३५॥
तथेति तानुवाचैव विकटोंऽतर्दधे ततः ।
देवर्षयोऽभवंस्तत्र स्थिताः खेदसमन्विताः ॥ ३६॥
ततो मुनिगणैः सार्धं विकटं देवसत्तमाः ।
स्थापयामासुरानन्ददायकं भक्तिकारिणे ॥ ३७॥
हिमाचलस्य प्रान्ते तत् स्थानं वायुदिशि स्थितम् ।
विकटस्य महादेव्यः सर्वसिद्धिप्रदायकम् ॥ ३८॥
मूर्तिं देवर्षयः पूज्य विकटस्य महात्मनः ।
गत्वा स्वस्वपदेष्वेते पुनः क्षेत्रं समाययुः ॥ ३९॥
अंशेन स्वाधिकारेषु स्थिता देवर्षयो मताः ।
विकटं पूर्णभावेनाभजंस्ते क्षेत्रवासिनः ॥ ४०॥
चतुरस्रं महत् क्षेत्रं दशयोजनविस्तृतम् ।
तत्र मध्ये स्वयं साक्षाद्विकटः संस्थितोऽभवत् ॥ ४१॥
चतुर्दिक्षु चतुर्देवाः शम्भुमुख्याः स्थितास्ततः ।
अन्ये देवा वामभागे दक्षिणे मुनयस्तथा ॥ ४२॥
तीर्थानि क्षेत्रयुक्तानि पश्चिमे संस्थितानि च ।
पुरो भक्तजनास्तत्र सेवार्थं संस्थिता बभुः ॥ ४३॥
मूषको विकटस्यैव समीपे स्थापितोऽभवत् ।
वामाङ्गे संस्थिता सिद्धिर्बुद्धिर्वै दक्षिणाङ्गके ॥ ४४॥
ब्रह्मप्रियादिकास्तत्र गणाः सर्वत्र संस्थिताः ।
(Page खं. ६ अ. ३६ पान १०४)
शस्त्रहस्ता भजन्ते स्म विकटं विकटप्रियाः ॥ ४५॥
तत्र विकटतीर्थं तु विख्यातमभवत् परम् ।
जन्तुः स्नानेन सद्यश्च स्वेप्सितं लभते परम् ॥ ४६॥
अन्ते मुक्तिमवाप्नोति स्वानन्दे नात्र संशयः ।
विकटस्य प्रियं पूर्णं तीर्थं त्रैलोक्यविश्रुतम् ॥ ४७॥
अन्यानि तीर्थमुख्यानि देवर्षीणां समन्ततः ।
स्थितानि विकटक्षेत्रे स्नानेन सुखदानि तु ॥ ४८॥
अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ।
विकटस्य च ते तस्य लोकं गच्छन्ति निश्चितम् ॥ ४९॥
तत्र भोगान् प्रभुक्त्वा ते लये स्वानन्दगामिनः ।
विकटदर्शनेनैव ब्रह्मभूता बभूविरे ॥ ५०॥
क्षेत्रस्य यात्रामात्रेणेप्सितं सर्वं लभेन्नरः ।
दर्शनेन तथा तस्य विकटस्य न संशयः ॥ ५१॥
विकटस्य च ये भक्ता यत्र कुत्र मृता यदि ।
ब्रह्मभूता न सन्देहो बभूवुः शास्त्रसम्मतम् ॥ ५२॥
भाद्रशुक्लचतुर्थ्यां तु सा मूर्तिः स्थापिताऽभवत् ।
विकटस्य ततो मुख्या सा बभूव तिथिः परा ॥ ५३॥
भाद्रशुक्लचतुर्थ्यां तु महोत्सवः प्रकीर्तितः ।
वार्षिकस्तत्र कुर्वन्ति देवाद्या भक्तिसंयुताः ॥ ५४॥
मध्याह्ने पूजनं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
स्वल्पसिद्धिदमाद्यं ते ज्ञातव्यं शास्त्रमार्गतः ॥ ५५॥
धन्यास्ते पुरुषा लोके पश्यन्ति विकटं परम् ।
कृतकृत्या महादेव्यो मता वेदेषु नित्यदा ॥ ५६॥
तत्र देवर्षयो नानाऽन्ये क्षेत्रे वासकारकाः ।
भजन्ते विकटं नित्यं हर्षयुक्ताः स्वभावतः ॥ ५७॥
विकटस्य चरित्राणि कथयन्ति परस्परम् ।
साश्रुनेत्राः स रोमाञ्चा भवन्ते भक्तिभावतः ॥ ५८॥
नरदेहं समासाद्य न दृष्टो विकटो जनैः ।
निष्फलं जीवितं तेषां पशुतुल्यस्वभाविनाम् ॥ ५९॥
एतत् सङ्क्षेपतः प्रोक्तं माहात्म्यं क्षेत्रसम्भवम् ।
विस्तरेणायुतैर्वर्षैर्न समर्थो भवाम्यहम् ॥ ६०॥
अन्ये देवमुखा देव्यो योगिनो वेदमुख्यकाः ।
न समर्था वर्णयितुं भवन्ते वर्षकोटिभिः ॥ ६१॥
एवं नानाऽवतारान् स धृत्वा धर्मधरः प्रभुः ।
विकटः कलया देव्यो रक्षति स्म चराचरम् ॥ ६२॥
एतद्विकटमाहात्म्यं यः शृणोति नरोत्तमः ।
पठेद्वा स लभेत् सर्वमन्ते ब्रह्ममयो भवेत् ॥ ६३॥
न कामस्य भयं तस्य भवेद्देव्यः कदाचन ।
कामहीनः स्वभावेन लभेत् कामान् विशेषतः ॥ ६४॥
एवं कामं निगृह्यैव स्ववशं तं चकार ह ।
विकटस्तत् समाख्यातं किं भूयः श्रोतुमिच्छथ ॥ ६५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते विकटावतारचरितसमाप्तिवर्णनं नाम षट्त्रिंशत्तमोऽध्यायः ॥ ६.३६
(Page खं. ६ अ. ३७ पान १०५)
६.३७ गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शक्तय ऊचुः ।
विकटस्य च माहात्म्यं श्रुत्वा शक्ते वयं परम् ।
हर्षं प्राप्ता विशेषेण योगामृतमयं किल ॥ १॥
तथापि देवि तृप्तिं न प्रयामो रसवर्धिनीम् ।
कथां श्रुत्वा पुनस्तां च वद वैघ्नेश्वरीं पराम् ॥ २॥
विकटेन जगन्मातरवतारा धृताः परे ।
तेषां सङ्क्षेपतो ब्रूहि चरित्रमवतारजम् ॥ ३॥
आदिशक्तिरुवाच ।
गण्डकी नगरीपालश्चक्रपाणिर्नृपोऽभवत् ।
उग्रा पत्नी च तस्यासीत् पातिव्रत्यगुणान्विता ॥ ४॥
धर्मशीलो वदान्यश्च राजा नीतिपरायणः ।
देवविप्रातिथिप्रेप्सुः पञ्चयज्ञकरोऽभवत् ॥ ५॥
जित्वा भूमण्डलं सर्वं चकार वशवर्तिनम् ।
सम्पत्तिं बुभुजे सोऽपि देवमान्यां विशेषतः ॥ ६॥
अपत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।
वान्ध्यदोषसमायुक्तौ दम्पती सम्बभूवतुः ॥ ७॥
तदर्थं व्रतदानादींश्चकार विधिसंयुतः ।
तथापि सन्ततिं राजा न प्राप परमेश्वरात् ॥ ८॥
ततो राज्यममात्येषु निक्षिप्याऽभवदुद्यतः ।
वनं गन्तुं महादेव्यः सस्त्रीकः शोकसंयुतः ॥ ९॥
एतस्मिन्नन्तरे तत्र शौनको मुनिसत्तमः ।
यदृच्छया ययौ योगी तं नृपं विचरन् परः ॥ १०॥
भानोस्तेनोपदिष्टं स व्रतं चक्रे नराधिपः ।
तुष्टस्तेन रविः स्वप्ने राज्ञ्यां गर्भं समादधे ॥ ११॥
सूर्यतेजोयुतं गर्भं न क्षमा सम्बभूव ह ।
धर्तुं दाहयुतोग्रा सा समुद्रे तं ततोऽत्यजत् ॥ १२॥
तत्र पुत्रो बभूवापि त्रिनेत्रश्चक्रधारकः ।
जलं संशोषयामास समुद्रस्य विशेषतः ॥ १३॥
ततो ब्राह्मणरूपेण चक्रपाणिं समाययौ ।
समुद्रः कथयामास वृत्तान्तं पुत्रसम्भवम् ॥ १४॥
दत्वा पुत्रं समुद्रस्त्वन्तर्दधे हर्षितोऽभवत् ।
नृपः सर्वजनैः सार्धं जातकर्माऽकरोद् द्विजैः ॥ १५॥
सिन्धुर्नाम्ना द्विजैः पुत्रः कृतस्तस्य विशेषतः ।
अपारवीर्ययुक्तत्वात् सोऽपि बलयुतोऽभवत् ॥ १६॥
आज्ञां गृह्य वनायैव तपोऽर्थं मार्गमध्यगः ।
काव्यः सौरं ददौ मन्त्रं विधियुक्तं तु सिन्धवे ॥ १७॥
एकपादमधिष्ठाय तताप तप उत्तमम् ।
निराहारः स्वभावेन तोषयामास काश्यपम् ॥ १८॥
द्विसहस्रे तु वर्षेषु सविता वरदोऽभवत् ।
त्रैलोक्यविभवं तस्मै ददावमृतपानकम् ॥ १९॥
त्रिगुणैर्हीनभावेन तिष्ठति ब्रह्मशास्त्रगम् ।
देहं धृत्वाऽमृतं सोऽपि निष्काश्य त्वां हनिष्यति ॥ २०॥
एवमुक्त्वा स्वभक्तं तु सवितांऽतर्दधे तदा ।
हर्षयुक्तः स्वयं सिन्धुः स्वगृहं प्रत्यपद्यत ॥ २१॥
पितृभ्यां मानितोऽत्यन्तं शुशुभे तेजसा युतः ।
तस्मै राज्यं ददौ राजा सस्त्रीको वनगोऽभवत् ॥ २२॥
ततः सिन्धुर्धरां जिग्ये सप्तद्वीपवतीं पराम् ।
वरदानबलेनैवं ज्ञात्वा दैत्यास्तमाययुः ॥ २३॥
शुम्भोतिशुम्भवृत्रौ च कमलः शङ्ख एव च ।
कोलासुरादयश्चान्ये तदाज्ञागा बभूविरे ॥ २४॥
तैर्युतो देवराजेन्द्रान् जिग्ये शम्भुमुखान् किल ।
पपाल शङ्करः सद्यस्त्यक्त्वा कैलासमात्मनः ॥ २५॥
विष्णुं सूर्यं विधीन्द्रादीन् सङ्गृह्य स्वपुरं ययौ ।
(Page खं. ६ अ. ३७ पान १०६)
कारागारे स चिक्षेप देवेन्द्रान् बलसंयुतः ॥ २६॥
एवं जित्वा त्रिलोकान् स राज्यं चक्रे महासुरः ।
दैत्येन्द्रान् स्थापयामास देवस्थानेषु सर्वतः ॥ २७॥
ततो बहुगते काले क्रोधयुक्तो महासुरः ।
देवतीर्थादिकान् भङ्क्त्वा दैत्यः कर्म त्वलोपयत् ॥ २८॥
स्वकीयां प्रतिमां कृत्वा स्थापयद्भूमिमण्डले ।
देशे देशे पुरे ग्रामे पूजयत्तां स मानवैः ॥ २९॥
ततो हाहाकृतं सर्वैर्वर्णाश्रमयुतैर्जनैः ।
स्वाहा स्वधादिकं कर्म नष्टं सर्वत्र शक्तयः ॥ ३०॥
अधुना तद्वधोपायं वदामि शृणुत प्रियाः ।
शङ्करो गणसंयुक्तस्त्रिसन्ध्याक्षेत्रमागमत् ॥ ३१॥
गौतमाद्यैर्युतस्तत्र वासं सस्त्रीक आकरोत् ।
ध्यानमास्थाय विघ्नेशमभजद्भक्तिसंयुतः ॥ ३२॥
एकदा संशयाविष्टा पार्वती तं प्रणम्य च ।
जगाद शङ्करं देव्यो विनयेन समन्विता ॥ ३३॥
पार्वत्युवाच ।
ईशस्त्वं सर्वदेवानां तेनेशो विद्यते न च ।
तेनेशो वेदवादेषु कथितोऽसि महेश्वर ॥ ३४॥
तथापि ध्यानसंयुक्तो भजसे कं विशेषतः ।
वद मां पादपद्मस्य दासीं संशयसंयुताम् ॥ ३५॥
शिव उवाच ।
अनीशाश्चैव देवेशि ईशा येन विनिर्मिताः ।
तं गणेशं भजाम्येव भक्त्या ब्रह्मपतिं सदा ॥ ३६॥
अनीशश्च गकारो णकार ईशमयः स्मृतः ।
