मुद्गलपुराणं खण्डः ४ गजाननचरितम्
॥ मुद्गलपुराणं खण्डः ४॥
॥ अथ श्रीमुद्गलपुराणे चतुर्थः खण्डः प्रारभ्यते ॥
(Page खं. ४ अ. १ पान १)
४.१ चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
त्वया सूत महाप्राज्ञ महोदरचरित्रकम् ।
कथितं शान्तिदं मोहनाशकं संश्रुतं मया ॥ १॥
तथा तृप्तिं न याम्येव पायं पायं सुधामिव ।
नानेन सदृशं किञ्चिच्छान्तिदं विद्यते द्विज ॥ २॥
अतो गजाननस्यापि चरित्रं वद विस्तरात् ।
सर्वज्ञस्त्वं महाभाग मतोऽस्माभिर्न संशयः ॥ ३॥
मुद्गलस्य च दक्षस्य संवादं वद मानद ।
किं पृष्टं ब्रह्मपुत्रेण दक्षेणाग्रे सुबुद्धिना ॥ ४॥
सूत उवाच ।
शृणु भार्गव विप्रेन्द्र महाज्ञानकरं प्रभो ।
गजाननस्य माहात्म्यं कथयामि यथा श्रुतम् ॥ ५॥
श्रुत्वा महोदराख्यानं नानाख्यानसमन्वितम् ।
मोहनाशकरं दक्षो हर्षितो ह्यभवन् मुने ॥ ६॥
मुद्गलं पुनरप्याह योगीन्द्रं वेदपारगम् ।
विनयेन समायुक्तो गणेशज्ञानलालसः ॥ ७॥
दक्ष उवाच ।
महोदरस्य माहात्म्यं श्रुतं भक्तियुतेन भोः ।
तेनाऽऽनन्दसमायुक्तः कृतोऽहं योगिना त्वया ॥ ८॥
अधुना वद विप्रेश गजाननचरित्रकम् ।
कीदृशोऽवतरद्देवः कीदृशं ब्रह्म तत्र च ॥ ९॥
किमर्थं देहधारी स बभूव मुनिसत्तम ।
किं कर्मा किं गुणज्ञश्च वद सर्वं महामते ॥ १०॥
पूर्वपुण्यप्रभावेण सङ्गतिस्ते प्रजायते ।
धन्योऽहं सर्वभावेन शृणोमि च कथां शुभाम् ॥ ११॥
सूत उवाच ।
दक्षेणैवं महायोगी स पृष्टो बुद्धिशालिना ।
तं प्रत्युवाच भावज्ञो गाणपत्यपरायणः ॥ १२॥
मुद्गल उवाच ।
शृणु दक्ष महाभाग धन्योऽस्यत्र न संशयः ।
कथां वर्धयसि प्राज्ञ गाणेशीं योगदां पराम् ॥ १३॥
तव भावेन सन्तुष्टो वदामि सकलं प्रभो ।
गजाननस्य माहात्म्यं योगशान्तिपदप्रदम् ॥ १४॥
साङ्ख्यं ब्रह्म विदेहाख्यं कथितं योगिभिः परम् ।
तदेव गजवक्त्रं वै जानीहि त्वं प्रजापते ॥ १५॥
बिन्दुब्रह्मात्मको देहः सोऽहं वक्त्रं प्रकीर्तितम् ।
तयोरभेदको बोधो बभावेव स देहवान् ॥ १६॥
त्रिविधेषु स्थितो देवो तथापि तद्विवर्जितः ।
विदेहो गजवक्त्रश्च शोभत साङ्ख्यधारकः ॥ १७॥
बोधत्यागे महाभाग कः सङ्ख्यां कुरुते वद ।
ब्रह्मणां तेन साङ्ख्यं तद्ब्रह्म वेदे प्रकाशितम् ॥ १८॥
लोभासुरविनाशाय प्रकटोऽभूद्गजाननः ।
देवैर्विप्रैः प्रजानाथ प्रार्थितो भक्तिलालसः ॥ १९॥
चतुर्थ्यां मध्यगे भानौ देहधारी समागतः ।
सा तिथिः परमा तस्य प्रीतिदा सम्बभूव वै ॥ २०॥
सूत उवाच ।
इति श्रुत्वा वचो रम्यं दक्षो हृष्टमना मुने ।
जगाद मुद्गलं विप्रं चतुर्थीज्ञानसिद्धये ॥ २१॥
दक्ष उवाच ।
का चतुर्थी तिथिः प्रोक्ता शुक्ला कृष्णा वद प्रभो ।
गणनाथप्रियाऽत्यन्तं बभूव कथमेव सा ॥ २२॥
पुनः पुनस्त्वया ब्रह्मन् कथितं तद् व्रतं शुभम् ।
अतो ब्रूहि चतुर्थ्यास्त्वं माहात्म्यं सकलं परम् ॥ २३॥
दक्षस्य वचनं श्रुत्वा हर्षयुक्तो महामुनिः ।
मुद्गलस्तमथोवाच चतुर्थीसम्भवां कथाम् ॥ २४॥
(Page खं. ४ अ. १ पान २)
मुद्गल उवाच ।
सङ्क्षेपेण प्रवक्ष्यामि चतुर्थ्याश्च चरित्रकम् ।
गणनाथप्रियं पूर्णं ज्ञास्यसि त्वं प्रजापते ॥ २५॥
पुरा सृष्टिं स सृष्ट्वा वै ब्रह्मा लोकपितामहः ।
स्थितानां तत्र जन्तूनां कालार्थं स दधे मनः ॥ २६॥
नानाकार्यप्रसिद्ध्यर्थं सञ्चिन्त्य गणपं हृदि ।
अभवद्ध्यानमास्थाय संस्थितश्चिन्तयान्वितः ॥ २७॥
ततस्तस्य शरीराद्वै निःसृता प्रकृतिः परा ।
महामाया तिथीनां सा जननी कामरूपिणी ॥ २८॥
चतुष्पदां तथा दक्ष चतुर्हस्तां सुशोभनाम् ।
चतुर्मुखयुतां वीक्ष्य हर्षितोऽभूत् प्रजापतिः ॥ २९॥
ततः सा तं नमस्कृत्य तुष्टाव जगदीश्वरम् ।
नानास्तोत्रैः प्रसाद्यैनमुवाच घननिःस्वना ॥ ३०॥
प्रकृतिरुवाच ।
तवाङ्गनिःसृतां मां त्वं विद्धि ब्रह्माण्डनायक ।
आज्ञां कुरु पितर्मां च कुर्वेऽहं भावयन्त्रिता ॥ ३१॥
स्थानं देहि तथा भक्ष्यं नानाभोगादिकं प्रभो ।
मह्यं देव दयासिन्धो नमस्ते परमेश्वर ॥ ३२॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद प्रजापतिः ।
सृष्टिं गणेशं सञ्चिन्त्य विचित्रां कुरु मानदे ॥ ३३॥
स तस्यै गणनाथस्य ददौ मन्त्रं षडक्षरम् ।
सविधिं सा नमस्कृत्य ययौ तं वनमादरात् ॥ ३४॥
तताप तप उग्रं सा नासाग्रनयना सती ।
गणेशं हृदि सन्ध्याय जजाप मन्त्रमुत्तमम् ॥ ३५॥
प्रजापते गते वर्षसहस्रे तु गजाननः ।
आययौ तां महाभागामगदद्भक्तवत्सलः ॥ ३६॥
गणेश उवाच ।
वरान् वृणु महाभागे बहून् मनसि वाञ्छितान् ।
निराहारेण सन्तुष्टो ददामि तपसा च ते ॥ ३७॥
तस्य तद्वचनं श्रुत्वा हर्षिता प्रणनाम तम् ।
गजाननं प्रसम्पूज्य तुष्टाव च कृताञ्जलिः ॥ ३८॥
प्रकृतिरुवाच ।
नमस्ते विघ्ननाथाय गणेशाय परात्मने ।
अनाथाय विशेषेण सर्वनाथाय ते नमः ॥ ३९॥
नमो मूषकवाहाय मूषकध्वजिने नमः ।
स्वानन्दपतये तुभ्यं गणानां पतये नमः ॥ ४०॥
सिद्धिबुद्धिप्रदात्रे च सिद्धिबुद्धिविहारिणे ।
योगेशाय सदा शान्तिप्रदात्रे योगिने नमः ॥ ४१॥
सर्वादये सदा सर्वपूज्याय भक्तपालका ।
ज्येष्ठराजाय ज्येष्ठानां पतये ते नमो नमः ॥ ४२॥
ब्रह्मणे ब्रह्मदात्रे वै ब्रह्मणां पतये नमः ।
सिद्धेश्वराय देवानां दैत्यानां पतये नमः ॥ ४३॥
चतुर्भुजाय हेरम्ब परशोर्धारकाय ते ।
अङ्कुशन्धारिणे तुभ्यं निरङ्कुश नमो नमः ॥ ४४॥
रजसा सृष्टिकर्त्रे ते पालने सात्त्विकाय ते ।
तामसाय महाहन्त्रे गुणेशाय नमो नमः ॥ ४५॥
स्थावराय चरायैव चराचरमयाय ते ।
चराचरविहीनाय बोधाय च नमो नमः ॥ ४६॥
चतुर्विधस्वरूपाय चतुर्विधसुखप्रद ।
चतुःसुखस्वरूपाय स्वसंवेद्याय ते नमः ॥ ४७॥
विनायकाय सर्वेषां नायकाय नमो नमः ।
गजाननाय देवाय देवदेवेश ते नमः ॥ ४८॥
किं स्तौमि त्वां गणाध्यक्ष ब्रह्मणस्पतिरूपिणम् ।
यं स्तोतुं न समर्थाश्च योगिनो वेदमुख्यकाः ॥ ४९॥
तवदर्शनबोधेन तथापि संस्तुतो मया ।
तेन तुष्टो भव स्वामिन् भक्तिं देहि दृढां त्वयि ॥ ५०॥
इति स्तुत्वा गणेशानं दण्डवत् प्रणनाम तम् ।
तामुत्थाप्य गणाधीश उवाच व्रतमातरम् ॥ ५१॥
(Page खं. ४ अ. २ पान ३)
गणेश उवाच ।
वरं वृणु महाभागे यं यमिच्छसि शोभने ।
तं तं दास्यामि सुप्रीतो भक्त्या स्तोत्रेण तोषितः ॥ ५२॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठेच्छृणुयाद्देवि ईप्सितं लभते नरः ॥ ५३॥
एककालं द्विकालं वा त्रिकालं लभते सदा ।
अव्रती व्रतसाफल्यं पठनान्नात्र संशयः ॥ ५४॥
ब्रुवन्तं गणनाथं सोवाच गम्भीरनिःस्वना ।
देवी प्रणम्य भावेन साश्रुनेत्रा प्रजापते ॥ ५५॥
देव्युवाच ।
वरदोऽसि गणाधीश तदा देहि त्वयि स्थिराम् ।
भक्तिं मे च तथा कार्ये सामर्थ्यं करुणानिधे ॥ ५६॥
सृष्टिसर्जनसामर्थ्यं देहि नाथ नमोऽस्तु ते ।
सदा तव प्रियत्वं मे वियोगो न च ते भवेत् ॥ ५७॥
ओमित्युक्त्वा गणाधीशो जगाद वदतां वरः ।
चतुर्विधप्रदा देवि प्रिया मम भविष्यसि ॥ ५८॥
तिथीनां मातृभावेन चतुर्थी संज्ञिता भव ।
वामभागे सदा कृष्णा शुक्ला दक्षिणभागके ॥ ५९॥
मम जन्मतिथिस्त्वं वै भविष्यसि न संशयः ।
सदा तव व्रते संस्थान् पालयामि विशेषतः ॥ ६०॥
मदीयव्रतजा पुण्या तिथिस्त्वं च भविष्यसि ।
व्रतेषु त्वत्समं नैव दायकं कुत्र वर्तते ॥ ६१॥
एवमुक्त्वा गणेशानोंऽतर्धानं प्रचकार ह ।
व्रतमाता प्रजानाथाऽभवत्तत्रैव संस्थिता ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चतुर्थीतपोवर्णनं नाम प्रथमोऽध्यायः ॥ ४.१
४.२ शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो देवी गणाध्यक्षं स्मृत्वा स्रष्टुं मनो दधे ।
ततोऽकस्माद् द्विधा साऽभूद्वामदक्षिणभागतः ॥ १॥
वामभागं कृष्णवर्णं दक्षिणाङ्गं तथा बभौ ।
शुक्लवर्णं महाभाग ततः सा विस्मिताऽभवत् ॥ २॥
पुनर्गणपतिं ध्यात्वा स्रष्टुं तत्रोपचक्रमे ।
ततस्तस्या मुखाम्भोजात् प्रतिपन्निःसृता तिथिः ॥ ३॥
नासिकायां द्वितीया वै वक्षसश्च तृतीयिका ।
अङ्गुलीभ्यस्तथा दक्ष पञ्चमी चाभवत्तिथिः ॥ ४॥
उत्पन्ना हृदयात् षष्ठी चक्षुषोः सप्तमी बभौ ।
अष्टमी बाहुदेशाच्च समुत्पन्ना महातिथिः ॥ ५॥
नवमी तिथिरुत्पन्ना उदराच्च प्रजापते ।
दशमी कर्णदेशाद्वै कण्ठाच्चैकादशी मता ॥ ६॥
द्वादशी पादयोस्तस्याः समुत्पन्ना तथा विभो ।
स्तनात् त्रयोदशी तस्या अहङ्काराच्चतुर्दशी ॥ ७॥
मनसः पूर्णिमा जाता अमावास्या तथाऽभवत् ।
जिह्वायाः सर्वभावेन तिथयो भिन्नतां दधुः ॥ ८॥
कृष्णा चतुर्थी प्रोक्ता या तस्याः कृष्णाः प्रकीर्तिताः ।
तिथयोः दशपञ्चाख्या ज्ञातव्या विबुधैः किल ॥ ९॥
शुक्लाः शुक्लचतुर्थी देहाच्चतुर्दश वै मताः ।
तिथयो विधिवत् सर्वा बभुः स्वस्वगुणान्विताः ॥ १०॥
दिनांशाः पुरुषा जाता रात्रयः स्त्रीस्वरूपकाः ।
स्वस्वभावविहारज्ञा बभूवुश्च हिते रताः ॥ ११॥
(Page खं. ४ अ. २ पान ४)
तिथिभिः सहिता देवी चतुर्थी तपसि स्थिता ।
गणेशमभजन्नित्यं मन्त्रध्यानपरायणा ॥ १२॥
वर्षेणैकेन विघ्नेशस्तां ययौ भक्तवत्सलः ।
शुक्लां मध्याह्नसमये कृष्णां चन्द्रोदये तथा ॥ १३॥
वरं ब्रूहि गणेशानस्तामुवाच विशेषतः ।
प्रणम्य विघ्नपं पूजयित्वा स्तुत्वा जगाद सा ॥ १४॥
चतुर्थ्युवाच ।
त्वदेकनिलयां देव मां कुरुष्व गजानन ।
नान्यं याचे वरं स्वामिन् भक्तिमिच्छामि शाश्वतीम् ॥ १५॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
प्राप्तं चतुर्थि मध्याह्ने मदीयं दर्शनं त्वया ॥ १६॥
अतो मध्याह्नकालेऽन्ये मां भजन्ते शिवादयः ।
चतुर्थ्यां शुक्लपक्षस्य स्थितायां सर्वदा जनाः ॥ १७॥
मदीयव्रतमुख्यत्वे भव त्वं सर्वभावतः ।
निराहारेण मां तत्र त्वद्युक्तं पर्युपासते ॥ १८॥
चतुर्विधं प्रदास्यामि नानाभावनियन्त्रितम् ।
सञ्चितं नास्ति चेद्देवि तथाप्यत्र न संशयः ॥ १९॥
सञ्चितं चास्ति चेद्वापि ददासि त्वं महामते ।
अतस्ते नाम विख्यातं वरदेति भविष्यति ॥ २०॥
त्वां पूजयन्ति ये नैव मद्युक्तां व्रतभावतः ।
तेषां व्रतानि सर्वाणि निष्फलानि भवन्तु वै ॥ २१॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो देवनायकः ।
तदादि सा तिथिः ख्याता वरदा च प्रजापते ॥ २२॥
गणेशस्य प्रियाऽत्यन्तमिति जन्मतिथिः स्मृता ।
तस्यामुपोषणं कार्यं नरैरात्महितेप्सुभिः ॥ २३॥
पञ्चम्यां पारणं दक्ष कर्तव्यं द्विजसाक्षिकम् ।
चतुर्विधं फलं तैश्च सम्प्राप्तं नात्र संशयः ॥ २४॥
यद्यदिच्छति तत्तत् स लभते व्रतकारकः ।
अन्ते स्वानन्दगो भूत्वा सायुज्यं ब्रह्मणस्तथा ॥ २५॥
तत्र व्रते नराः पापा अन्नं भक्षन्ति चेत् प्रियम् ।
नारकास्ते भविष्यन्ति हीना अन्नैः पुनर्जनौ ॥ २६॥
एवं वरं चतुर्थ्यै स ददौ विघ्नविदारणः ।
सा तिथिः सर्वमान्या च बभूव व्रतमूलगा ॥ २७॥
ततः कृष्णां चतुर्थीं स जगाद गणनायकः ।
वरं वृणु महाभागे दास्यामि मनसीप्सितम् ॥ २८॥
श्रुत्वा सा तं प्रणम्याऽऽदौ पूजयित्वा गजाननम् ।
स्तुत्वा जगाद वाक्यं वै हर्षेण महता युता ॥ २९॥
कृष्णचतुर्थ्युवाच ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा भक्तिं दृढां देहि त्वदीयां मे महोदर ॥ ३०॥
त्वत्प्रियत्वं सदा नाथ वियोगो न भवेच्च मे ।
सर्वमान्यां कुरुष्व त्वदेकनिष्ठस्वभावतः ॥ ३१॥
तस्यास्तद्वचनं श्रुत्वा तां जगाद गजाननः ।
सदा मम प्रियाऽत्यन्तं भविष्यसि महातिथे ॥ ३२॥
चन्द्रोदये त्वयाऽहं वै प्राप्तस्तेन चतुर्थिके ।
तत् काले च व्रतं मुख्यं त्वद्युक्तं भवतु प्रियम् ॥ ३३॥
न वियोगो भवेद्भक्ताः प्रियेऽन्नजलवर्जिताः ।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३४॥
प्रहरान् पञ्च मद्भक्ताः प्रियेऽन्नजलवर्जिताः ।
उपासते च तेषां त्वं सङ्कष्टहरणं कुरु ॥ ३५॥
चतुर्विधं स्वसङ्कष्टं जन्म मृत्युश्च कर्मजम् ।
व्रतिनां तत्फलं कर्म विद्यते न कदाचन ॥ ३६॥
इत्यादि विविधं देवि विशेषेण चतुर्विधम् ।
(Page खं. ४ अ. २ पान ५)
सङ्कष्टदं हर त्वं वै मत्प्रसादाच्चतुर्थिके ॥ ३७॥
न सङ्कष्टं कदाचिद्वै व्रतकारि नरस्य च ।
भवेन् मे भक्तियुक्तस्य पुनस्त्वद्युक्तसेविनः ॥ ३८॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दमाप्नुयात् ।
सङ्कष्टहरणी नाम भवेत्तव चतुर्थिके ॥ ३९॥
न करोति चतुर्थीं चेन्नरो मद्भक्तिकारकः ।
निष्फलं सकलं तस्य भजनं वै भविष्यति ॥ ४०॥
त्वां त्यक्त्वा ये नराः पापा व्रतमन्यच्च कुर्वते ।
व्रतादिकं निष्फलकं तेषां सर्वं भविष्यति ॥ ४१॥
वर्णाश्रमस्थको भूत्वा चतुर्थीं न करोति चेत् ।
तस्य सर्वं स्वधर्मस्थं कर्म यन्निष्फलं भवेत् ॥ ४२॥
यती रात्रौ निराहारयुक्तः सन् व्रतमाचरेत् ।
सङ्कष्टहरणं देवि स्वानन्दार्थं न संशयः ॥ ४३॥
अन्यैश्च द्विजसंयुक्तैर्भोजनं द्विजसाक्षिकम् ।
रात्रौ कर्तव्यमेतस्मिन् मां प्रपूज्य वरानने ॥ ४४॥
श्रावणे लड्डुकान् भक्षेत् भाद्रके दधिभोजनम् ।
निर्जलं त्वाश्विने प्रोक्तं दुग्धपानं च कार्तिके ॥ ४५॥
मार्गशीर्षे जलाहारः पौषे गोमूत्रभक्षणम् ।
माघे मासि तिलान् शुक्लान् फाल्गुने घृतशर्कराम् ॥ ४६॥
पञ्चगव्यं मधौ मासे वैशाखे पद्मबीजकम् ।
ज्येष्ठे घृतं गवां भक्ष्यमाषाढे मधुभोजनम् ॥ ४७॥
यतीनां सर्वदा ह्येतत् व्रतं युक्तं प्रकीर्तितम् ।
अन्येषां भोजने नैवानेन वा व्रतकं स्मृतम् ॥ ४८॥
याममात्राऽवशिष्टायां रात्रावुत्थाय सत्वरम् ।
प्रातःकृत्यं सुसङ्क्षेपात् कर्तव्यं तन्नरेण वै ॥ ४९॥
तथा माध्याह्निकं कर्म कर्तव्यं प्रातरेव च ।
चतुर्घटिकरात्रौ सूर्योदयः स प्रकीर्तितः ॥ ५०॥
एवं कर्मादिकं कृत्वा मां सम्पूज्याल्पमन्त्रतः ।
प्रत्यक्षोदयकाले वै सूर्योपस्थानमाचरेत् ॥ ५१॥
चन्द्रोदयस्य पर्यन्तं शमीमूले जपं जपेत् ।
मदीयं मौनिभावेन पश्चात् स्नानं समाचरेत् ॥ ५२॥
सायाह्नकालजं कर्म तत्र कुर्यान्नरोत्तमः ।
विधिना पूज्य मां पश्चादर्घ्यदानं समाचरेत् ॥ ५३॥
आदौ तेऽर्ध्यप्रदानं च ततो मेऽर्घ्यनिवेदनम् ।
ततः सप्तार्घ्यदानं व्रती चन्द्राय समाचरेत् ॥ ५४॥
ब्राह्मणैः पूजितैर्देवि नरः कुर्याच्च भोजनम् ।
मोदकापूपलड्डूकपायसादिभिरादरात् ॥ ५५॥
रात्रौ जागरणं कुर्यान् मदीयकथयान्वितः ।
पञ्चम्यामुपचारैः सम्पूजयन् मां प्रयत्नतः ॥ ५६॥
एवं व्रतं नरः कुर्यात् स वै सर्वार्थसिद्धिभाक् ।
भविष्यत्यमरैर्मान्योंऽते ब्रह्मणि लयं व्रजेत् ॥ ५७॥
यथाऽहं देवतादीनां पूज्यः सर्वाद्यभावतः ।
तथा त्वं व्रतजातीनामादिपूज्या भविष्यसि ॥ ५८॥
शुक्लां कृष्णां चतुर्थीं ये करिष्यन्त्यमरादयः ।
सर्वव्रतादि भावेषु तेषां सिद्धिर्भविष्यति ॥ ५९॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
चतुर्थी भक्तिसंयुक्ताऽभवत्तत्रैव संस्थिता ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शुक्लकृष्णचतुर्थीवरदानवर्णनं नाम द्वितीयोऽध्यायः ॥ ४.२
४.३ प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो गणपतिर्दक्ष ययौ सर्वतिथीः प्रति ।
उवाच वृणुत प्राज्ञा वरं यं मनसीप्सितम् ॥ १॥
श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकम् ।
पूजयित्वा च तं स्तुत्वा जगदुस्तिथयः पराः ॥ २॥
प्रतिपदाद्या उचुः ।
यदि विघ्नेश्वर स्वामिन् वरदोऽसि गजानन ।
किं कर्तव्यं दयासिन्धो अस्माभिर्वद साम्प्रतम् ॥ ३॥
स्वस्वव्यापारजं देवं सामर्थ्यं देहि चाद्भुतम् ।
भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो ॥ ४॥
तासां वचनमाकर्ण्य जगाद गणनायकः ।
ताः शृणु त्वं प्रजानाथ सर्वेषां हितकारकम् ॥ ५॥
गणेश उवाच ।
मदीया भक्तिरत्यन्तं भविष्यति न संशयः ।
भवतीनां महाभागास्तिथयः पुण्यभागिकाः ॥ ६॥
मत्कलांशसमुद्भूता देवास्तान् प्रीणयन्तु वै ।
भवतीभिर्युता देवा नराणां प्रीतिदाऽस्तु च ॥ ७॥
सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः ।
हुतद्रव्यैश्च हुत्वा तं दुग्धाहारा व्रते रताः ॥ ८॥
उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः ।
तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम् ॥ ९॥
ते मृताः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः ।
अग्नितुल्यप्रकाशेन विमानेन विहायसा ॥ १०॥
चरिष्यन्ति न सन्देहः प्रतिपद्व्रतकारकाः ।
ब्रह्मार्पणस्वभावेन गमिष्यन्ति मदात्मनि ॥ ११॥
द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ ।
पत्राहारसमायुक्तो रूपवान् जायते किल ॥ १२॥
इह भुक्त्वाऽखिलान् भोगानन्ते तल्लोकमाप्नुयात् ।
द्वितीयाव्रतकारी स देवमान्यो भविष्यति ॥ १३॥
ब्रह्मार्पणस्वभावेन द्वितीयाव्रतमाचरेत् ।
स स्वानन्दे मदीये वै लीनश्चैव भविष्यति ॥ १४॥
तृतीयायां महाशक्तिं पूजयेद्भक्तिसंयुतः ।
सर्वैः सौभाग्यदैर्द्रव्यैर्लवणाहारवर्जितः ॥ १५॥
स शक्तिलोकगो भूत्वा भोगयुक्तो भविष्यति ।
ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति ॥ १६॥
पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः ।
पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः ॥ १७॥
स नागलोकगो भूत्वा भोगयुक्तश्चरिष्यति ।
निष्कामेन मदीये वै लोकेंऽते आगमिष्यति ॥ १८॥
षष्ठ्यां स्कन्दं फलाहारः पूजयेद्भक्तिसंयुतः ।
स्कन्दलोके चरेत् सोऽपि महाभोगपरायणः ॥ १९॥
निष्कामभावयुक्तश्चेत् स्वानन्देंऽते गमिष्यति ।
शुक्लगत्याः क्रमेणैव सर्वभावनियन्त्रितः ॥ २०॥
सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः ।
स सूर्यलोकमाश्रित्य प्रचरेद्भोगसंयुतः ॥ २१॥
निष्कामव्रतकारी चेन् महालयसमुत्थिते ।
स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति ॥ २२॥
अष्टम्यां मातृकानां यः पूजको भावसंयुतः ।
बिल्वाहारसमायुक्तो मातृकालोकगो भवेत् ॥ २३॥
मदर्पणस्वभावेन सदा व्रतपरायणः ।
अष्टम्यां सोऽपि मल्लोके गच्छेत् क्रमविनिश्चिते ॥ २४॥
नवम्यामेव दुर्गायाः पूजनं यः समाचरेत् ।
पिष्टाशी भोगसंयुक्तोंऽते तल्लोकमवाप्नुयात् ॥ २५॥
(Page खं. ४ अ. ३ पान ७)
ब्रह्मार्पणतया सोऽपि निजलोके गमिष्यति ।
शुक्लगत्या महाभागो ब्रह्मभूतो न संशयः ॥ २६॥
दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुतः ।
दिशां दिगीशकानां वै पूजकस्तत्प्रियो भवेत् ॥ २७॥
इह भुक्त्वाऽखिलात् भोगानन्ते तल्लोकमाप्नुयात् ।
निष्कामव्रतभावेन ब्रह्मभूतो भविष्यति ॥ २८॥
एकादश्यां नरो भक्षेद्वह्निपक्वविवर्जितम् ।
धनपं पूजयेच्चैव भक्तियुक्तेन चेतसा ॥ २९॥
स वै तस्य वसेल्लोके नानाभोगकरः सदा ।
ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेत् ॥ ३०॥
विष्णुं सम्पूजयेद्यो वै द्वादश्यां घृतभोजनः ।
स विकुण्ठे वसेन्नित्यं नानाभोगपरायणः ॥ ३१॥
ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः ।
महालये मदीये स लोके ब्रह्ममयो भवेत् ॥ ३२॥
धर्मं त्रयोदशीसंस्थं पूजयेत् क्षीरभोजनः ।
स धर्मलोकगो भूत्वा भुञ्जीत विविधं सुखम् ॥ ३३॥
ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी ।
स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति ॥ ३४॥
चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुतः ।
उपोषणसमायुक्तो गोधूमान्नेन पारणम् ॥ ३५॥
करिष्यति च कैलासे वासस्तस्य भविष्यति ।