तयोः स्वामी गणेशानः पश्य वेदे शुचिस्मिते ॥ ३७॥
तस्य तद्वचनं श्रुत्वा पार्वती विनयान्विता ।
जगाद तस्य प्राप्त्यर्थं वचनं शकरं प्रति ॥ ३८॥
पार्वत्युवाच ।
एतादृशं गणेशं चेन्न जानामि कदाचन ।
प्राप्त्यर्थं वद मुख्यं मे चोपायं साधयाम्यहम् ॥ ३९॥
शिव उवाच ।
एकाक्षरं गृहाण त्वं सविधिं च तपः कुरु ।
ध्यात्वा गजाननं देवं ततः सिद्धिमवाप्स्यसि ॥ ४०॥
एवमुक्त्वा ददौ तस्यै मन्त्रं गणपतेः परम् ।
तं प्रणम्य ययौ देवी लेखनाद्रिं मनोहरम् ॥ ४१॥
अवायुभक्षणेनैव तपसा ध्यानशालिना ।
तया संराधितो ढुण्ढिर्वरदश्च बभूव ह ॥ ४२॥
ययौ वर्षशते देवीं वरं याचेति सोऽब्रवीत् ।
तया संयाचितो देव्या पुत्रो मे भव विघ्नप ॥ ४३॥
तत्र ते सेवनं नाथ करिष्यामि विशेषतः ।
माता पिता भविष्यावो बन्धहीनौ सुते त्वयि ॥ ४४॥
तथेति पार्वतीं दत्वा वरं सोंऽतर्हितोऽभवत् ।
देवी विघ्नेश्वरं तत्र स्थापयामास विप्रपैः ॥ ४५॥
पूजयित्वा गणेशानं ययौ सा शङ्करं ततः ।
वृत्तान्तं कथयामास सोऽपि संहर्षितोऽभवत् ॥ ४६॥
ततः सा तन्मना जाता सस्मार वरदं प्रभुम् ।
सर्वत्र गणराजं तं ददर्श भाग्यगौरवात् ॥ ४७॥
ततो भाद्रपदे मासि कृत्वा मूर्तिं पुपूज ह ।
शङ्करेण युता देवी मध्याह्ने शुक्लपक्षगे ॥ ४८॥
चतुर्थ्यां सोमवारे तु स्वातीनक्षत्रसंयुते ।
सचेतनाऽभवन् मूर्तिर्विकटस्य वरप्रदा ॥ ४९॥
तेजसा धर्षितौ देवौ किञ्चित् द्रष्टुं न शेकतुः ।
स्तुतस्ताभ्यां ततः सौम्यतेजोयुक्तो बभूव ह ॥ ५०॥
शिवो ददर्श तं तत्र षड्भुजं शशिसन्निभम् ।
(Page खं. ६ अ. ३८ पान १०७)
जातकर्मादिकं सर्वं चक्रतुर्ब्राह्मणैः परौ ॥ ५१॥
एकादशदिने नाम गुणेश इति चक्रिरे ।
द्विजाः शिवौ हर्षयुतौ पूजयामासतुर्द्विजान् ॥ ५२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
विकटचरिते गुणेशावतारवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ६.३७
६.३८ बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
ततः सिन्धुचरास्तत्र गुप्तरूपेण संस्थिताः ।
ज्ञात्वा सङ्कथयामासुर्वृत्तान्तं सिन्धवे परम् ॥ १॥
एतस्मिन्नन्तरे वाणी बभूवे तत्र शक्तयः ।
अशरीरा च तां सिन्धुं शुश्राव भयदायिनीम् ॥ २॥
अयं वै दैत्यनाथाशु त्वां हनिष्यति वेगतः ।
स्वस्वधर्मयुतं सर्वं करिष्यति चराचरम् ॥ ३॥
श्रुत्वा सम्मूर्च्छितो दैत्यः सावधानो बभूव ह ।
मुहूर्तेन महायत्नैस्ततः शुशोच मन्दधीः ॥ ४॥
तं हन्तुं प्रेषयामास दैत्येन्द्रान् दैत्यनायकः ।
गुप्तरूपेण ते सर्वे त्रिसन्ध्याक्षेत्रमाययुः ॥ ५॥
नानामायां समाश्रित्य तं हन्तुं तान् समागतान् ।
पशुपक्ष्यादिरूपस्थान् जघान शिवनन्दनः ॥ ६॥
ततः सा पार्वती देवी शुशोच बहुधा सती ।
अहा सङ्ख्यातिगा दैत्या हताः पुत्रेण नित्यदा ॥ ७॥
तथापि दैत्या राजानः किं करिष्यन्ति मे सुतम् ।
हनिष्यन्ति गुणाधीशं न जानामि विचारतः ॥ ८॥
साक्षाद्ब्रह्मपतिः पूर्णः पुत्रो मे प्रबभूव ह ।
भाग्यहीनप्रभावेण गमिष्यति मिषेण किम् ॥ ९॥
ततो मायां गुणेशानश्चकार मोहिनीं पराम् ।
तया मोहयुता देवी पुत्रं मेने गणेश्वरम् ॥ १०॥
एतस्मिन्नन्तरे योगी मरीचिर्गणपं भजन् ।
प्रार्थयामास देवेशं दर्शनं देहि विघ्नप ॥ ११॥
ततः सोऽपि महायोगी शुश्राव स्ववचोऽमलम् ।
शिवपुत्रत्वमापन्नो गणेशस्तं विलोकय ॥ १२॥
श्रुत्वा समागतं हर्षात् पार्वती तं ददर्श ह ।
प्रणम्यापूज्य सम्भोज्य प्रार्थयामास तं मुनिम् ॥ १३॥
त्वं साक्षाद्ब्रह्मभूतश्च न गच्छसि ममाश्रमम् ।
त्यक्त्वा तीर्थादिकं विप्र गणेशभजने रतः ॥ १४॥
यथा विघ्नहरो देवस्तथा त्वमपि निश्चितम् ।
अतस्त्वां प्रार्थये स्वामिन् पुत्रं मे रक्ष रक्षया ॥ १५॥
दैत्यादीनां समूहश्च सर्वदा कालधिक् कृताम् ।
समायाति गणेशानं हन्तुं भवन्ति ते मृताः ॥ १६॥
अस्माकं कुलदेवस्तु विघ्नेशो नात्र संशयः ।
स रक्षति मुने पुत्रं मम नो चेन् मृतो भवेत् ॥ १७॥
शङ्करेण गणेशानः सेवितोऽभून् महामुने ।
(Page खं. ६ अ. ३८ पान १०८)
तस्य पुण्यं सुतं मे तु रक्षत्यत्र न संशयः ॥ १८॥
पार्वतीवचनं श्रुत्वा विस्मितोऽभून् महामुनिः ।
साक्षाच्छक्तिरियं भ्रान्ता सुतं जानाति विघ्नपम् ॥ १९॥
गणेशकवचं तस्मै ददौ शम्भुसुताय सः ।
तं प्रणम्य च संस्तुत्य ययौ स्वस्याश्रमं मुनिः ॥ २०॥
तथापि दैत्यराजान् स तं हन्तुं नित्यमागतान् ।
नानावेषधरान् वीक्ष्य जघ्ने वै बालखेलतः ॥ २१॥
एकदा पार्वती प्रातः समुत्थाय शिवे रता ।
मूर्तिं लिङ्गमयीं कृत्वा वामहस्ते दधार ताम् ॥ २२॥
आवाह्य शङ्करं तस्यां पूजने संरताऽभवत् ।
एतस्मिन्नन्तरे तत्र गुणेशोऽभवदुत्थितः ॥ २३॥
स्तन्यं देहि जगादाऽसौ पार्वतीं सा तमब्रवीत् ।
पूजयित्वा महेशानं दास्यामि स्तनपानकम् ॥ २४॥
ततस्तां स जगादैव किमर्थं पूजने रता ।
मां त्यक्त्वा तेऽधिकं देवि ददते शङ्करः कुतः ॥ २५॥
स्तन्यं देहि च मे मातस्तत्रानन्तशिवादयः ।
सन्तुष्टाः प्रभविष्यन्ति ब्रह्माणि शैलनन्दिनि ॥ २६॥
तथापि हास्यसंयुक्ता न ददौ स्तनपानकम् ।
ततो रोषसमाविष्टो मयूरेशो बभूव ह ॥ २७॥
तलाघातेन देव्याः स हस्तस्थं शिवलिङ्गकम् ।
पातयामास भूम्यां तद्भग्नं बभूव शक्तयः ॥ २८॥
ततोऽतिदुःखसंयुक्ता पार्वती विकटं पुनः ।
जघान तलघातेन महाक्रोधवती परम् ॥ २९॥
ततो गणेश्वरः क्रुद्धः समागत्य स्वमातरम् ।
ददंशाङ्गुलिकां तस्या रक्तं सुस्राव चोल्बणम् ॥ ३०॥
हाहाकाररवां तां स त्यक्त्वा पपाल भीतितः ।
भीतीनां भयदाताऽपि बालक्रीडां प्रदर्शयन् ॥ ३१॥
दृष्ट्वा रुरोदातिदुःखसंयुक्ता शङ्करप्रिया ।
प्राणप्रतिष्ठया युक्तं भग्नं लिङ्गं शिवस्य च ॥ ३२॥
शिवहत्यासमं पापं मया प्राप्तं न संशयः ।
अन्यत्पतिवधे जातं तदेवाप्यधुना कृतम् ॥ ३३॥
अयं पुत्रो गुणेशो मे नरकस्य प्रदो मतः ।
वन्ध्याहं चेत्तदा दैवं धन्यं मे नात्र संशयः ॥ ३४॥
अधुना दुःखिताऽहं वै स्मृत्वा हृदि गजाननम् ।
देहत्यागं करिष्यमि विघ्नराज नमोऽस्तु ते ॥ ३५॥
गणेशस्मरणेनैव बुद्धिभेदो बभूव ह ।
ददर्श गणराजं तं समीपे पुत्ररूपिणम् ॥ ३६॥
यष्टिहस्ता ययौ देवी हन्तुं पुत्रं परात्परम् ।
पपाल भयसंयुक्तो गणेशस्तां विलोक्य च ॥ ३७॥
सा जग्राह स्वपुत्रं तं धावयित्वा शिवप्रिया ।
मायां चकार विघ्नेशः शिवरूपो बभूव ह ॥ ३८॥
मोहिता शङ्करं देवी मायया दृश्य दुःखिता ।
किमर्थं यष्टिहस्ताऽहं महेशं हन्तुमुद्यता ॥ ३९॥
त्यक्त्वा तं दुःखिताऽत्यन्तं देहत्यागे समुद्यता ।
बभूव गणराजोऽपि पुनः पुत्रस्वरूपधृक् ॥ ४०॥
पलन्तं भयसंयुक्तं देवी हन्तुं समुद्यता ।
ययौ तमनु वै सोऽपि पपाल वनगोऽभवत् ॥ ४१॥
एतस्मिन्नन्तरे तत्र दैत्यः कर्दमसंज्ञितः ।
शैवो द्विजस्वरूपेण बालं जगाद चागतः ॥ ४२॥
किमर्थं पुत्र पलसि रक्षामि त्वां न संशयः ।
यत्र माता न जानाति तत्र तस्मात् स्थिरो भव ॥ ४३॥
(Page खं. ६ अ. ३८ पान १०९)
तथेति बालभावेन गुणेशेन कृतं वचः ।
बालं ?जिगेल गृह्यासौ हर्षयुक्तो बभूव ह ॥ ४४॥
अहो सिन्धोर्महाशत्रुर्मया सम्भक्षितोऽभवत् ।
सर्वेषां दैत्यमुख्यानां भयमद्य प्रणाशितम् ॥ ४५॥
एतस्मिन्नन्तरे तत्र जगदम्बा तमाययौ ।
शैवं द्विजं प्रदृश्यैव प्रणनाम जगाद च ॥ ४६॥
पार्वत्युवाच ।
स्वामिन् मम सुतः कुत्र गुप्तो बभूव सन्निधौ ।
त्वदीये नात्र सन्देहः पादं पश्यामि नो पुरः ॥ ४७॥
पादमार्गेण तं विप्र गृहीतुं चागताऽभवम् ।
परश्वादिकचिह्नेन वद सत्यं महामते ॥ ४८॥
द्विज उवाच ।
न दृष्टः शैलजे पुत्रो मया तव न संशयः ।
शिवस्य शपथं कृत्वा वदामि पश्य पुत्रकम् ॥ ४९॥
ततोऽतिदुःखसंयुक्ता सस्मार द्विरदाननम् ।
ततस्तस्य मुखाम्भोजान्निःसृतो गणनायकः ॥ ५०॥
निःसृत्य मुष्टिघातेन गुणेशेन हतोऽसुरः ।
स ममार महादुष्टोऽष्टादशयोजनोऽभवत् ॥ ५१॥
ततः सा हर्षिताऽत्यन्तं क्रोधहीना बभूव ह ।
पुत्रं गृह्य ययौ देवी स्वाश्रमं गृहगाऽभवत् ॥ ५२॥
पुत्रः पपात भूपृष्ठेऽलोडयत्तत्र शक्तयः ।
पुनः पुनः स जृम्भां च चकार विकटाननः ॥ ५३॥
तं तादृशं निरीक्ष्यैव पार्वती दुःखसंयुता ।
किं जातं मे सुतस्याद्य किं भविष्यति विघ्नप ॥ ५४॥
ततः सा तन्मुखे विश्वं ददर्श भयसङ्कुला ।
अनन्ताण्डसमायुक्तं पपात धरणीतले ॥ ५५॥
स्वगुरुं शङ्करं सा तु सस्मार स्वेष्टदेवकम् ।
गणेशं तेन मोहेन हीना बभूव पार्वती ॥ ५६॥
विचारमकरोद्देवी गणेशोऽयं सुतोऽभवत् ।
तं त्यक्त्वा लिङ्गसेवायां निरता मूर्खवत् किल ॥ ५७॥
पतिभावेन देवेशं शङ्करं देहधारिणम् ।
भजामि देवभावेन गणेशं तच्च विस्मृतम् ॥ ५८॥
स्तनपानं गणेशाय न दत्तं मूढभावतः ।
अनन्ता वै मया यत्र संस्थिताः शङ्करादयः ॥ ५९॥
तेन तुष्टेन सर्वे ते सन्तुष्टाः सम्भवन्ति च ।
गणेशो ब्रह्मणां नाथः सोऽपि सन्तुष्ट एव वै ॥ ६०॥
अहोऽयं शिवरूपश्च मया दृष्टः प्रसन्निधौ ।
गृहीतस्तत्र चित्रं तु मया न ज्ञायते कथम् ॥ ६१॥
अतः परं गणेशानं पुत्रभावेन चागतम् ।
सर्वभावेन नित्यं तं भजिष्यामि हितावहम् ॥ ६२॥
अयं पतिरयं तातो माता पुत्रः सुहृत्तथा ।
देवो ब्रह्म न सन्देहो गुणेशो मे सुशान्तिदः ॥ ६३॥
एवं निश्चित्य सा देवी समुत्थाय प्रणम्य तम् ।
तुष्टाव हर्षसंयुक्ता भक्तिनम्रात्मकन्धरा ॥ ६४॥
स्तुवन्तीं तां समालोक्य गणेशो मोहमादधे ।
ततः सम्मोहिता देवी विस्मृतिं परमां ययौ ॥ ६५॥
पुत्रभावेन विघ्नेशं लालयामास गृह्य तम् ।
गृहकार्यरता देवी बभूवे पूर्ववद्यथा ॥ ६६॥
शक्तय ऊचुः ।
बालक्रीडार्थमुद्युक्तो गणेशो ब्रह्मनायकः ।
पुत्रभावं समासाद्य पुत्रतुल्यः समाचरत् ॥ ६७॥
किमर्थमखिलं विश्वं नानाब्रह्माण्डसंयुतम् ।
शिवरूपं किमर्थं स दर्शयामास शक्तये ॥ ६८॥
दर्शयित्वा किमर्थं स लोपयामास तद्भवम् ।
ज्ञानं कुतूहलं चेदं वद संशयनाशनात् ॥ ६९॥
(Page खं. ६ अ. ३९ पान ११०)
आदिशक्तिरुवाच ।
पुत्रभावमयी भक्तिग्रहणे लालसः सदा ।
वरदानप्रभावेण तपः फलप्रदोऽभवत् ॥ ७०॥
कार्यं कृत्वा सुरर्षीणामन्तर्धानं करिष्यति ।
तदा ज्ञानस्य देव्यास्तु स्मरणं सम्भविष्यति ॥ ७॥
गणेशः पुत्रभावेनागतो मे नात्र संशयः ।
अज्ञानेन युताऽहं तं सुतं जानामि निश्चितम् ॥ ७२॥
पुत्रवन्नरदेहस्थो गणेशो मे त्वदर्शयत् ।
ब्रह्मसामर्थ्यमाहात्म्यं तथापि ज्ञायते न सः ॥ ७३॥
तेनातिभक्तिसंयुक्ता भजिष्यति गजाननम् ।
तदर्थं गणराजोऽपि कौतुकं तत्र चाकरोत् ॥ ७४॥
एवं नानाविधान् दैत्यान् स्वयं हत्वा च शक्तयः ।
शिवयोः सेवनं चक्रे पुत्रभावप्रभावतः ॥ ७५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते बालखेलावर्णनं नामाष्टत्रिंशत्तमोऽध्यायः ॥ ६.३८
६.३९ कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
गौतमादिमुनीनां स सुतैर्नित्यं गणेश्वरः ।
चिक्रीड बालमध्यस्थो बालवन्नात्र संशयः ॥ १॥
तेषां मुनिसुतानां स तिरस्कारादिकं कदा ।
असहद्धर्षसंयुक्तो मित्रभावप्रदर्शनात् ॥ २॥
तेपुः ये सख्यभक्त्यर्थं तपस्ते सततं नराः ।
सेवार्थमभवन् सर्वे मुनिपुत्रस्वभावतः ॥ ३॥
कश्यपस्य सुतो जज्ञे मयूरो विष्णुरव्ययः ।
यज्ञः सेवार्थमुद्युक्तो युयुधे गणपेन सः ॥ ४॥
सुतो विनतया सोऽपि बोधितः प्रणनाम तम् ।
गणेशं याचते स्तुत्वा मयूरः स्म वरं परम् ॥ ५॥
आदौ मयूरनाम्ना संयुतं नाम त्वदीयकम् ।
भवेत्तु सर्वविख्यातं सर्वसिद्धिप्रदायकम् ॥ ६॥
तथेत्यभून् मयूरेशो नाम्ना सर्वत्र शक्तयः ।
सोऽपि वाहनभावेन सेवायामास विघ्नपम् ॥ ७॥
कदाचित् द्विजपुत्रैश्च मज्जितोऽभूद् गजाननः ।
जलस्थं नागकन्यास्तं निन्युः कामप्रपीडिताः ॥ ८॥
पुरा गणेशमाहात्म्यं श्रुत्वा तेपुः तपो महत् ।
ब्राह्मण्यः पतिभावेन गणेशो भवतु प्रभुः ॥ ९॥
गणेशमन्त्रसंयुक्ता नानाऽनुष्ठानतत्पराः ।
ता एव नागकन्याश्च बभूवुस्तपसा युताः ॥ १०॥
शेषवासुकिमुख्यैस्ता लालिताः परमादरात् ।
पत्यर्थं प्रार्थिताः सर्वा जगुस्तान्नागमुख्यकान् ॥ ११॥
गणेशं भावसंयुक्ता वृणीमहि पतिं वरम् ।
नान्यं कदा महाराज इच्छामो ह्यसमर्थकम् ॥ १२॥
तच्छ्रुत्वा शेषमुख्यास्ता जगुः किं हठसंयुताः ।
ब्रह्मेशो गणनाथस्तु स्वानन्दस्थो बभूव ह ॥ १३॥
(Page खं. ६ अ. ३९ पान १११)
स कथं भवतां पुत्र्यो भविष्यति पतिः परः ।
अभिमानं परित्यज्य समानं वृणुत प्रभुम् ॥ १४॥
तेषां वचनमाकर्ण्य क्रोधयुक्ताः कुमारिकाः ।
जगुस्तांश्च वयं ताता ब्रह्मचर्यं वृणीमहे ॥ १५॥
पूर्वसंस्कारयोगेन मयूरेशं जलस्थितम् ।
ददृशुर्नागकन्यास्तं मेनिरे गणनायकम् ॥ १६॥
नारदस्य मुखाच्छ्रुत्वा शिवपुत्रं गजाननम् ।
अत्रागतं प्रगृह्यैव वृणीत वरमुत्तमम् ॥ १७॥
स्वगृहे गणनाथं ताः समानाय्य सुविह्वलाः ।
पुपूजुर्भक्तिसंयुक्ताः पतिभावेन शक्तयः ॥ १८॥
ततः सोऽपि हृदा चक्रे ददौ योगं सुशान्तिदम् ।
ताभ्यः तां कामहीनास्तं सिषेविरे विशेषतः ॥ १९॥
अकृत्रिमं सुखं ताभ्यो ददौ भक्तिप्रभावतः ।
दिवानक्तं बुभुजिरे ह्यत्यन्तं पौरुषं सुखम् ॥ २०॥
एवं कृत्वा स्वयं शेषं गर्विष्ठं मदसंयुतम् ।
मर्दयित्वा ययौ तत्राभवन् द्विजसुताः पुरा ॥ २१॥
एवं नानाविधान्येव चरित्राणि चकार ह ।
स सर्वं गौतमस्यान्नं बुभुजे नादरेण च ॥ २२॥
भक्तेभ्यो भक्तिदानार्थं प्रभुः किं किं गजाननः ।
न करोति महादेव्यो दासदास्यपरायणः ॥ २३॥
भक्तैर्यद्यत्कृतं चैव तदेवामृतरूपकम् ।
अभक्तैः सादरतया स कृतं मन्यते विषम् ॥ २४॥
तिरस्कारादिकं देव्यस्ताडनादिकमुत्तमम् ।
सौख्यदं गणनाथस्य बभूवे भक्तिमोहतः ॥ २५॥
पार्वतीशिवमुख्यैश्चादितिकश्यपमुख्यकैः ।
तिरस्कृतस्ताडितः सोऽमृतं मेने गजाननः ॥ २६॥
भक्तस्य वचनार्थं स दैत्यमस्तकधारकः ।
स्वाङ्गच्छेदकरश्चैव मलजोऽपि बभूव ह ॥ २७॥
इत्यादि विविधं चैव नीचवद्गणनायकः ।
चकार कर्म भक्त्या सम्मोहितो मोहनाशनः ॥ २८॥
ततो गौतममुख्याश्च गणेशमायया युताः ।
आययुः शङ्करं देवं जगुस्तं मोहिता भृशम् ॥ २९॥
गौतमाद्या ऊचुः ।
मयूरेशयुतः शम्भो गच्छ त्वं यत्र ते रुचिः ।
वयं पीडायुता नित्यं भवामो दैत्यसङ्गमात् ॥ ३०॥
नित्यं दैत्येन्द्रमुख्यास्तं मयूरेशं समाययुः ।
प्रहता मायया युक्ता मयूरेशेन तत्क्षणात् ॥ ३१॥
मृता दैत्या बभूवुश्च स्वस्वरूपधराः प्रभो ।
दश द्वादश पञ्चत्रिशतविंशतियोजनम् ॥ ३२॥
तेषां देहप्रपातेन गृहवृक्षाश्रमादिकम् ।
भञ्जते नित्यमेवातोऽस्माकं किं करवामहै ॥ ३३॥
अतस्त्वं सर्वसंयुक्तो गच्छ यत्र च ते रुचिः ।
अथवा वयमीशान त्वां त्यक्त्वा किं व्रजामहे ॥ ३४॥
तेषां वचनमाकर्ण्य शिवश्चिन्तातुरोऽवदत् ।
मुनीन् सर्वान् महादेव्यो देवानां पालकः प्रभुः ॥ ३५॥
श्रीशिव उवाच ।
भवतामाश्रमेष्वद्याहं विप्रा ह्यागतोऽभवम् ।
मदीयसङ्गदोषेण पीडिता मुनयः परम् ॥ ३६॥
स्वाश्रमेषु सदा विप्राः स्थीयतां सुखभोगिनः ।
गमिष्यामि स्थलेऽन्यत्र सर्वैः साकं न संशयः ॥ ३७॥
मयूरेशस्य विप्रेशा नित्यं दुःखादिकं परम् ।
दैत्येन्द्रैः क्रियते दैत्या हतास्तेन महाबलाः ॥ ३८॥
निर्विघ्नार्थं गणेशस्य स्थानं ब्रूत महर्षयः ।
(Page खं. ६ अ. ३९ पान ११२)
तत्राहं ससुतो नित्यं स्थास्यामि ध्यानसंयुतः ॥ ३९॥
गौतमाद्या ऊचुः ।
क्षेत्रं दक्षिणभागे तु वैघ्नेशं सर्वसिद्धिदम् ।
भूस्वानन्दं वदन्ते तद्ब्रह्मसायुज्यदायकम् ॥ ४०॥
मूर्तिर्गणपतेस्तत्र सिन्धुदूतैः प्रखण्डिता ।
सिन्धोश्च प्रतिमा दुष्टैः स्थापिता हर्षसंयुतैः ॥ ४१॥
जनैस्त्यक्तं महादेव दैत्यसन्त्रासतापितैः ।
तत्र गच्छ सपुत्रस्त्वं विघ्नहीनो भविष्यसि ॥ ४२॥
तथेति शङ्करः सर्वैर्गणैर्विघ्नेशसंयुतः ।
निर्ययौ तं महादेव्यो ब्राह्मणाः प्रययुः किल ॥ ४३॥
एतस्मिन्नन्तरे तत्र सिन्धुना प्रेषितो महान् ।
कमलासुरनामा यो दैत्यपैरागतोऽभवत् ॥ ४४॥
ब्रह्मविष्णुशिवादीनामजेयं दैत्यसंयुतम् ।
महामायं च तं दृष्ट्वा प्रपेलुर्मुनयस्ततः ॥ ४५॥
अहो शिवं परित्यज्य न स्थातुं शक्यते कदा ।
मुनयो दैत्यनाथैश्च हताः कुत्र व्रजामहे ॥ ४६॥
एवं विचार्य ते सर्वे पुनः शङ्करमाययुः ।
जगुस्तं भयभीताश्च रक्ष नो दैत्यनायकात् ॥ ४७॥