निष्कामश्चेत्तदन्ते स मल्लोके मन्मयो भवेत् ॥ ३६॥
पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा ।
पूजयेद्भक्तिभावेन चन्द्रलोकं स आप्नुयात् ॥ ३७॥
इह भुक्त्वाऽखिलान् भोगानन्ते देवान् गमिष्यति ।
निष्कामनो मदीये स लोके ब्रह्ममयो भवेत् ॥ ३८॥
उपोषणसमायुक्तोऽर्घ्यदानं यः करिष्यति ।
चन्द्राय निशिभुग् वाऽपि सर्वदेवपरायणः ॥ ३९॥
सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता ।
चान्द्री चैव तथा ज्ञेया तिथिः पुण्यप्रदा मता ॥ ४०॥
अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः ।
उपोषणं वा कुर्वीत स सर्वार्थमवाप्नुयात् ॥ ४१॥
अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत् ।
आगमिष्यति निष्कामश्चेत् स्वानन्दे स तल्लये ॥ ४२॥
कृष्णाः शुक्लाः सदा पूज्यास्तिथयो व्रतकारिणा ।
एवं भावयुतेनैव स सर्वार्थमवाप्नुयात् ॥ ४३॥
मत्प्रियास्तिथयः सर्वा भविष्यथ न संशयः ।
मत्कलांशयुतैर्देवैः संयुक्ताः प्रभवेत वै ॥ ४४॥
चतुर्थीं ये न कुर्वन्ति तेषां सर्वं निरर्थकम् ।
भवदीयव्रते संस्थं भविष्यति न संशयः ॥ ४५॥
अतश्चतुर्थीसंयुक्ताः सदा भवत मानदाः ।
तिथयः कालमानेन सर्वपूज्या भविष्यथ ॥ ४६॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो गणवल्लभः ।
तथा जातं प्रजानाथ तिथियुक्तव्रतं सदा ॥ ४७॥
चतुर्थीजं च माहात्म्यं तिथीनां यद्विशेषतः ।
शृणुयाद्यः पठेद्वाऽपि स सर्वार्थमवाप्नुयात् ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते प्रतिपदादिव्रतवर्णनं नाम तृतीयोऽध्यायः ॥ ४.३
(Page खं. ४ अ. ४ पान ८)
४.४ दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अधुना शृणु दक्ष त्वं संवादं तं पुरातनम् ।
दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः ॥ १॥
येन त्वं तिथिमुख्यायाश्चतुर्थ्या व्रतजे परे ।
महिम्नि निपुणोऽत्यन्तं सम्भवेर्ब्रह्मपुत्रक ॥ २॥
महायशा दशरथो वन्ध्यदोषभयार्दितः ।
वसिष्ठं शरणं गत्वा नत्वा पप्रच्छ तं मुनिम् ॥ ३॥
दशरथ उवाच ।
पुत्रप्राप्त्यर्थमेवं भो वदोपायं महामुने ।
शिष्यं मां शाधि भावज्ञ तारयस्व भवार्णवात् ॥ ४॥
ततस्तं मुनिशार्दूल उवाच नृपमुत्तमम् ।
कुलदेवं गणेशं ते भजस्व व्रतसंयुतः ॥ ५॥
वसिष्ठस्य वचः श्रुत्वा पुनस्तं प्रणनाम ह ।
पप्रच्छ विनयेनैव संयुतः स नृपोत्तमः ॥ ६॥
कीदृशं तद्व्रतं विप्र गणेशस्य महात्मनः ।
कृतं केन व्रतं तत्र भवेत् सिद्धिश्च कीदृशी ॥ ७॥
कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने ।
वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया ॥ ८॥
वसिष्ठ उवाच ।
चतुर्थी गणनाथस्य प्रियाऽत्यन्तं नृपोत्तम ।
शुक्ला कृष्णा समाख्याता सर्वसिद्धिप्रदा भवेत् ॥ ९॥
चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थिका ।
सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा ॥ १०॥
चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मज ।
सङ्कष्टं तत् समाख्यातं बन्धनेन विशेषतः ॥ ११॥
इह भुक्त्वाऽखिलान् भोगान् सङ्कष्टीकरणान्नृप ।
सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यति ॥ १२॥
यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते ।
प्रदोषव्यापिनी ग्राह्या सर्वसङ्कटमुक्तये ॥ १३॥
उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी ।
तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी ॥ १४॥
तृतीयायां प्रदोषाच्च चन्द्रस्योदयगा भवेत् ।
तदा सैव सदा ग्राह्या परां त्यक्त्वा विशेषतः ॥ १५॥
शुक्ला सा वरदा प्रोक्ता चतुर्णां नात्र संशयः ।
सञ्चिताऽसञ्चितानां वै व्रतकारिजनाय च ॥ १६॥
धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः ।
तान् ददाति गणेशस्य प्रीतिदा सा चतुर्थिका ॥ १७॥
मध्याह्नव्यापिनी ग्राह्या सदा शुक्लचतुर्थिका ।
उभयत्र यदा नाप्ता पूर्वविद्धा मता तिथिः ॥ १८॥
उभयत्र यदा प्राप्ता भवेत् प्रहरभानुगा ।
तृतीया चेत्तदा साऽपि पूर्वविद्धा मता तिथिः ॥ १९॥
प्रहरादूर्ध्वगा भूप तृतीया सूर्यसंयुता ।
तदा पूर्वा परा वाऽपि कार्या सैव चतुर्थिका ॥ २०॥
चतुर्थीव्रतहीनस्य फलहीनानि भूमिप ।
व्रतानि सर्वकालेष्वाद्या कार्या सा ततः प्रभो ॥ २१॥
एतद्व्रतं महाभाग ब्रह्मणाऽऽचरितं पुरा ।
व्रतस्यैव प्रभावेण निर्ममे सकलं जगत् ॥ २२॥
विष्णुना शङ्करेणैव कृतं व्रतमनुत्तमम् ।
पालने हरणे देवौ समर्थौ तौ बभूवतुः ॥ २३॥
योगिभिः शुकमुख्यैश्च कश्यपादिमुनीश्वरैः ।
मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये ॥ २४॥
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ।
नानेन सदृशं विद्धि चतुर्णां साधकं नृप ॥ २५॥
अन्यैर्नानाविधैरेतत् कृतं वर्णाश्रमस्थितैः ।
(Page खं. ४ अ. ५ पान ९)
ते सर्वे ब्रह्मभूता वै ययुः स्वानन्दके पुरे ॥ २६॥
एतद् व्रतं महीपाल कुरु त्वं भावसंयुतः ।
भविताऽसि सपुत्रश्च तथा स्वानन्दगो भवेः ॥ २७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते दशरथव्रतोपदेशो नाम चतुर्थोऽध्यायः ॥ ४.४
४.५ चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
ब्रह्मादिभिः कथं विप्र चतुर्थीगं व्रतं कृतम् ।
गणनाथप्रियं पूर्णं वद सर्वं प्रविस्तरात् ॥ १॥
दक्ष उवाच ।
वद मुद्गल माहात्म्यं चतुर्थ्यास्त्वं प्रविस्तरात् ।
श्रुत्वा कथां महारम्यां न तृप्यामि मुनीश्वर ॥ २॥
दक्षस्य भक्तिसंयुक्तं वाक्यं श्रुत्वा महामुनिः ।
जगाद तं विशेषज्ञो मुद्गलः शृणु शौनक ॥ ३॥
वचनं नृपवर्यस्य श्रुत्वा दशरथस्य च ।
जगाद तं मुनिश्रेष्ठो वसिष्ठः सर्ववित् प्रभुः ॥ ४॥
वसिष्ठ उवाच ।
कदाचित् प्रलये वृत्ते नष्टं स्थावरजङ्गमम् ।
पञ्चभूतमयं सर्वं व्यवस्थासंयुतं पुरा ॥ ५॥
शून्यवत् सर्वभावैस्तद्धीनं ब्रह्ममयं बभौ ।
योगनिद्रा गणेशस्य सैव वेदे प्रकथ्यते ॥ ६॥
पुनः स कस्मिंश्चित्काले वेदवाग्भिः प्रबोधितः ।
गणेशो निर्ममे सर्वं तत्त्वैस्तत्त्वप्रधारकः ॥ ७॥
त्रिगुणेभ्यः समुत्पन्ना देवाः पञ्च नृपेश्वर ।
ब्रह्मा विष्णुः शिवः शक्तिः सूर्यः सर्वधरा बभुः ॥ ८॥
तैस्तपश्चरितं घोरमेकाक्षरविधानतः ।
तपसा गणनाथस्तु प्रसन्नः प्रबभूव ह ॥ ९॥
हृदये दर्शयामास स्वात्मानं सर्वदं परम् ।
तेन ज्ञानयुता जाता देवाः पञ्च नरेश्वर ॥ १०॥
तैश्च सम्प्रार्थितो योगी भृशुण्डी सर्वपारगः ।
तेन सम्प्रेषिता देवा आययुर्नगरे निजे ॥ ११॥
कर्मभूमौ गणेशस्य क्षेत्रं स्वानन्दवाचकम् ।
वेदैः सन्दर्शितं स्थापयामासुस्तत्र विघ्नपम् ॥ १२॥
यस्मिन् काले च देवेशैः स्थापिता मूर्तिरादरात् ।
तस्मिन् काले चतुर्थी सा भाद्री शुक्ला बभूव ह ॥ १३॥
मध्याह्नसमये संस्था सा मुख्या प्रबभूव ह ।
तत आराधितस्तैः स गणराजो विशेषतः ॥ १४॥
माघमासे सिते पक्षे चतुर्थ्यां राजसत्तम ।
प्रकटोऽभूत् पुरस्तेषां वरदाता गजाननः ॥ १५॥
वरप्रसादेन तस्य निर्मितं सकलं जगत् ।
देवेशैः सा तिथिर्मुख्या बभूव वरदायिनी ॥ १६॥
ब्रह्मादिभिश्च सर्वेभ्य उपदिष्टा चतुर्थिका ।
आदौ काले तथा तत्र ज्येष्ठी मुख्या बभूव सा ॥ १७॥
ज्येष्ठशुद्धचतुर्थ्यां तद्व्रतदानं कृतं पुरा ।
तस्मिन् काले धृता सर्वैः सद्यः सा वरदायिनी ॥ १८॥
अतो मुख्यत्वमापन्ना ज्येष्ठी माघी च भाद्रिका ।
चतुर्थी नृपशार्दूल शुक्लपक्षेषु सर्वदा ॥ १९॥
तत्र भाद्रपदे मासे चतुर्थी या महामते ।
शुक्ला साऽत्यन्तभावेन मुख्या जाताऽद्य भावतः ॥ २०॥
(Page खं. ४ अ. ५ पान १०)
चतुर्थी समभावेन न किञ्चिद्वर्तते व्रतम् ।
अतः किं वर्णनीयं वै तदौपम्यं तदेव च ॥ २१॥
भाद्रे चतुर्थी या शुक्ला साधिता सा नरेण चेत् ।
स द्वादशचतुर्थीसम्भवं पुण्यं समाप्नुयात् ॥ २२॥
अङ्गारकयुता भूप सा नरेण कृता भवेत् ।
चतुर्थी षोडशभवं पुण्यं प्राप्तं न संशयः ॥ २३॥
नरेण धीमता सा चेद्यदि चन्द्रयुता कृता ।
चतुर्थी विंशतिभवं फलं प्राप्तं महामते ॥ २४॥
यदि स्वातियुता भूप चन्द्रवारेण चेत्कृता ।
प्राप्तं चतुर्विंशतिचतुर्थीजं किल पुण्यकम् ॥ २५॥
माघे शुक्लचतुर्थी सा कृता चेन्नात्र संशयः ।
अष्टानां च चतुर्थीनां फलं प्राप्तं नरेण तत् ॥ २६॥
अङ्गारकयुता चेद्वै साधिता सा नरेण च ।
द्वादशानां चतुर्थीनां पुण्यं प्राप्तं व्रतोद्भवम् ॥ २७॥
ज्येष्ठे शुक्लचतुर्थीं यः करोति व्रतधारकः ।
चतुश्चतुर्थीजं पुण्यं लभते स नराधिप ॥ २८॥
अङ्गारकयुता चेद् द्वादशभिः समतां व्रजेत् ।
नरेण सा प्रयत्नेन कर्तव्या सर्वदायिका ॥ २९॥
अन्येषु श्रावणाद्येषु चतुर्थी वरदा कृता ।
धर्मार्थकाममोक्षाणां दात्री शास्त्रेषु सम्मतम् ॥ ३०॥
तत्र श्रावणमासे या चतुर्थी वरदा मता ।
द्विचतुर्थीभवं पुण्यं ददाति व्रतकारिणे ॥ ३१॥
चतुर्थ्या महिमाऽनन्तोऽशक्यो वर्णयितुं भवेत् ।
चतुःपदप्रदा प्रोक्ता सा कथं वर्ण्यते मया ॥ ३२॥
अधुना शृणु राजेन्द्र कृष्णपक्षे समागताम् ।
चतुर्थीं सर्वदां पुण्यां सङ्कष्टहरिणीं शुभाम् ॥ ३३॥
चतुर्विधं च सङ्कष्टं प्राप्तं सर्वैर्नराधिप ।
जन्ममृत्युव्यवस्थाख्यं चतुर्थं कर्मजं फलम् ॥ ३४॥
इत्यादिबहवो भेदाः कथनं नैव शक्यते ।
चतुर्विधं जगत् सर्वं पञ्चमं ब्रह्म उच्यते ॥ ३५॥
चतुर्विधं सुसङ्कष्टं व्रतमात्रेण हन्ति या ।
सङ्कष्टहरिणी प्रोक्ता चतुर्थी कृष्णपक्षगा ॥ ३६॥
तस्यापि महिमानं कः क्षमो वर्णयितुं भवेत् ।
सर्वसिद्धिप्रदायास्तु व्रताचरणमात्रतः ॥ ३७॥
माघमासे कृताऽऽदौ च ब्रह्मणा विश्वयोनिना ।
अतः सा मुख्यतां प्राप्ताऽष्टचतुर्थीव्रतैः समा ॥ ३८॥
अङ्गारकयुता तत्र विंशत्या समतां व्रजेत् ।
साधिता व्रतभावेन चेन्नरेण नराधिप ॥ ३९॥
श्रावणे या समाख्याता चतुर्थी कृष्णपक्षगा ।
चतुश्चतुर्थीतुल्या सा भवत्यत्र न संशयः ॥ ४०॥
ब्रह्मणा चोपदिष्टा वै श्रावणे सा ततोऽधिका ।
आदौ देवमुनीन्द्रेभ्यः सर्वसङ्कष्टहारिणी ॥ ४१॥
भाद्रमासे नराधीश चतुर्थी कृष्णपक्षगा ।
चतुश्चतुर्थीतुल्या सा शृणु कारणमत्र वै ॥ ४२॥
देवानां गणनाथश्च वरदः सम्बभूव ह ।
व्रतमात्रेण तस्मात् सा मुख्या जाता न संशयः ॥ ४३॥
अङ्गारकयुता कुत्र सम्प्राप्ता चेत् सुसिद्धिदा ।
द्वादशव्रतजं पुण्यं ददाति व्रतकारिणे ॥ ४४॥
शुक्ला कृष्णा सदा कार्या चतुःपदसुसिद्धये ।
अन्यथा सिद्धिहीनानि प्रभवन्ति व्रतानि च ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चतुर्थीविवेकवर्णनं नाम पञ्चमोऽध्यायः ॥ ४.५
(Page खं. ४ अ. ६ पान ११)
४.६ चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
अङ्गारकयुता स्वामिन् कथं श्रेष्ठा बभूव सा ।
तन्मे ब्रूहि विशेषेण संशयोऽत्र महांश्च मे ॥ १॥
वसिष्ठ उवाच ।
भरद्वाजात् समुत्पन्नः पृथ्व्यां भौमो महामतिः ।
गणानां त्वेतिमन्त्रेण पूजयामास विघ्नपम् ॥ २॥
तताप स तपो रम्यं ध्यात्वा देवं गजाननम् ।
पारिनेराच्च नगरात् पश्चिमे वनसंस्थितः ॥ ३॥
शतवर्षैर्गणाध्यक्षः प्रसन्नस्तं ययौ नृप ।
वरं ब्रूहि महाभाग भूमिपुत्रेति सोऽब्रवीत् ॥ ४॥
ततो भौमो गणाधीशं पूजयन् भक्तिभावतः ।
स्तुत्वा तं स जगादेति वरं सर्वसुखप्रदम् ॥ ५॥
नरदेहेन युक्तोऽहं तथापि गणनायक ।
इच्छामि चामृतं पातुं ग्रहं मां कुरु मानद ॥ ६॥
तव भक्त्येकनिलयं नाम्ना मङ्गलसंज्ञकम् ।
ऋणहर्तारमेवं मां प्रभो कुरु धनप्रदम् ॥ ७॥
माघकृष्णचतुर्थ्यां यद्दर्शनं ते मया कृतम् ।
मया युक्ता ततो देवी महापुण्यप्रदाऽस्तु सा ॥ ८॥
तथेति गणनाथेन कृतं सर्वं नराधिप ।
अतोंऽगारयुता पुण्या चतुर्थी मुख्यतां गता ॥ ९॥
अधुना चेतिहासं ते कथयामि विशेषतः ।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यो निशाकरः ॥ १०॥
तत्र ते कारणं सर्वं कथयामि सविस्तरम् ।
येन दोषविहीनस्त्वं गणेशं भजसे नृप ॥ ११॥
एकदा देवसंयुक्तैर्मुनिभिश्चैव निश्चितम् ।
गणेशांशसमुद्भूताः पञ्च देवा न संशयः ॥ १२॥
ते गणेशस्वरूपाद्वै कदा भिन्ना भवन्ति न ।
तेषां स्मरणमात्रेण सन्तुष्टो गणनायकः ॥ १३॥
भविष्यति न सन्देहस्तस्मादादौ मुनीश्वराः ।
शिवादीन् पूजयत च तेन सिद्धिमवाप्स्यथ ॥ १४॥
एवं ज्ञानबलेनाज्ञैः कृतं देवैः सहर्षिभिः ।
पञ्चभिर्विष्णुमुख्यैस्तत्तथेति प्रतिपादितम् ॥ १५॥
ततः सर्वे मुनिगणाश्चक्रुस्ते तादृशीं क्रियाम् ।
तया सिद्धिविहीनास्ते भ्रान्ताः सर्वे बभूविरे ॥ १६॥
समागता देवगणैः ब्रह्माणं तुष्टुवुर्नृप ।
वृत्तान्तं कथयामासुः सोऽपि चिन्तातुरोऽभवत् ॥ १७॥
सस्मार शिवमुख्यांश्च ब्रह्माणं ते समाययुः ।
विष्णुः शिवोऽर्यमा शक्तिस्तेऽपि श्रुत्वा सुविस्मिताः ॥ १८॥
एतस्मिन्नन्तरे तत्र शब्दः सर्वभयङ्करः ।
बभूव तीव्रघोषेण युक्तः प्रलयसूचकः ॥ १९॥
शब्दं श्रुत्वा भयोद्विग्ना बभूवुः शम्भुमुख्यकाः ।
ततोऽकस्मान् महाभीमः पुरुषः प्रकटोऽभवत् ॥ २०॥
विकरालं च तं दृष्ट्वा मुमूर्च्छुः शङ्करादयः ।
मुनयो देवताः केऽपि पलायन्त च मूर्च्छिताः ॥ २१॥
मुहूर्तमात्रकाले वै गते ब्रह्मादयः सुराः ।
सावधाना बभूवुस्तं ददृशुः पुरतः स्थितम् ॥ २२॥
ततोऽतिभयसंयुक्तास्तुष्टुवुर्गणनायकम् ।
ध्यात्वा हृदि महद्रूपं गजवक्त्रादिचिह्नितम् ॥ २३॥
ब्रह्माद्या ऊचुः ।
नमस्ते गणनाथाय विघ्नानां पतये नमः ।
अनाथानां सुनाथाय नमो विघ्ननिवारण ॥ २४॥
भक्तेभ्यः सर्वदात्रे ते निराकाराय साक्षिणे ।
अमेयायाप्रतर्क्याय हेरम्बाय नमो नमः ॥ २५॥
गजाननाय देवाय शूर्पकर्णाय ते नमः ।
महोदराय सर्वेषामादिपूज्याय वै नमः ॥ २६॥
(Page खं. ४ अ. ६ पान १२)
सर्वादये महादात्रे सर्वपूज्याय वै नमः ।
सर्वभावस्थितायैव ढुण्ढिराजाय ते नमः ॥ २७॥
स्वानन्दवासिने तुभ्यं योगशान्तिमयाय च ।
योगिभ्यो योगदात्रे वै योगानां पतये नमः ॥ २८॥
सृष्टिकर्त्रे च पात्रे ते सृष्टिहर्त्रे नमो नमः ।
गणेशाय गुणानां वै चालकाय नमो नमः ॥ २९॥
आत्मनेऽनात्मने चैव कारणानां प्रकाशिने ।
ब्रह्मेशाय सदानाथ देवपालकरूपिणे ॥ ३०॥
निवारय महाविघ्नं सहसा समुपस्थितम् ।
ग्रसिष्यति न चेदण्डमस्मान् वै नात्र संशयः ॥ ३१॥
त्वदीयपादपद्मस्य वयं दासा गजानन ।
मरिष्यामो यदा नाथ यशस्तव गतं तदा ॥ ३२॥
अधुना रक्ष देवेश न वयं द्रष्टुमुग्रकम् ।
क्षमा गच्छन्ति नः प्राणा रक्ष विघ्नेश रक्ष भोः ॥ ३३॥
एवं संस्तुवतां तेषां पुरः सोऽपि महापुमान् ।
गणेशाकाररूपेण बभूव नृपसत्तम ॥ ३४॥
ततस्ते तं प्रणेमुश्च पूजयामासुरादरात् ।
मानसीं स्वसुतां तस्मै ददुः सर्वे शिवादयः ॥ ३५॥
सरस्वतीं ददौ ब्रह्मा विष्णुः पुष्टिं च मानसीम् ।
योगिनीं शङ्करश्चैव मोहिनीं जगदम्बिका ॥ ३६॥
सञ्जीवनीं ददौ तस्मै भानुः सर्वप्रियङ्करः ।
एवं सम्पूज्य विघ्नेशं प्रणतास्ते महीपते ॥ ३७॥
उवाच तान् स उत्थाप्य विघ्नेशो भक्तिभावतः ।
विष्णुमुख्यान महेशांश्च मेघगम्भीरनिःस्वनः ॥ ३८॥
श्रीगणेश उवाच ।
शम्भुमुख्याः शृणुत च देवेन्द्रा मुनिमुख्यकाः ।
मदीयांशा भवन्तोऽपि गर्वं मा कुरुत प्रियाः ॥ ३९॥
चराचरं मदीयांशं मद्रहितं न किञ्चन ।
तेभ्यः सिद्धिप्रदानार्थं देहधारी भवाम्यहम् ॥ ४०॥
यदि ज्ञानेन मां त्यक्त्वा पूजयेत् तृणरूपकम् ।
तेनाऽहं किं महादेवाः पूजितो वदत प्रियाः ॥ ४१॥
तत्रांशो वर्तते किञ्चिन् मदीयस्तत् समा च मे ।
तृप्तिर्जाता न सन्देहः पूर्णस्तृप्तो भवामि न ॥ ४२॥
भवन्तोऽपि तथा विप्रैः कलांशाः पूजिता यदि ।
कलांशरूपा मे तृप्तिस्तेन जाता गुणात्मिका ॥ ४३॥
ब्रह्माण्डे पूजिते पूर्णे न तृप्तोऽहं भवामि च ।
अनन्तानि मदीयेषु ब्रह्माण्डानि स्वलोमसु ॥ ४४॥
गजवक्त्रादिचिह्नेन चिह्नितोऽहं महेश्वरः ।
जगद्ब्रह्ममयस्तत्र तिष्ठामि योगशान्तिदः ॥ ४५॥
तस्य पूजनमात्रेण जगद्ब्रह्म सुपूजितम् ।
अहं तयोश्च योगे वै पूर्णः सम्पूजितो मतः ॥ ४६॥
मां त्यक्त्वा ज्ञानमोहेन मोहिता मुनिदेवताः ।
भवतां पूजनं चक्रुः सर्वादौ विघ्नसंयुताः ॥ ४७॥
तत्रापि मदसंयुक्ता भवन्तस्तादृशात्मकाः ।
सिद्धिहीनास्ततो जाताः पुनर्मा कुरुत त्विदम् ॥ ४८॥
पूर्वस्मिंश्च भवद्भिर्वै सेवितो भक्तिसंयुतैः ।
अतःसहामि देवेशा दत्तं वो दर्शनं मया ॥ ४९॥
कलांशमात्रेण यदि सन्तुष्टोऽहं भवामि चेत् ।
तदा देहधरः कस्मात् स्थास्यामि वदत प्रियाः ॥ ५०॥
एवमुक्त्वा गणाधीशो विरराम महीपते ।
तेऽपि प्रणम्य विघ्नेशं स्वदोषं प्रक्षमापयन् ॥ ५१॥
एतस्मिन्नन्तरे तत्र चन्द्रः शङ्करभालगः ।
जहास विवृतैर्दन्तैर्गणेशं रूपगर्वितः ॥ ५२॥
उवाच मोहितोऽत्यन्तं प्रणम्य गणनायकम् ।
(Page खं. ४ अ. ६ पान १३)
गजवक्त्रयुतं रूपं किं धृतं विकटं प्रभो ॥ ५३॥
पुनः पुनरुवाचेदं वाक्यं हास्यपरायणः ।
ततस्तं कुपितो देवः शशाप शशलाञ्छनम् ॥ ५४॥
ये त्वां विलोकयन्ते वै चन्द्र ते पापिनः सदा ।
भवन्तु विघ्नसंयुक्ता मद्वाक्यान्नात्र संशयः ॥ ५५॥
एवमुक्त्वान्तर्दधेऽसौ गणेशो ब्रह्मनायकः ।
भार्याभिः सहितो भूप चन्द्रश्च मलिनोऽभवत् ॥ ५६॥
अहङ्कारविहीनास्ते जाताः शम्भ्वादयः सुराः ।
तदारभ्य महाभाग गाणपत्या विशेषतः ॥ ५७॥
वेदज्ञाऽहङ्कृतिः पूर्णा ब्रह्मणो हृदि संस्थिता ।
तया मदयुतो ब्रह्मा भवत्येवं पुनः पुनः ॥ ५८॥
सरस्वती सा दत्ता वै गणेशाय महात्मने ।
तया युक्तः सदा रेमे ब्रह्मणो हृदि विघ्नपः ॥ ५९॥
हृदि स्थिते गणेशे स कथं मोहयुतो भवेत् ।
सदा तं भजते भक्त्या गाणपत्यस्वभावतः ॥ ६०॥
सर्वपोषणता तद्वद्विष्णोर्हृदि समास्थिता ।
तत् सामर्थ्यविमोहेन गर्वं गच्छति केशवः ॥ ६१॥
तां ददौ विघ्नराजाय पुष्टिं विश्वस्य पोषिणीम् ।
तया युक्तो गणेशानो रेमे विष्णोः सदा हृदि ॥ ६२॥
सोऽपि तं भजते नित्यं गाणपत्यविचारवित् ।
हृदिस्थे स कथं मोहं प्राप्नोति नृप विघ्नपे ॥ ६३॥
योगेन मोहहीनत्वं सदा शम्भोर्हृदि प्रभो ।
तेनाहङ्कारभावेन मन्यते किं न शङ्करः ॥ ६४॥
तामेव योगिनीं देवीं हृदिस्थां प्रददौ शिवः ।
गणेशस्तु तया युक्तो रेमे शम्भोर्हृदि स्थितः ॥ ६५॥
गणेशे हृदि संस्थे स मोहं नैव प्रपद्यते ।
सदा गाणेशको भूत्वा भजते गणनायकम् ॥ ६६॥
वृष्ट्या दानप्रदाने वै करोति स दिवाकरः ।
सर्वेषां जीवनं तेन धृतं कर्ममयं नृप ॥ ६७॥
तदेव हृदये तस्य वर्ततेऽहंस्वभावतः ।
तां सञ्जीवनिकां सूर्यो ददौ विघ्नेश्वराय च ॥ ६८॥
तया युक्तो गणाधीशः सदा हृदि स खेलति ।
भानोस्तेन रविस्तं स भजतेऽनन्यचेतसा ॥ ६९॥
शक्तिर्हृदयगां देवीं मोहिनीं सर्वमोहिनीम् ।
ददौ विघ्नेश्वरायैव शक्तिभावसमन्विताम् ॥ ७०॥
तया युक्तो गणेशानस्तस्या हृदि विशेषतः ।
तेन खेलति सा देवी भजते गणनायकम् ॥ ७१॥
इत्यहङ्कारनिर्मुक्ता देवेन्द्रास्ते बभूविरे ।
गाणपत्यप्रिया जाता भजन्ते विघ्ननायकम् ॥ ७२॥
चित्ते चिन्तामणिः स्थित्वा प्रकृत्या खेलति प्रभुः ।
मिथ्याहङ्कारभावेन बन्धनं प्रतिपद्यते ॥ ७३॥
कर्ता कारयिता देवो गणेशो नात्र संशयः ।
हृदिस्थं तं समर्प्यैव स्वात्मानं सुखिनोऽभवन् ॥ ७४॥
मुद्गल उवाच ।
श्रुत्वा दशरथो राजा जगाद मुनिसत्तमम् ।
चन्द्रस्य का गतिर्जाता तां मे वद महामुने ॥ ७५॥
वसिष्ठ उवाच ।
गणेशशापसंयुक्तश्चन्द्रः स स्वगृहे गतः ।
एकान्ते दुःखसंयुक्तो विचारमकरोद्धृदि ॥ ७६॥
सम्प्रज्ञातस्वरूपश्च देहो गणपतेः स्मृतः ।
असम्प्रज्ञातरूपं वै शिरस्तस्य महात्मनः ॥ ७७॥
तयोर्योगे गणेशोऽयं भक्तानुग्रहकारणात् ।
देहधारी स्वयं साक्षाद्बभूवात्र न संशयः ॥ ७८॥
(Page खं. ४ अ. ६ पान १४)
वेदेषु कथितं ते यद्रूपं परमयोगदम् ।
तन्न ज्ञातं मया देव मोहेनैव गजानन ॥ ७९॥
अपराधं दयासिन्धो क्षम त्वं चित्तगं प्रभो ।
एवं क्षमाप्य विघ्नेशं ध्यात्वा लीनो बभूव ह ॥ ८०॥
गङ्गातीरे समागम्य तताप तप उत्तमम् ।
अष्टादशाक्षरेणैव तोषयामास विघ्नपम् ॥ ८१॥
चन्द्रे लीने जगत् सर्वं दुःखयुक्तं बभूव ह ।
सूर्यस्य तेजसा दग्धं रसहीनं चराचरम् ॥ ८२॥
ततो देवगणैः सर्वैर्भयभीतैः समन्ततः ।
शम्भुविष्णुमुखास्तत्र तपस्तेपुः सहेश्वराः ॥ ८३॥
षडक्षरविधानेन ध्यात्वा हृदि गजाननम् ।
भक्तियुक्ता नृपश्रेष्ठ तोषयामासुरादरात् ॥ ८४॥
वर्षाणां शतके तत्र गते चन्द्रं गणाधिपः ।
आययौ वरदानार्थं तपो बद्धो नृपोत्तम ॥ ८५॥
वर्षेणैकेन देवेशान् ययौ विघ्नाधिपो विभुः ।
समकाले च देवेशाश्चन्द्रस्तं तुष्टुवुर्विभुम् ॥ ८६॥
अथर्वशिरसा ढुण्ढिं तोषयामासुरादरात् ।
सन्तुष्टस्तानुवाचेदं गणेशो ब्रह्मनायकः ॥ ८७॥
श्रीगणेश उवाच ।
वरं वृणुत देवेशाः सन्तुष्टोऽहं ददामि तम् ।
यं यमिच्छथ तं तं वै सफलं वः करोम्यहम् ॥ ८८॥
गणेशवचनं श्रुत्वा देवास्तं प्रणिपत्य ते ।
कृत्वा करपुटं सर्वे जगुः परमहर्षिताः ॥ ८९॥
देवा ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा चन्द्रं सुनिर्दोषं कुरु नाथ नमोऽस्तु ते ॥ ९०॥
स तानुवाच सर्वात्मा भक्त्या सन्तोषितः प्रभुः ।
भाद्रशुक्लचतुर्थ्यां वै न द्रष्टव्यः सुधाकरः ॥ ९१॥
हास्यं कृतं मदीयं वै तद् दिने तेन देवपाः ।
दोषयुक्तो विधुस्तस्मान्नान्यथा मे वचो भवेत् ॥ ९२॥
ततोऽतिहर्षिता देवास्तथेति प्रतिपाद्य ते ।
ययुश्चन्द्रं तु सन्द्रष्टुं गणेशेंऽतर्हिते नृप ॥ ९३॥
चन्द्रो गणपतिं दृष्ट्वा ननाम दण्डवत् क्षितौ ।
पूजयामास तं देवं तुष्टाव स कृताञ्जलिः ॥ ९४॥
चन्द्र उवाच ।
नमस्ते विघ्नपालाय गणेशाय परात्मने ।
ब्रह्मेशाय स्वभक्तेभ्यो ब्रह्मभूयप्रदाय ते ॥ ९५॥
अनामयाय सर्वादिपूज्याय तु नमो नमः ।
शिवात्मजाय देवाय विष्णुपुत्राय ते नमः ॥ ९६॥
ब्रह्मपुत्राय सूर्यस्य पुत्र ते विघ्नहारिणे ।
शक्तिपुत्राय शेषस्य पुत्राय च नमो नमः ॥ ९७॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
सर्वेशाय परेशाय परात्परतराय ते ॥ ९८॥
सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिप्रचालक ।
हेरम्बाय महेशानां महेशाय नमो नमः ॥ ९९॥
स्रष्टे पात्रे च संहर्त्रे परमात्मस्वरूपिणे ।
सर्वेभ्यो वरदात्रे तेऽनादिसिद्धाय भो नमः ॥ १००॥
क्षमापराधं देवेश त्वन्मायामोहधारिणः ।
शरणं ते प्रसन्नस्य रक्ष मां महतो भयात् ॥ १०१॥
मां दृष्ट्वा हर्षसम्पन्ना अभवन् देवतादयः ।
अधुना मां निरीक्ष्यैव दोषयुक्ता भयातुराः ॥ १०२॥
अतो मां नैव पश्यन्ति पापिनां पापरूपिणम् ।
निर्दोषं कुरु विघ्नेश करुणालय ते नमः ॥ १०३॥
सर्वदा दर्शनं ते वै ममास्तां विघ्नवारण ।
तेनाऽहं कृतकृत्यश्च भवेयं योगिसम्मतः ॥ १०४॥
ततोऽतिभक्तिसंयुक्तं नृत्यन्तं देवसन्निधौ ।
रोमाञ्चाश्रुसमायुक्तं दृष्ट्वा ढुण्ढिर्जगाद तम् ॥ १०५॥
श्रीगणेश उवाच ।
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
अपराधाननन्तांश्च सहे तेऽनेन निश्चितम् ॥ १०६॥
सर्वसिद्धिप्रदं पूर्णं भविष्यति विशेषतः ।
पठतां शृण्वतां चैव नानासुखकारकं भवेत् ॥ १०७॥
यथापूर्वं स्थितश्चन्द्र तादृशो भव नित्यदा ।
यस्मिन् दिने कृतं हास्यं तत्र दोषयुतो भवेः ॥ १०८॥
ललाटे भूषणं मे त्वं भव सेवापरायणः ।
चतुर्थ्यां कृष्णपक्षस्य व्रते ते पूजनं भवेत् ॥ १०९॥
मां पूजयित्वा तारेश अर्घ्यं यस्ते प्रदास्यति ।
तस्य सिद्धिर्भवेत् पूर्णा व्रतजा नान्यथा क्वचित् ॥ ११०॥
द्वितीयायां च सायाह्ने त्वया प्राप्तोऽहमादरात् ।
अतः शुक्लद्वितीयायां नमस्यो मानवैर्भव ॥ १११॥
द्वितीयायां प्रयत्नेन त्वां नमस्यन्ति मानवाः ।
मासगं दुःखमुत्सृज्य क्वचित् तिष्ठति नान्यथा ॥ ११२॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशश्चन्द्रपूजितः ।
तस्मिन् काले च देवेशा देवास्तत्र समाययुः ॥ ११३॥
मानयामास सम्पूज्य चन्द्रस्तांस्तैः समन्वितः ।
गणेशं ब्राह्मणैः सार्धं संस्थाप्यापूजयत् प्रभुम् ॥ ११४॥
गणेशभालसंस्थानं प्राप्तं चन्द्रेण यत्र वै ।
भालचन्द्रं गणेशानं वदन्ति तत्र संस्थितम् ॥ ११५॥
देवैः सम्पूजितस्तत्र ब्राह्मणैर्गणनायकः ।
प्रगृह्य चन्द्रं निर्दोषं ततः स्वर्गं ययुः सुराः ॥ ११६॥
चन्द्रः स्वांशस्वरूपेण स्वर्गे तिष्ठति भूमिप ।
पूर्णरूपेण विघ्नेशं सेवते नित्यमादरात् ॥ ११७॥
गङ्गातीरे निवासं स चकारात्रिसमुद्भवः ।
विधुश्च भालचन्द्रं तं सेवते भक्तितत्परः ॥ ११८॥
अथ कस्मिंश्च समये देवैः सम्प्रार्थितो हरिः ।
यादवेषु समुत्पन्नो वासुदेवो बभूव ह ॥ ११९॥
अज्ञानेन विधोस्तेन दर्शनं प्रकृतं नृप ।
भाद्रशुक्लचतुर्थ्यां तु सदोषः स बभूव ह ॥ १२०॥
अन्तर्ज्ञानं गतं तस्य नरतुल्यो बभूव सः ।
तथापि विघ्नसंयुक्तो हरिस्तच्छृणु भूमिप ॥ १२१॥
सत्राजिन्नाम राजर्षिर्यादवेषु बभूव वै ।
तेन सूर्यतपस्तप्तं दारुणं शतवत्सरम् ॥ १२२॥
सूर्येण स्वगले संस्थो मणिर्दत्तः स्यमन्तकः ।
सत्राजिते स तद्रत्नं गले भक्त्या बबन्ध ह ॥ १२३॥
नित्यं सुवर्णभाराणामष्टौ स्रवति सन्मणिः ।
सूर्यतेजःसमानश्चाऽशोभयद्यदुनन्दनम् ॥ १२४॥
द्वारकायां स्थितं तं स सूर्यभक्तिपरायणम् ।
शुचिभावेन रत्नं सोऽपूजयत्तान्नरन्तरम् ॥ १२५॥
ततो बहुगते काले कृष्णो दोषयुतोऽभवत् ।
तस्य बुद्धिः समुत्पन्ना मणेः सङ्ग्रहणे नृप ॥ १२६॥
सभायां संस्थितः कृष्णः स सत्राजितमाह्वयत् ।
आगतं तमुवाचाऽसौ विनयेन समन्वितः ॥ १२७॥
श्रीकृष्ण उवाच ।
उग्रसेनश्च सर्वेषां यादवानां महामते ।
राजाऽस्माभिः कृतस्तं ते यादवाः पूजयन्ति भोः ॥ १२८॥
अस्माभिर्दिग्जये प्राप्तमुग्रसेनाय यादव ।
दत्तं श्रेष्ठं तथा त्वं तं मणिं देहि स्यमन्तकम् ॥ १२९॥
सुवर्णं मणिसम्भूतं गृहाण त्वं तु नित्यदा ।
(Page खं. ४ अ. ६ पान १६)
शोभार्थं कण्ठगं तात मणिं कुरु नृपस्य तम् ॥ १३०॥
एवमुक्तः स सत्राजित्तमुवाच समन्युना ।
प्रसेनाय मया दत्तः स मे नैव ददाति तम् ॥ १३१॥
एवमुक्त्वा गृहं गत्वा स्वानुजाय ददौ मणिम् ।
प्रसेनाय स्ववृत्तान्तं कथयामास विस्तरात् ॥ १३२॥
ततः कदाचित् कृष्णेन सहिता यदुनन्दनाः ।
मृगयार्थं वने राजन् जग्मुर्हर्षसमन्विताः ॥ १३३॥
तत्राशुचिस्वभावेन प्रसेनस्तं मणिं परम् ।
बबन्ध स्वगले सोऽपि तैः सह प्रययौ वनम् ॥ १३४॥
अशुचित्वस्य दोषेण सिंहकस्तं प्रसेनकम् ।
साश्वं हत्वाऽऽगृह्य मणिं ययौ स्थानं स्वकं महान् ॥ १३५॥
ततस्तं जाम्बवान् हत्वा गृह्य सिंहं मणिं ययौ ।
स्थानं पुत्र्या मणिं हस्ते तं ददौ स महाबलः ॥ १३६॥
तव भर्ता सुते यो वै भविष्यति मणिं परम् ।
तस्मै दास्यामि भावेन त्वदीयोऽयं मणिः स्मृतः ॥ १३७॥
सायाह्ने यादवाः सर्वे आगताः स्वस्वमन्दिरे ।
प्रसेनेन विहीनास्ते सत्राजित् क्रोधमादधे ॥ १३८॥
अहो कृष्णेन मे भ्राता संहतो नात्र संशयः ।
मणिलोभवशेनाऽपि पापिना पापचेतसा ॥ १३९॥
ततो लोकाः पुरे संस्थाः सत्यमामानयंस्तु ते ।
उग्रसेनादयः सर्वे कृष्णं न्यभर्त्सयन्नृप ॥ १४०॥
ततः कृष्णश्च दुःखार्तः स ध्यानेनावलोकयन् ।
नरवन्न बुबोधाऽपि स दोषो वसुदेवजः ॥ १४१॥
ततोऽतिदुःखितो भूत्वा विचारं देवकीसुतः ।
चकारान्तरजं ज्ञानं क्व गतं मम साम्प्रतम् ॥ १४२॥
नरतुल्यः कथं जातः कारणं नात्र वेद्मि वै ।
देहत्यागं करिष्यामि वृथा लाञ्छनकारणात् ॥ १४३॥
ततः सभां समागम्याऽऽगृह्य यादवमुख्यकान् ।
वनं ययौ प्रसेनस्य निश्चयार्थं महाद्युतिः ॥ १४४॥
पादमार्गं प्रसेनस्य ते सङ्गृह्य महावने ।
गतास्तत्र मृतं साश्वं प्रसेनं ददृशुर्नराः ॥ १४५॥
सिंहेन संहतं दृष्ट्वा मणिहीनं तु यादवाः ।
पुरतस्ते ययुः सर्वे सिंहमार्गप्रधारिणः ॥ १४६॥
ततो महावने सिंहमृक्षेण प्रहतं पुनः ।
ददृशुर्न मणिं तत्र लेभिरे भयसङ्कुलाः ॥ १४७॥
ऋक्षपादं तथाऽऽगृह्य ययुर्यादवमुख्यकाः ।
महावने बिले घोरे गतमृक्षमलोकयन् ॥ १४८॥
ततस्तांस्तत्र संस्थाप्य कृष्णः परपुरञ्जयः ।
बिले सम्प्रविवेशाऽथ लाञ्छनस्यापनोदनात् ॥ १४९॥
बिले योजनमात्रं स गत्वा तत्र ददर्श ह ।
प्रकाशयुक्तं संस्थानं शोभमानं सुविस्तरम् ॥ १५०॥
दोलायां संस्थितं वीक्ष्य मणिं कृष्णो जहर्ष च ।
तत्र सुप्तं शिशुं दृष्ट्वा शनैरागात् स यादवः ॥ १५१॥
ततोऽकस्माज्जाम्बवतो बहिः पुत्री समाययौ ।
अपूर्वं पुरुषं दृष्ट्वा चुक्रोश भयसङ्कुला ॥ १५२॥
ततो जाम्बवता राजन् श्रुतं पुत्र्याः प्ररोदनम् ।
आययौ च स तं दृष्ट्वा युयुधे विष्णुना स्वयम् ॥ १५३॥
गतास्तयोरेकविंशतिघस्रास्तु प्रयुध्यतोः ।
यादवा जग्मिरे सर्वे बहिःस्था अष्टमे दिने ॥ १५४॥
द्वारकायां स्ववृत्तान्तं कथयन्ति स्म विह्वलाः ।
दिवसाः सप्त तत्रैव किलास्माकं गता बहिः ॥ १५५॥
(Page खं. ४ अ. ६ पान १७)
तथापि विवरात् कृष्णो न बहिश्च समागतः ।
मृतो वा जीवितो वा स ज्ञायते किं न यादवः ॥ १५६॥
वसुदेवादयः श्रुत्वा सस्त्रीका नृप दुःखिताः ।
उग्रसेनादयः सर्वे रुरुदुर्दुःखकर्शिताः ॥ १५७॥
परेऽस्माकं विशेषेण शत्रवः संस्थिता अहो ।
जरासन्धादयश्चान्ये किं भविष्यति यादवाः ॥ १५८॥
हीनाः कृष्णेन सञ्जाता अधुना नात्र संशयः ।
द्विषद्भिः संहताः सर्वे मरिष्यामः सपक्षकाः ॥ १५९॥
ततो रामेण ते सर्वे सान्त्विता बहुलोक्तिभिः ।
निःश्वस्य संस्थिता भूप दुःखयुक्ता भयाऽऽतुराः ॥ १६०॥
सत्राजितं निनिन्दुस्ते व्यर्थलाञ्छनदं तदा ।
सोऽपि दुःखसमायुक्तो बभूव भयसङ्कुलः ॥ १६१॥
अथ तं जाम्बवान् कृष्णमुवाच घननिःस्वनः ।
कस्त्वं वीर महातेजा योधयन्नसि मां वद ॥ १६२॥
ततस्तं प्रत्युवाचेदं कृष्णो वचनमुत्तमम् ।
यदुवंशभवं कृष्णं मां जानीहि महामते ॥ १६३॥
श्रुत्वा खेदसमायुक्तो जाम्बवांस्तं ननाम वै ।
रामेणोक्तं वचो रम्यं स त्वं विष्णुः समागतः ॥ १६४॥
अहं दासस्त्वदीयो वै क्षमस्व करुणानिधे ।
अज्ञानाच्छक्तिगर्वेणापराधं युद्धजं च मे ॥ १६५॥
स्तुतः सम्पूजितस्तेन कृष्णो वृत्तान्तमादरात् ।
अगदत्तं ततः श्रुत्वा कन्यायुक्तं मणिं ददौ ॥ १६६॥
गृहीत्वा सस्त्रियं कृष्णो द्वारकायां समागतः ।
आगतं कृष्णमालोक्य हर्षयुक्ता बभूविरे ॥ १६७॥
यादवैश्च ततः कृष्णः समानाय्य महामणिम् ।
सत्राजिते ददौ तत्र सर्वेषां पश्यतां नृप ॥ १६८॥
सत्राजिन् मनसाऽत्यन्तं निन्दयामास तां तनुम् ।
भयभीतः स कृष्णस्य विरोधेन महायशाः ॥ १६९॥
सत्यभामां ददौ तस्मै मणियुक्तां महात्मने ।
कृष्णाय स उवाचेदं श्वशुरो विनयान्वितः ॥ १७०॥
सूर्यभक्तियुतस्त्वं वै मणिं रक्ष महामते ।
दौहित्रास्ते भविष्यन्ति ग्रहीष्यन्ति मणिं च ते ॥ १७१॥
तथेति यादवेनैव कृतं सत्राजिता नृप ।
एतस्मिन्नन्तरे तत्र वृत्तान्तो यादवैः श्रुतः ॥ १७२॥
लाक्षागृहेषु सन्दग्धाः कुन्त्या युक्ताश्च पाण्डवाः ।
पुरोचनेन तज् ज्ञात्वा रुरुदुर्यादवा बहु ॥ १७३॥
रामेण हस्तिनापुर्यां कृष्णः सद्यो जगाम ह ।
धृतराष्ट्रादिभिः सोऽपि रुरोद शोकसङ्कुलः ॥ १७४॥
शतधन्वा ततोऽक्रूरः कृतवर्मा च यादवः ।
मिलिताः क्रोधसंयुक्ता विचारं चक्रुरादरात् ॥ १७५॥
सत्राजिता वयं सर्वे कन्यार्थं संवृताः पुरा ।
अस्मान् सन्त्यज्य कृष्णाय ददौ कन्यां सुरूपिणीम् ॥ १७६॥
कृष्णः पाण्डवशोकार्तोऽभवत् तत्रैव संस्थितः ।
स रामो निश्यतः कार्यं कर्तव्यं तत् त्रिभिः किल ॥ १७७॥
हत्वा सत्राजितं सुप्तं मणिर्ग्राह्यो न संशयः ।
एवं निश्चित्य रात्रौ तं शतधन्वा जगाम ह ॥ १७८॥
सत्राजितं स हत्वा वै मणिं जग्राह दारुणः ।
संस्थाप्य तैलद्रोण्यां तं कृष्णं सत्याययो ततः ॥ १७९॥
श्वशुरं स हतं श्रुत्वा रामेण सहसा गतम् ।
कृष्णं ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥ १८०॥
(Page खं. ४ अ. ६ पान १८)
अक्रूरेण समात्यक्तः कृतवर्माणमाययौ ।
तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥ १८१॥
मणिं तत्रैव निक्षिप्य पपाल भयसङ्कुलः ।
शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥ १८२॥
पलायमानं विज्ञाय कृष्णः सङ्कर्षणान्वितः ।
रथमारुह्य वेगेन तमनु प्रययौ तदा ॥ १८३॥
योजनानां शतं गत्वा ममार ह पुरोऽश्विनी ।
शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥ १८४॥
पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः ।
पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥ १८५॥
ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह ।
शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥ १८६॥
ततः शोकसमायुक्तो बलभद्रमुवाच ह ।
शतधन्वा हतो हीनो मणिना तत्र मानद ॥ १८७॥
उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः ।
मणिस्त्वया सुसङ्गुप्तो मिथ्या वाक् त्वं महाखल ॥ १८८॥
अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् ।
कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥ १८९॥
ततस्तं विनयेनैव सान्त्वयामास केशवः ।
द्विजदेवगवां ते मे शपथो न कृतं मया ॥ १९०॥
तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह ।
विदर्भ राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥ १९१॥
ततोऽतिदुःखसंयुक्तः कृष्णः परमदारुणम् ।
रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥ १९२॥
ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते ।
ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥ १९३॥
अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः ।
नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥ १९४॥
रथसंस्थः समायातो द्वारकायां महायशाः ।
लोकवृत्तान्तमुग्रं स कथयामास विस्तरात् ॥ १९५॥
ततो यादवमुख्यैः स भर्त्सितोऽतिविशेषतः ।
कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥ १९६॥
देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः ।
निनिन्दुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥ १९७॥
समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः ।
मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥ १९८॥
द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे ।
त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥ १९९॥
अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् ।
नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥ २००॥
तं प्रणम्य महात्मानं कृष्णः परमदुःखितः ।
उवाच भावभक्त्या वै कृताञ्जलिपुटः शनैः ॥ २०१॥
श्रीकृष्ण उवाच ।
सर्वैः सन्त्याजितो दुःखी गृहे नित्यं वसाम्यहम् ।
तत्र ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥ २०२॥
ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद ।
एवं पृष्टः पुनः प्राह वृत्तान्तं सर्वमञ्जसा ॥ २०३॥
श्रुत्वा वृत्तान्तमुग्रं वै ध्यानेनालोक्य नारदः ।
देहत्यागे समुद्योगं कुर्वन्तं तमुवाच ह ॥ २०४॥
नारद उवाच ।
भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः ।
शप्तोऽसौ विघ्नराजेन तेन सन्दुःखितो भवान् ॥ २०५॥
(Page खं. ४ अ. ६ पान १९)
देहत्यागं महाबुद्धे मा कुरुष्व विशेषतः ।
गणेशं भज भावेन सङ्कष्टीव्रतसंयुतम् ॥ २०६॥
मिथ्याऽपवादशून्यस्त्वं भविष्यसि न चान्यथा ।
सज्ञानश्च समर्थेशस्तस्मात् तं शरणं व्रज ॥ २०७॥
एवमुक्त्वा महायोगी नारदः प्रययौ ततः ।
गणेशगानसंयुक्तो वीणावादनलालसः ॥ २०८॥
ततः कृष्णः प्रहर्षेण युक्तो विघ्नेशमादरात् ।
अभजद् ध्यानमार्गज्ञो ध्यानेनोग्रेण भूमिप ॥ २०९॥
एकाक्षरेण मन्त्रेणापूजयन्नित्यमेव तम् ।
व्रतं चकार स ततः सङ्कष्टीसंज्ञमुत्तमम् ॥ २१०॥
रात्रावेकान्तसंस्थं तं ध्याननिष्ठं जनार्दनम् ।
निश्चलं गणराजः स ययौ भक्तं सुखप्रदः ॥ २११॥
बोधयामास तं कृष्णं गणेशो ब्रह्मनायकः ।
तमुत्थाय ननामाऽसौ पूजयामास चादरात् ॥ २१२॥
पुनः प्रणम्य तुष्टाव विघ्नेशं सामगेन सः ।
स्तोत्रेणाष्टकसंज्ञेन नाम्ना तं प्रननर्त ह ॥ २१३॥
सरोमाञ्चं गणेशानः कृष्णं दृष्ट्वा जगाद ह ।
वरं वरय मत्तस्त्वं दास्यामि हृदि वाञ्छितम् ॥ २१४॥
गणेशवचनं श्रुत्वा तं जगाद महायशाः ।
कृष्णो भक्त्या समायुक्तो वचनं खेदसंयुतः ॥ २१५॥
श्रीकृष्ण उवाच ।
यदि तुष्टोऽसि विघ्नेश वरदोऽसि विशेषतः ।
तदा ते भक्तिमुग्रां मे देहि ह्यव्यभिचारिणीम् ॥ २१६॥
भाद्रशुक्लचतुर्थ्यां ये चन्द्रं पश्यति विघ्नप ।
ते शापदुःखहीना वै भवन्तु कृपया च ते ॥ २१७॥
अहं चासन्नमरणजनवज्ज्ञानवर्जितः ।
प्रकृतोऽन्यस्य का वार्ता प्रार्थयामि ततः प्रभो ॥ २१८॥
जगाद गणनाथः स ततस्तं भक्तिमोहितः ।
मम भक्तिर्दृढा कृष्ण भविष्यति च तेऽनघ ॥ २१९॥
स्यमन्तकस्य माहात्म्यं त्वदीयं लाञ्छनप्रदम् ।
वरदानं मदीयं च यः शृणोति जनार्दन ॥ २२०॥
पठेत्तु भावयुक्तश्चेन् मां धृत्वा हृदये हरे ।
स एव दोषसंहीनो भवत्वत्र न संशयः ॥ २२१॥
एवमुक्त्वा गणेशानः कृष्णं भक्तिपरायणम् ।
अन्तर्धानं चकाराऽसौ कृष्णस्तत्र समास्थितः ॥ २२२॥
सम्पूर्णं जागरं कृत्वा पञ्चम्यां नियतः प्रभुः ।
पूजयित्वा गणेशानं ददौ दानं विशेषतः ॥ २२३॥
गणेशकृपया तस्यांऽतर्ज्ञानं सम्बभूव ह ।
ग्रहणं च मणेस्तेन ज्ञातमक्रूरकारितम् ॥ २२४॥
सभायां स समागम्याक्रूरं तत्राजुहाव च ।
तं प्रणम्य महाभागमुवाच हास्यसंयुतः ॥ २२५॥
मणिश्च तात सन्त्यक्तो गेहे ते शतधन्वना ।
बलभद्रार्थमद्य त्वं मणिं दर्शय मानद ॥ २२६॥
ततोऽक्रूरेण चानीतो मणिस्तत्र सुसंसदि ।
दृष्ट्वोग्रसेनमुख्यास्ते प्रशशंसुर्जनार्दनम् ॥ २२७॥
अक्रूरश्च विदर्भं तं गत्वा हलधरं प्रभुम् ।
मणिं दत्त्वा समानीय सभायां संस्थितोऽभवत् ॥ २२८॥
समागतं महावीरमनमत् केशवः पुनः ।
सर्वे हर्षयुता जाता द्वारकावासिनस्ततः ॥ २२९॥
निर्दोषं वासुदेवं ते मानयामासुरादरात् ।
राजानः सुहृदः सर्वे नानादेशनिवासिनः ॥ २३०॥
(Page खं. ४ अ. ७ पान २०)
सर्वेषां हृदि संस्थोऽयं गणेशो बुद्धिनायकः ।
तस्यैव कृपया राजन् भवेत् किं किं सुदुर्लभम् ॥ २३१॥
अतो भाद्रचतुर्थ्यां वै न द्रष्टव्यः कदाचन ।
चन्द्रः कदाचित् दृष्टश्चेदिदं श्रोतव्यमादरात् ॥ २३२॥
तेन दोषविहीनश्च जायते नात्र संशयः ।
अन्यथा भ्रष्टभावेन नारकी स नरो भवेत् ॥ २३३॥
स्यमन्तकमणेश्चित्रं चरितं कथितं परम् ।
चन्द्रदर्शनजं दोषं हरति श्रवणेन च ॥ २३४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते भाद्रशुक्लचतुर्थी
चन्द्रदर्शनदोषहरणचरितवर्णनं नाम षष्ठोऽध्यायः ॥ ४.६
४.७ भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं मया महाख्यानं त्वत्तो वेदविदांवर ।
चतुर्थ्योरुभयोः सारं माहात्म्येन समन्वितम् ॥ १॥
तथापि वद मे ब्रह्मन् पृथक् व्रतसमुद्भवम् ।
चरित्रं विस्तरेणैव केन केन कृतं पुरा ॥ २॥