मयूरेशेन संयुक्तो तिष्ठ नित्यं महेश्वर ।
नोचेदत्रानुगाः सर्वे वयं ते प्रभवामहे ॥ ४८॥
तेषां वचनमाकर्ण्य भयभीतः सदाशिवः ।
जगाद तान् वचो रम्यं द्विजपालनकारकः ॥ ४९॥
श्रीशिव उवाच ।
कमलासुरनामाऽयं दैत्यनाथैर्महाबलैः ।
समायातश्च तं जेतुं न क्षमोऽहं कदाचन ॥ ५०॥
अधुना मां समागृह्य कारागारे महाबलः ।
क्षेपयिष्यति नूनं मां यत्र विष्ण्वादयः सुराः ॥ ५१॥
शिवस्य वचनं श्रुत्वा मयूरेशस्तमब्रवीत् ।
मा भयं कुरु तात त्वं हनिष्यामि महासुरम् ॥ ५२॥
त्वं साक्षाद्गणनाथस्य कलांऽशो भक्तनायकः ।
ब्राह्मणा गाणपत्याश्च तेषां विघ्नः कथं भवेत् ॥ ५३॥
मरीचिना गणेशस्य कवचं मे महेश्वर ।
रक्षणार्थं प्रदत्तं तु न भयं मे भविष्यति ॥ ५४॥
एवमुक्त्वा महादैत्यं ययौ विघ्नविदारणः ।
मयूरोपरि संस्थाय पर्शोः शूलस्य धारकः ॥ ५५॥
कृत्वा युद्धं महाघोरं त्रिशूलेन महासुरम् ।
चिच्छेद त्रिविधं कृत्वा पातयामास चासुरम् ॥ ५६॥
मस्तकं मयूरक्षेत्रे तदाकारं बभूव ह ।
उदरं राजसदने प्रवाले जघनं तथा ॥ ५७॥
त्रिषु स्थानेषु दैत्येन्द्रः पपात त्रिविधोऽभवन् ।
गणेश्वरश्चैव तेषु संस्थितोऽभूत् प्रतापवान् ॥ ५८॥
शिवेन मुनिभिः सार्धं मयूरेश्वर आययौ ।
क्षेत्रे मयूरसंज्ञे तु तत्रसंस्था बभूविरे ॥ ५९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते कमलासुरवधो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ६.३९
(Page खं. ६ अ. ४० पान ११३)
६.४० विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
तत्रागत्य मयूरेशो दृष्ट्वा मूर्तिस्थितं प्रभुः ।
सिन्धुं क्रोधसमायुक्तश्चूर्णयामास तत्क्षणात् ॥ १॥
ततोतिभयसंयुक्ता मुनयः शङ्करादयः ।
किं भविष्यति दैत्येभ्यः श्रुत्वा वार्तां बभूविरे ॥ २॥
तत्रापि मायया युक्ता दैत्येन्द्राश्च समाययुः ।
हन्तुं शिवसुतं नित्यं तान् जघान मयूरपः ॥ ३॥
ततो विघ्नविनाशार्थमिन्द्रयज्ञं समारभत् ।
शङ्करस्तं मयूरेशो बभञ्ज क्रोधसंयुतः ॥ ४॥
तत इन्द्रः सुरेशानैर्मयूरेशमयोधयत् ।
तं जित्वा गणराजस्तु स्वपुरस्थो बभूव ह ॥ ५॥
शक्तय ऊचुः ।
कारागारे स्थिता देवाः सिन्धोस्ते योद्धुमाययुः ।
कथं देवि वदाशु त्वं संशयस्यापनुत्तये ॥ ६॥
आदिशक्तिरुवाच ।
मेरुसंस्था महेशाना दैत्यैः सम्प्रधृताः पुरा ।
निराधारेषु संस्थास्ते पुरेषु गणपं ययुः ॥ ७॥
तान् ग्रहीतुं न शक्ताश्च भवन्ते केऽपि शक्तयः ।
तेषां मार्गं प्रवक्ष्यामि संशयच्छेदनाय वः ॥ ८॥
देवाश्च त्रिविधाः प्रोक्तास्तत्त्वाकाराश्च शक्तयः ।
तथा कर्ममया शास्त्रे देहरूपा न संशयः ॥ ९॥
दीव्यन्ति सर्वभावेषु तेन देवाः प्रकीर्तिताः ।
देवत्वं त्रिविधं तेषु ज्ञातव्यं वेदवादिभिः ॥ १०॥
शताश्वमेधयज्ञानां कर्तेन्द्रो भवति प्रियाः ।
तिष्ठन्ति कर्मजा देवास्तादृशाः काञ्चनाचले ॥ ११॥
मन्दारादिषु सर्वत्र नगराणि दिवौकसाम् ।
तान् जयन्ति समर्थाश्चासुरादयो न संशयः ॥ १२॥
ब्रह्मणो दिवसान्ते ते मन्वन्तरपरायणाः ।
लयं गच्छन्ति यज्ञानां फलं भुक्त्वा न संशयः ॥ १३॥
पुनर्जन्मधराः सर्वे भवन्ति नरजातिषु ।
कुर्वते यादृशं कर्म लभन्ते तादृशं फलम् ॥ १४॥
अन्ये कर्ममया देवा व्याप्य ते संस्थिताः पराः ।
कुर्वते स्वाधिकारांश्च सदा कर्मपरायणाः ॥ १५॥
जठराग्निस्तथा बाह्याग्निरित्यादि दिवौकसाम् ।
अधिकाराः समाख्याता यमस्य यातनादयः ॥ १६॥
दैत्या धर्षयितुं शक्तास्तान् भवन्ति न कर्मणा ।
सदाऽधिकारसंयुक्तांस्तान् देवान् प्रवदन्ति च ॥ १७॥
योगबलेन योगीशास्तान् देवांश्चालयन्ति च ।
नान्यबलेन देवेशाश्चलन्ति स्वाधिकारिणः ॥ १८॥
ब्रह्मणो दिवसान्ते ते न मृत्युं देवसत्तमाः ।
लभन्ते वै निराधाराः कर्मरूपप्रधारकाः ॥ १९॥
महालये लयं देवा गच्छन्त्यत्र न संशयः ।
सलोकपरिवारास्ते पुनर्देहधरा मताः ॥ २०॥
मृत्युलोके नराः सर्वे भवन्ते कर्मयन्त्रिताः ।
यादृशं कुर्वते कर्म लभन्ते तादृशं फलम् ॥ २१॥
तत्त्वरूपा महादेव्यो देवा वेदे प्रकीर्तिताः ।
ते तत्त्वैर्विश्वमानन्दाद्भावयन्ति चराचरम् ॥ २२॥
उत्पत्तिस्थिसंहारकर्तारः सर्वरूपकाः ।
ब्रह्माकारस्वभावेन तिष्ठन्ति जगदीश्वराः ॥ २३॥
महाप्रलयवेलायां स्वविहारं समाप्य ते ।
योगनिद्रां प्रकुर्वन्ति योगाकारा विशेषतः ॥ २४॥
पुनः क्रीडन्ति सृष्ट्वा च ब्रह्माण्डं देवनायकाः ।
न तान् योगबलेनैव समो धर्षयितुं भवेत् ॥ २५॥
योगोऽयं द्विविधः प्रोक्तः शास्त्रेषु विबुधोत्तमैः ।
(Page खं. ६ अ. ४० पान ११४)
वायुसाधनजश्चैकः प्राणायामेन लभ्यते ॥ २६॥
तेन योगेन तत्त्वस्था देवास्तद्वशवर्तिनः ।
न भवन्ति कदा देव्यो ज्ञातव्यं शास्त्रमार्गतः ॥ २७॥
सम्प्रज्ञाताऽसम्प्रज्ञातमयो योगः प्रकीर्तितः ।
द्वितीयो ब्रह्मभूताख्यो योगिभिः साध्यते सदा ॥ २८॥
तेन योगबलेनैव तान् जयन्ति सुरान्नराः ।
साध्याः सर्वे भवन्त्येव देवास्तद्वशवर्तिनः ॥ २९॥
यं यमिच्छति योगीन्द्रस्तं तं कुर्वन्ति देवपाः ।
प्रारब्धं चालयन्त्येव योगिवश्यपरायणाः ॥ ३०॥
यदा तेषां विहारेषु संसक्ता योगिनोऽभवन् ।
योगभ्रष्टा भवन्त्येव जन्ममृत्युपरायणाः ॥ ३१॥
योगिनां योगभावेन भयं गच्छन्ति देवताः ।
तत्त्वरूपा न सन्देहो ज्ञातव्यं वेदवादतः ॥ ३२॥
कर्मैकं त्रिविधस्थानामेकैकाश्रितरूपिणाम् ।
सेवनाद्भञ्जनात्तस्य द्वन्द्वयुक्ता भवन्ति ते ॥ ३३॥
अधुना प्रकृतं देव्यः शृणुध्वं त्वेकचेतसः ।
अवतारचरित्रं तु विकटस्य महात्मनः ॥ ३४॥
प्रद्रष्टुं स कदाचित्तं विधिः क्षेत्रे मयूरके ।
समाययौ स तं दृष्ट्वा मोहयुक्तो बभूव ह ॥ ३५॥
विचारमकरोच्चित्ते शिवपुत्रोऽयमुच्यते ।
अस्मै न नमनं कार्यं मया ज्येष्ठेन शक्तयः ॥ ३६॥
अयं गणेश्वरः साक्षात् कथितो नात्र संशयः ।
परीक्षां गणराजस्य कृत्वा पश्चान्नमाम्यहम् ॥ ३७॥
एवं विचार्य ब्रह्माण्डं शिवशक्तिसमन्वितम् ।
अन्तर्धाय स्थितो ब्रह्मा गुप्तरूपेण सर्वगः ॥ ३८॥
मयूरेशस्ततस्तच्च ज्ञात्वा चराचरं जगत् ।
निर्ममे ब्रह्मदेवस्तं जगाम शरणं पुनः ॥ ३९॥
ततः श्वासेन विघ्नेशो ब्रह्माणं स्वोदरे नयत् ।
तत्रानन्ताण्डकं दृष्ट्वा बभ्राम यत्र तत्र सः ॥ ४०॥
गते वर्षसहस्रे च ब्रह्माणं श्वासवायुना ।
बहिर्निःष्कासयामास मयूरेशो महायशाः ॥ ४१॥
बहिरागत्य वेधाः स क्षणमेकं ददर्श ह ।
ततोऽतिविस्मितो भूत्वा पुनस्तं प्रणतोऽभवत् ॥ ४२॥
स्तुत्वा तं स जगामैव स्वस्थलं हर्षसंयुतः ।
मयूरक्षेत्रे तदादि स्थिता ब्रह्मकमण्डलुः ॥ ४३॥
एवं विधेर्मदं हत्वा चिक्रीड द्विजबालकैः ।
मयूरेशो जगत्स्रष्टा भक्तेभ्यः सर्वदायकः ॥ ४४॥
ततः कदाचिद्भाद्री सा चतुर्थी शुक्लपक्षगा ।
समागता च तस्यां ते मृण्मयीं चक्रुरादृताः ॥ ४५॥
स्वे स्वे गृहे तु सर्वे ते मुनयः शङ्करादयः ।
गणा गणेश्वरं कृत्वा पूजयामासुरादरात् ॥ ४६॥
मयूरेशः स्वयं चक्रे मूर्तिं शुण्डादिचिह्निताम् ।
सम्पूज्यानम्य तुष्टाव कृत्वा करपुटं पुरः ॥ ४७॥
मयूरेश उवाच ।
नमस्ते गणनाथाय सर्वविघ्नविदारिणे ।
भक्तानां दुष्टरूपेभ्यो विघ्नदात्रे नमो नमः ॥ ४८॥
ब्रह्मणां पतये तुभ्यं सर्वसिद्धिप्रदायिने ।
अमेयमायया युक्ताय नमो ढुण्ढये नमः ॥ ४९॥
वक्रतुण्डाय वक्राणां नाशकार परात्मने ।
लम्बोदराय सर्वेषां जठरस्थाय ते नमः ॥ ५०॥
चिन्तामणिस्वरूपाय पञ्चचित्तप्रधारिणे ।
हेरम्बाय परेशानां दीनानां बीजरूपिणे ॥ ५१॥
योगेशाय सदा शान्तिदात्रे शान्तिमयाय च ।
(Page खं. ६ अ. ४० पान ११५)
शान्तीनां शान्तिरूपाय गणेशाय नमो नमः ॥ ५२॥
ज्येष्ठराजाय ज्येष्ठानां पूज्याय विकटाय ते ।
ज्येष्ठेभ्यः पददात्रे वै मात्रे पित्रे नमो नमः ॥ ५३॥
अनादये च सर्वेषामादिरूपाय विघ्नप ।
विघ्नानां विघ्नरूपाय सर्वसत्तात्मने नमः ॥ ५४॥
स्वानन्दवासिने तुभ्यं संयोगायोगमूर्तये ।
सर्वपूज्याय भक्तेभ्यो भक्तिदात्रे नमो नमः ॥ ५५॥
महोदराय भीमाय पापिनां दण्डधारिणे ।
स्वधर्मनिरतेभ्यस्तु सुखदाय नमो नमः ॥ ५६॥