कीदृशी चाऽभवत् सिद्धिः केन प्राप्तो गजाननः ।
श्रुत्वा व्रतस्य माहात्म्यं यामि नो तृप्तिमादरात् ॥ ३॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी वसिष्ठः परमार्थवित् ।
जगाद तं प्रजानाथ शृणु तत् सुखदं परम् ॥ ४॥
वसिष्ठ उवाच ।
आदौ शम्भ्वादिभिश्चैतत् कृतं व्रतमनुत्तमम् ।
कृष्णशुक्लचतुर्थ्यां यदुपोषणपरायणैः ॥ ५॥
ततः स्वायम्भुवाद्यैश्च कृतं सर्वार्थसिद्धिदम् ।
ततो मुनिगणैः सर्वैरन्यैर्वर्णस्थजन्तुभिः ॥ ६॥
अधुनाऽहं पृथक्त्वेन कथयामि व्रतोद्भवम् ।
माहात्म्यं सर्वदं पुण्यं सङ्क्षेपेण शृणुष्व तत् ॥ ७॥
पुरा दौष्यन्तिको नाम भरतः सम्बभूव ह ।
तेजस्वी वीरमुख्येशः शस्त्रास्त्रज्ञः प्रतापवान् ॥ ८॥
जित्वा भूमण्डलं सर्वं सार्वभौमो बभूव ह ।
सप्तद्वीपवतीं पृथ्वीमपालद्धर्मसंयुतः ॥ ९॥
तद्देशे दैवयोगेन ह्यनावृष्टिः सुदारुणा ।
बभूव सर्वलोकास्ते भयभीता बभूविरे ॥ १०॥
चराचरं व्यथायुक्तं दृष्ट्वा राजा महायशाः ।
कण्वं मुनिवरं शान्तं ययौ शरणमादरात् ॥ ११॥
तं प्रणम्य महात्मानं पूजयामास भक्तितः ।
कृत्वा करपुटं तस्याऽग्रे स्थितो भरतोऽभवत् ॥ १२॥
तमुवाच महायोगी गाणपत्यप्रियः सदा ।
कण्वो वेदार्थसन्निष्ठो भरतं राजसत्तमम् ॥ १३॥
कण्व उवाच ।
किमर्थमागतो राजन् कुशलं ते महामते ।
अस्ति देशादिभावेषु तिष्ठ त्वं चासनोत्तमे ॥ १४॥
कण्वस्य वचनं श्रुत्वा हर्षयुक्तो महीपतिः ।
मुनिदत्ते विवेशासावासने स कृताञ्जलिः ॥ १५॥
उवाच तं महात्मानं कण्वं वेदविदां वरम् ।
भरतो राजनीतिज्ञो भक्तियुक्तो विशेषतः ॥ १६॥
भरत उवाच ।
त्वत्प्रसादेन योगीन्द्र कुशलं मे प्रवर्तते ।
दैवयोगेन तदपि दुःखितोऽहं समागतः ॥ १७॥
(Page खं. ४ अ. ७ पान २१)
नित्यं स्वधर्मयुक्तेन मया सम्पालिता मही ।
देवव्रतातिथिप्राज्ञप्रीत्यर्थं योगिसत्तम ॥ १८॥
वर्णाश्रमाचारयुता जनाः सर्वे भवन्ति च ।
तथापि पापजं दुःखं सम्प्राप्तं तन्न वेद्म्यहम् ॥ १९॥
अनावृष्टिश्च सम्भूता प्रभो सर्वत्र दुःखदा ।
चराचरं भयोद्विग्नं बभूव रसहीनतः ॥ २०॥
तदर्थं त्वां महायोगिन्नागतोऽहं विशेषतः ।
त्वद्दर्शनजपुण्येन सफलो मे भवोऽभवत् ॥ २१॥
अधुना ब्रूहि पापस्य स्वरूपं तन्निहन्म्यहम् ।
येन वृष्टिर्भवेत् पूर्णा तथा कुरुष्व मानद ॥ २२॥
ततस्तं नृपशार्दूलमुवाच मुनिसत्तमः ।
कण्वः श्रुत्वा च वृत्तान्तं दयायुक्तः स्वभावतः ॥ २३॥
कण्व उवाच ।
शृणु राजन् महत् पापं तव राज्ये प्रवर्तितम् ।
तेनाऽवृष्टिभवं दुःखं प्रादुर्भूतं न संशयः ॥ २४॥
चतुःपदविहीनं ते राज्यं भवति निश्चितम् ।
जनैः सर्वैः सुशीलैश्च पापं घोरं कृतं महत् ॥ २५॥
त्वं पापशीलभावेन वर्तसे जनवत्सल ।
धर्मार्थकाममोक्षैश्च हीनोऽसि पुरुषाधम ॥ २६॥
चतुर्थीसम्भवं तात व्रतं सर्वार्थसिद्धिदम् ।
कार्ष्णं शौक्लं सुविख्यातं भ्रष्टं राज्येऽभवन्नृप ॥ २७॥
चतुर्विधं जगत्सर्वं स्थूलसूक्ष्मादिभेदतः ।
सङ्कष्टं यत्तदेव त्वं जानीहि नृपनायक ॥ २८॥
चतुर्विधं च सङ्कष्टं हरति व्रतकारिणः ।
सा सङ्कष्टचतुर्थी वै कृष्णा ते कथिता मया ॥ २९॥
चतुर्विधं या ददाति सा शुक्ला वरदा मता ।
सञ्चितं नास्ति चेद्राजन् व्रतकारिजनाय वै ॥ ३०॥
चतुर्थीजं स माहात्म्यं कथयामास विस्तरात् ।
कण्वस्तद्भरतायैव स्वशिष्याय विशेषतः ॥ ३१॥
व्रतानि वै निष्फलानि चतुर्थीहीनकानि चेत् ।
ज्ञात्वा प्रणम्य तं राजोवाच हर्षसमन्वितः ॥ ३२॥
भरत उवाच ।
स्वामिन् वद गणेशस्य माहात्म्यं सर्वसिद्धिदम् ।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ ३३॥
कण्व उवाच ।
शृणु राजन् गणेशस्य माहात्म्यं सर्वदं परम् ।
क्रतुना कथितं मे यद्ब्रह्मपुत्रेण धीमता ॥ ३४॥
एकदाऽहं तपोयुक्तस्तिष्ठामि स्वाश्रमे पुरा ।
वायुमात्राशनो भूत्वा तपामि स्म तपो महत् ॥ ३५॥
मदीयतपसा सर्वं व्याप्तमासीन्नराधिप ।
तथापि योगमास्थाय संस्थितोऽहं विशेषतः ॥ ३६॥
ततः प्रजापतिः साक्षादाश्रमे मे समागतः ।
क्रतुर्योगीन्द्रवन्द्यो यो गाणपत्यो महायशाः ॥ ३७॥
तं प्रणम्य महात्मानं पूजयित्वा पुरः स्थितम् ।
कृताञ्जलिं मामुवाच स तथा भक्तवत्सलः ॥ ३८॥
क्रतुरुवाच ।
वत्स तिष्ठस्व मे दत्त आसने किं महामते ।
इच्छा ते वद मां तात करिष्यामि हि तं च ते ॥ ३९॥
तस्य तद्वचनं श्रुत्वा हर्षितोऽहं नराधिप ।
आसने समुपावेश्यावदत्तं विनयान्वितः ॥ ४०॥
कण्व उवाच ।
तव दर्शनमात्रेण कृतकृत्योऽस्मि साम्प्रतम् ।
तथापि शान्तिदं योगं वद पूर्णं दयानिधे ॥ ४१॥
क्रतुरुवाच ।
सम्यक् पृष्टं त्वया वत्स श्रेष्ठाच्छ्रेष्ठतमं महत् ।
कथयामि महाभाग ब्रह्मणः संश्रुतं मया ॥ ४२॥
(Page खं. ४ अ. ७ पान २२)
तपस्त्यक्त्वा पुरा तात योगमार्गपरायणः ।
न शान्तिं प्रलभे तत्र योगभूमिं प्रसाधयन् ॥ ४३॥
ततोऽहं पितरं गत्वा ब्रह्माणं सर्ववेदिनम् ।
वन्द्यं तं योगशान्त्यर्थमपृच्छं विनयान्वितः ॥ ४४॥
स्वामिन् शान्तिप्रदं ब्रह्म कीदृशं वद मे प्रभो ।
केन योगेन लभ्यं तत् प्रभवेत् कृपयान्वितः ॥ ४५॥
ब्रह्मोवाच ।
योगशान्तिप्रदं ब्रह्म गाणेशं विद्धि पुत्रक ।
मनोवाणीमयं सर्वं त्यज योगस्य सेवया ॥ ४६॥
मनोवाणीविहीनं यदेव तत्तादृशं मतम् ।
गणेशोऽहं न भिन्नश्च ब्रह्मणां नायकः स्मृतः ॥ ४७॥
मनोवाणीमयः प्रोक्तो गकारो वेदवादतः ।
मनोवाणीविहीनश्च णकारः सर्वसम्मतः ॥ ४८॥
तयोः स्वामी गणेशानो नाम्ना गणपतेर्यदा ।
गकारस्य णकारस्य योगो वेदप्रमाणतः ॥ ४९॥
समाधिना लभ्यते यच्चित्तेन च महामते ।
गकाराक्षरगं ज्ञानं ज्ञातव्यं वेदवादतः ॥ ५०॥
चित्तेन यन्न लभ्येत णकारं विद्धि मानद ।
ज्ञानाज्ञानमयं चित्तं त्यक्त्वा शान्तिमवाप्स्यसि ॥ ५१॥
एतदेव परं गुह्यं शान्तिदं कथितं मया ।
तदर्थं गणराजं त्वं भजस्व भावसंयुतः ॥ ५२॥
एकाक्षरं महामन्त्रं गृहाण त्वं महामते ।
ध्यानयोगेन विघ्नेशं प्राप्स्यसि त्वं न संशयः ॥ ५३॥
एवमुक्त्वा महामन्त्रं ददौ मह्यं विधानतः ।
तं प्रणम्य वने तात गतोऽहं योगकारणात् ॥ ५४॥
क्रमेण चित्तभूमीनां योगं त्यक्त्वा मया परम् ।
चित्तं चिन्तामणौ पुत्र क्षिप्तं तद्रूपभावतः ॥ ५५॥
ततो योगीन्द्रवन्द्योऽहं जातस्तदपि नित्यदा ।
गणेशध्यानसंयुक्तोऽभवं तद्भक्तिकाम्यया ॥ ५६॥
ततो विघ्नपतिः साक्षाद्दर्शनं मे ददौ मया ।
स्तुतः सम्पूजितः सोऽपि ददौ स्वभक्तिमुत्तमाम् ॥ ५७॥
तदादिगाणपत्योऽहं जातः सर्वैश्च वन्दितः ।
भजस्व गणराजं तमतस्त्वं योगकाम्यया ॥ ५८॥
कण्व उवाच ।
एवमुक्त्वा महायोगी मह्यं मन्त्रं ददौ ततः ।
एकाक्षरं यथान्यायमन्तर्धानं चकार ह ॥ ५९॥
अहं तथा गणेशानं साधयित्वा विशेषतः ।
शान्तिं प्राप्तस्तं तथापि भजाम्यनन्यचेतसा ॥ ६०॥
अतस्त्वमपि राजेन्द्र भज विघ्नपतिं सदा ।
चतुर्थीव्रतसंयुक्तो ब्रह्मभूतो भविष्यसि ॥ ६१॥
तत एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः ।
कण्वं प्रणम्य राजर्षिर्ययौ स्वनगरे तदा ॥ ६२॥
तस्मिन् काले चतुर्थी सा शुक्ला भाद्री समागता ।
कृता तेन सुभक्त्या वै नगरस्थजनैः सह ॥ ६३॥
ततः सर्वत्र सङ्घोषः कृतस्तेन महीभृता ।
शुक्लां कृष्णां चतुर्थीं ये नाऽऽचरिष्यन्ति नित्यदा ॥ ६४॥
ते दण्डैः पीडनीया वै ततः सर्वेऽभवन् जनाः ।
व्रतकारिण एतस्मात् पुण्यात् वृष्टिर्बभूव ह ॥ ६५॥
हृष्टपुष्टजनाः सर्वे तया जाता नृपात्मज ।
रोगादिदोषहीनास्ते भजंस्तं गणनायकम् ॥ ६६॥
भरतः स्म महाराजोऽभजत्सोऽनन्य चेतसा ।
गणेशं भक्तिसंयुक्तो गाणपत्यप्रियोऽभवत् ॥ ६७॥
स पुत्रे राज्यमुग्रं तन्निक्षिप्य वनगोऽभवत् ।
(Page खं. ४ अ. ८ पान २३)
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ॥ ६८॥
क्रमेण भूमिसंस्था येऽभवन् स्वानन्दगा जनाः ।
चतुर्थी पुण्ययोगेन यथा योगपरायणाः ॥ ६९॥
स्पर्शेन भरतस्यैव जनाः कीटादिका नृप ।
पुण्यरूपा बभूवुस्तेऽथान्ते स्वानन्दगामिनः ॥ ७०॥
एतादृशेन भूपेन पुण्यशालिजनाः कृताः ।
यज्ञैः सर्वा धरा येन चित्रिता पुण्यकारिणा ॥ ७१॥
भरतेन समो राजन् न कश्चित् प्रबभूव ह ।
ज्ञानेन स्वबलेनाऽपि यशसा धर्मशालिना ॥ ७२॥
भाद्रशुक्लचतुर्थ्यास्तु महिमा कथितो मया ।
चतुर्वर्गफलैर्युक्तो ब्रह्मभूयपदप्रदः ॥ ७३॥
भाद्रशुक्लचतुर्थ्यां तु माहात्म्यं यः शृणोति चेत् ।
पठेद्वा तस्य राजेन्द्र सर्वदं प्रभवेद् ध्रुवम् ॥ ७४॥
भाद्रशुक्लचतुर्थ्यां वै शङ्करस्य हृदि प्रभुः ।
प्रादुर्बभूव मध्याह्ने ध्यानजः स सुतोऽभवत् ॥ ७५॥
तदादि सा तिथिर्मुख्या बभूव जन्मधारिणी ।
गणेशस्य न सन्देहो ब्रह्मभूयपदप्रदा ॥ ७६॥
सृष्ट्यादौ पञ्च देवेशैः स्थापिता मूर्तिरुत्तमा ।
मयूरे गणनाथस्य मध्याह्ने भाद्रगे तिथौ ॥ ७७॥
मयूरेशावतारो भाद्रपदेयो बभूव सः ।
मध्याह्ने शङ्करगृहे चतुर्थ्यां शुक्लपक्षके ॥ ७८॥
तस्यां ये मृन्मयीं मूर्तिं पूजयन्ति नरादयः ।
देवाः शङ्करमुख्याश्च महोत्सवपरायणाः ॥ ७९॥
ते सर्वे विघ्नहीनाश्च भवन्ति सुखभोगिनः ।
अन्ते स्वानन्दगा भूप ब्रह्मभूता भवन्ति च ॥ ८०॥
मध्याह्ने पूजनं प्रोक्तं गणेशस्य विशेषतः ।
उपोषणसमायुक्तैश्चतुर्थ्यां व्रतकारिभिः ॥ ८१॥
पञ्चम्यां पारणं कृत्वा द्विजैः सह महामते ।
मूर्तिं तां मृन्मयीं पूज्यां विसृज्य निनयेज्जलम् ॥ ८२॥
चतुर्थ्यां मृन्मयीं मूर्तिं भाद्रे ये नार्चयन्ति चेत् ।
तेषां निष्फलरूपं वै कर्म सर्वं भविष्यति ॥ ८३॥
न तेषां दर्शनं कार्यं नरैरात्महितेप्सुभिः ।
पतितास्ते मताः शास्त्रे नारकाश्च भवन्त्यतः ॥ ८४॥
इह विघ्नसमायुक्ता नानारोगप्रपीडिताः ।
दारिद्र्यादिसमायुक्ता महापापा मता नृप ॥ ८५॥
चतुर्थ्यां सर्ववर्णस्थैर्भाद्रे पूज्यो गजाननः ।
मृन्मयो विघ्नहीनास्ते भवन्ति सफलक्रियाः ॥ ८६॥
इयं भाद्रपदे मासि चतुर्थी शुक्लरूपिणी ।
तस्याश्चरितमाद्यं ते कथितं स्वल्पभावतः ॥ ८७॥
अत्र ते वर्णयिष्येऽहं इतिहासं पुरातनम् ।
तच्छृणुष्व महाभाग चतुर्थीव्रतजं महत् ॥ ८८॥
द्राविडे नगरे राजंश्चाण्डालः कोऽपि पापकृत् ।
कुष्ठरोगयुतः पूर्णः परस्त्रीलम्पटोऽभवत् ॥ ८९॥
चतुर्थ्यां भाद्रमासे स ज्वरयुक्तो बभूव ह ।
ज्वरस्य पीडयाऽत्यन्तं पीडितो राजसत्तम ॥ ९०॥
अन्नेन स जलेनाऽपि हीनोऽभूद्दैवयोगतः ।
पञ्चम्यां मरणे प्राप्ते विमानेन जगाम ह ॥ ९१॥
तस्याङ्गस्पर्शतो वायुर्यमलोके जगाम ह ।
तेन स्पृष्टा नरास्तत्र नरकस्थाः समन्ततः ॥ ९२॥
ते सर्वे यानगा भूत्वा गताः स्वानन्दके पुरे ।
दृष्ट्वा गणपतिं तैः स ब्रह्मभूतो बभूव ह ॥ ९३॥
व्रतमज्ञानतश्चैवं फलप्रदमिदं मतम् ।
(Page खं. ४ अ. ८ पान २४)
यथाविधि कृतं येन तत्र चित्रं किमप्यहो ॥ ९४॥
चतुर्थ्या महिमाऽयं कथयितुं न प्रशक्यते ।
पुरुषार्थाश्च चत्वारः प्राप्यन्ते व्रतमात्रतः ॥ ९५॥
मुद्गल उवाच ।
वसिष्ठवचनं श्रुत्वा दशरथस्तमब्रवीत् ।
शृणु दक्ष महाभाग तां कथां पावनीं प्रभो ॥ ९६॥
दशरथ उवाच ।
चाण्डालो गणनाथस्य पुपूज स न मृन्मयीम् ।
मूर्तिं दोषी कथं स्वामिन् ब्रह्मभूतो बभूव ह ॥ ९७॥
वसिष्ठ उवाच ।
सम्यक् पृष्टं त्वया राजन् शृणु संशयनाशनम् ।
ज्ञानं ते कथयिष्यामि भवेल्लोकोपकारदम् ॥ ९८॥
चाण्डालस्य चतुर्थ्यास्तु ज्ञानं नाऽभूद् दुरात्मनः ।
पूजनं च तथा तस्योल्लङ्घनं न ततोऽभवत् ॥ ९९॥
अतोऽयं दोषहीनश्च स्वानन्दस्थो बभूव ह ।
पूजनोल्लङ्घनाभ्यां स वर्जितो ज्ञानभावतः ॥ १००॥
एवं नानाजनाश्चेह भुक्त्वा तु विविधं सुखम् ।
अन्ते स्वानन्दगा राजन् बभूवुर्व्रतमात्रतः ॥ १०१॥
तत्रैकं कथितं प्रोक्तुं नालं वर्षायुतैरपि ।
पूर्णं भवति माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ १०२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते भाद्रपदशुक्लचतुर्थीव्रतवर्णनं नाम सप्तमोऽध्यायः ॥ ४.७
४.८ व्रतवर्णनं नामाष्टमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
वसिष्ठ उवाच ।
आश्विने वरदात्री या चतुर्थी शुक्लपक्षगा ।
तां शृणुष्व महाभाग सव्रतां सर्वदायिनीम् ॥ १॥
इतिहासं प्रवक्ष्यामि पुरातनभवं नृप ।
व्रतसंयुक्तमाहात्म्यं भवेत् सर्वार्थसाधकम् ॥ २॥
रैवतान्तरगो राजा कीर्तिमांश्च बभूव ह ।
मतो नाम्ना धर्मधरः पूर्णशस्त्रास्त्रपारगः ॥ ३॥
देवविप्रातिथिप्रेप्सुः पञ्चयज्ञपरायणः ।
नीतिज्ञः पुत्रवल्लोकान् पालयन् स्वहिते रतः ॥ ४॥
भार्या तस्याऽभवत् साऽपि पातिव्रत्यगुणान्विता ।
सर्वलक्षणसंयुक्ता विप्रदेवातिथिप्रिया ॥ ५॥
गजानां च हयानां वै पदातीनां महीपतेः ।
रथानां नैव सङ्ख्याऽस्ति धानुष्काणां विशेषतः ॥ ६॥
सप्तद्वीपवतीं पृथ्वीं पालयन् स नराधिपः ।
देवादीनां च सङ्ग्रामे ह्यजेयः परवीरहा ॥ ७॥
तस्य वन्ध्यत्वदोषेण नृप पुत्रो बभूव नो ।
नानायत्नपरो राजा पुत्रार्थे प्रबभूव ह ॥ ८॥
तीर्थयात्रादिकं सर्वं चकार विधिवन्नृपः ।
अनुष्ठानव्रतादीनि देवानां पूजनं तथा ॥ ९॥
एवं नानाविधैः पुण्यैर्न बभूव सुतस्ततः ।
राज्यं त्यक्त्वा वने राजा सस्त्रीकः स जगाम ह ॥ १०॥
तत्र भ्रमणयुक्तः स ददर्श ह महावनम् ।
सिंहव्यालादिसंयुक्तं भयदं सर्वजन्मिनाम् ॥ ११॥
दुःखयुक्तः स राजर्षिः प्रवेशं स चकार ह ।
वने तत्र मुनिश्रेष्ठं सौभरिं सन्ददर्श च ॥ १२॥
तं प्रणम्य महाभागः सस्त्रीकः पुरतो मुनेः ।
कृताञ्जलिपुटो भूत्वा तस्थौ स नृपसम्मुखः ॥ १३॥
(Page खं. ४ अ. ८ पान २५)
ततः सौभरिणा सोऽपि सत्कृतो वचनेन च ।
निषसादासने तत्र मुनिना दर्शिते नृपः ॥ १४॥
तमुवाच महाभागं राजानं मुनिसत्तमः ।
कोऽसि त्वं वन उग्रे मेऽत्र किमर्थं समागतः ॥ १५॥
इति पृष्टो महीपालस्तमुवाच सुहर्षितः ।
कीर्तिमान् सर्वधर्मज्ञः कृत्वा करपुटं वचः ॥ १६॥
कीर्तिमानुवाच ।
द्राविडे वसतिर्मेऽस्ति नगरे सुरसत्तमे ।
राज्यं करोमि तत्राऽहं सार्वभौमो महामुने ॥ १७॥
अपुत्रो दैवयोगेन जातोऽहं मुनिसत्तम ।
पुत्रार्थे व्रततीर्थादीन् नानाधर्मान् करोमि वै ॥ १८॥
राज्यं त्यक्त्वा वने योगिन्नागतः पुत्रकाम्यया ।
तत्र ते दर्शनं प्राप्तं सर्वसिद्धिप्रदं प्रभो ॥ १९॥
तव दर्शनमात्रेण सफलो मे भवो भवेत् ।
मातृपित्रादिकं सर्वं धन्यं जातं न संशयः ॥ २०॥
अधुना ब्रूहि मे नाथ पुत्रप्राप्त्यर्थमादरात् ।
उपायं तं चरिष्यामि त्वदाज्ञावशगो मुने ॥ २१॥
इह जन्मनि भो विप्र न कृतं पापमुल्बणम् ।
मया राज्यं कृतं भूमेर्भययुक्तेन चेतसा ॥ २२॥
तथापि वन्ध्यजो दोषो मया प्राप्तो महामुने ।
पूर्वजन्मकृतं पापं ज्ञायते नैव चेतसा ॥ २३॥
कथयस्व महोग्रं मे पापं सर्वविदां वर ।
योगीन्द्रोऽसि महातेजाः साक्षाद्ब्रह्मतनोर्धरः ॥ २४॥
वसिष्ठ उवाच ।
एवं विनययुक्तेन राज्ञा पृष्टो महामुनिः ।
सौभरिस्तं जगादेदं वचनं गणपप्रियः ॥ २५॥
सौभरिरुवाच ।
कृतं त्वया महत्पापं महाराज विशेषतः ।
पूर्वजन्मकृतं नैव पापं ते विद्यतेऽधम ॥ २६॥
तव राज्ये महामूर्ख चतुर्थीव्रतमुत्तमम् ।
लयं प्राप्तं विशेषेण व्रतादौ फलदं मतम् ॥ २७॥
चतुर्थीव्रतमाद्यं यन्मानवेन नराधम ।
न कृतं चेद्व्रतानीह निष्फलानि भवन्ति च ॥ २८॥
विशेषतस्त्वया कर्म नानापुण्यादिकं कृतम् ।
चतुर्थीहीनभावेन निष्फलं तद्बभूव ह ॥ २९॥
चतुर्विधपदार्थानां दात्री सा वरदा मता ।
चतुर्विधं तु सङ्कष्टं हरन्ती सङ्कटी मता ॥ ३०॥
भुनक्ति राजा पापं राष्ट्रकृतं शास्त्रसम्मतम् ।
जनानां व्रतहीनानां पापभागी भवान् मतः ॥ ३१॥
अतः पापमयी मूर्तिस्त्वमेवात्र न संशयः ।
तेन वन्ध्यत्वमापन्नो नराधम न बुद्ध्यसे ॥ ३२॥
सौभरेर्वचनं श्रुत्वा कीर्तिमांस्तं जगाद ह ।
विनयेन समायुक्तो भयभीतश्च पार्थिवः ॥ ३३॥
कीर्तिमानुवाच ।
अज्ञानेन कृतं कर्म मया स्वामिन् सुपापिना ।
कीदृशं तद्व्रतं विप्र मह्यं वद विधानतः ॥ ३४॥
पुत्रप्राप्त्यर्थमेवं मे वदोपायं महामते ।
येन पापविहीनोऽहं भवामि पुत्रवान् सुखी ॥ ३५॥
सौभरिरुवाच ।
चतुर्थीव्रतमाद्यं त्वं कुरुष्व नृप नित्यदा ।
जनैः सर्वैस्तदा सर्वपापहीनो भविष्यसि ॥ ३६॥
अज्ञानेन करोषि स्म पापं ज्ञात्वाऽनुतापवान् ।
व्रताचरणमात्रेण निष्पापः पुण्यभाग् भवेः ॥ ३७॥
इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् ।
ततः सोऽपि महाबुद्धिः पप्रच्छ विनयान्वितः ॥ ३८॥
कीर्तिमानुवाच ।
(Page खं. ४ अ. ८ पान २६)
कीदृशोऽयं गणाधीशो व्रतं यस्य चतुःपदम् ।
ब्रह्मभूयकरं प्रोक्तं भजिष्यामि विशेषतः ॥ ३९॥
ततस्तं मुनिशार्दूलः सौभरिः पुनरब्रवीत् ।
माहात्म्यं गणनाथस्य शान्तियोगपदप्रदम् ॥ ४०॥
सौभरिरुवाच ।
पुराऽहं तपसा युक्तो नानाछन्दपरायणः ।
अभवं तत्र देवा वै भयभीता बभूविरे ॥ ४१॥
अहो तपःप्रभावेण जित्वा सर्वं द्विजोत्तमः ।
किमिच्छति पदं श्रेष्ठं ज्ञायतेऽस्माभिरेव न ॥ ४२॥
प्रेषयामास सस्त्रीकं ततः कामं सुराधिपः ।
तपोभङ्गार्थमेवं मे कामस्तत्र समागतः ॥ ४३॥
उर्वशीसहिताभिश्चाप्सरोभिर्मधुना तथा ।
आत्तबाणः स्वयं कामः पीडयामास मां शरैः ॥ ४४॥
अहं तपःप्रभावेण जित्वा कामं सह स्त्रिया ।
मोहहीनस्तपस्तत्राऽतपं सुदृढनिश्चयः ॥ ४५॥
ततो मे तपसोग्रेण दाहयुक्तो बभूव ह ।
कामः पलाय्य सर्वैस्तं मघवन्तं जगाद सः ॥ ४६॥
ततोऽहं योगमार्गेणांऽतर्निष्ठश्चाभवन्नृप ।
जडोन्मत्तादिमार्गेषु संस्थितो योगकारणात् ॥ ४७॥
ततः शुको महायोगी गाणपत्यः समागतः ।
ममाश्रमे स मां दृष्ट्वा जगादेच्छसि किं मुने ॥ ४८॥
ततस्तं प्रणतो भूत्वा कृताञ्जलिः पुरः प्रभोः ।
स्थित्वाऽवदं सुवाक्यं तच्छृणु राजन् सुसिद्धिदम् ॥ ४९॥
मम श्रेष्ठेन भाग्येन त्वं प्राप्तोऽसि महायशाः ।
शान्तिं वद महायोगिन् यया शान्तो भवाम्यहम् ॥ ५०॥
श्रीशुक उवाच ।
चित्तं पञ्चविधं त्यक्त्वा चित्तं कृत्वा च तन्मयम् ।
निरोधेनैव भूमीनां शान्तिं प्राप्स्यसि निश्चितम् ॥ ५१॥
चिन्तामणिं भजस्व त्वं मन्त्रेणैकाक्षरेण च ।
तेन चिन्तामणौ विप्र सञ्चित्तः सुभविष्यसि ॥ ५२॥
त्यक्त्वा जडादिकं मार्गं शमदमपरायणः ।
गणनाथं महाभाग भज यत्नेन नित्यदा ॥ ५३॥
एवमुक्त्वा शुको योगी ययौ स्वेच्छापरायणः ।
गणेशनाम सङ्कीर्त्य जपंश्चैव विशेषतः ॥ ५४॥
अहं गणपतिं भक्त्याऽभजं सम्भक्तिसंयुतः ।
एकाक्षरविधानेनाऽऽस्थाप्य मूर्तिं पुरो नृप ॥ ५५॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमादरात् ।
तथापि पूजने सक्तोऽभजं तं गणनायकम् ॥ ५६॥
दशवर्षे गते काले विघ्नेशो मां समागतः ।
मया सम्पूजितो राजन् स्तुतश्च विविधैः स्तवैः ॥ ५७॥
गाणपत्यपदं दत्त्वा गतः स्वानन्दके पुरे ।
तदादि गाणपत्योऽहं भजामि ब्रह्मनायकम् ॥ ५८॥
एवमुक्त्वा स राजानं ददौ मन्त्रं विधानतः ।
षडक्षरं स राजर्षिस्तं प्रणम्य ययौ पुरम् ॥ ५९॥
स आश्विन्यां द्वितीयायां शुक्लायां तु गृहे गतः ।
तस्मिन् मासे चतुर्थ्यां च शुक्लायां व्रतमारभत् ॥ ६०॥
जनैः सर्वैः समायुक्त उपोषणपरायणः ।
मध्याह्ने गणपं तत्र प्रपूज्य विधिवन्नृपः ॥ ६१॥
रात्रौ जागरणं चक्रे बालवृद्धसमन्वितः ।
नरैः स्त्रीभिस्तद्व्रतं च कृतं सर्वैर्यथातथम् ॥ ६२॥
शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः ।
ताडनीयाः प्रयत्नेन पृथिव्यां यत्र तत्र सः ॥ ६३॥
(Page खं. ४ अ. ९ पान २७)
घोषेण घोषयामास ततः सर्वे तथाऽभवन् ।
व्रतं ततो वै बभूव प्रशस्तं भूमिमण्डले ॥ ६४॥
एवं भूमण्डले राज्यं कृत्वा पुत्रे निवेद्य सः ।
वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥ ६५॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तस्य राज्ये स्थिता लोकाः सर्वे स्वानन्दगा बभुः ॥ ६६॥
एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् ।
इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥ ६७॥
भीमो नाम महाव्याधः पापकर्मपरायणः ।
मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥ ६८॥
एकदा वनमध्ये स ब्राह्मणं हन्तुमुद्यतः ।
पलायत द्विजस्तत्र वने भयसमाकुलः ॥ ६९॥
एतस्मिन्नन्तरे तत्राश्वगः शस्त्रधरः पुमान् ।
धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥ ७०॥
ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह ।
पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥ ७१॥
तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् ।
राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥ ७२॥
पञ्चम्यां तं जघानैव ततो व्याधं गजाननः ।
चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥ ७३॥
एवं नानाजना राजन् चतुर्थीव्रतयोगतः ।
स्वानन्दस्था भवन्तीह मया वक्तुं न शक्यते ॥ ७४॥
चतुर्थीजमिदं चित्रं चरितं कथितं मया ।
शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥ ७५॥
शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः ।
पुत्रपौत्रादिसंयुक्तः सुहृद्भिर्नृपसत्तम ॥ ७६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शुक्लाऽऽश्विनी चतुर्थी
व्रतवर्णनं नामाष्टमोऽध्यायः ॥ ४.८
४.९ कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
वसिष्ठ उवाच ।
कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा ।
तां शृणुष्व महाभाग इतिहाससमन्विताम् ॥ १॥
सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः ।
शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥ २॥
धर्मशीलो वदान्यश्च सत्यवाक् साधुसम्मतः ।
देवविप्रातिथिप्राज्ञपञ्चयज्ञपरायणः ॥ ३॥
भार्या कलावती तस्य बभूवे रूपशालिनी ।
पतिव्रता महोदारा धर्मशीला विशेषतः ॥ ४॥
जित्वा भूमण्डलं सर्वं राजा तेजस्विनां वरः ।
पालयामास पृथ्वीं स नित्यं धर्मपरायणः ॥ ५॥
सामन्ता वशगा यस्य सैन्यं स्म गणनातिगम् ।
सम्पच्च धनदेनैव तुल्या सर्वत्र सम्बभौ ॥ ६॥
अर्धायुषा समायुक्तो बभूव नृपसत्तमः ।
अकस्मात् कुष्ठसंयुक्तः कीटैः सम्पीडितोऽभवत् ॥ ७॥
पूयशोणितघर्मौघैर्व्याप्तो दुर्गन्धिसंयुतः ।
न चाऽलभत् सुखं किञ्चिच्छूलप्रोतो यथा नरः ॥ ८॥
औषधानि विशेषेण सिषेवे यत्नसंयुतः ।
नानामन्त्रप्रयोगादि कारयामास मानवैः ॥ ९॥
अनुष्ठानं द्विजैः सोऽपि वेदमन्त्रैः सुखप्रदैः ।
अकारयत्तथा तेभ्यो न फलं चाऽभवत् कदा ॥ १०॥
ततस्तीर्थानि बभ्राम स्नानदानपरायणः ।
तथापि रोगसंयुक्तोऽधिकं राजा बभूव ह ॥ ११॥
ततो निवृत्तिमापन्नो जगाद सचिवान्नृपः ।
राज्यं मे परिपाल्यं वै यावदागमनं पुनः ॥ १२॥
सान्त्वयित्वा स सस्त्रीकः सुहृदः सर्वनागरान् ।
वनं ययौ नृपश्रेष्ठो बभ्राम यत्र तत्र च ॥ १३॥
ततो गणपतिं राजा सस्मार दुःखसंयुतः ।
विघ्नहीनार्थमेवं स तत्र चित्रं बभूव ह ॥ १४॥
अकस्मान् मुनिशार्दूलः पुलस्त्यस्तत्र चाययौ ।
तं दृष्ट्वा हर्षसंयुक्तो ननाम प्रियया सह ॥ १५॥
कृत्वा करपुटं राजोवाच तं मुनिनायकम् ।
किं पुण्यं मे पुरा चीर्णं येन दृष्टो भवान् मुने ॥ १६॥
धन्यं जन्म तथा ज्ञानं जनको जननी च मे ।
तपो धर्मादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १७॥
एवं विवदमानं तं जगाद मुनिसत्तमः ।
किमर्थं राजनीतिज्ञ वने त्वं च समागतः ॥ १८॥
एवं पृष्ट्वा स राजानं वृक्षच्छायासमाश्रितः ।
पुलस्त्य उपविश्याथ तमुपावेश्य सम्बभौ ॥ १९॥
ततो राज्ञा स्वकीयो वै वृत्तान्तः कथितोऽभवत् ।
जगाद प्रणनामैवं पुनस्तं हर्षसंयुतः ॥ २०॥
सुधन्वोवाच ।
दयाकराश्च योगीन्द्राः पुराणेषु वदन्ति यत् ।
तदेव सत्यमभवत् त्वां दृष्ट्वा दयया युतम् ॥ २१॥
दुःखितं मां विदित्वा त्वं संस्थितो मुनिसत्तम ।
साक्षात् प्रजापतिः प्रोक्तः पुलस्त्यो ब्रह्मणः सुतः ॥ २२॥
सर्वज्ञस्त्वं महायोगिन् न्यायं मे वद मानद ।
धर्मयुक्ततया राज्यं करोमि स्म निरन्तरम् ॥ २३॥
पूर्वजन्मकृतं मे किं महापापं समागतम् ।
येनाऽहं कुष्ठसंयुक्तोऽभवं पश्य दयायुतः ॥ २४॥
वसिष्ठ उवाच ।
सुधन्वनो वचः श्रुत्वा तमुवाच महामुनिः ।
अत्यन्तं पीडितं दृष्ट्वा करुणायुतचेतसा ॥ २५॥
पुलस्त्य उवाच ।
इहजन्मकृतं पापं बुद्ध्यसे न नराधम ।
तेन कुष्ठयुतो जातः शृणु तत्ते वदाम्यहम् ॥ २६॥
तव राज्ये नृपश्रेष्ठ व्रतं गाणेश्वरं महत् ।
नष्टं चतुर्थीसंज्ञं यत् सर्वसिद्धिप्रदं परम् ॥ २७॥
चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ।
तेन प्रोक्ता चतुर्थी सा वरदा सङ्कटा मता ॥ २८॥
सर्वादौ न कृतं चेद्वै भवेत् सर्वं सुनिष्फलम् ।
कृतं कर्म नरेणाऽपि चतुर्वर्गविहीनकम् ॥ २९॥
वर्णैः सर्वैः कृतं पापं राजानमुपतिष्ठति ।
तेन त्वं कुष्ठसंयुक्तोऽधुना जातो नराधम ॥ ३०॥
मरिष्यसि यदा राजंस्तदा ते नरके गतिः ।
भविष्यति न सन्देहश्चतुर्वर्गविहीनता ॥ ३१॥
पुलस्त्यवचनं श्रुत्वा दुःखयुक्तो महीपतिः ।
उवाच तं महाप्राज्ञं कृताञ्जलिपुटोऽभवत् ॥ ३२॥
सुधन्वोवाच ।
भगवन् सर्वतत्त्वज्ञ त्वया यत् कथितं वचः ।
तदेव सत्यरूपं वै मया ज्ञातं न संशयः ॥ ३३॥
(Page खं. ४ अ. ९ पान २९)
अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् ।
कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥ ३४॥
कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो ।
प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥ ३५॥
एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुतः ।
तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥ ३६॥
पुलस्त्य उवाच ।
अज्ञानेन कृतं दोषं प्रायश्चित्तेन हन्ति तम् ।
नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥ ३७॥
तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि ।
अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥ ३८॥
इत्युक्त्वा तं ततो योगी जगाद व्रतसम्भवाम् ।
कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥ ३९॥
उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः ।
धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥ ४०॥
नानेन सदृशं किञ्चिन् मया ज्ञातं महामते ।
त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥ ४१॥
तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने ।
नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥ ४२॥
एवं पृष्टः स राजानं वचनं प्रजगाद ह ।
पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥ ४३॥
पुलस्त्य उवाच ।
सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् ।
ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥ ४४॥
पुराऽहं योगशान्त्यर्थं नानायोगपरायणः ।
असाधयञ्छमेनैव दमेन मनसो जयात् ॥ ४५॥
तथापि शान्तिहीनोऽहं शरणं शङ्करं गतः ।
तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥ ४६॥
ततस्तेन समाख्यातं तच्छृणुष्व नराधिप ।
येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥ ४७॥
श्रीशिव उवाच ।
योगशान्तिमयं विद्धि गणेशं भज भावतः ।
मनोवाणीविहीनं तं मनोवाणीमयं न च ॥ ४८॥
मनोवाणीमयं सर्वं सम्प्रज्ञातसमुद्भवम् ।
गकाराक्षरगं विद्धि पश्य वेदे महामते ॥ ४९॥
मनोवाणीविहीनं यदसम्प्रज्ञातगं मतम् ।
णकाराक्षरसम्भूतं नाम्नो गणपतेर्यदि ॥ ५०॥
तयोः स्वामी गणेशानः शान्त्या योगेन लभ्यते ।
चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥ ५१॥
एवमुक्त्वा महादेवो विरराम विशेषवित् ।
तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥ ५२॥
अष्टाक्षरेण मन्त्रेण ध्यात्वा गणपतिं नृप ।
अतोषयं विशेषेण चित्तनिग्रहभावतः ॥ ५३॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमात्मनि ।
तथापि मन्त्रराजं तमजपं पूजने रतः ॥ ५४॥
एकविंशतिवर्षेषु गतेषु स विनायकः ।
आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥ ५५॥
तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि ।
स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥ ५६॥
गाणपत्यं स मां कृत्वा ययौ स्वानन्दके पुरे ।
तदारभ्याहमत्यन्तं भजामि गणनायकम् ॥ ५७॥
एवमुक्त्वा महीपालं तथा दशरथ स्वयम् ।
मन्त्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥ ५८॥
तेन स्तुतो महायोगी पुलस्त्योंऽतर्दधे प्रभुः ।
राजा स्वनगरे गत्वा कार्तिके हर्षितोऽभवत् ॥ ५९॥
जनैः सर्वैर्महाभागश्चकार व्रतमुत्तमम् ।
कार्तिके शुक्लपक्षस्य चतुर्थ्यां गणपं स्मरन् ॥ ६०॥
पञ्चम्यां पारणं चक्रे राजाऽसौ जनसंयुतः ।
ब्राह्मणेभ्यो ददौ दानं सर्वान् अन्नैस्त्वतोषयत् ॥ ६१॥
ततः कुष्ठविहीनश्च बभूव स जनाधिपः ।
सुरूपः कामदेवेन समः शोभाधरो बभौ ॥ ६२॥
लोका वन्ध्यत्वदोषेण रोगादिभिः प्रपीडिताः ।
ते सर्वे दुःखहीनाश्च बभूवुर्व्रतसेवनात् ॥ ६३॥
ततस्तेन नृपेणाऽथ सर्वत्र भूमिमण्डले ।
प्रकाशितं प्रयत्नेन व्रतं गाणेश्वरं नृप ॥ ६४॥
ततः शुक्लां तथा कृष्णां चतुर्थीं चक्रिरे जनाः ।
तेनाऽऽनन्दसमायुक्ता बुभुजुर्विविधं सुखम् ॥ ६५॥
ततः सुधन्वा स्थाप्य स्वं पुत्रं राज्ये महामतिः ।
एकान्ते संस्थितो भूत्वाऽभजत्तं गणपं सदा ॥ ६६॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तथा जनाश्च सर्वे ते स्वानन्दस्था बभूविरे ॥ ६७॥
एवं ते कथितं राजन्नथो शृणु महामते ।
महिमानं व्रतस्यैव सर्वसिद्धिकरस्य ह ॥ ६८॥
माहिष्मत्यां च चाण्डालो वसन् कः पापकारकः ।
प्राप्य कार्तिकगां शुक्लां चतुर्थीं स वने गतः ॥ ६९॥
तत्र व्याघ्रेण सन्दृष्टः पलायन् वृक्षमारुहत् ।
व्याघ्रो वृक्षतले तत्र संस्थितस्तं प्रतीक्षयन् ॥ ७०॥
तत्र रात्रिर्गता तस्य चाण्डालस्य प्रजागरः ।
सम्पूर्णश्चाभवद्भूप पुनश्चित्रं बभूव ह ॥ ७१॥
समागतो महासर्पो वनस्थो वृक्षमारुहत् ।
पपात भयभीतः स तं दृष्ट्वा कम्पवेगतः ॥ ७२॥
व्याघ्रेण सङ्गृहीतः स पञ्चम्यां भक्षितोऽभवत् ।
स विमानं समारुह्य ययौ स्वानन्दकं पुरम् ॥ ७३॥
अज्ञातव्रतजेनैव पुण्येन गणपं गतः ।
दृष्ट्वा योगपरो भूत्वा ब्रह्मभूतो बभूव सः ॥ ७४॥
एवं नृप अपारा वै चतुर्वर्गफलैर्युताः ।
ब्रह्मभूताश्च सञ्जाताश्चतुर्थीव्रतकारकाः ॥ ७५॥
कार्तिके शुक्लपक्षस्य चतुर्थ्या महिमा मया ।
कथितो लेशतो भूप श्रोतुमिच्छसि किं पुनः ॥ ७६॥
शृणुयाद्यः पठेद्वाऽपि स वै सर्वार्थसिद्धिभाक् ।
पुत्रपौत्रादिसंयुक्तः प्रभवेद्गणपप्रियः ॥ ७७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते कार्तिकशुक्लचतुर्थीवर्णनं नाम नवमोऽध्यायः ॥ ४.९
(Page खं. ४ अ. १० पान ३१)
४.१० मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
गणेशस्य कथां श्रुत्वा हर्षश्चेतसि जायते ।
मार्गशीर्षे च या शुक्ला तां मे वद मुने यतः ॥ १॥
वसिष्ठ उवाच ।
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
मार्गशीर्षे चतुर्थ्यां यः शुक्लायामभवन्नृप ॥ २॥
काशीपतिः पुरा राजा पुण्यकीर्तिर्बभूव ह ।
अजातशत्रुको नाम सर्वशास्त्रविशारदः ॥ ३॥
देवद्विजातिथिप्रेप्सुर्नानाधर्मपरायणः ।
प्रजानां पालने सक्तो यथाशास्त्रेण मानदः ॥ ४॥
तत्रैव नारदोऽकस्मान्नृपं द्रष्टुं समागतः ।
तं प्रणम्य महात्मानं पूजयामास भक्तितः ॥ ५॥
स्वयं पादस्य संवाहं चकार नृपसत्तमः ।
उवाच तं प्रहर्षेण नारदं सर्वगं परम् ॥ ६॥
अजातशत्रुरुवाच ।
धन्यं मे जन्म पुत्रादि राज्यं निहतकण्टकम् ।
धन्यौ च जनकौ ज्ञानं त्वदङ्घ्रियुगदर्शनात् ॥ ७॥
सर्वसारं वदस्व त्वं योगशान्तिप्रदायकम् ।
येन संसारदुःखेभ्यो मुच्यते मानवः क्षणात् ॥ ८॥
ततस्तं नारदो योगी गाणपत्याग्रणीर्नृप ।
जगाद हर्षसंयुक्तो वाक्यं सारमयं हसन् ॥ ९॥
नारद उवाच ।
सम्यक् पृष्टं त्वया राजन् सर्वेभ्यो ब्रह्मदं परम् ।
शृणु ते कथयिष्यामि योगं शान्तिप्रदायकम् ॥ १०॥
ब्रह्म नानाविधं वेदे वर्णितं पात्रभेदतः ।
न मुख्यं ब्रह्मभूतत्वं तदेव भवति प्रभो ॥ ११॥
ब्रह्मणस्पतिनामानं गणेशं भज भावतः ।
चित्तवृत्तिनिरोधेन चिन्तामणिर्भविष्यसि ॥ १२॥
गणेशोऽहं न सन्देहो मम तत्र कथं भवेत् ।
संयोगायोगकं राजन् तेन शान्तिमवाप्स्यसि ॥ १३॥
तस्य व्रतं महाभाग चतुर्थीसंज्ञकं महत् ।
राज्ये नष्टे च तेन त्वं नारकी प्रभविष्यसि ॥ १४॥
धर्मार्थकाममोक्षाणां प्रदं पूर्णं प्रकीर्तितम् ।
चतुर्थीसंज्ञकं राजन् वरदं सङ्कटं मतम् ॥ १५॥
नानाकर्माणि कुर्वन्ति नराः सर्वार्थसिद्धये ।
चतुर्थीव्रतहीनाश्चेन्निष्फलाः प्रभवन्ति ते ॥ १६॥
इत्युक्त्वा तं महायोगी नारदः करुणायुतः ।
माहात्म्यं कथयामास चतुर्थीसम्भवं नृप ॥ १७॥
ततस्तं नृपवर्यः स प्रणम्य भावसंयुतः ।
पप्रच्छ सर्वमार्गज्ञं गणेशोपासनं पुनः ॥ १८॥
अजातशत्रुरुवाच ।
ब्रह्मणस्पतिमाहात्म्यं श्रुतं मया महामते ।
तस्योपासनमार्गं मे वद सर्वज्ञ ते नमः ॥ १९॥
नारद उवाच ।
एकाक्षरविधानेन भज ढुण्ढिं विनायकम् ।
तेन साध्यो गणेशस्ते प्रत्यक्षश्च भविष्यति ॥ २०॥
तस्मै स विधिना सर्वं गणेशोपासनं ददौ ।
मन्त्रमेकाक्षरं साङ्गं ततश्चान्तर्हितोऽभवत् ॥ २१॥
तत्राऽऽदौ मार्गशीर्षस्था सम्प्राप्ता शुक्लगा नृप ।
चतुर्थी सा कृता तेनोपोषणेन यथाविधि ॥ २२॥
जनैः सर्वैस्तथा राजन् कृता सर्वप्रदायिनी ।
ततस्तेन च सर्वत्र प्रशस्ता सुकृताऽभवत् ॥ २३॥
शुक्लां कृष्णां चतुर्थीं ये न कुर्वन्ति नराधमाः ।
स्त्रियश्चेत्ताडनीयास्ते महापापिन एव च ॥ २४॥
ढुण्ढिराजं नृपाध्यक्षो नित्यं सम्पूज्य यत्नतः ।
भक्त्याऽभजत् सम्बभूव योगीन्द्रो योगिसम्मतः ॥ २५॥
(Page खं. ४ अ. १० पान ३२)
ततो बहुगते काले प्रत्यक्षः स गजाननः ।
बभूव तस्य भूपस्य वरं ब्रूहि तमब्रवीत् ॥ २६॥
स्तुतः सम्पूजितस्तेन ढुण्ढिराजस्तुतोष ह ।
गाणपत्यं चकाराऽसौ नृपं चाजातशत्रुकम् ॥ २७॥
ईप्सितं तं वरं दत्त्वा तत्रैवान्तरधीयत ।
ढुण्ढिराजं तमभजत् राजेन्द्रोऽनन्यचेतसा ॥ २८॥
अन्ते नागरसंयुक्तो जगाम गणपं नृपः ।
सर्वैर्बभूव च ब्रह्मभूतो वै योगिसम्मतः ॥ २९॥
एवं शुक्लचतुर्थ्यां ते मार्गशीर्षेऽभवन् महत् ।
माहात्म्यं कथितं राजन् सङ्क्षेपेण न संशयः ॥ ३०॥
अन्यत् कथान्तरं भूप शृणु सर्वभयापहम् ।
वेश्याया व्रतसंयोगाद्ब्रह्मभूयकरं महत् ॥ ३१॥
मिथिलायां कदाचित् का वेश्या नरविमोहिनी ।
आगता तां निरीक्ष्यैव मोहिताः सकला नराः ॥ ३२॥
राज्ञा सम्मानिताऽत्यन्तं तत्र वासमरोचयत् ।
कदाचित्तीर्थगा सा वै सन्दृष्टा रक्षसा पुरः ॥ ३३॥
तां सङ्गृह्य ययौ रक्षः स्ववासं हर्षसंयुतः ।
सा तं दृष्ट्वा भयोद्विग्ना विललाप भृशातुरा ॥ ३४॥
रक्षसा सान्त्विता तत्र न शोकं साऽत्यजत् कदा ।
तस्मिन् काले चतुर्थी वै शुक्ला मार्गे समागता ॥ ३५॥
अतिशोकतया राजन्न बभक्ष जलादिकम् ।
पञ्चम्यां सा मृता तत्र भययुक्तेन चेतसा ॥ ३६॥
ततो गणेशदूतेन नीता स्वानन्दके पुरे ।
ब्रह्मभूता च सा जाता व्रतपुण्यप्रभावतः ॥ ३७॥
अज्ञानेन कृतं चैतत् वरदाख्यं व्रतं महत् ।
ब्रह्मसायुज्यदं प्रोक्तं किं पुनर्ज्ञानभावतः ॥ ३८॥
मार्गशीर्षगतायाश्च शुक्लायाः कुरुते नरः ।
चतुर्थ्या लभते सोऽपि सर्वार्थं संशृणोति यः ॥ ३९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते मार्गशीर्षशुक्लचतुर्थीवर्णनं नाम दशमोऽध्यायः ॥ ४.१०
४.११ पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं यन् मार्गशुक्लस्थचतुर्थी संज्ञितं मया ।
व्रतं तेन महाभाग सन्तृप्तो गुरुसत्तम ॥ १॥
अधुना पौषमासे या चतुर्थी वरदायिनी ।
तस्या माहात्म्यमेवं मे ब्रूहि त्वं मुनिसत्तम ॥ २॥
वसिष्ठ उवाच ।
शृणु राजंश्च माहात्म्यं सङ्क्षेपेण वदाम्यहम् ।
विस्तरेण तु को वक्तुं समर्थः प्रभवेद्भुवि ॥ ३॥
अवन्तीनगरीमध्येऽवसत्तु ब्राह्मणोत्तमः ।
सुदन्त इति विख्यातः सर्वशास्त्रविशारदः ॥ ४॥
राज्ञः पुरोहितः श्रेष्ठः सदा नीतिपरायणः ।
धर्मशास्त्रानुसारेण राजानमप्यबोधयत् ॥ ५॥
राजा बृहद्रथो नाम तदाज्ञावशगोऽभवत् ।
पालयामास भूमिं स नानाधर्मकरः परः ॥ ६॥
(Page खं. ४ अ. ११ पान ३३)
सुदन्तस्याऽभवद्भार्या नाम्ना ख्याता विलासिनी ।
बभूव कर्मदोषेण वन्ध्या सा वै पतिव्रता ॥ ७॥
अपत्यं सुषुवे सा यज्जातमात्रं मृतं भवेत् ।
तदर्थं व्रतदानादिधर्मं चक्रे च स द्विजः ॥ ८॥
नाऽभवत्तस्य तदपि पुत्रः परमसौख्यदः ।
विप्रोऽतिदुःखितः सस्त्रीको जगाम वनं ततः ॥ ९॥
बभ्राम भ्रान्तचित्तोऽसौ यत्र तत्र महामतिः ।
मरणे निश्चयं कृत्वा तपोयुक्तो बभूव ह ॥ १०॥
तत्राऽऽजगाम योगीन्द्रो वामदेवः प्रतापवान् ।
यदृच्छाविचरंस्तेन दृष्टः सन्नमितोऽभवत् ॥ ११॥
पूजयित्वा महात्मानं वामदेवं कृताञ्जलिः ।
जगाद खेदसंयुक्तः सुदन्तो योगिसत्तमम् ॥ १२॥
सुदन्त उवाच ।
वामदेव च मे धन्यं दुःखितस्य तपो वयः ।
ज्ञानादिकं विशेषेण त्वत्पादपद्मदर्शनात् ॥ १३॥
वन्ध्योऽहं मुनिशार्दूल का गतिर्मे भविष्यति ।
मृतस्य स्वर्गहीनस्य वद योगीन्द्रसत्तम ॥ १४॥
वामदेव उवाच ।
शुणु द्विज महाभाग त्वं सदा धर्मसंयुतः ।
तथापि पापचारी त्वं येन जातः शृणुष्व तत् ॥ १५॥
अवन्तीपुरपालस्य आदरात्त्वं पुरोहितः ।
राज्ञा कृतं महत्पापं यत्तदेव त्वया कृतम् ॥ १६॥
चतुर्थीव्रतलोपश्च बभूवे भूमिमण्डले ।
चतुर्वर्गफलैर्हीना जाता भूवासिनो जनाः ॥ १७॥
धर्मस्याऽऽचरणं पूर्णं कृतं राज्ञा तथा त्वया ।
निष्फलं व्रतलोपेन तेन त्वं दुःखितोऽधुना ॥ १८॥
एवं श्रुत्वा वचो रम्यं वामदेवस्य धीमतः ।
विस्मितस्तं सुदन्तोऽसौ जगाद विनयान्वितः ॥ १९॥
सुदन्त उवाच ।
कीदृशं तद्व्रतं तात वद मे हितकारकम् ।
चतुर्णां पुरुषार्थानां साधकं कथमाभवत् ॥ २०॥
तेन हीनो नरो यस्तु स कथं फलहीनकः ।
कर्मणस्तत् समाचक्ष्व दयासागर मानद ॥ २१॥
वसिष्ठ उवाच ।
एवं पृष्टो महायोगी तज्जगाद सविस्तरम् ।
माहात्म्यं सकलं तस्मै स श्रुत्वा विस्मितोऽभवत् ॥ २२॥
पुनः पप्रच्छ तं विप्रो हर्षयुक्तेन चेतसा ।
गणेशज्ञानबोधार्थं गाणपत्यं महामुनिम् ॥ २३॥
सुदन्त उवाच ।
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं प्रभजिष्यामि नित्यं भक्तिसमन्वितः ॥ २४॥
एवं पृष्टो महायोगी वामदेवस्तमब्रवीत् ।
गणेशबोधदाने स कुशलः सर्वपारगः ॥ २५॥
वामदेव उवाच ।
सुदन्त शृणु विप्रर्षे गाणेशं ज्ञानमुत्तमम् ।
गाणपत्यो येन भक्तिभावितो भविताऽसि भोः ॥ २६॥
अहं पुरा तपोनिष्ठस्त्वभवं यत्नसंयुतः ।
तपसा मे महाभाग व्याप्तं सर्वं चराचरम् ॥ २७॥
ततो मया तपस्त्यक्तं योगार्थं ब्राह्मणोत्तम ।
शमे दमे परेणान्तर्निष्ठेन मनसो जयात् ॥ २८॥
योगभूमिक्रमेणाऽहं कालेन महता द्विज ।
सहजे संस्थितो भूत्वा यत्र तत्राऽचरं तु च ॥ २९॥