मयूरवाहनायैव मयूरेश्वर ते नमः ।
आखुवाहाय सर्वेश परात्पराय वै नमः ॥ ५७॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
शिवादयो न संस्तोतुं समर्था वेदमुख्यकाः ॥ ५८॥
रक्ष नस्ते सदा दासान् देहि भक्तिं त्वदीयकाम् ।
यया माया न बाध्यते बुद्धीश ते नमो नमः ॥ ५९॥
एवं स्तुत्वा मयूरेशं मयूरेशो नतोऽभवत् ।
पूजाविधिं समाप्यैव भक्तियुक्तो बभूव ह ॥ ६०॥
एवं शिवादयः सर्वे पुपूजुर्गणनायकम् ।
मुनयश्चैव सर्वेशं मृन्मूर्तिस्थं विशेषतः ॥ ६१॥
एतस्मिन्नन्तरे तत्र विश्वदेवो महायशाः ।
समाययौ च तीर्थानि भ्रममाणो यदृच्छया ॥ ६२॥
एकनिष्ठतया सोऽपि नारायणपरायणः ।
पुपूज नित्यमानन्दाच्छेषशायिनमादरात् ॥ ६३॥
अव्याहतगतिः सोऽपि तपसा दग्धकिल्बिषः ।
गत्वा समुद्रमध्यस्थं तं पुपूज जनार्दनम् ॥ ६४॥
पश्चाज्जलादिकं विप्रो बुभुजे भक्तिसंयुतः ।
अत्यन्तभक्तियोगेन गाणेशे योग्यतां गतः ॥ ६५॥
मायया च मयूरेशस्तं ज्ञात्वा शेषशायिनः ।
ज्ञानं सञ्छादयामास विश्वदेवस्य संस्मृतिम् ॥ ६६॥
विश्वदेवस्य नित्यं तु बुद्धिमोहेन विघ्नपः ।
अकारयत्तद्योगेशो विस्मृतं योगमायया ॥ ६७॥
आगत्य विश्वदेवस्तु पार्वतीं सर्वभाविनीम् ।
अयाचत स भिक्षां तां सा ददौ पायसादिकम् ॥ ६८॥
अपोशनं स कृत्वा च सस्मार शेषशायिनम् ।
महादुःखयुतस्तत्र संस्थितोऽभूद् द्विजोत्तमः ॥ ६९॥
ततस्तं गणराजस्तु खेदयुक्तं विशेषतः ।
दृष्ट्वा नारायणो भूत्वा सान्त्वयामास भावतः ॥ ७०॥
चतुर्वर्षात्मको मूर्तिं स पुपूज पराशरः ।
मृन्मयैरुपचारैस्तां दर्शयामास भक्तितः ॥ ७१॥
गाणेशाख्यं ददौ ज्ञानं विश्वदेवाय शान्तिदम् ।
गाणपत्यस्वभावेन स ननाम गुणेश्वरम् ॥ ७२॥
विश्वदेवो ययौ स्थानं स्वकीयं शान्तिसंयुतः ।
एकनिष्ठतया विप्रो मयूरेशं तमाभजत् ॥ ७३॥
एवं विस्मृतभावेन ज्ञानसञ्छादनेन च ।
विष्णोः पराक्रमं हत्वा चिक्रीड द्विजबालकैः ॥ ७४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते विष्ण्वादिपराधीनतादर्शनं नाम चत्वारिंशत्तमोऽध्यायः ॥ ६.४०
(Page खं. ६ अ. ४१ पान ११६)
६.४१ मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कदाचित् सुखमासीनं गणैः सर्वैः समावृतम् ।
शिवं दृष्ट्वा मयूरेशो मायामाविश्चकार ह ॥ १॥
समागत्य महेशानं तस्य भालस्थितं प्रभुः ।
चन्द्रं गृह्य गणेशानः प्रययौ क्रीडनोत्सुकः ॥ २॥
मायया मोहिताः सर्वे शिवमुख्या विशेषतः ।
न जानन्ति स्म देवेशं चन्द्रतास्कर्यकारिणम् ॥ ३॥
ततः शिवः स्वभाले तं न ददर्श निशाकरम् ।
क्रोधयुक्तो गणान् प्राह कथं चन्द्रो गतो गणाः ॥ ४॥
ततो मुनिसुताः प्रोचुः समागत्य महेश्वरम् ।
चन्द्रं गृह्य मयूरेशः खेलत्यस्माभिरादरात् ॥ ५॥
ततः क्रोधसमाविष्ट उवाच ह शिवो गणान् ।
बद्ध्वा गणेश्वरं ताड्यानयध्वं मेऽद्य सन्निधौ ॥ ६॥
ततो गणा ययुस्तं ते तेन निःश्वासवायुना ।
निक्षिप्ताः शङ्करस्याग्रे शुष्कपत्रसमप्रभाः ॥ ७॥
एवं क्रमेण सर्वान् स मयूरेशो गणेश्वरान् ।
भग्नदर्पांश्चकारैव शिवश्चिन्तातुरोऽभवत् ॥ ८॥
ततो मायां समाश्रित्य शिवभाले निशाकरम् ।
मयूरेशः समागत्याऽऽस्थाप्य भ्रान्तांश्चकार ह ॥ ९॥
स्वभालस्थं महेशानो दृष्ट्वा चन्द्रं गणास्तथा ।
मेनिरे तं सदा तत्र संस्थितं तं गतागतम् ॥ १०॥
एवं शिवं पराधीनं कारयामास विघ्नपः ।
ततः कदाचिद्दैत्येन्द्रं वनं हन्तुं जगाम ह ॥ ११॥
व्याघ्ररूपधरं दृष्ट्वा शार्दूलोऽभूद्गजाननः ।
न तं जानन्ति विप्राणां सुताः शार्दूलरूपिणम् ॥ १२॥
यत्र तत्र भ्रमन्ति स्म बालास्तद्दर्शनोत्सुकाः ।
ते सर्वे सुष्वपुः श्रान्ता निद्रां लेभुः श्रमान्विताः ॥ १३॥
पादं दक्षिणदिक्संस्थं दृष्ट्वा तेषां च भानुजः ।
तान् गृह्य निगडैर्बद्ध्वा चिक्षपे स्वपुरे यमः ॥ १४॥
हत्वा दैत्यं मयूरेशः स्वपुरं पुनराययौ ।
न तत्र मुनिपुत्रान् स ददर्श विस्मतोऽभवत् ॥ १५॥
गत्वा स्वर्गे यमं जित्वा ययौ तैर्मुनिबालकैः ।
एवं नानाविधां क्रीडां चकार मयूरध्वजः ॥ १६॥
दशपञ्च वयोवर्षाण्यतिक्रम्य गणेश्वरः ।
शुशुभे खेलसंयुक्तो दैत्यान् हत्वा विशेषतः ॥ १७॥
अथ तत्राऽऽययौ योगी नारदो गणपं स्मरन् ।
उवाच शङ्करं सोऽपि हर्षयुक्तेन चेतसा ॥ १८॥
नारद उवाच ।
तपसाऽऽराधितौ देव्यौ सिद्धिबुद्धी तु वेधसा ।
वरदानेन ते पुत्र्यौ बभूवतुः प्रजापते ॥ १९॥
तदर्थं सदृशं ब्रह्मा नावाप वरमुत्तमम् ।
मयूरेशाय अधुना दातुमिच्छति स प्रभुः ॥ २०॥
तथेति तमुवाचाथ शङ्करस्तेन संयुतः ।
मयूरेशं समागृह्य निर्ययौ स गणः स्वयम् ॥ २१॥
मार्गमध्ये मयूरेशो ददर्श नगरं परम् ।
सिन्धोर्देवविमोक्षार्थं विचारमकरोत् परम् ॥ २२॥
ततो युद्धं महाघोरं चकार सिन्धुना स्वयम् ।
मयूरेशो गणैः सार्धं सोऽपि तेन महासुरः ॥ २३॥
ततः परशुना भित्वा नाभिं त्वमृतसंयुताम् ।
मारयामास सिन्धुं च नानादैत्येन्द्रनायकैः ॥ २४॥
विष्णुभक्तः पिता तस्य चक्रपाणिर्महायशाः ।
(Page खं. ६ अ. ४१ पान ११७)
मयूरेशार्थमेवं स विचार्य शरणं ययौ ॥ २५॥
त्यक्त्वा सर्वं गणेशे स लालसो भक्तिसंयुतः ।
बभूव तं स्वपुर्यां तु समानाय्य पुपूज ह ॥ २६॥
कारागृहाच्चक्रपाणिर्निष्कास्य विष्णुमुख्यकान् ।
देवान् देवेन्द्रयुक्तांश्चापूजयद्भक्तिसंयुतः ॥ २७॥
तत्र ब्रह्मा प्रहर्षेण सस्मार तनये स्वके ।
सिद्धिबुद्धी समायाते रूपलावण्यसंयुते ॥ २८॥
ते दृष्ट्वा कामसन्तप्ता देवेन्द्राश्च बभूविरे ।
देवास्तं प्रार्थयामासुः प्रत्येके विधिमादरात् ॥ २९॥
अस्मभ्यो देहि देवेश कन्ये परमसुन्दरे ।
न दृष्टे सदृशे कुत्र कामिनीनां गणेषु च ॥ ३०॥
ततो ब्रह्मा जगादैव न सदृशः सुरेश्वराः ।
आभ्यां तस्मान् मयूरेशाय दास्यामि मदात्मजे ॥ ३१॥
ततोऽतिप्रार्थयामासुर्देवाः सर्वे पितामहम् ।
जगाद वचनं युक्तं सपुत्र्यौ खेदसंयुतः ॥ ३२॥
सिद्धिबुद्धी सुरेन्द्रेषु वृणुतं वरमीप्सितम् ।
ते ऊचतुर्विधातारं चित्तस्थं तं वृणीवहे ॥ ३३॥
ततो मात्रां समागृह्य चिन्तामणिं प्रदृश्य ते ।
सिद्धिबुद्धी मयूरेशं त्यक्त्वा देवांश्च जग्मतुः ॥ ३४॥
मालां गले गणेशस्य ततश्चिक्षिपतुर्विधिः ।
तस्मै समर्पयामास सिद्धिं बुद्धिं विधानतः ॥ ३५॥
ततः सर्वे प्रणेमुस्तं देवेन्द्रादय आदरात् ।
सिन्धोर्वधात् प्रहर्षेण युक्ताः सम्पूज्य तुष्टुवुः ॥ ३६॥
देवर्षय ऊचुः ।
नमस्ते शिखिवाहाय मयूरध्वजधारिणे ।
मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ ३७॥
अनाथानां प्रणाथाय गताहङ्कारिणां पते ।
मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ ३८॥
सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने ।
स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ ३९॥
अनादये परेशाय दैत्यदानवमर्दिने ।
विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ ४०॥
शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ ४१॥
नानावताररूपैस्तु विश्वसंस्थाकराय ते ।
काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ ४२॥
सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते ।
देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ ४३॥
योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे ।
अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ ४४॥
अनन्तविभवायैव चित्तवृत्तिप्रचालक ।
सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ ४५॥
सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः ।
गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ ४६॥
किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो ।
योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ ४७॥
तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक ।
त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ ४८॥
एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् ।
वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ ४९॥
भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ ५०॥
(Page खं. ६ अ. ४१ पान ११८)
यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् ।
भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ ५१॥
मयूरेशवचः श्रुत्वा देवाः सर्षिगणाश्च तम् ।
प्रत्यूचुस्ते प्रणम्येदं वचनं हर्षसंयुताः ॥ ५२॥
देवर्षय ऊचुः ।
यदि प्रसन्नभावेन वरान् दास्यसि विघ्नप ।
त्वदीयामचलां भक्तिं देहि नाथ नमोस्तु ते ॥ ५३॥
हतः सिन्धुर्महावीर्यस्तेन सर्वे कृतार्थकाः ।
अधुना स्वाधिकारेषु गमिष्यामस्त्वदाज्ञया ॥ ५४॥
तथेति तानुवाचाथ मयूरेशः प्रतापवान् ।
दत्त्वा भक्तिं स्वकीयां तु राज्ञे सर्वैर्जगाम ह ॥ ५५॥
चक्रपाणिर्गणेशस्य पञ्चायतनमार्गतः ।
अभजत्तं मयूरेशमन्ते स्वानन्दगोऽभवत् ॥ ५६॥
मयूरेशः समायातो मयूरे सर्वसंयुतः ।
सर्वान् संस्थाप्य देवेशान् जगाद मुनिसत्तमान् ॥ ५७॥
यदर्थमागता देवास्तत् सर्वं सुकृतं मया ।
अधुना निजलोकेऽहं गमिष्यामि मुनीश्वराः ॥ ५८॥
एवमुक्त्वान्तर्दधेऽसौ मयूरेशः स्वलीलया ।
देवर्षयश्च खेदेन युक्तास्तत्रैव संस्थिताः ॥ ५९॥
पार्वतीशङ्करौ तत्र मूर्च्छितौ स बभूवतुः ।
तयोर्हृदि मयूरेशः प्रकटोऽभूद् जगाद तौ ॥ ६०॥
भवतोर्हृदि संस्थोऽहं चित्तवृत्तिप्रचालकः ।
न वियोगः कदा मे वां पितरौ नात्र संशयः ॥ ६१॥
बहिर्मूर्तिं समास्थाप्यापूज्य तत्रैव भक्तितः ।
सेवेथां मां विशेषेण तेन तुष्टौ भविष्यथः ॥ ६२॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः ।
ब्रह्मा मूर्तिं द्विजैस्तस्य स्थापयामास हर्षतः ॥ ६३॥
ततो हर्षयुताः सर्वे स्वांशेन स्वस्थलेषु ते ।
संस्थिताः कार्यसिद्ध्यर्थं स्वस्वकर्मपरायणाः ॥ ६४॥
पूर्णभावेन तत्रैव मयूरेशं सिषेविरे ।
क्षेत्रवासपराः सर्वे भक्तियुक्ताश्च शक्तयः ॥ ६५॥
विकटस्यावतारोऽयं मयूरेश्वरसंज्ञितः ।
भक्तानां कथितः सर्वसिद्धिदः प्रीतिवर्धनः ॥ ६६॥
यः पठेत् शृणुयाच्चेद्वा स लभेदीप्सितं फलम् ।
अन्ते स्वानन्दगो भूत्वा मोदते ब्रह्मतत्परः ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते मयूरेशचरितवर्णनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ६.४१
(Page खं. ६ अ. ४२ पान ११९)
६.४२ सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
विकटेन महादेव्यो रचितं मायया परम् ।
नानाभेदयुतं ब्रह्माऽसद्रूपं विविधे रतम् ॥ १॥
तेन नानाविधं ब्रह्म जगन्नानाविधं तथा ।
सृष्टं तानि विशेषेण जीवहीनानि मेनिरे ॥ २॥
ततस्तैर्विकटस्यैव तपस्तप्तं सुदारुणम् ।
एकाक्षरविधानेन दिव्यवर्षसहस्रकम् ॥ ३॥
तुष्टस्तानि ययौ देवो वरदानार्थमादरात् ।
रथस्थः सूर्यरूपेण सर्वात्मा सर्वभावनः ॥ ४॥
तं दृष्ट्वा तानि हर्षेण युक्तानि नेमुरादरात् ।
तद्दर्शनजबोधेन ज्ञानयुक्तानि शक्तयः ॥ ५॥
आत्माकारोऽयमेकश्च विकटः सूर्यरूपधृक् ।
न कुत्रचित् प्रदृश्येत भेदो विकटसूर्ययोः ॥ ६॥
तान्याऽऽपूज्य प्रणेमुस्तं पुनस्तोतुं प्रचक्रमुः ।
स्तोत्रं नानाविधान्येव ब्रह्माणि विश्वपालकैः ॥ ७॥
नानाब्रह्माण्यूचुः ।
विकटाय परेशाय सर्वजीवनधारिणे ।
आत्माकाराय सूर्याय भानवे ते नमो नमः ॥ ८॥
सप्ताश्वरथसंस्थाय विघ्नेशाय परात्मने ।
हेरम्बाय जगन्नाथ ब्रह्मनाथाय ते नमः ॥ ९॥
संज्ञापते नमस्तुभ्यं साक्षिरूपाय साक्षिणे ।
छायानाथाय देवेश देवदेवेश ते नमः ॥ १०॥
अनामयाय नित्याय सहस्रकरधारिणे ।
अनन्तभेदहीनायाऽद्वितीयाय नमो नमः ॥ ११॥
सर्वादये सदा सर्वाधाराय विश्वमूर्तये ।
कर्माधाराय सर्वेषां पालकाय नमो नमः ॥ १२॥
आदित्याय परेशाय परात्परतराय ते ।
दिनस्य पतये नाथ दिनपालाय वै नमः ॥ १३॥
अर्यम्णे काश्यपायैव तेजसां पतये नमः ।
अनाधाराय वृष्ट्यास्तु चालकाय नमो नमः ॥ १४॥
किं स्तुमस्त्वां रवे यत्र वेदाः सङ्कुण्ठिता बभुः ।
योगिनं सततं सर्व आत्माकारं परात्परम् ॥ १५॥
एकमेवाद्वितीयं त्वां वदन्ति वेदवादिनः ।
वयं भिन्नानि तेन त्वं विकटोऽसि न संशयः ॥ १६॥
एवं स्तुत्वा तं ब्रह्माणि प्रणेमुर्हर्षभावतः ।
तान्युत्थाप्यार्यमा वाक्यं जगाद भक्तवत्सलः ॥ १७॥
सूर्य उवाच ।
वरान् ब्रूत च ब्रह्माणि दास्यामि भक्तियन्त्रितः ।
भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ॥ १८॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
ब्रह्मभूयप्रदं मेऽस्तु स्तोत्रं मद्भक्तिवर्धनम् ॥ १९॥
सूर्यस्य वचनं श्रुत्वा हर्षेण संयुतानि तु ।
जगुस्तं ब्रह्ममुख्यानि भक्तियुक्तानि शक्तयः ॥ २०॥
ब्रह्माण्यूचुः ।
तुष्टश्चेद्ब्रह्मब्रह्मेश जीवयुक्तानि नित्यदा ।
कुरुष्व सर्वभावेन स्वस्य सौख्यपराणि तु ॥ २१॥
भक्तिं देहि सदा नाथ तव पादाम्बुजे पराम् ।
मायामोहविनाशार्थं योगं देहि परात्परम् ॥ २२॥
तथेति सविता तेभ्य उक्त्वा ज्ञानं जगाद ह ।
मायामोहविनाशार्थं गाणेशं योगशान्तिदम् ॥ २३॥
सूर्य उवाच ।
असत् सत् समनेतीनां संयोगे योग उच्यते ।
स्वसंवेद्यात्मकश्चैव गकाराक्षरवाचकः ॥ २४॥
स्वस्वरूपेण हीनोऽयमयोगो योग उच्यते ।
णकाराक्षरगः सोऽपि वेदेषु कथितोऽभवत् ॥ २५॥
तयोर्योगे गणेशानः शान्तीनां शान्तिदायकः ।
(Page खं. ६ अ. ४३ पान १२०)
चित्ते चिन्तामणिं दृष्ट्वा भविष्यथ सुयोगिनः ॥ २६॥
संयोगायोगरूपं यन्मायामयं विशेषतः ।
तस्या विकटभावेन भजध्वं विकटं सदा ॥ २७॥
स्वस्वब्रह्मणि संस्थं तु कर्म कृत्वा स्वभावजम् ।
गणेशार्पणभावेन भवद्भिः स्थीयतां सदा ॥ २८॥
एवमुक्त्वा स्वयं भानुर्ब्रह्माणि सर्वनायकः ।
अन्तर्दधे महादेव्यः स्वानन्दस्थो बभूव ह ॥ २९॥
ततो सन्मुख्यब्रह्माणि स्वस्वविश्वयुतानि च ।
जीवयुक्तानि जातानि खेलां चक्रुः परस्परम् ॥ ३०॥
यथा सूर्येण सन्दिष्टो योगो विकटसंज्ञितः ।
साधयित्वा तथा तानि सुशान्तानि बभूविरे ॥ ३१॥
हृदि चिन्तामणिं ज्ञात्वा बहिः कर्माणि कृत्स्नशः ।
समर्प्य विकटं देव्यो भजन् ब्रह्माणि रेमिरे ॥ ३२॥
एवं विकटमाहात्म्यं सूर्यावतारसंज्ञितम् ।
कथितं विस्तरेणैव समासेनापि निश्चितम् ॥ ३३॥
अयं सूर्यात्मकश्चैव विकटस्य महात्मनः ।
अवतारः समाख्यातः सर्वसिद्धिप्रदायकः ॥ ३४॥
शृणुयाद्यः पठेद्वापि स सिद्धिं परमां लभेत् ।
ईप्सितं सर्वमेवं तु परत्रेह लभेत् सुखम् ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते सूर्यावतारचरितं नाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ६.४२
६.४३ भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
कश्यपस्य च भार्याऽऽसीद्विनता रूपशालिनी ।
तस्यामण्डे समुत्पन्ने द्वेऽतीव तेजसा युते ॥ १॥
ताभ्यां ज्येष्ठोऽरुणो जज्ञे गरुडोऽनुज एव च ।
अरुणः सूर्यमाराध्य वरं प्राप हितावहम् ॥ २॥
सारथिः स रवेरासीन्नित्यं तद्भक्तिसंयुतः ।
सेवयाऽनन्यभावेन सूर्य आत्मानमच्युतम् ॥ ३॥
गणेशं नित्यमानन्दात् सूर्यो भेजे विशेषतः ।
प्रणम्य सोऽपि पप्रच्छारुणस्तं खेदसंयुतः ॥ ४॥
अरुण उवाच ।
स्वामिंस्त्वं सर्वभावानामात्माऽमृतमयः सदा ।
एक एवाद्वितीयोऽसि भजसे कं गजाननम् ॥ ५॥
कोऽसौ गणेश्वरः पूर्णो मिथ्यात्मा कश्यपात्मज ।
मोहं करोषि देवेश स्वरूपच्छादनाय ते ॥ ६॥
योगिनो देवमुख्याश्च त्वां ज्ञात्वा शान्तिमादधुः ।
त्वत्तः परतरं नास्ति किमर्थं भजसे परम् ॥ ७॥
सूर्य उवाच ।
त्वयाऽनूरो सत्यमुक्तं वेत्सि मां त्वं विशेषतः ।
न त्वत्समो मदीये तु योगे कोऽपि विशेषतः ॥ ८॥
पूर्णभावमविज्ञाय शान्तिं धृत्वा त्वमञ्जसा ।
संस्थितः किमहं ब्रूयामज्ञानं त्वां महायशः ॥ ९॥
गणेशादहमुत्पन्नस्तस्यान्ये शङ्करादयः ।
ज्येष्ठराजश्च तेनायं तस्य ज्येष्ठो न विद्यते ॥ १०॥
(Page खं. ६ अ. ४३ पान १२१)
असन्नानाविधा शक्तिस्तत्राहं चात्मवाचकः ।
तयोः समानभावे त्वाऽऽनन्दो विष्णुः प्रकीर्तितः ॥ ११॥
आनन्दाच्च परो व्यक्तः शङ्करस्तुर्यसंज्ञितः ।