सहजं मोहहीनं यत् स्वाधीनत्वसमायुतम् ।
दृष्ट्वा शान्त्यर्थमत्यन्तं तत् त्यक्तं च मया ततः ॥ ३०॥
सन्धृतं मनसि ब्रह्म मनोवाणीविवर्जितम् ।
कथं स्वाधीनता तत्र निर्मोहश्च प्रवर्तते ॥ ३१॥
(Page खं. ४ अ. ११ पान ३४)
अधुना किं मया कार्यं विचार्य शरणं गतः ।
शङ्करं योगिवन्द्यं तं शैवोऽहं प्रणतोऽभवम् ॥ ३२॥
शैवमार्गे रतं नित्यं दृष्ट्वा हर्षसमन्वितः ।
शम्भुः प्रोवाच मां विप्र स्थीयतां मुनिसत्तम ॥ ३३॥
किमर्थमागतस्तात वामदेव महामते ।
वद मे सकलं वृत्तं करिष्यामि प्रियं च ते ॥ ३४॥
शिवस्य वचनं श्रुत्वा संस्थितोऽहं कृताञ्जलिः ।
अवदं तं महादेवं भक्तवाञ्छासुरद्रुमम् ॥ ३५॥
सहजं यत्परं ब्रह्म शैवं स्वेच्छामयं प्रभो ।
तस्मात् परं न विद्येत तथापि नुद संशयम् ॥ ३६॥
ब्रह्मणि ब्रह्मभूतस्य स्वेच्छा तत्र कुतो भवेत् ।
स्वाधीनता दोषयुक्तं सहजं न परं मतम् ॥ ३७॥
अतः शान्त्यर्थमेव त्वामहं प्रष्टुं समागतः ।
योगशान्तिप्रदं पूर्णं वद मां करुणानिधे ॥ ३८॥
वसिष्ठ उवाच ।
वामदेववचः श्रुत्वा हर्षितः शङ्करोऽब्रवीत् ।
तं पुनः सर्वयोगज्ञो गाणपत्यस्वभाववान् ॥ ३९॥
श्रीशिव उवाच ।
योगशान्तिप्रदं पूर्णं गणेशं विद्धि भो मुने ।
जानीहि न परं ब्रह्म सहजं योगसेवया ॥ ४०॥
स्वानन्दाद्यत् समुत्पन्नमसत्यं सत्यरूपकम् ।
समं च सहजं विद्धि चतुर्धाऽसौ विभज्यते ॥ ४१॥
चतुर्णामत्र संयोगे स्वानन्दः परिकीर्तितः ।
अयोगे नैव संयोगः केषाञ्चिद्ब्रह्मणां भवेत् ॥ ४२॥
गकाराक्षरगं ज्ञानं विद्धि तन्निजबोधतः ।
णकाराक्षरगं ज्ञानं निवृत्या लभ्यते जनैः ॥ ४३॥
तयोः स्वामी गणेशानो योगरूपः प्रकीर्तितः ।
शान्त्याऽसौ लभ्यते विप्र शान्तिभ्यः शान्तिदायकः ॥ ४४॥
चित्तं पञ्चविधं विद्धि बुद्धिरूपं न संशयः ।
चित्ते मोहात्मिका सिद्धिर्माये ते परिकीर्तिते ॥ ४५॥
तयोर्बिबं गणेशश्च बिम्बिभावं त्यज प्रभो ।
अधुना गणनाथस्त्वं भविष्यसि न संशयः ॥ ४६॥
एवमुक्त्वा महादेवस्तस्मै मन्त्रं ददौ पुनः ।
एकाक्षरं गणेशस्य सविधिं करुणायुतः ॥ ४७॥
तं प्रणम्य महेशानं वने यातोऽहमादरात् ।
तत्रैव गणनाथं तमभजं भक्तिसंयुतः ॥ ४८॥
एकाक्षरविधानेन सन्तुष्टो गणनायकः ।
योगशान्तिं ददौ पूर्णां भक्तवात्सल्यकारणात् ॥ ४९॥
ततोऽहं योगिवन्द्यश्च जातः सर्वत्र सम्मतः ।
तथापि विघ्नदहनमभजं नित्यमादरात् ॥ ५०॥
गतेषु दशवर्षेषु गणाधीशः समाययौ ।
ममाश्रमं वरं दातुमुवाच घननिःस्वनः ॥ ५१॥
गणेश उवाच ।
वामदेव महाभाग वरं वृणु हृदीप्सितम् ।
तव दास्यामि भक्त्याऽहं सन्तुष्टो योगिसत्तम ॥ ५२॥
गणेशस्य वचः श्रुत्वा त्यक्त्वा ध्यानं समुत्थितः ।
प्रणम्य तं गणेशं सम्पूज्य स्तोतुं प्रचक्रमे ॥ ५३॥
वामदेव उवाच ।
गणेशाय नमस्तुभ्यं सदा स्वानन्दवासिने ।
सिद्धिबुद्धिपते तुभ्यं विघ्नेशाय नमो नमः ॥ ५४॥
मूषकारूढ हेरम्ब भक्तवाञ्छाप्रपूरक ।
ढुण्ढिराजाय ते देव रक्ष मां ते नमो नमः ॥ ५५॥
आदिमध्यान्तहीनाय लम्बोदर नमोऽस्तु ते ।
आदिमध्यान्तरूपाय शङ्करप्रियसूनवे ॥ ५६॥
नानामायाधरायैव मायिभ्यो मोहदायिने ।
(Page खं. ४ अ. ११ पान ३५)
मायामायिकभेदैस्त्वं क्रीडसे ते नमो नमः ॥ ५७॥
विष्णुपुत्राय शेषस्य पुत्राय ब्राह्मणाय ते ।
ब्रह्मपुत्राय सर्वेश सर्वपुत्राय ते नमः ॥ ५८॥
सर्वेषां चैव पित्रे ते मात्रे सर्वात्मकाय ते ।
महोदराय देवेन्द्रपाय ज्येष्ठाय वै नमः ॥ ५९॥
महोग्राय महेशाय विष्णवे प्रभविष्णवे ।
अमृताय तु सूर्याय नानाशक्तिस्वरूपिणे ॥ ६०॥
पुरुषाय प्रकृतये गुणेशाय गुणात्मने ।
एकानेकात्मकायैव विघ्नकर्त्रे नमो नमः ॥ ६१॥
भक्तेभ्यः सर्वदात्रे ते ब्रह्मणां पतये नमः ।
योगाय योगनाथाय योगिनां पतये नमः ॥ ६२॥
स्तौमि किं त्वां गणेशान मनोवाणीविहीनकम् ।
मनोवाणीमयं नैवातस्ते देव नमोऽस्तु ते ॥ ६३॥
सहसैवं संस्तुवतस्तस्य भक्तिरसेन च ।
रोमोद्गमः प्रादुरासीत् कण्ठरोधो बभूव ह ॥ ६४॥
उवाच वामदेवं स नृत्यन्तं विघ्ननायकः ।
वरं वृणु महाभाग यत्ते चित्ते स्थितं परम् ॥ ६५॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं परम् ।
शृणोति यः पठति चेत्तस्मै योगप्रदं तथा ॥ ६६॥
भक्तिदं भक्तियुक्तेभ्यः पुत्रपौत्रादिकप्रदम् ।
धनधान्यप्रदं प्रोक्तं मयि प्रीतिविवर्धनम् ॥ ६७॥
गणेशवचनं श्रुत्वा तं जगाद महामुनिः ।
वामदेवः प्रसन्नात्मा ब्रह्मेशं ब्रह्मभावितः ॥ ६८॥
भक्तिं देहि गणाधीश गाणपत्यां विशेषतः ।
नान्यं याचे वरं देव यदि तुष्टोऽसि विघ्नप ॥ ६९॥
तथेति तमुवाचैव गणेशोंऽतर्दधे स्वयम् ।
वामदेवः प्रसन्नात्मा गाणपत्यो बभूव ह ॥ ७०॥
तदादि शान्तिमापन्नस्त्वहं विप्र महामते ।
अतस्त्वं गणराजं तं भज शान्तिमवाप्स्यसि ॥ ७१॥
एकाक्षरं महामन्त्रं सुदन्ताय ददौ ततः ।
सविधिं वामदेवः सोंऽतर्धानमकरोन् मुनिः ॥ ७२॥
सुदन्तो विस्मितो भूत्वा ययौ स्वस्थानमुत्तमम् ।
राज्ञा सम्मानितः सोप्यभजत्तं गणनायकम् ॥ ७३॥
बृहद्रथाय वृत्तान्तं कथयामास भो नृप ।
तदाज्ञया नृपः सद्यो घोषयामास तद्व्रतम् ॥ ७४॥
तत्रादौ पौषमासे या चतुर्थी शुक्लगाऽऽगता ।
तां चकार द्विजः सद्यो जनै राज्ञा पुरः स्थितैः ॥ ७५॥
व्रताचरणमात्रेण गर्भयुक्ता बभूव ह ।
मुनिपत्नी सुतं लेभे ज्ञानयुक्तं चिरायुषम् ॥ ७६॥
ततो भूमितले सर्वे चक्रुर्व्रतमनुत्तमम् ।
शौक्लं कार्ष्णं विशेषेण चतुर्थीसंज्ञितं नृप ॥ ७७॥
सर्वे रोगादिभिर्हीना जाताः पुत्रादिसंयुताः ।
धनधान्यादिभिर्युक्ता अन्ते स्वानन्दगा बभुः ॥ ७८॥
सुदन्तो योगिवन्द्यश्च बभूवे योगसेवया ।
राजाऽपि ज्ञानसंयुक्तो गाणपत्यो बभूव ह ॥ ७९॥
पौषशुक्लचतुर्थीजमेतत्ते कथितं व्रतम् ।
राजन् सर्वार्थदं पूर्णं पुनस्त्वं शृणु मानद ॥ ८०॥
वैश्यो मार्गे स्थितः सोऽपि श्रमयुक्तो धनप्रियः ।
तत्र चोरैः समायातैर्लुण्ठितं तैर्धनं महत् ॥ ८१॥
तेषां शस्त्राभिघातेन पपात धरणीतले ।
वैश्यो वने दुःखितश्च विललाप भृशातुरः ॥ ८२॥
दैवयोगेन सा देवी चतुर्थी शुक्लगा गता ।
(Page खं. ४ अ. १२ पान ३६)
पौषी तस्यां जलाद्यैश्च हीनस्तत्र बभूव सः ॥ ८३॥
रात्रौ जागरणं तस्य सञ्जातं पीडया तदा ।
पञ्चम्यां स मृतः पापी धनलुब्धो महामते ॥ ८४॥
अज्ञातव्रतजेनैव महिम्ना सोऽपि भूपते ।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ८५॥
एवं जना व्रतेनैव मुक्ताः संसारसागरात् ।
इह भुक्त्वाऽखिलान् भोगान् वर्णितुं तन्न शक्यते ॥ ८६॥
इदं पौषचतुर्थ्यास्तु माहात्म्यं यः शृणोति चेत् ।
पठेद्वै तस्य भो राजन् सर्वदं प्रभविष्यति ॥ ८७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते पौषशुक्लचतुर्थीमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ४.११
४.१२ माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
चतुर्थ्या महिमानं च श्रुत्वा हर्षः प्रवर्धते ।
न तृप्यामि महायोगिन्नमृतादधिकं मतम् ॥ १॥
माघे शुक्लचतुर्थी या तस्या माहात्म्यमुत्तमम् ।
वद येन जनाः सर्वे भवन्ति सुखभोगिनः ॥ २॥
वसिष्ठ उवाच ।
माघी शुक्ला चतुर्थी या तस्यां जातो विनायकः ।
कश्यपस्य गृहे साक्षादङ्गारकयुता नृप ॥ ३॥
मुद्गल उवाच ।
एवमुक्त्वा वसिष्ठस्तं विनायकचरित्रकम् ।
कथयामास भो दक्ष देवान्तकवधाश्रितम् ॥ ४॥
श्रुत्वा सोऽपि मुदा युक्तो बभूवाजस्य नन्दनः ।
पुनस्तं प्रेरयामास व्रतार्थं मुनिमादरात ॥ ५॥
तस्यादरं स विज्ञाय वसिष्ठस्तमुवाच ह ।
हर्षेण महता युक्तो गाणपत्येन्द्रसत्तमः ॥ ६॥
वसिष्ठ उवाच ।
अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् ।
श्रुतश्चेत् सर्वदः पूर्णो भविष्यति नरोत्तम ॥ ७॥
कर्णाटे भानुपुर्यां च राजा परमधार्मिकः ।
देवविप्रातिथिप्रेप्सुर्नीत्या राज्यं चकार सः ॥ ८॥
शस्त्रास्त्रज्ञो विशेषेण नाम्ना सोमश्च वीर्यवान् ।
जित्वा भूमण्डलं सर्वं चक्रे सौराज्यमुत्तमम् ॥ ९॥
भार्या यशोवती तस्य नाम्ना पूर्णपतिव्रता ।
धर्मशीला रता दाने बभूवे रूपशालिनी ॥ १०॥
तस्याऽपि दीर्घकालेन कुर्वतो राज्यमुत्तमम् ।
अनावृष्टिभवं दुःखं प्राप्तं परमदारुणम् ॥ ११॥
स तु शौनकनामानं मुनिं सर्वार्थकोविदम् ।
ययौ दुःखनिवृत्त्यर्थं गाणपत्यं वने पुरात् ॥ १२॥
महावनं समासाद्य तं ननाम महामुनिम् ।
साष्टाङ्गं च पुरस्तस्य कृताञ्जलिपुटोऽभवत् ॥ १३॥
उवाच तं मुनिश्रेष्ठं सोमो विनयसंयुतः ।
धन्यं मे जन्म कर्माद्यं येन दृष्टो भवान् मुने ॥ १४॥
वदन्तमेवं राजानमुवाच शौनको मुनिः ।
सर्वशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः ॥ १५॥
शौनक उवाच ।
पुरा राजन् महाभाग वद मां सकलं तव ।
चेष्टितं यद्वने कस्मादागतो दुर्गमे च मे ॥ १६॥
एवं पृष्टो मुनीन्द्रेण सोमस्तं प्रत्युवाच ह ।
हर्षयुक्तेन चित्तेन मुनिं वेदज्ञमुत्तमम् ॥ १७॥
सोम उवाच ।
कर्णाटे भानुपुर्यां मे वसतिर्धर्ममिच्छतः ।
(Page खं. ४ अ. १२ पान ३७)
अनावृष्टिभवं दुःखं प्राप्तं तत्र महामुने ॥ १८॥
धर्मेण नीतियुक्तेन मया राज्यं प्रपालितम् ।
तथापि पापयोगेन दुःखं प्राप्तं जनैः सह ॥ १९॥
तत्रोपायं वदस्व त्वं साक्षाद्योगीश्वरो भवान् ।
राज्यं त्यक्त्वा वने तेऽद्य शरणं चागतो नृपः ॥ २०॥
श्रुत्वा तस्य वचो रम्यं तं जगाद महीपतिम् ।
शौनको मुनिशार्दूलो विनयेन समन्वितम् ॥ २१॥
शौनक उवाच ।
शृणु राजन् महत् पापं तव राज्ये बभूव ह ।
तेन रोगयुता लोका वन्ध्यतादोषसंयुताः ॥ २२॥
तत्रापि यन् महद् दुःखमनावृष्टिसमुद्भवम् ।
सम्प्राप्तं कारणं तत्र वदामि त्वां नृपाधम ॥ २३॥
चतुर्थीसंज्ञकं राजन् व्रतं नष्टं विशेषतः ।
शौक्लं कार्ष्णं तदर्थं त्वं यत्नयुक्तो भवाधुना ॥ २४॥
नो चेद्वर्षसहस्रैस्त्वं सुखं न लभसे कदा ।
अतः सर्वत्र विख्यातं तद्व्रतं कुरु मानद ॥ २५॥
इत्युक्त्वा व्रतमाहात्म्यं कथयामास विस्तरात् ।
नृपाय सोऽपि संश्रुत्य विस्मितो मानसेऽभवत् ॥ २६॥
पुनः पप्रच्छ भावेन शौनकं मुनिसत्तमम् ।
वद ब्रह्मन् गणेशस्य स्वरूपं शान्तिदं परम् ॥ २७॥
शौनक उवाच ।
पुराऽहं तपसा युक्तो नृपाऽतिष्ठं स्वाश्रमे ।
अन्तर्निष्ठस्वभावेन ब्रह्मचिन्तनतत्परः ॥ २८॥
ततोऽकस्मान् महायोगी भृगुरस्माकमेव सः ।
बीजभूतः समायात आश्रमेऽनुग्रहाय मे ॥ २९॥
तं दृष्ट्वा सहसोत्थाय प्रणतोऽहं महामुनिम् ।
आसने समुपावेश्याऽपूजयं च स्वभक्तितः ॥ ३०॥
कृताञ्जलिपुटं नम्रं पुरस्तस्य महात्मनः ।
संस्थितं मां ततो दृष्ट्वा सुविनीतमुवाच सः ॥ ३१॥
भृगुरुवाच ।
तात किं योगनिष्ठस्त्वं शान्तिं प्राप्तो वदस्व माम् ।
किमिच्छसि महाभाग वद तेऽहं ददामि तत् ॥ ३२॥
अस्मत्कुले महाभाग भवान् साधुगुणान्वितः ।
तेनाऽहं तृप्तिमायातः पूरयिष्यामि वाञ्छितम् ॥ ३३॥
एवं ब्रुवन्तमाद्यं तं मुनिमानम्य शौनकः ।
जगाद हर्षसंयुक्तो भृगुं योगतपोनिधिम् ॥ ३४॥
शौनक उवाच ।
योगशान्तिप्रदं पूर्णं ब्रूहि योगं महामुने ।
तेनाऽहं तृप्तिमत्यन्तं यास्यामि त्वदनुग्रहात् ॥ ३५॥
भृगुरुवाच ।
योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् ।
तं भजस्व विधानेन तेन शान्तो भविष्यसि ॥ ३६॥
चित्तं पञ्चविधं तात तत्र चिन्तामणिः स्थितः ।
तं ज्ञात्वा ब्रह्मभूताश्चाऽभवन् ब्रह्मादयः सुत ॥ ३७॥
चित्तेन ज्ञायते यद्वै तत्र मोहः प्रवर्तते ।
मोहं चित्तं परित्यज्य भव चिन्तामणिः स्वयम् ॥ ३८॥
मनोवाणीमयं चित्तं मनोवाणीविवर्जितम् ।
चित्तं जानीहि पुत्र त्वं तत्त्यक्त्वा च सुखी भव ॥ ३९॥
एवमुक्त्वा गणेशस्य गणानां त्वा मनुं ददौ ।
शौनकाय महायोगी भृगुश्चान्तर्हितोऽभवत् ॥ ४०॥
शौनक उवाच ।
भृगुणैवमहं राजन् उपदिष्टोऽभजं परम् ।
गणेशं योगभावेन चित्तनिग्रहणे रतः ॥ ४१॥
क्रमेण योगिवन्द्योऽहं जातस्तस्य महात्मनः ।
कृपया गणराजस्य तथापि स्म भजामि तम् ॥ ४२॥
(Page खं. ४ अ. १२ पान ३८)
ततो मे वरदो जातो गणेशो भक्तवत्सलः ।
गाणपत्यं चकाराऽसौ तदहात् गणपोऽभवम् ॥ ४३॥
एवमुक्त्वा स राजेन्द्रं गणानां त्वा मनुं ददौ ।
शौनको मुनिशार्दूलो विधियुक्तं विधानवित् ॥ ४४॥
शौनकं प्रणनामाऽऽज्ञां गृहीत्वा राजसत्तमः ।
आययौ स्वगृहे तत्र प्रधानैरभिनन्दितः ॥ ४५॥
नागरैः सह सोमश्च माघे शुक्लचतुर्थिका ।
सम्प्राप्ता साऽऽदिकाले स चकार व्रतमुत्तमम् ॥ ४६॥
ततस्तेन प्रविख्यातं कृतं भूमितले नृप ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४७॥
व्रताचरणपुण्येन वृष्टिस्तत्र बभूव च ।
सर्वे हर्षयुता लोका गणेशभजने रताः ॥ ४८॥
गणेशभजनं सोमश्चकार प्रेमसंयुतः ।
गणेशप्रीतये तत्राऽकरोद्देवालयं तथा ॥ ४९॥
महामौल्यं नृपाध्यक्षः स्थापयामास विघ्नपम् ।
गणेशं वरदाख्यं सोऽपूजयन्नित्यमादरात् ॥ ५०॥
पुत्रपौत्रयुतो राजा स चक्रे राज्यमुत्तमम् ।
लोकाः सर्वे सुखे मग्ना रोगवन्ध्यत्ववर्जिताः ॥ ५१॥
स्वधर्मनिरता नित्यमभजन् गणनायकम् ।
न गणेशसमं किञ्चिद्धारयामासुरादरात् ॥ ५२॥
सोमश्चान्ते गणेशानं ययौ लोकसमन्वितः ।
स्वानन्दे तं प्रणम्याऽसौ ब्रह्मभूतो बभूव ह ॥ ५३॥
एतत्ते कथितं भूप तथाऽन्यच्छृणु सुन्दरम् ।
चरित्रं व्रतसम्भूतं सर्वपापप्रणाशनम् ॥ ५४॥
कोऽप्यन्त्यजो विदर्भे वै कौण्डिन्ये नगरेऽवसत् ।
भानुनामा महापापी दुष्टकर्मपरायणः ॥ ५५॥
परस्त्रीलम्पटोऽत्यन्तं मद्यद्यूतरतः सदा ।
मार्गे जनान् जघानाऽसौ द्रव्यलोभी विशेषतः ॥ ५६॥
जीवं दृष्ट्वा दुष्टकर्मा जघान स च भूमिप ।
कार्यहीनतया पापी ब्राह्मणानां वधे रतः ॥ ५७॥
इत्यादिदोषबाहुल्ययुक्तः परमदारुणः ।
कदाचिद्दैवयोगेन वने बभ्राम सोंऽत्यजः ॥ ५८॥
तस्मिन् दिने समायाता माघी शौक्ली चतुर्थिका ।
तत्रान्नजलहीनोऽयं पर्वतान्तरगोऽभवत् ॥ ५९॥
न प्राप्तवान् वने किञ्चिद् दुष्टस्तेन सुदुःखितः ।
क्षुधार्तस्तृष्णया युक्तस्तत्रैव निशि संस्थितः ॥ ६०॥
प्रभाते विमले सद्यः समुत्थाय गृहागतः ।
तृषितः स जलं तत्र पपावत्यन्तमादरात् ॥ ६१॥
ततोऽकस्मात् सुदुःखेन वमित्वा तज्जलं नृप ।
ममार तं गृहीत्वा ते गाणेशा गणपं ययुः ॥ ६२॥
गणेशदर्शनेनैव निष्पापो ज्ञानसंयुतः ।
सायुज्यं गणनाथस्य लेभे वै तत्प्रभावतः ॥ ६३॥
अज्ञानव्रतजेनैव पुण्येनान्त्यजजातिजः ।
ब्रह्मभूतो महापापी बभूवे सूर्यवंशज ॥ ६४॥
एतादृशी महापुण्या चतुर्थी शुक्लगा मता ।
माघी तस्याश्च माहात्म्यं कथितुं न क्षमो भवेत् ॥ ६५॥
एवं नाना जना भूप ब्रह्मभूता बभूविरे ।
कथितुं न प्रशक्यं यच्चरित्रं तत्समुद्भवम् ॥ ६६॥
माघे शुक्लचतुर्थ्यां यो महिमानं शृणोति चेत् ।
पठेद्वा तस्य भो राजन् सिद्धिदं सुभविष्यति ॥ ६७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते माघशुक्लचतुर्थीमाहात्म्यवर्णनं नाम द्वादशोऽध्यायः ॥ ४.१२
(Page खं. ४ अ. १३ पान ३९)
४.१३ फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
अधुना ब्रूहि मे विप्र माहात्म्यं फाल्गुनोद्भवम् ।
पुण्यं शुक्लचतुर्थीजं न तृप्यामि कथामृतात् ॥ १॥
वसिष्ठ उवाच ।
फाल्गुने शुक्लपक्षे या चतुर्थी वरदा भवेत् ।
तस्या माहात्म्यमाद्यं ते सङ्क्षेपेण ब्रवीम्यहम् ॥ २॥
मालवे नगरं ख्यातं सर्वशोभासमन्वितम् ।
भारकं सर्वधर्मज्ञैर्लोकैस्तत् सङ्कुलं बभौ ॥ ३॥
तत्र हेमाङ्गदो राजा चकार राज्यमुत्तमम् ।
जित्वा भूमण्डलं सर्वं शस्त्रास्त्रज्ञो विचक्षणः ॥ ४॥
प्रधानै राजभिः सर्वैर्मान्योऽभूत् सर्वसम्मतः ।
पुत्रैस्तेजोयुतैर्युक्तो द्विजदेवातिथिप्रियः ॥ ५॥
ततोऽकस्मात् स राजर्षिः शूलयुक्तो बभूव ह ।
उदरे शस्त्रसम्पातैरिव युक्तो रुरोद ह ॥ ६॥
नानायत्नाः कृताः सर्वैः शूलनाशार्थमादरात् ।
मन्त्रैश्चौषधिभिः शूलं पिपीडातितरां नृपम् ॥ ७॥
तीर्थदेवादिकं सोऽपि ब्राह्मणैर्वेदपारगैः ।
असेवत ततस्तस्य शूलमुग्रं बभूव वै ॥ ८॥
ततः शूलेन राजाऽतिपीडितो दारुणेन वै ।
विषादिभिर्मतिं चक्रे देहत्यागे विशेषतः ॥ ९॥
ततोऽकस्मान् महायोगी पर्वतः सहसाऽऽगतः ।
तस्य गेहे तं ननाम स राजा दुःखसंयुतः ॥ १०॥
ब्राह्मणैः पूजयामास तं सर्वज्ञं विशेषतः ।
उवाच दुःखसंयुक्तः शूलपीडां नियम्य सः ॥ ११॥
हेमाङ्गद उवाच ।
धन्यं मे जन्म दानादि पिता माता कुलादिकम् ।
स्वधर्मपुत्रदारादि त्वदङ्घ्रियुगदर्शनात् ॥ १२॥
ततोऽतिपीडया युक्तः पपात धरणीतले ।
रुरोद दारुणं राजा तत् दृष्ट्वा विस्मितो द्विजः ॥ १३॥
पप्रच्छ सचिवान् विप्रो मुनीनां पर्वतो वरः ।
किमिदं दुःखमुग्रं वै राज्ञा प्राप्तं प्रकथ्यताम् ॥ १४॥
सचिवा ऊचुः ।
शूलमुग्रं बभूवास्यानिवार्यं त्वौषधादिभिः ।
तीर्थमन्त्रप्रयोगैश्च नानायत्नैर्महामुने ॥ १५॥
श्रुत्वा तेषां वचः क्रूरं पर्वतो ध्यानमास्थितः ।
ज्ञात्वा पापं महायोगी राज्ञः सर्वानुवाच ह ॥ १६॥
पर्वत उवाच ।
शृणु राजंस्त्वदीये यद्राज्ये पापं सुदारुणम् ।
वर्तते त्वं ततः पूर्णशूलयुक्तोऽसि साम्प्रतम् ॥ १७॥
चतुर्थ्यास्ते व्रतं मुख्यं राज्ये नष्टं विशेषतः ।
तेन दोषसमूहेन सजनस्त्वं सुदुःखितः ॥ १८॥
पर्वतस्य वचः श्रुत्वा राजा तं हर्षितोऽवदत् ।
कृत्वा करपुटं भूप विनयावनतो वचः ॥ १९॥
हेमाङ्गद उवाच ।
कीदृशं तद्व्रतं स्वामिन् केन सञ्चरितं पुरा ।
कस्यैव पूजनं तत्र वद मे सर्वमञ्जसा ॥ २०॥
पर्वत उवाच ।
सर्वसिद्धिकरं राजन् व्रतं गाणेश्वरं परम् ।
चतुर्णां पुरुषार्थानां साधनं सर्वसम्मतम् ॥ २१॥
ततश्चतुर्थीमाहात्म्यं कथयामास विस्तरात् ।
तेन संहर्षितो राजा श्रुत्वा तं पुनरब्रवीत् ॥ २२॥
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं देवदेवेशं भजिष्यामि विशेषतः ॥ २३॥
पर्वत उवाच ।
पुरा वृत्तं गणेशस्य चरित्रं यन्मया श्रुतम् ।
तदेव कथयिष्यामि निदाघात् सर्वदं परम् ॥ २४॥
अहं तपसि सन्तिष्ठन्नानायत्नपरायणः ।
(Page खं. ४ अ. १३ पान ४०)
संव्याप्तं तपसा सर्वं मदीयेन महामते ॥ २५॥
इन्द्रः प्रक्षुभितोऽत्यन्तं काममप्सरसा युतम् ।
प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥ २६॥
ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः ।
तपसस्तेजसा सत्यं पलायत स सैनिकः ॥ २७॥
ततोऽहं तपसा युक्तोंऽतर्निष्ठश्चाऽभवं नृप ।
तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥ २८॥
नानाभूमिपरो जातस्ततोऽतिभाग्य गौरवात् ।
निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥ २९॥
दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः ।
अपूजयं विधानेन ततस्तं स्म वदामि वै ॥ ३०॥
धन्यो मे जनको माता तपो धन्यं जनुस्तथा ।
ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥ ३१॥
अधुना वद मे नाथ योगं शान्तिप्रदायकम् ।
येनाऽहं योगिवन्द्यश्च भवेयं साधनान् मुने ॥ ३२॥
वसिष्ठ उवाच ।
इति पृष्टो महातेजा निदाघस्तमुवाच ह ।
पर्वतं तपसा शुद्धं प्रहृष्टेनान्तरात्मना ॥ ३३॥
निदाघ उवाच ।
शृणु वृत्तं मदीयं ते कथयामि पुरातनम् ।
येन योगीन्द्र वन्द्यश्च जातोऽहं योगसेवया ॥ ३४॥
अहं योगार्थमत्यन्तं योगभूमिपरायणः ।
असाधयं महायोगं ब्रह्मभूयकरं परम् ॥ ३५॥
ततोंऽतेऽहं सदानन्दे समः स्वानन्दकेऽभवम् ।
संस्थितस्तत्र भो राजन् दृष्टमानन्दरूपकम् ॥ ३६॥
द्वन्द्वैः सर्वत्र संव्याप्तं द्वन्द्वे तद् योगरूपि च ।
तेन शान्तिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥ ३७॥
तं प्रणम्य महात्मानमवदं वद शान्तिदम् ।
योगं विष्णो महायोगिन् येन शान्तो भवाम्यहम् ॥ ३८॥
विष्णुरुवाच ।
योगशान्तिप्रदं तात गणेशं विद्धि मानद ।
तं ज्ञात्वा शान्तिमापन्ना वयं सर्वे च योगिनः ॥ ३९॥
मनोवाणीमयं विद्धि गकारं च तयोः परम् ।
मनोवाणीविहीनं तं णकारं योगिसम्मतम् ॥ ४०॥
तयोः स्वामी गणाधीशस्तं भजस्व विधानतः ।
ततः शान्तिं महाभाग लभसे नाऽत्र संशयः ॥ ४१॥
एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः ।
तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥ ४२॥
एकाक्षरस्य मन्त्रस्य सन्तुष्टोऽभूद्गजाननः ।
गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥ ४३॥
ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् ।
ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥ ४४॥
स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः ।
योगशान्तिं गणेशानो दत्त्वा मे प्रजगाम ह ॥ ४५॥
तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै ।
भजस्व गणराजं त्वमतस्तं शान्तिदं परम् ॥ ४६॥
एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् ।
एकाक्षरं विधानेन ततः सोंऽतर्हितोऽभवत् ॥ ४७॥
पर्वत उवाच ।
भजामि गणनाथं स्म ततोऽहं नित्यमादरात् ।
तेनोक्तविधिना राजन् शान्तिं प्राप्तो विशेषतः ॥ ४८॥
अपूजयं हि गणपं ततो नित्यं तपोन्वितः ।
ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥ ४९॥
स्तुतः सम्पूजितो मे स भक्तिं दत्त्वा महामते ।
स्वानन्दे स गतो राजन् भक्तानन्दविवर्धनः ॥ ५०॥
(Page खं. ४ अ. १३ पान ४१)
एवमुक्त्वा पर्वतस्तं ददौ मन्त्रं दशाक्षरम् ।
गणेशस्य महाराज ततश्चान्तर्हितोऽभवत् ॥ ५१॥
राजा सर्वजनैरादौ व्रतं चक्रे स हर्षितः ।
फाल्गुने भूप शुक्लस्थचतुर्थीसंज्ञकं परम् ॥ ५२॥
ततो राज्ञाऽपि सर्वत्र कृतो घोषो जनैर्नृप ।
शौक्लं कार्ष्णं व्रतं भूमौ क्रियतां भावसंयुतैः ॥ ५३॥
ततः शुलव्यथाहीनो बभूवे राजसत्तमः ।
दुःखहीना जनाः सर्वे जाता व्रतप्रभावतः ॥ ५४॥
पुत्रपौत्रादिसंयुक्ता रोगाद्यभिविवर्जिताः ।
धनधान्यादिभिः सर्वे मुमुदुर्भूमिमण्डले ॥ ५५॥
ततो हेमाङ्गदो राजा भक्त्या विघ्नेशमुत्तमैः ।
उपचारैः प्रपूज्याऽपि सिषेवे नित्यमादरात् ॥ ५६॥
पुत्रं राज्ये निधायाऽसौ सस्त्रीकः शान्तिसंयुतः ।
गणेशं सर्वभावेनान्ते च तन्मयतामयात् ॥ ५७॥
क्रमेण भूमिसंस्था ये नराः स्वानन्दगा बभुः ।
भुक्त्वा भोगान् विशेषेण व्रतपुण्यप्रभावतः ॥ ५८॥
अधुना शृणु चान्यत्त्वं माहात्म्यं व्रतसंश्रितम् ।
भाकरे नगरे विप्रो वसद्वै जातिदूषणः ॥ ५९॥
बाल्यात्प्रभृति तेनैव कृतं कर्म सुदुःखदम् ।
हिंसादिसंयुतं राजन् चौर्यं क्लेशविवर्धनम् ॥ ६०॥
परस्त्रीलम्पटो नित्यं यौवने सोऽतिदारुणः ।
पतिव्रता हठेनैव व्रतभ्रष्टाश्चकार ह ॥ ६१॥
शस्त्रधारी वने गत्वा जन्तून् जघ्ने स नित्यशः ।
द्विजादीन् द्रव्यलुब्धश्च मानवान् मनुजप्रिय ॥ ६२॥
एवं पापसमाचारो वने कस्मिन् दिने स्थितः ।
वैश्यं दृष्ट्वा च तं हन्तुमधावत् स वधप्रियः ॥ ६३॥
पलता वैश्यपुत्रेण नादस्तत्र कृतो महान् ।
तं श्रुत्वा मार्गसंस्थाश्च चत्वारः पुरुषाऽऽययुः ॥ ६४॥
ते धृत्वा राजदूतास्तं ताडयामासुरुल्बणम् ।
राजानं दर्शयामासुश्चौरं बद्धं जनास्ततः ॥ ६५॥
राज्ञाऽऽज्ञप्ताश्च तं तत्राताडयंस्ते द्विजाधमम् ।
नाविदन् ब्राह्मणं राजंश्चिक्षिपुर्निगडे द्विजम् ॥ ६६॥
ततः फाल्गुनसंस्था या चतुर्थी शुक्लगाऽऽगता ।
बद्धस्तत्र निराहारो बभूवे स नराधमः ॥ ६७॥
पञ्चम्यां तं मृतं ज्ञात्वा ततो गाणेशकाऽऽययुः ।
दूता नेतुं द्विजं तत्र व्रतपुण्यप्रभावतः ॥ ६८॥
स स्वानन्दपुरे नीतो गाणपत्यैर्नृपात्मज ।
तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६९॥
एवं नाना जनाश्चैव ब्रह्मभूता बभूविरे ।
तेषां चरित्रकं सर्वं वक्तुं ते न प्रशक्यते ॥ ७०॥
फाल्गुने वरदायास्तु चरित्रं यः शृणोति चेत् ।
पठेद्वा तस्य विघ्नेशः सर्वान् कामान् ददाति हि ॥ ७१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते फाल्गुनशुक्लचतुर्थीचरित्रवर्णनं नाम त्रयोदशोऽध्यायः ॥ ४.१३
(Page खं. ४ अ. १४ पान ४२)
४.१४ चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं चरित्रं मुख्यं यच्चतुर्थ्याः फाल्गुने मया ।
शुक्लायाः सर्वदं योगिन् न तृप्तोऽहं भवामि तु ॥ १॥
अतो मां चैत्रगाया यद्वरदायाश्चरित्रकम् ।
गुरो सुदयया ब्रूहि पावनं सर्वजन्मिनाम् ॥ २॥
वसिष्ठ उवाच ।
बङ्गालं नगरं ख्यातं शोभाभद्राख्यमुत्तमम् ।
तत्र चन्द्रप्रियो राजा प्रचक्रे राज्यमुत्तमम् ॥ ३॥
शस्त्रास्त्रैः शत्रुसङ्घातान् जित्वा वीरश्रिया युतः ।
सागरान्तां धरित्रीं स चकार वशवर्तिनीम् ॥ ४॥
सामन्ता वशगाः सर्वे चक्रुः सेवादिकं नृपाः ।
तस्य राज्ये प्रजाः सर्वाः स्वस्वधर्मपरायणाः ॥ ५॥
स्वयं धर्मपरो राजा नीत्या वर्णाश्रमादिषु ।
संस्थितान् रक्षयंश्चैव सदा हीनानदण्डयत् ॥ ६॥
चौराणां न भयं तत्र स्वस्वव्यापारकारिणाम् ।
तथापि रोगसंयुक्ता नरा नार्योऽभवन् हि वै ॥ ७॥
वन्ध्यादिदोषसंयुक्ता जनाः सर्वे समाययुः ।
राजानं सर्वनीतिज्ञं पप्रच्छुश्चेष्टितं महत् ॥ ८॥
नागरादय ऊचुः ।
वयं राजन् स्वधर्मस्था त्वदाज्ञावशवर्तिनः ।
अपि त्वं धर्मसंयुक्तः प्रधानादिभिरादरात् ॥ ९॥
तथापि रोगदोषैश्च वन्ध्यदोषैर्विशेषतः ।
धनधान्यविहीनाश्च पीडिता वयमुत्कटम् ॥ १०॥
पृथिवी रसहीना वै फलहीना महीरुहाः ।
गावो दुग्धविहीनाश्च तव राज्ये महामते ॥ ११॥
धर्मशीले नृपे राजन् सर्वे सुखयुता जनाः ।
विपरीतं महाराज त्वयि राज्यं प्रशासति ॥ १२॥
अतोऽस्मान् रक्ष भूपाल रोगादिभिः प्रपीडितान् ।
अस्माकं बलमत्यन्तं त्वमेव परमं मतम् ॥ १३॥
वसिष्ठ उवाच ।
चन्द्रप्रियो वचः श्रुत्वा तेषामेवं सुदुःखितः ।
प्रधानेषु समाक्षिप्य राज्यं निहतकण्टकम् ॥ १४॥
वने गन्तुं मनश्चक्रे ततस्तत्राऽऽजगाम ह ।
अष्टावक्रो महायोगी तं दृष्ट्वा प्रणनाम सः ॥ १५॥
सम्पूज्य भोजयामास पादसंवाहने रतः ।
स्वयं स्थितो महाविप्रमूचेऽसौ दुःखसंयुतः ॥ १६॥
चन्द्रप्रिय उवाच ।
धन्यं मे जन्म कर्मादि पिता माता तपो यशः ।
दानं ज्ञानं तथा योगिन् त्वत्पादयुगदर्शनात् ॥ १७॥
ततः सर्वं स्ववृत्तान्तं कथयामास यत्नतः ।
अष्टावक्रश्च संश्रुत्य तं जगाद नराधिपम् ॥ १८॥
अष्टावक्र उवाच ।
राजन् राज्ये त्वदीये यत् महत्पापं प्रवर्तते ।
तेन दुःखयुता सर्वा प्रजा जाता न संशयः ॥ १९॥
चतुर्णां पुरुषार्थानां प्रापकं यन्महाव्रतम् ।
चतुर्थीसंज्ञकं नष्टं तव राज्ये नृपाधम ॥ २०॥
पुरुषार्थैर्नरास्तेन हीनाः सर्वेऽधुना परम् ।
अन्ते नरकगा राजन् भविष्यन्ति त्वया सह ॥ २१॥
अष्टावक्रवचः श्रुत्वा तं प्रणम्य महीपतिः ।
उवाच दुःखसंयुक्तो वचनं स्वहितप्रदम् ॥ २२॥
चन्द्रप्रिय उवाच ।
ब्रह्मन् दयानिधे स्वामिन् वद मे व्रतमुत्तमम् ।
कीदृशं कस्य देवस्य प्रियमित्यादिकं प्रभो ॥ २३॥
अष्टावक्र उवाच ।
कृष्णशुक्लचतुर्थीजं व्रतं गाणेश्वरं नृप ।
सर्वादौ तत् प्रकर्तव्यं धर्मकामार्थमुक्तये ॥ २४॥
इत्युक्त्वा कथयामास चरित्रं सकलं द्विजः ।
(Page खं. ४ अ. १४ पान ४३)
चतुर्थीसम्भवं तात श्रुत्वा राजा सुविस्मितः ॥ २५॥
पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः ।
कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥ २६॥
वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः ।
व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥ २७॥
अष्टावक्र उवाच ।
गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते ।
तथापि शृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥ २८॥
पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः ।
सुरूपका अप्सरसो याताश्चलयितुं ततः ॥ २९॥
तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः ।
मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥ ३०॥
इति मद्गिरमाकर्ण्य भयभीताः समन्ततः ।
ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥ ३१॥
अवदं तत्र विष्णुर्वै यादवेषु भविष्यति ।
तस्य पत्न्यो भविष्यन्त्योंऽते चौराणां भविष्यथ ॥ ३२॥
गता अप्सरसो राजंस्ततोऽहं तप आचरम् ।
प्रभावेणातितपसोंऽतर्ज्ञानं मेऽभवत् परम् ॥ ३३॥
ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् ।
नानायोगविचारेण समाधिं साधयन्नृप ॥ ३४॥
एवमन्ते समानन्दे संस्थितोऽहं विशेषतः ।
तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥ ३५॥
ततः शान्त्यर्थमत्यन्तं क्लिश्यामि स्म महामते ।
ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥ ३६॥
वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः ।
प्रणम्याऽहं विशेषेणापूज्योवाचं महामुनिम् ॥ ३७॥
धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा ।
तव पादस्य योगेन कृतकृत्योऽस्मि साम्प्रतम् ॥ ३८॥
एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः ।
किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥ ३९॥
ततस्तं प्रणतो भूत्वा कृताञ्जलिपुटः पुनः ।
अवदं योगशान्तिं मे वद योगीन्द्रसत्तम ॥ ४०॥
ऋभुरुवाच ।
संयोगः पञ्चधा तात सदसत्समनेतितः ।
स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥ ४१॥
अयोगः पञ्चभिर्हीनो निवृत्या लभ्यते जनैः ।
तयोर्योगे भवेद्योगो लभ्यते शान्तिमार्गतः ॥ ४२॥
तमेव गणराजं त्वं ज्ञात्वा भज महामते ।
तेन शान्तिभवं सौख्यं लभसे नान्यथा क्वचित् ॥ ४३॥
संयोगो हि गकारश्च णकारोऽयोगवाचकः ।
तयोः स्वामी गणेशानः पश्य वेदे महामते ॥ ४४॥
अहं पुरा युतो भ्रान्त्या नानायोगपरायणः ।
अभवं तत्र भो विप्र सहजेन समाश्रितः ॥ ४५॥
स्वाधीनत्वमहो दृष्ट्वा तत्र तेन सुविस्मितः ।
शरणं शङ्करस्यैव गतोऽहं योगकाम्यया ॥ ४६॥
शङ्करेणोपदिष्टः स्म भजामि गणनायकम् ।
एकाक्षरविधानेन तेन शान्तिं गतोऽभवम् ॥ ४७॥
एवमुक्त्वा गणेशस्य मह्यं मन्त्रं ददौ ऋभुः ।
एकाक्षरस्य मन्त्रस्य जपैः शान्तिं गतोऽभवम् ॥ ४८॥
अष्टावक्रः प्रसन्नात्मा योगिवन्द्यो महायशाः ।
तस्मै नृपाय मन्त्रं स ददौ द्वादशवर्णकम् ॥ ४९॥
सविधिं मन्त्रराजं तं दत्त्वा चान्तर्हितोऽभवत् ।
(Page खं. ४ अ. १५ पान ४४)
राजा विघ्नेश्वरस्यैव भजने तत्परोऽभवत् ॥ ५०॥
तत्रादौ चैत्रमासे या नृप शुक्ला समागता ।
चतुर्थी सा कृता तेन नागरैः स्वजनैः पुरा ॥ ५१॥
ततः स घोषयामास व्रतं जनपदेषु तत् ।
शौक्लं कार्ष्णं विशेषेण चक्रुः सर्वे जनास्तथा ॥ ५२॥
ततो रोगादिभिर्हीना बभूवुः पुत्रसंयुताः ।
नानादोषविहीनास्ते विहारं चक्रुरादरात् ॥ ५३॥
चन्द्रप्रियो गणेशानमभजन्नान्यचेतसा ।
पुत्रे राज्यं निवेद्यैव सस्त्रीको वनगोऽभवत् ॥ ५४॥
ततः स्वल्पेन कालेन सस्त्रीको नृपसत्तमः ।
स्वानन्दे गणपं गत्वा ब्रह्मभूतो बभूव ह ॥ ५५॥
क्रमेण भूमिसंस्था ये व्रतपुण्यप्रभावतः ।
ब्रह्मभूता बभूवुस्ते दृष्ट्वा गणपतिं नृप ॥ ५६॥
अन्यत्त्वं शृणु चैत्रे वै शुक्लपक्षे चतुर्थिका ।
तस्याश्चरित्रं पापघ्नं सर्वसिद्धिप्रदायकम् ॥ ५७॥
मालवे शूद्रजः पापी कोऽवसन् वनगोचरान् ।
जघान पथिकान् दुष्टो द्रव्यलोभी नराधमः ॥ ५८॥
तस्य पापस्य सङ्ख्यानं कर्तुं नैव भवाम्यहम् ।
समर्थो गणना त्यक्ता ग्रन्थबाहुल्यदोषतः ॥ ५९॥
तं कदाचिद्वने संस्थं वृक्षाग्रे शस्त्रधारकम् ।
वञ्चयित्वा जनान् घ्नन्तं तत्र सर्पो ददंश ह ॥ ६०॥
ततः सोऽपि भयोद्विग्नः स्वगृहं प्रत्यपद्यत ।
ततो विषेण राजेन्द्र पीडितो मूर्च्छितोऽभवत् ॥ ६१॥
दैवयोगेन तस्यापि चतुर्थी शुक्लगा नृप ।
चैत्रे प्राप्ता च शूद्रोऽभूत् पीडयाऽन्नविवर्जितः ॥ ६२॥
पञ्चम्यां स मृतः पापी गतः स्वानन्दके पुरे ।
व्रतपुण्यप्रभावेणाऽज्ञानेनाऽपि नृपात्मज ॥ ६३॥
एवं नानाविधा राजन् ब्रह्मभूता बभूविरे ।
तेषां चरित्रकं वक्तुं शक्यते न मया कदा ॥ ६४॥
इदं चैत्रचतुर्थ्यास्तु शुक्लायाः संशृणोति चेत् ।
माहात्म्यं स लभेत् कामानीप्सितान् पठते यदा ॥ ६५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चैत्रशुक्लचतुर्थीवर्णनं नाम चतुर्दशोऽध्यायः ॥ ४.१४
४.१५ वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
अधुना शुक्लगायास्तु वैशाखे चरितं वद ।
चतुर्थ्याः शुभदं पूर्णं न तृप्यामि कथामृतात् ॥ १॥
वसिष्ठ उवाच ।
गुर्जरे सर्वशोभाढ्यं नगरं भद्रकं परम् ।
तत्र राज्यं चकारैव राजा ब्रह्मप्रियो महान् ॥ २॥
सर्वशास्त्रार्थसम्पन्नो यज्वा दानप्रियः सदा ।
देवद्विजातिथिप्रेप्सुः शस्त्रास्त्रे पारगोऽभवत् ॥ ३॥
सर्वान् राज्ञो वशे कृत्वा पृथिवीमण्डलाधिपः ।
बभूव बलसम्पन्नः सर्वमान्यो महामतिः ॥ ४॥
तस्य पत्नी मृता सद्यो रजो दर्शनमात्रतः ।
द्वितीया च कृता पत्नी समशीला नृपेण ह ॥ ५॥
साऽपि तद्वन् मृता राजन्नेवं पञ्च मृतास्ततः ।
पत्न्योऽभवन् सुदुःखार्तो राजा ब्रह्मप्रियोऽभवत् ॥ ६॥
(Page खं. ४ अ. १५ पान ४५)
राज्यं निक्षिप्य राजर्षिः प्रधानेषु ययौ वनम् ।
स्वगुरुं श्वेतकेतुं स प्रणम्य पुरतः स्थितः ॥ ७॥
श्वेतकेतुः स्वशिष्यं तमासनादिषु मानदम् ।
संस्थाप्य कुशलत्वेन मानयामास हर्षितः ॥ ८॥
भोजयित्वा स राजानं महत् पप्रच्छ कारणम् ।
किमर्थं राजशार्दूल कृतमागमनं त्वया ॥ ९॥
वद तत् कारणं मुख्यं तत् करिष्येऽहमादरात् ।
(Page खं. ४ अ. १५ पान ४५)
ममाश्रमे त्वमेकाकी राज्यं त्यक्त्वा समागतः ॥ १०॥
एवं पृष्टः स राजर्षिस्तं प्रणम्य कृताञ्जलिः ।
जगाद सर्वं वृत्तान्तं पत्नीनाशात्मकं स्वयम् ॥ ११॥
तच्छ्रुत्वा गाणपत्यश्च श्वेतकेतुर्महातपाः ।
ध्यानेनालोक्य तं भूपं जगाद क्रोधसंयुतः ॥ १२॥
श्वेतकेतुरुवाच ।
नृपाधम महापापिन् शृणु मे वचनं हितम् ।
व्रतं मुख्यं चतुर्थ्यास्ते राज्ये नष्टं विशेषतः ॥ १३॥
चतुर्थीव्रतहीनस्य कर्म सर्वं सुनिष्फलम् ।
नारकी च भवत्यन्ते स नरो नात्र संशयः ॥ १४॥
चतुर्भिः पुरुषार्थैस्त्वं वर्जितो नितरां नृप ।
चतुःपदार्थदातृत्वाच्चतुर्थी कथिता बुधैः ॥ १५॥
श्वेतकेतुवचः श्रुत्वा कोपयुक्तं महीपतिः ।
प्रणम्य तमुवाचाऽथ लज्जितः खेदसंयुतः ॥ १६॥
ब्रह्मप्रिय उवाच ।
अज्ञानेन कृतं विप्र सर्वदस्य व्रतस्य यत् ।
अनाचरणकं तेन क्षमस्व करुणानिधे ॥ १७॥
वद मां कीदृशं स्वामिन् व्रतं सर्वार्थदं परम् ।
पूजनं कस्य वा कार्यं विधियुक्तं च तत्र वै ॥ १८॥
एवं पृष्टो महातेजाः श्वेतकेतुस्तमब्रवीत् ।
माहात्म्यं व्रतमुख्यस्य श्रुत्वा सोऽपि तमब्रवीत् ॥ १९॥
ब्रह्मप्रिय उवाच ।
कीदृशोऽयं गणाधीशो व्रतं यस्य महाद्भुतम् ।
स्वरूपं वद मे तस्य भजिष्यामि तमादरात् ॥ २०॥
श्वेतकेतुरुवाच ।
शृणु राजन् पुरावृत्तं कथयामि समासतः ।
मदीयं चेष्टितं तेन गणेशं ज्ञास्यसे परम् ॥ २१॥
अहं पुरा तपोनिष्ठो बभूवातितरां नृप ।
उद्दालकं प्रणम्यैव पितरं साधने रतः ॥ २२॥
ततोऽतितपसा युक्तं दृष्ट्वा मां जनको वचः ।
जगाद स्नेहसंयुक्तः शान्तिदाता महायशाः ॥ २३॥
उद्दालक उवाच ।
पुत्र शान्त्यर्थमेव त्वं तपस्त्यक्त्वा महामते ।
कुरु श्रमं विशेषेण ब्रह्माहमिति धारयन् ॥ २४॥
कोऽसि त्वं कुत आयातो कुत्र गच्छसि मां वद ।
चित्ते चिन्तामणिं तात पश्य पश्य विशेषतः ॥ २५॥
पितुर्वचनमाकर्ण्य तमहं पुनरब्रवम् ।
वद तात स्वपुत्राय ज्ञानं शान्तिप्रदं महत् ॥ २६॥
चित्तं च कीदृशं तात तत्र चिन्तामणिः कथम् ।
सोऽपि तिष्ठति विप्रेश कथं ज्ञेयो महात्मभिः ॥ २७॥
वसिष्ठ उवाच ।
एवं पृष्टो महायोगी तमारुणिरुवाच ह ।
हर्षेण महता युक्तो गाणपत्यस्वभाववान् ॥ २८॥
उद्दालक उवाच ।
शृणु पुत्र महाभाग योगशान्तिप्रदायकम् ।
येन त्वं सर्वयोगज्ञो ब्रह्मभूतो भविष्यसि ॥ २९॥
चित्तं पञ्चविधं प्रोक्तं क्षिप्तं मूढं महामते ।
विक्षिप्तं च तथैकाग्रं निरोधं भूमिसंज्ञितम् ॥ ३०॥
तत्र प्रकाशकर्ताऽसौ हृदि चिन्तामणिः स्थितः ।
साक्षाद्योगेन योगज्ञैर्लभ्यते भूमिनाशनात् ॥ ३१॥
(Page खं. ४ अ. १५ पान ४६)
चित्तरूपा स्वयं बुद्धिश्चित्तभ्रान्तिकरी मता ।
सिद्धिर्माये गणेशस्य मायाखेलक उच्यते ॥ ३२॥
अतो गणेशमन्त्रेण गणेशं भज पुत्रक ।
तेन त्वं ब्रह्मभूतत्वं शान्त्या योगेन यास्यसि ॥ ३३॥
इत्युक्त्वा गणराजस्य ददौ मन्त्रं तथाऽऽरुणिः ।
एकाक्षरं स्वपुत्राय नृप ध्यानादिसंयुतम् ॥ ३४॥
तेनाऽहं साधयामि स्म गणेशं सर्वसिद्धिदम् ।
क्रमेण शान्तिमापन्नो योगिवन्द्योऽभवं ततः ॥ ३५॥
अतस्त्वमपि राजेन्द्र भजस्व गणनायकम् ।
तेनेहपरलोकस्थसुखं प्राप्स्यसि शाश्वतम् ॥ ३६॥
ब्रह्मणि ब्रह्मभूतस्त्वं भविष्यसि न संशयः ।
एवमुक्त्वा स द्वात्रिंशदक्षरस्थं ददौ मनुम् ॥ ३७॥
विधियुक्तं मनुं राजाऽऽगृह्य स्वगृहमाययो ।
श्वेतकेतुं प्रणम्यैव हर्षयुक्तेन चेतसा ॥ ३८॥
तत्राऽऽदौ शुक्लपक्षस्था वैशाखी च समागता ।
चतुर्थी तां चकाराऽसौ नागरैर्हर्षसंयुतः ॥ ३९॥
तेन सर्वत्र घोषश्च व्रतस्य प्रकृतो महान् ।
शौक्लं कार्ष्णं व्रतं चक्रुर्भूमिसंस्था जना नृप ॥ ४०॥
राजा स्वस्त्रीसमायुक्तोऽभजत्तं गणनायकम् ।
पुत्रं राज्ये समास्थाप्य निवृत्त्या संयुतोऽभवत् ॥ ४१॥
मन्त्रं जजाप विघ्नेशं ध्यात्वा पूजापरायणः ।
व्रतयुक्तस्तथांऽते स ब्रह्मभूतो बभूव ह ॥ ४२॥
ब्रह्मप्रियेति नामाऽभूत् तदेवं सार्थकं कृतम् ।
तेन राज्ञा महाभाग गाणपत्यस्वभावतः ॥ ४३॥
तस्य राज्ये जनाः सर्वे व्रतपुण्येन भूमिप ।
क्रमेण ब्रह्मभूतास्तेऽभवन् स्वानन्दके पुरे ॥ ४४॥
उद्दालकश्वेतकेतू गाणपत्यस्वभावतः ।
अवधूतौ तु विख्यातौ बभूवाते महाप्रभू ॥ ४५॥
श्वेतकेतुद्विजेनाऽपि मर्यादा प्रकृता बलात् ।
सर्वेभ्यः सुखदाऽत्यन्तं तां शृणुष्व विशेषतः ॥ ४६॥
कदाचिदारुणिस्तत्र सस्त्रीकः स्वाश्रमे स्थितः ।
आजगाम द्विजः कश्चित् सर्वशास्त्रविशारदः ॥ ४७॥
जगाद स्त्रियमेवं स आरुणेः कामविह्वलः ।
मैथुनाय समागच्छ मया सह सुरूपिणि ॥ ४८॥
तच्छ्रुत्वा श्वेतकेतुं तं क्रुद्धमारुणिरब्रवीत् ।
मा क्रोधं कुरु पुत्र त्वमवृतास्तु स्त्रियो मताः ॥ ४९॥
तच्छ्रुत्वा पितरं प्राह श्वेतकेतू रुषा युतः ।
एवं चेत् पतिमेकं वृणोति सा कामिनी कथम् ॥ ५०॥
अतो वै वेधसा स्वामिन्न कृतं कर्म शाश्वतम् ।
असमञ्जसकं मत्वा मर्यादां कारयाम्यहम् ॥ ५१॥
अद्यप्रभृति रागेण स्पृशेद्यश्च परस्त्रियम् ।
स्त्रीहत्यां लभतां तत्र पुरुषः स न संशयः ॥ ५२॥
अथवा पुरुषं कञ्चित् पतिं त्यक्त्वा च कामिनी ।
गच्छेन् मैथुनभावार्थं पतिहत्यां तु सा लभेत् ॥ ५३॥
यद्यहं गणराजस्य भक्तश्चेद्विघ्ननायक ।
तदा मे वचनं सत्यं भवेत्तत्ते नमो नमः ॥ ५४॥
तदादि संवृता स्त्री सा सेवते भावतः पतिम् ।
विनायकप्रसादेन तेनेयं स्थापिताऽभवत् ॥ ५५॥
प्रसङ्गात्ते मया ख्यातमुद्दालकविचेष्टितम् ।
माहात्म्यमन्यदधुना चतुर्थीसम्भवं शृणु ॥ ५६॥
महाराष्ट्रे द्विजः कश्चित् परस्त्रीलम्पटोऽभवत् ।
(Page खं. ४ अ. १६ पान ४७)
तदर्थं तेन मद्यस्य कृतं पानं विशेषतः ॥ ५७॥