तेषां योगे गणेशानः स्वानन्दाख्यः प्रकीर्तितः ॥ १२॥
सर्वसंयोगकर्तृत्वात् मायायुक्तो गणेश्वरः ।
स्वसंवेद्येन योगेन लभ्यतेऽरुण निश्चितम् ॥ १३॥
तस्मात्परो ह्ययोगश्च स्वसंवेद्यविवर्जितः ।
तयोर्योगे गणेशानो वेदे पश्य विचक्षण ॥ १४॥
ब्रह्मणस्पतिवाच्योऽसौ वयं ब्रह्ममयाः किल ।
अस्माकं गणराजस्तु स्वामी तस्माद्भजामहे ॥ १५॥
एवं तस्य वचः श्रुत्वाऽनूरुस्तं प्रणनाम ह ।
जगाद भक्तिसंयुक्तः सूर्यं तेजस्विनां पतिम् ॥ १६॥
अरुण उवाच ।
गणेशप्राप्तये नाथ वदोपायं सुसौख्यदम् ।
भवामि गाणपत्यश्च येनाऽहं देवनायकः ॥ १७॥
सूर्य उवाच ।
एकाक्षरविधानेन तं भजस्व तु काश्यप ।
हृदि चिन्तामणिं दृष्ट्वा योगिवन्द्यो भविष्यसि ॥ १८॥
एवमुक्त्वा ददौ तस्मै मन्त्रं गणपतेः प्रभुः ।
स विधिं तं प्रणम्याऽसौ जगाम वनमुत्तमम् ॥ १९॥
तताप तप उग्रं स गणेशध्यानतत्परः ।
योगमार्गेण विघ्नेशं साधयामास भक्तितः ॥ २०॥
ततो योगीन्द्रवन्द्यः स बभूवे योगसेवया ।
चित्तं पञ्चविधं त्यक्त्वा रसयुक्तं जपे रतः ॥ २१॥
एवं वर्षशतेष्वेनं गतेषु द्विरदाननः ।
आययौ वरदानार्थं भक्तिसम्भावितः प्रभुः ॥ २२॥
ततः सोऽपि गणेशानं न बुबोध महायशाः ।
हृदिध्यानेऽस्य संलीनस्तत्र चित्रं बभूव ह ॥ २३॥
संज्ञायुक्तं गणेशानं रथस्थं स ददर्श ह ।
पुनः सिद्ध्या च बुद्ध्या च युक्तं दृष्ट्वा सुविस्मितः ॥ २४॥
हृदि ध्यानं परित्यज्य नेत्रे उन्मील्य चारुणः ।
अपश्यत्तं बहिः सोऽपि गणेशं वरदायकम् ॥ २५॥
ततोऽतिहर्षसंयुक्तः समुत्थाय ननाम तम् ।
पुपूज विधिसंयुक्तस्तुष्टावानम्य हर्षतः ॥ २६॥
यावत् स्तोतुं समारेभे तावत्तं रथसंस्थितम् ।
रविं संज्ञायुतं दृष्ट्वा विस्मयं परमं ययौ ॥ २७॥
गणेशकृपया तेन ज्ञातं सर्वं सुबुद्धिना ।
गणेशोऽयं रविः प्रोक्तो विकटत्वान्न संशयः ॥ २८॥
नानाभेदमयी माया तत्रात्मा भेदवर्जितः ।
अतो विकटसंज्ञोऽयमात्माकारो गजाननः ॥ २९॥
विकटरूपिणं सूर्यं भजिष्यामि निरन्तरम् ।
कलांशं गणेराजस्य तेन तुष्टोऽयमञ्जसा ॥ ३०॥
एतदर्धं गणेशेन रूपं सूर्यात्मकं परम् ।
स्वकीयाभेदभावाख्यं दर्शितं मेऽत्र साम्प्रतम् ॥ ३१॥
ततोऽतिभक्तिसंयुक्तः साश्रुनेत्रो बभूव ह ।
नियम्यात्मानमानन्दयुक्तस्तोत्रं प्रचक्रमे ॥ ३२॥
अरुण उवाच ।
नमस्ते गणनाथाय तेजसां पतये नमः ।
अनामयाय देवेश आत्मने ते नमो नमः ॥ ३३॥
ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।
आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ ३४॥
स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।
चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३५॥
(Page खं. ६ अ. ४३ पान १२२)
सिद्धिबुद्धिपते तुभ्यं संज्ञानाथाय ते नमः ।
विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ३६॥
अनन्तविभवायैव नामरूपप्रधारिणे ।
मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ३७॥
ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।
गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ३८॥
विवस्वते भानवे ते रवये ज्योतिषां पते ।
लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ३९॥
यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।
भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ४०॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ४१॥
एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।
वामाङ्गे संज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ ४२॥
तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।
तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ४३॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ ४४॥
शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।
भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ ४५॥
गणेशवचनं श्रुत्वाऽनूरुस्तं प्रणिपत्य च ।
जगाद साश्रुनेत्रः सन् सरोमाञ्चो गजाननम् ॥ ४६॥
अनूरुरुवाच ।
भक्तिं देहि गणाधीश तव पादाम्बुजाश्रिताम् ।
गाणपत्यप्रियत्वं मे सदा सङ्गं महात्मनाम् ॥ ४७॥
तथेति तमथोक्त्वाऽसौ विकटोंऽतर्दधे स्वयम् ।
अनूरुः खेदसंयुक्तोऽभवत्तत्रैव संस्थितः ॥ ४८॥
ततः संस्थापयामास मूर्तिं गणपतेर्द्विजैः ।
भानुविनायक इति नाम चक्रे सुहर्षितः ॥ ४९॥
पूजयित्वा गणेशानं सूर्यं समागतोऽभवत् ।
अरुणस्तं प्रणम्यैव वृत्तान्तं कथयत् परम् ॥ ५०॥
तेनैवं स्थापितं तत्रारुणो गणपतिं परम् ।
अभजद्रथसंस्थश्च योगशान्तिपरोऽभवत् ॥ ५१॥
एवं विकटमाहात्म्यं भानुविघ्नेशगं परम् ।
तदीयांशावतारस्थं कथितं सर्वसिद्धिदम् ॥ ५२॥
शृणुयाद्यः पठेद्वापि श्रावयेद्वा नरः किल ।
स ईप्सितफलं प्राप्यान्ते स्वानन्दमवाप्नुयात् ॥ ५३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते भानुविनायकचरितं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ६.४३
(Page खं. ६ अ. ४४ पान १२३)
६.४४ विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
एकमेवाद्वितीयं यद्ब्रह्म वेदेषु शक्तयः ।
तदेव विकटः प्रोक्तस्तेन माया प्रकाशिता ॥ १॥
मायायां बिम्बितं ब्रह्म विकटस्य महात्मनः ।
आत्माकारं च सर्वत्र भ्रमस्थं जीववाचकम् ॥ २॥
संज्ञा जाता ततस्तस्य विकटस्य परात्मनः ।
सा संज्ञाऽभूद्रवेर्भार्या माया खेलकरी परा ॥ ३॥
तस्यां बिम्बमयाद्वीर्यान्नाना जीवा बभूविरे ।
तेषां सूतिकरः सोऽपि सूर्य इत्यभिधीयते ॥ ४॥
संज्ञया संयुतः सूर्यो ज्ञानहीनो बभूव ह ।
तपस्तताप घोरं स गणेशस्य महात्मनः ॥ ५॥
दिव्यवर्षसहस्रेणैकाक्षरेण सुतोषितः ।
प्रसन्नस्तं ययौ सोऽपि भक्तवात्सल्यकारणात् ॥ ६॥
उवाच तं रविं देवो वरं ब्रूहि हृदीप्सितम् ।
दास्यामि तपसा तुष्टो भवेद्यदपि दुर्लभम् ॥ ७॥
ततो भानुर्गणेशानं दृष्ट्वा हर्षसमन्वितः ।
संज्ञया सहसोत्थाय प्रणनाम गजाननम् ॥ ८॥
पुनः पुनर्ननामाथ तं सम्पूज्य महायशाः ।
कृत्वा करपुटं संज्ञायुतः स्तोतुं प्रचक्रमे ॥ ९॥
सूर्य उवाच ।
नमस्ते विकटायैव मायामायिकरूपिणे ।
वामाङ्गे संज्ञया युक्त दक्षिणाङ्गे च भानवे ॥ १०॥
तयोर्योगे गणाधीश सिद्धिबुद्धिपतिर्मतः ।
गजाननादिचिह्नैश्च संयुतस्ते नमो नमः ॥ ११॥
एकमेवाद्वितीयं यद्ब्रह्म तद्वर्णये कथम् ।
धन्योऽहं सर्वभावेन देवं दृष्ट्वा गजाननम् ॥ १२॥
गजाननाय सर्वादिपूज्याय परमात्मने ।
हेरम्बाय सदा ज्येष्ठराजाय ते नमो नमः ॥ १३॥
परेशाय महाविघ्ननाशनाय महात्मने ।
दुरात्मभ्यो महाविघ्नदायकाय नमो नमः ॥ १४॥
अनाथाय सनाथानां नाथाय सर्वदायिने ।
अनाथानां प्रणाथाय नाथनाथाय ते नमः ॥ १५॥
अनन्तविभवायैवानन्तमायाप्रधारिणे ।
ब्रह्मणस्पतये तुभ्यं कवये ते नमो नमः ॥ १६॥
मूषकवाहनायैव सर्वान्तरप्रचारिणे ।
मूषकध्वजिने तुभ्यं मयूरेश नमोस्तु ते ॥ १७॥
किं स्तौमि त्वां गणाधीश पञ्चचित्तप्रचालक ।
अतोऽहं प्रणमाम्येव तेन तुष्टो भव प्रभो ॥ १८॥
एवं संस्तुवतस्तस्य भक्त्या रोमोद्गमोऽभवत् ।
रुद्धकण्ठं प्रनृत्यन्तं गणेशस्तं जगाद ह ॥ १९॥
श्रीगणेश उवाच ।
मदीयस्तवनं चेदं सर्वदं सम्भविष्यति ।
त्वया कृतं पठेद्यश्च शृणुयात्तस्य सर्वदा ॥ २०॥
यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः ।
सन्तुष्टोंऽते ब्रह्ममयं करिष्यामि महामते ॥ २१॥
दास्यामि त्वं वरान् ब्रूहि ह्यधुना भक्तिमोहितः ।
सस्त्रीकस्तान् महाभानो मम भक्ततरो मतः ॥ २२॥
भानुरुवाच ।
प्रसन्नोऽसि यदा ढुण्ढे देहि भक्तिं त्वदीयिकाम् ।
ज्ञानं स्वाभाविकं देहि नानाकार्यकरं प्रभो ॥ २३॥
परं सामर्थ्यमतुलं देहि सर्वात्मधारकम् ।
मां कुरुष्व गणेशान गाणपत्यप्रियं सदा ॥ २४॥
त्वं मे पुत्रो भव स्वामिन् संसारे तारणात्मकः ।
तत्र त्वां पुत्रभावेन भजिष्यामि निरन्तरम् ॥ २५॥
हृदये चित्तसंस्थं त्वां मूर्तौ देवस्वरूपिणम् ।
तेनाहं कृतकृत्यश्च भविष्यामि गजानन ॥ २६॥
(Page खं. ६ अ. ४४ पान १२४)
ओमित्युक्त्वा गणाधीशस्ततोंऽतर्धानगोऽभवत् ।
सूर्यस्तं चिन्त्य स्वस्थानं जगाम प्रियया सह ॥ २७॥
सूर्यः सत्तासमायुक्तो ज्ञानवान्निर्ममे परम् ।
असद्ब्रह्म ततः सर्वं नानारूपमकल्पयत् ॥ २८॥
गणेशवरदानेन मोहहीनो बभूव ह ।
अभजत्तं सदा भानुर्भक्त्या योगीन्द्रवन्दितः ॥ २९॥
एकदा प्रियया युक्तः सस्मार गणनायकम् ।
तामिस्रासुरगर्वेण पीडितो बलवत्तरम् ॥ ३०॥
स्मृत्या समागतं तत्र गणेशं पुत्ररूपिणम् ।
बालं शुण्डाधरं वीक्ष्य तं पप्रच्छ विभावसुः ॥ ३१॥
सूर्य उवाच ।
कोऽसि त्वं वद मां बाल गणेशाकृतिधारक ।
किमर्थमिह चायातः किं गणेशो भवान् परः ॥ ३२॥
सूर्यस्य वचनं श्रुत्वा तं जगाद गजाननः ।
स्मृतिजोऽहं सुतो भानो तव विघ्नेश्वरः स्वयम् ॥ ३३॥
पुरा दत्तो वरस्तेन पुत्रोऽहं ते समागतः ।
पालयस्व पितर्मां त्वं संज्ञया सह मानद ॥ ३४॥
तस्य तद्वचनं श्रुत्वा संज्ञया सह चार्यमा ।
प्रणम्यापूज्य तुष्टाव अथर्वशिरसा प्रभुम् ॥ ३५॥
एतस्मिन्नन्तरे तत्राऽऽजगाम सुरसत्तमः ।
तामिस्रस्तं विलोक्यैव पपाल सविता भयात् ॥ ३६॥
उत्थाय गणनाथस्तं जघान मुष्टिघाततः ।
पातयामास भूम्यां स निर्जीवं दैत्यपुङ्गवम् ॥ ३७॥
मृतं दैत्यं विलोक्यैवाऽऽजगाम सविता पुनः ।
तं प्रणम्य स्थितो दूरे गणेशेन विमोहितः ॥ ३८॥
मोहितः संज्ञया सार्धं भानुस्तं गृह्य पुत्रकम् ।
लालयामास हर्षेण पुत्रभावपरायणः ॥ ३९॥
गणेशमायया तत्र संज्ञा स्तन्यमपाययत् ।
वरं दत्वा गतं पुत्रं वरदाख्यं चकार तम् ॥ ४०॥
ततः सोंऽतर्हित पुत्रो भानुः सम्मूर्च्छितोऽभवत् ।
संज्ञया च तयोर्ढुण्ढिर्हृदि संस्थो बभूव ह ॥ ४१॥
मा शोकं कुरुतं तातौ न वियोगश्च मे क्वचित् ।
मूर्तिं कृत्वा सदा तत्र पूजयेथां निरन्तरम् ॥ ४२॥
ततस्तौ सावधानौ तु तथा चक्रतुरादरात् ।
भक्त्या गणपतिं नित्यं भजतः परमेश्वरौ ॥ ४३॥
शक्तय ऊचुः ।
कोऽसौ तामिस्रसंज्ञश्चासुरस्तस्य चरित्रकम् ।
वद शक्ते यदर्थं तु वरदः सम्बभूव ह ॥ ४४॥
आदिशक्तिरुवाच ।
सूर्योऽहङ्कारसंयुक्तो बभूवे जीवनात्मकः ।
सर्वेषां दीप्तिदाताऽहं मम दीप्तिकरो न च ॥ ४५॥
एवं बहौ गते काले विस्मृतो गणनायकम् ।
छायायां तस्य जज्ञेऽयं तामिस्रः पुरुषाकृतिः ॥ ४६॥
तं दृष्ट्वा हर्षितो भानुः पुत्रं मेने हितावहम् ।
अन्धकारकरं पूर्णं वरदस्तमुवाच ह ॥ ४७॥
भानुरुवाच ।
त्रिगुणान्नभयं पुत्र भविष्यति कदाचन ।
त्रैलोक्यराज्यमुग्रं ते मया दत्तं विशेषतः ॥ ४८॥
यद्यदिच्छसि तत्तत्ते सफलं सर्वदा किल ।
भविष्यति च तामिस्र नाम भव सुभाग्यवान् ॥ ४९॥
तं प्रणम्य महादैत्यः पातालमगमन्मुदा ।
शुक्रेण प्रेरितैर्दैत्यैः कृतो राजा सुरद्विषाम् ॥ ५०॥
सह तैर्मदसंयुक्तो जिग्ये ब्रह्माण्डमण्डलम् ।
राज्यं चकार दैत्येशैर्महाबलयुतो बभौ ॥ ५१॥
रविं तेजस्विनं दृष्ट्वा वैरभावेन संयुतः ।
(Page खं. ६ अ. ४५ पान १२५)
अन्धकारेण नित्यं सञ्छादयामास शक्तयः ॥ ५२॥
निरर्थकं चकारासौ सूर्यं तेजस्विनां वरम् ।
नानायत्नपरः सूर्यस्तं जेतुं न शशाक ह ॥ ५३॥
ततोऽहङ्कारहीनः स सस्मार गणनायकम् ।
गणेशेन हतो दैत्यः सूर्यभावप्ररक्षणात् ॥ ५४॥
एतत् सर्वं समाख्यातं सूर्यपुत्रस्य चेष्टितम् ।
वरदस्य महादेव्यः सर्वसिद्धिकरं परम् ॥ ५५॥
शृणुयादिदमाख्यानं पठेद्वा तस्य सर्वदम् ।
भविष्यति सदा चान्ते ब्रह्मभूयप्रदायकम् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटवरदचरितं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ६.४४
६.४५ विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
आदिशक्तिरुवाच ।
एवं नानावताराश्च धृतास्तेन महात्मना ।
विकटेन महादेव्यः सङ्ख्यातुं नैव शक्यते ॥ १॥
भक्तिप्रियस्वभावेन भक्तानां विघ्ननाशनात् ।
कुरुते स्वावतारान् स विकटः परमेश्वरः ॥ २॥
मयूरक्षेत्रमधुना गच्छध्वं तत्र चाप्यहम् ।
संस्थिता पूर्णरूपेणात्र कलांशात्मिका मुदा ॥ ३॥
तत्र विघ्नेश्वरं भक्त्या सेवध्वं शक्तयः पराः ।
तेन योगीन्द्रवन्द्याश्च भविष्यथ न संशयः ॥ ४॥
विषयादिषु भावेषु मा चित्तं कुरुत प्रियाः ।
गाणेशमार्गमाश्रित्य भजध्वं विकटं परम् ॥ ५॥
वेदादिषु गणेशस्य प्रीतिदं कर्म चोत्तमम् ।
तदेव भक्तिसंयुक्ताः कुरुध्वं नित्यमादरात् ॥ ६॥
गणेशमूर्तेश्च हृदि चिन्तनं कुरुत प्रियाः ।
मानसीं बाह्यपूजां च गणेशप्रीणनाय ताम् ॥ ७॥
विषयेषु विरक्तत्वाद्विकटा भक्तिरुत्तमा ।
गणेशे सक्तचित्ता सा कर्तव्या नित्यमादरात् ॥ ८॥
मुद्गल उवाच ।
एवमुक्त्वा ददौ ताभ्यो मन्त्रमेकाक्षरं परम् ।
सविधिं गणराजस्य ततो मौनं समादधे ॥ ९॥
प्रणम्य शक्तयः सर्वास्ततस्तां भक्तिसंयुताः ।
महाकालीमुखा दक्ष ययुः क्षेत्रं मयूरकम् ॥ १०॥
मयूरके तत्र देवीं ददृशुस्ताः सुहर्षिताः ।
प्रणम्यापूज्य तां ढुण्ढिं ततस्तेपुस्तपो महत् ॥ ११॥
शतवर्षे गते तासां पुरतो मयूरेश्वरः ।
समाययौ ततस्तां ताः प्रणेमुर्हर्षसंयुताः ॥ १२॥
पूज्य नानाविधैर्देवमुपचारैर्मनोरमैः ।
पुनः प्रणम्य विघ्नेशं तुष्टुवुः करसम्पुटाः ॥ १३॥
महाकालीमहालक्ष्मीमहासरस्वतय ऊचुः ।
मयूरेशाय विघ्नेशाय भक्तविघ्नहारिणे ।
विघ्नदात्रे ह्यभक्तेभ्यो गणेशाय नमो नमः ॥ १४॥
लम्बोदराय देवाय मूषकध्वजिने नमः ।
अनाथानां सनाथाय नमो नाथाय ते नमः ॥ १५॥
परेशाय महेशेभ्यः सिद्धिदाय गजानन ।
अनन्ताय सदा स्वेभ्यः सर्वदाय नमो नमः ॥ १६॥
ब्रह्मणां पतये तुभ्यं सदा शान्तिमयाय च ।
(Page खं. ६ अ. ४५ पान १२६)
शान्तीनां शान्तिरूपाय परात्मने नमो नमः ॥ १७॥
हेरम्बाय नमस्तुभ्यं कवये कविरूपिणे ।
कविभ्यः पददात्रे च कवीशाय नमो नमः ॥ १८॥
सिद्धिबुद्धिवरायैव सिद्धिबुद्धिप्रदायिने ।
सिद्धिबुद्धिप्रचालाय तद्रूपाय नमो नमः ॥ १९॥
मायामायिकचिह्नाद्यैः प्रखेलकस्वरूपिणे ।
योगशान्तिस्थभावाय शान्तिदाय नमो नमः ॥ २०॥
शक्तये भानवे तुभ्यं विष्णवे शङ्करात्मने ।
नानारूपधरायैव खेलकाय नमो नमः ॥ २१॥
किं स्तुमस्त्वां गणाधीश यत्र शान्तिं प्रलेभिरे ।
वेदादयः शिवाद्याश्च नमामो मयूरध्वज ॥ २२॥
भक्तिं ते देहि सर्वेश वासं क्षेत्रे त्वदीयिके ।
तथेति ता गणाधीशो ह्यगदद्भक्तियन्त्रितः ॥ २३॥
इदं स्तोत्रं पठेद्यस्तु शृणुयात् स लभेत् परम् ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ॥ २४॥
एवं दक्ष महच्चित्रं चरितं कथितं मया ।
विकटस्य समासेन सर्वसिद्धिप्रदायकम् ॥ २५॥
नानेन सदृशं किञ्चित् सर्वदं कुत्र वर्तते ।
साक्षाद्ब्रह्मप्रदं पूर्णं तत्र किं वर्णयाम्यहम् ॥ २६॥
इदं विकटमाहात्म्यं शृणुयाद्यो नरोत्तमः ।
श्रावयेच्च पठेत्सोऽपि सर्वसिद्धिमवाप्नुयात् ॥ २७॥
एकमावर्तनं नित्यं यः कुर्यात् स मतो परः ।
साक्षाद्विकटरूपः स दर्शनात् पावनो नृणाम् ॥ २८॥
यावन्ति साधनान्येव साधयेत् परमादृतः ।
शतवारं लभेत् पुण्यं खण्डस्यास्य श्रवाच्च तत् ॥ २९॥
इष्टापूर्तादिकं यस्तु कुर्याद्भक्तिसमन्वितः ।
तस्माच्छतगुणं पुण्यं श्रवणादस्य संलभेत् ॥ ३०॥
पुराणोपपुराणानि सेतिहासानि नित्यशः ।
शृणुयाच्च ततः पुण्यमनेन स्याच्छताधिकम् ॥ ३१॥
बहुनात्र किमुक्तेन यत्र ब्रह्मपतिः परः ।
वर्णितो विकटस्तेन समं किं सम्भवेद्वद ॥ ३२॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
दक्षो हर्षयुतोऽत्यन्तं प्रणनाम च मुद्गलम् ॥ ३३॥
मया सम्पूर्णभावेन कथितं ते द्विजोत्तम ।
कामनाशकरं पूर्णं विकटस्य चरित्रकम् ॥ ३४॥
धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् ।
नानेन सदृशं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ ३५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
षष्ठे खण्डे विकटचरिते विकटचरितसमाप्तिवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ६.४५
॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे षष्ठः खण्डः समाप्तः ॥
Proofread by Yash Khasbage