चौर्येण धनमादाय हिंसाकर्मपरायणः ।
नानापापरतो भूत्वा परस्त्रियमसेवत ॥ ५८॥
जगाम शूद्रगेहे स एकदा कामविह्वलः ।
धनं गृहीत्वा स्वं लब्धं धनं दत्त्वा रराम ह ॥ ५९॥
एवं किञ्चिद्गते काले शूद्रः स्वगृहमागतः ।
तेन शस्त्राभिघातेन हतोऽभूत्स द्विजाधमः ॥ ६०॥
तस्मिन् दिने समायाता चतुर्थी दैवयोगतः ।
तत्र शस्त्राभिघातस्य पीडया संयुतोऽभवत् ॥ ६१॥
अन्नादिभिर्विहीनश्च पञ्चम्यां स ममार ह ।
ततः स्वानन्दके लोके जगाम भृशपूजितः ॥ ६२॥
वैशाखशुक्लपक्षस्य चतुर्थीव्रतयोगतः ।
ब्रह्मभूतः स वै जातो महापापपरायणः ॥ ६३॥
अज्ञानव्रतजेनैव पुण्येनाऽसौ द्विजाऽधमः ।
ब्रह्मभूतश्च सञ्जातो ज्ञानिनां तत्र का कथा ॥ ६४॥
नाना जना व्रतं कृत्वा ज्ञानतोऽज्ञानतो नृप ।
बभूवुर्ब्रह्मभूताश्च मया वक्तुं न शक्यते ॥ ६५॥
एतद् वैशाखशुक्लायाश्चतुर्थ्याः शृणुयात्तु यः ।
माहात्म्यं प्रपठेद्वाऽपि स लभेदीप्सितं फलम् ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते वैशाखशुक्लचतुर्थीमाहात्म्यवर्णनं नाम पञ्चदशोऽध्यायः ॥ ४.१५
४.१६ ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रुतं वैशाखमासे वै शुक्लायाः फलमुत्तमम् ।
चतुर्थ्या अधुना योगिन् ज्येष्ठशुक्लां वद प्रभो ॥ १॥
वसिष्ठ उवाच ।
आन्ध्रे शेषपुरे राजन् राजाऽभूत् कर्दमाभिधः ।
शस्त्रास्त्रनिपुणोऽत्यन्तं नानाधर्मपरायणः ॥ २॥
वशं भूमण्डलं यस्य समुद्रान्तं बभूव ह ।
तेजसा धर्मनीत्या वै ह्यतुलो यशसाऽभवत् ॥ ३॥
दैवयोगेन तस्याऽभूत् प्रमेहश्चाऽतिदारुणः ।
अग्निवद् दाहको देहे पापेन प्रेरितः परः ॥ ४॥
तेनातिपीडितो राजा मूत्रितुं न शशाक सः ।
रुरोद कर्दमो भूत्वा सदा दाहयुतो भृशम् ॥ ५॥
नानोपायाः कृतास्तेन शान्तो रोगो बभूव न ।
ततो राज्यं परित्यज्य सस्त्रीकः स ययौ वनम् ॥ ६॥
वनाद्वनान्तरं गत्वा महोग्रं भयवर्धनम् ।
सिंहव्याघ्रादियुक्तं च मरणाय रुरोद ह ॥ ७॥
तत्राऽऽजगाम विप्रेन्द्रो भरद्वाजो महायशाः ।
तं दृष्ट्वा सहसोत्थाय सस्त्रीकः प्रणनाम सः ॥ ८॥
स हि बध्वा करपुटं तत्पुरः संस्थितोऽभवत् ।
ततोऽतिदाहसंयुक्तः पपात च रुरोद सः ॥ ९॥
तादृशं नृपनाथं स दृष्ट्वा योगीन्द्रसत्तमः ।
ध्यानेनालोक्य राजानमुवाच दयया युतम् ॥ १०॥
भरद्वाज उवाच ।
शृणु कर्दम राजेन्द्र वचनं मे हितावहम् ।
येन दुःखविहीनस्त्वं भविष्यसि महामते ॥ ११॥
(Page खं. ४ अ. १६ पान ४८)
चतुर्थीव्रतमत्यन्तं नष्टं राज्ये त्वदीयके ।
तेन पापसमायुक्तस्त्वं जातोऽसि नृपाधमः ॥ १२॥
अतस्त्वं जनसंयुक्तो व्रतं कुरु महामते ।
पुण्येन तेन राजेन्द्र दुःखहीनो भविष्यसि ॥ १३॥
भरद्वाजवचः श्रुत्वा तं पप्रच्छ प्रणम्य सः ।
कर्दमो हर्षसंयुक्तो व्रतस्याऽऽचरणाय च ॥ १४॥
कर्दम उवाच ।
भगवन् सर्वतत्त्वज्ञ त्वयाऽहमनुकम्पितः ।
व्रतस्य वद माहात्म्यमधुना तत् करोम्यहम् ॥ १५॥
भरद्वाज उवाच ।
सङ्कष्टं वरदं कृष्णे चतुर्थीजं च शुक्लके ।
व्रतं सर्वार्थदं पूर्णं चतुर्णां साधकं मतम् ॥ १६॥
सर्वादौ तन्नरः कुर्यात्तदा सर्वं नराधिप ।
चतुर्णां पुरुषार्थानां दातृकर्मफलं लभेत् ॥ १७॥
अतो हीनश्चतुर्भिस्त्वं स जनो नरके नृप ।
पतिष्यसि न सन्देहस्तदर्थं यत्नमाचर ॥ १८॥
एवमुक्त्वा स माहात्म्यं चतुर्थीसम्भवं नृप ।
कथयामास भूपाय श्रुत्वा राजा ननन्द ह ॥ १९॥
पुनः पप्रच्छ तं विप्रं भरद्वाजं स कर्दमः ।
गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ॥ २०॥
भरद्वाज उवाच ।
गणेशस्य स्वरूपं तु वक्तुं वेदादिका नृप ।
न समर्थास्तथाऽपि त्वं शृणु सारं सुखप्रदम् ॥ २१॥
पुराऽहं तपसा युक्तोऽतपं च तप उत्तमम् ।
सर्वं चराचरं राजन् मदधीनं बभूव ह ॥ २२॥
तथाऽपि तपसोग्रेणाऽसाधयं तु तपः पुनः ।
ततोंऽतर्ज्ञानभावे मे मतिर्जाता सुपुण्यतः ॥ २३॥
तपस्त्यक्त्वा ततोऽहं तु शमी दमपरोऽभवम् ।
जडोन्मत्तादिजे मार्गे संस्थितो योगकारणात् ॥ २४॥
ततः क्रमेण भो राजन्नसत्स्वानन्दगोऽभवम् ।
तत्र सम्पूर्णयोगेन शान्तिं प्राप्तो विशेषतः ॥ २५॥
तस्माद्भेदादिकं सर्वमुत्पन्नं तु विशेषतः ।
तद् दृष्ट्वा क्षुभितोऽत्यन्तं शान्तिहीनो यथाऽभवम् ॥ २६॥
ततोऽकस्माद्रैवतो यो महायोगी समागतः ।
आश्रमे मे च तं दृष्ट्वा प्रणतोऽहं सुपूजयन् ॥ २७॥
स्वासने सुखमासीनमब्रवं तं महामुनिम् ।
अद्याऽहं कृतकृत्यश्च जातस्ते दर्शनेन वै ॥ २८॥
वद मे योगशान्तिं त्वं योगीन्द्राणां गुरुर्भवान् ।
तिष्ठामि शान्तिगो भूत्वा ययाऽहं योगधारकः ॥ २९॥
रैवत उवाच ।
स्वानन्दः पञ्चधा प्रोक्तः सदसत्समनेतितः ।
चतुर्णां चैव संयोगे स्वस्वरूपः प्रकीर्तितः ॥ ३०॥
अयोगः स्वस्वरूपेण हीनः सर्वत्र सम्मतः ।
तयोर्योगो भरद्वाज योगशान्तिप्रदायकः ॥ ३१॥
स्वसंवेद्यो गकारश्च णकारो योग उच्यते ।
तयोः स्वामी गणेशोऽयं ब्रह्मणस्पतिवाचकः ॥ ३२॥
तं भजस्व महाभाग ततः शान्तिमवाप्स्यसि ।
नान्यथा शतवर्षैस्त्वं भ्रमयुक्तो भविष्यसि ॥ ३३॥
एतद्विष्णुमुखाद्ब्रह्मन् श्रुत्वा ज्ञानं महत् पुरा ।
तेनाऽहं शान्तिमापन्नो गाणपत्यश्चरामि वै ॥ ३४॥
एवमुक्त्वा ददौ तस्मै स्वमन्त्रं सिद्धिदायकम् ।
एकाक्षरं गणेशस्य सविधिं न्याससंयुतम् ॥ ३५॥
पूजितो रैवतस्तेन जगाम स्वेच्छया चरन् ।
भरद्वाजो गणेशानमभजन्नान्यचेतसा ॥ ३६॥
ततः शान्तिं समापन्नो तथापि भजने रतः ।
(Page खं. ४ अ. १६ पान ४९)
गतेषु दशवर्षेषु विघ्नेशस्तं समाययौ ॥ ३७॥
तं दृष्ट्वा पूजयामास भरद्वाजः प्रतापवान् ।
स साम्नामष्टनामार्थस्तोत्रेण प्रणनाम ह ॥ ३८॥
ततो मां गाणपत्यं स कृत्वा स्वानन्दगोऽभवत् ।
गणेशस्तं विशेषेणाऽहं भजामि सुभक्तितः ॥ ३९॥
एवमुक्त्वा ददौ तस्मै कर्दमाय महामनुम् ।
अष्टाक्षरं गणेशस्य विधियुक्तं विधानवित् ॥ ४०॥
ततश्चान्तर्हितो राजन् भरद्वाजो महामुनिः ।
कर्दमः स्वगृहे गत्वा हर्षयुक्तः पुपूज तम् ॥ ४१॥
तत्राऽऽदौ ज्येष्ठमासे या नृप शुक्ला समागता ।
चतुर्थी सा कृता तेन नागरैर्हर्षसंयुतः ॥ ४२॥
वरदं सङ्कटं शुक्ले चतुर्थीजं च कृष्णके ।
न करोति नरो यः स सन्ताड्यो नगराद्बहिः ॥ ४३॥
प्रकाशितं ततस्तेन सर्वत्र व्रतमुत्तमम् ।
कृतं भूमितले राजन् चक्रुः सर्वे जना व्रतम् ॥ ४४॥
प्रमेहदुःखनिर्मुक्तो बभूवे राजसत्तमः ।
कर्दमः स स्वकीयं वै राज्यं पुत्राय सन्ददौ ॥ ४५॥
वाटिकायां स्थितो राजा सस्त्रीको ह्यभजत् सदा ।
गणेशं सर्वभावेन सोंऽते तन्मयतामयात् ॥ ४६॥
तस्य राज्ये जनाः सर्वे ते क्रमेण महामते ।
अभवन् ब्रह्मभूताश्च व्रतपुण्यप्रभावतः ॥ ४७॥
कथां रम्यां दशरथ अन्यां शृणु सुसिद्धिदाम् ।
गौडदेशेंऽत्यजः कश्चिद्वभूवे पापकारकः ॥ ४८॥
वने गत्वा जघानाऽसौ द्रव्यलोभी जनान् सदा ।
योनिलम्पटभावेन दूषितामकरोत् स्त्रियम् ॥ ४९॥
वन एकाकिनीं दृष्ट्वा ब्राह्मणीं क्षत्रियां तथा ।
धृत्वाऽयभत् स वेगेन शूद्रीं वैश्यस्त्रियं खलः ॥ ५०॥
एवं नानास्वभावेन पापं चक्रे स नित्यशः ।
एकदा ब्राह्मणं कञ्चिद् दृष्ट्वा हन्तुं तमाययौ ॥ ५१॥
पलायत भयोद्विग्नो हाहाकारपरायणः ।
तस्य नादं समाकर्ण्य पुरुषाः पञ्च आययुः ॥ ५२॥
तैर्हतः शस्त्रघातेन पपात धरणीतले ।
तस्मिन् दिने समायाता ज्येष्ठी शुक्ला चतुर्थिका ॥ ५३॥
स उपोषणयुक्तश्च बभूवे दैवयोगतः ।
ममार पीडया युक्तः पञ्चम्यां पापरूपकः ॥ ५४॥
अज्ञानव्रतपुण्येन ब्रह्मभूतो बभूव ह ।
चाण्डालः किं पुनर्भूप ज्ञानिनां चित्रमेव च ॥ ५५॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः ।
इह भुक्त्वाऽखिलान् भोगानन्ते स्वानन्दगा बभुः ॥ ५६॥
तत्रैवं कति भूपाल ब्रूयां वक्तुं न शक्यते ।
अपारमहिमा तस्मादानन्त्यं कथितं द्विजैः ॥ ५७॥
इदं ज्येष्ठचतुर्थ्या यन् माहात्म्यं संशृणोति सः ।
पठेद्वा यो लभेत् सर्वं शुक्लाया मनसीप्सितम् ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते ज्येष्ठशुक्लचतुर्थीमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ ४.१६
(Page खं. ४ अ. १७ पान ५०)
४.१७ आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
वद ब्रह्मंश्च शुक्लाया आषाढे चरितं महत् ।
चतुर्थ्या नैव तृप्यामि कथां श्रुत्वा सुसिद्धिदाम् ॥ १॥
वसिष्ठ उवाच ।
मैथिले विषये राजन्नगरं गण्डकी महत् ।
तत्र राज्यं भद्रसेनश्चकारामिततेजसा ॥ २॥
शस्त्रास्त्रनिपुणोऽत्यन्तं परराष्ट्रावमर्दनः ।
जित्वा भूमण्डलं सर्वं समुद्रवलयाङ्कितम् ॥ ३॥
राज्यं चकार धर्मेण नीत्या दण्डेन भूमिप ।
यज्वा विनीतको मानी द्विजदेवातिथिप्रियः ॥ ४॥
वशगाः सर्वराजानः सेवन्ते स्म नराधिपम् ।
अपारसेनया युक्तं करदा इतरेऽभवन् ॥ ५॥
तस्य राज्ये शुका राजन् शलभा मूषकास्तथा ।
अपारा भक्षयन्ति स्म धान्यं वस्त्रादिकं बलात् ॥ ६॥
तेषां नाशार्थमत्यन्तं भद्रसेनः प्रतापवान् ।
अस्त्रैर्यत्नपरो भूत्वा मारयामास तान् बहून् ॥ ७॥
अग्न्यस्त्रेण समन्तात्तान् दग्धानपि च तादृशान् ।
ददर्श पुनरुत्पन्नांस्ततो राजाऽतिविस्मितः ॥ ८॥
यत्र तत्र गृहान्तेषु चेरुस्ते शलभादयः ।
अशक्तः स वने गत्वा बभूव ह सुदुःखितः ॥ ९॥
उपोषणपरो राजा तताप तप उत्तमम् ।
शिवं स्मृत्वा स तुष्टावापूज्य रौद्रेण भावतः ॥ १०॥
गते वर्षे महायोगी बकदाल्भ्यः समाययौ ।
तं देशं दैवयोगेन ददर्शाऽसौ भ्रमन्नृपम् ॥ ११॥
राजा तं पूजयामास सम्भोज्य नयसंयुतः ।
पप्रच्छ योगिनं तत्र दुःखयुक्तेन चेतसा ॥ १२॥
भद्रसेन स्वाच ।
स्वामिन् राज्ये मदीये वै मूषकाः शलभाः शुकाः ।
अत्यन्तं पीडयन्ति स्म जनान्मां भक्षणे रताः ॥ १३॥
तत्रोपायाः कृता विप्राऽभवन् सर्वे सुनिष्फलाः ।
राज्यं त्यक्त्वा वनेऽहं च संस्थितो दुःखकारणात् ॥ १४॥
शङ्करं सम्भजंस्तत्र दर्शनं ते महामते ।
प्राप्तस्तपः प्रभावेण तत्रोपायं वद प्रभो ॥ १५॥
वसिष्ठ उवाच ।
भद्रसेनवचः श्रुत्वा गाणपत्यो महायशाः ।
जगाद बकदाल्भ्यः स तं भूपं हर्षयन्निव ॥ १६॥
बकदाल्भ्य उवाच ।
शिवेन प्रेषितोऽत्राऽहं त्वदर्थं राजसत्तम ।
शृणु मे परमं वाक्यं दुःखनाशकरं महत् ॥ १७॥
राज्ये ते भद्रसेनाऽद्य व्रतं नष्टं बभूव ह ।
चतुर्थी संज्ञकं तेन विघ्नयुक्तोऽसि साम्प्रतम् ॥ १८॥
प्रजाः सर्वा भयोद्विग्ना जाता दुष्टे नराधिपे ।
राज्यकर्तरि रे पापिन् नरके गच्छसि ह्यतः ॥ १९॥
सर्वादौ तद्व्रतं सर्वैः कर्तव्यं नित्यवत्प्रभो ।
चतुर्णां पुरुषार्थानां दायकं विघ्नहारकम् ॥ २०॥
न कृतं चेत्तदा सर्वं कृतं कर्म निरर्थकम् ।
चतुःपदार्थहीनत्वाद्विचारय महामते ॥ २१॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं बकदाल्भ्यकः ।
कथयामास राज्ञे वै श्रुत्वा तं सोऽब्रवीद्वचः ॥ २२॥
भद्रसेन उवाच ।
कीदृशोऽयं गणाधीशो वद तस्य स्वरूपकम् ।
ज्ञात्वा तं सर्वदेवेशं भजिष्यामि विशेषतः ॥ २३॥
बकदाल्भ्य उवाच ।
पुरावृत्तं मदीयं यच्चेष्टितं शृणु भूमिप ।
तेन त्वं गणराजस्य ज्ञाने सुनिपुणो भवेः ॥ २४॥
पुराऽहं तपसा युक्तो वायुमात्राशनोऽभवम् ।
(Page खं. ४ अ. १७ पान ५१)
चराचरं ततो मत्तेजसा व्याप्तं भयातुरम् ॥ २५॥
तथापि तपसा राजन् युक्तोऽहं तत्र मेऽद्भुतम् ।
बभूव विश्वरूपस्य दर्शनं सर्वगं परम् ॥ २६॥
तेनाऽहं ज्ञानभावेन संस्थितो योगकारणात् ।
तपस्त्यक्त्वा विशेषेण जडोन्मत्तादिके रतः ॥ २७॥
शमी दमपरो भूत्वा योगं पूर्णसुखप्रदम् ।
असाधयं सदाऽत्यन्तं मनोनिग्रहतत्परः ॥ २८॥
एवं क्रमेण भूपाल सहजे ब्रह्मणि ह्यहम् ।
ब्रह्मभूतस्वभावेन संस्थितो हर्षवांस्तदा ॥ २९॥
ततो मयाऽतिमोहेन शून्यं स्वाधीनरूपकम् ।
दृष्टं तेनाऽभवं भ्रान्तो ब्रह्मणि त्वीदृशं कथम् ॥ ३०॥
ततोऽहं शरणं शम्भुं गत्वा तं स्तुतवान् स्तवैः ।
प्रसन्नं शङ्करं दृष्ट्वाऽवदं योगं वद प्रभो ॥ ३१॥
शिव उवाच ।
सत्यासत्यसमानानि सहजेन युतानि वै ।
निजात्मबोधतो विद्धि स्वानन्दादुद्भवानि च ॥ ३२॥
संयोगे स्वस्वरूपत्वं ज्ञातव्यं वेदवादतः ।
अयोगे सर्वसंयोगो नश्यत्यत्र न संशयः ॥ ३३॥
संयोगश्च तथा योगस्तयोर्योगो महामते ।
योगशान्तिप्रदः प्रोक्तो योगिभिर्योगसेवया ॥ ३४॥
योगशान्तिमयं विद्धि गणेशं ब्रह्मनायकम् ।
तं भजस्व विधानेन ब्रह्मभूतो भविष्यसि ॥ ३५॥
संयोगश्च गकाराख्यो णकारो योगवाचकः ।
तयोः स्वामी गणाधीशः पश्य वेदे विशेषतः ॥ ३६॥
एवमुक्त्वा महादेवो ददौ मन्त्रं द्विजाय मे ।
एकाक्षरं गणेशस्य विधियुक्तं सुयोगदम् ॥ ३७॥
प्रणम्य शङ्करं भूप गतोऽहं वनमेव च ।
अभजं गणराजं तं ध्यात्वा जपपरायणः ॥ ३८॥
ततस्तत्कृपया शान्तिर्मया प्राप्ता विशेषतः ।
तथाऽपि पूजने सक्तस्तं ध्यायामि स्म चेतसा ॥ ३९॥
ततो मां दर्शयामास रूपं शुण्डाविराजितम् ।
दृष्ट्वा तं प्रणमामि स्म स्तौमि हर्षसमन्वितः ॥ ४०॥
भक्तिं दत्त्वा गणाधीशो ह्यन्तर्धानं चकार मे ।
तदारभ्य महाभाग गाणपत्योऽहमादरात् ॥ ४१॥
एवमुक्त्वा ददौ तस्मै मन्त्रं पञ्चाक्षरं मुनिः ।
अन्तर्धानं गणेशस्य स चकार द्विजोत्तमः ॥ ४२॥
बकदाल्भ्यं गतं दृष्ट्वा राजा हर्षसमन्वितः ।
चकार स्वपुरे राज्यं पुनरागत्य धर्मतः ॥ ४३॥
ततः स नागरैः सार्धं चकार व्रतमुत्तमम् ।
आषाढे शुक्लपक्षे वै चतुर्थीजं सुभक्तितः ॥ ४४॥
ततः सर्वत्र तेनैव प्रशस्तं तद्व्रतं कृतम् ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना नृप ॥ ४५॥
शुकाश्च मूषकास्तत्र शलभा नाशमाययुः ।
धनधान्ययुता लोकाः पुष्टिं लेभुः सुहर्षतः ॥ ४६॥
नानादुःखं परित्यज्यानन्देनैव समावृताः ।
अन्ते स्वानन्दगाः सर्वे ब्रह्मभूता बभूविरे ॥ ४७॥
राज्येऽभिषिच्य पुत्रं स्वं सपत्नीको ययौ वनम् ।
तत्र तं गणराजं सोऽभजतानन्यभावतः ॥ ४८॥
अन्ते स्वानन्दगो भूत्वा सस्त्रीकोऽजसमुद्भव ।
ब्रह्मभूतो व्रतस्यास्य प्रसादेन बभूव ह ॥ ४९॥
अन्यच्छृणु चरित्रं तद्व्रतजं पुण्यवर्धनम् ।
आषाढे वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥ ५०॥
(Page खं. ४ अ. १७ पान ५२)
बङ्गदेशे समुत्पन्नो वाणिजः पापकारकः ।
स्वधर्मं स परित्यज्य दृष्टकर्मरतोऽभवत् ॥ ५१॥
द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः ।
बलात् धृत्वाऽभुङ्क्त परस्त्रियं वशमनागताम् ॥ ५२॥
तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः ।
असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥ ५३॥
विषबाधासमायुक्तः स ममार ददाह तम् ।
ततो मातरमागम्य धनं जग्राह वै बलात् ॥ ५४॥
लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् ।
तस्य दुष्टस्य ते तत्र व्यथिताः सम्बभूविरे ॥ ५५॥
जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः ।
चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥ ५६॥
शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया ।
तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥ ५७॥
तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् ।
पञ्चम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥ ५८॥
अज्ञानव्रतपुण्येन स स्वानन्दगतोऽभवत् ।
महापापी व्रतस्यैव प्रभावेण महीपते ॥ ५९॥
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ।
एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥ ६०॥
तत्रैवं कति सङ्ख्यातुं शक्यते न कदाचन ।
वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥ ६१॥
यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् ।
वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥ ६२॥
इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् ।
शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥ ६३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते आषाढशुक्ल चतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥ ४.१७
४.१८ श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् ।
न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥ १॥
वसिष्ठ उवाच ।
अङ्गदेशे पुरं श्रीमच्छततारं बभूव ह ।
राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥ २॥
धर्मेण नीतियुक्तेन नानादानपरायणः ।
देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥ ३॥
नानाव्रतपरो राजा यज्वा तेजस्विनां वरः ।
शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥ ४॥
सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः ।
राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥ ५॥
एवं राज्यं वशं कृत्वा भूतलं स चकार ह ।
ततोऽकस्माज्ज्वरस्तस्य समुत्पन्नोऽतिदाहकः ॥ ६॥
ज्वरेण पीडितोऽत्यन्तं निशि निद्रां न चाऽलभत् ।
नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥ ७॥
एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः ।
अत्यन्तदुःखितो राजा विललाप भृशातुरः ॥ ८॥
विषेण देहपातार्थमुद्यतोऽभून् महीपतिः ।
जगाम सहसा तत्र देवलो योगिसत्तमः ॥ ९॥
(Page खं. ४ अ. १८ पान ५३)
तं दृष्ट्वा प्रणनामाथ पूजयामास बान्धवैः ।
भुक्त्वा तृप्तं जगादेदं वचनं साधुमार्गवित् ॥ १०॥
अश्वसेन उवाच ।
धन्यं मे जन्म कर्माऽपि पिता माता व्रतादिकम् ।
अधुना सफलं दानं येन ते दर्शनं मुने ॥ ११॥
ज्वरेण पीडितोऽत्यन्तं विषपाने महामुने ।
तत्परोऽहं प्रपश्याम्यागतं त्वां योगिसत्तम ॥ १२॥
मृतोऽहं विषपानेनात्महत्यां न लभे कदा ।
तव दर्शनमात्रेण मुक्तो यास्यामि धाम तत् ॥ १३॥
एवमुक्त्वा रुरोदाऽपि ततस्तं देवलो मुनिः ।
उवाच भावगम्भीरः सर्वशास्त्रार्थतत्त्ववित् ॥ १४॥
देवल उवाच ।
राज्ये नष्टं त्वदीये यच्चतुर्थीसंज्ञितं व्रतम् ।
तेन त्वं रोगयुक्तोऽसि मृतो गच्छसि नारके ॥ १५॥
चतुःपदार्थदं पूर्णं सर्वादौ सम्मतं परम् ।
न कृतं चेत् फलैर्हीनं कर्म सर्वं भवेन्नृप ॥ १६॥
त्वया यच्च कृतं कर्म नानापुण्यात्मकं महत् ।
चतुःपदार्थहीनं तच्चतुर्थीव्रतहीनकम् ॥ १७॥
एवमुक्त्वा महायोगी चतुर्थीव्रतसंश्रिताम् ।
कथां संश्रावयामास राजा श्रुत्वा तमब्रवीत् ॥ १८॥
अश्वसेन उवाच ।
अहो व्रतस्य माहात्म्यं संश्रुतं परमाद्भुतम् ।
अधुना वद माहात्म्यं गणेशस्य महामुने ॥ १९॥
देवल उवाच ।
गणेश्वरस्य माहात्म्यं मया वक्तुं न शक्यते ।
उपाधिना युतं राजन् वदिष्यामि स्वरूपकम् ॥ २०॥
असितान् मे पितुर्वक्त्राच्छ्रुतं तत्ते वदाम्यहम् ।
सर्वसिद्धिकरं पूर्णं ब्रह्मयोगप्रकाशकम् ॥ २१॥
पुराऽहं तपसा युक्तोऽभवंस्तत्र समागतः ।
जैगीषव्यो महायोगी शैवः सहजगो बभौ ॥ २२॥
मया सुसत्कृतो योगी संस्थितः पूजितः स्तुतः ।
ममाश्रमे न किञ्चिन् माऽवदत् सोऽपि महायशाः ॥ २३॥
तस्य चिह्नं समालोक्य मनसा धारयाम्यहम् ।
अकर्मकारकश्च स्म देहरक्षणतत्परः ॥ २४॥
ध्यानादिशून्यभावेन तिष्ठति भ्रष्ट एव च ।
शान्तियोगेन हीनः स्म तथा योगिस्वरूपधृक् ॥ २५॥
ततोऽहं तं गृहे त्यक्त्वा गतः सामुद्रके जले ।
मदीयचित्तगं ज्ञात्वा स तत्रैव समाययौ ॥ २६॥
अहो केनैव मार्गेणाऽऽगतोऽयं योगिसत्तमः ।
तापसेन मयाऽऽकाशे गच्छता नावलोकितः ॥ २७॥
त्यक्त्वा ततस्तं तत्राहमगमं स्वर्गमण्डलम् ।
तत्रापि जैगीषव्यश्च मया दृष्टो महामते ॥ २८॥
एवं नानाविधैर्मार्गैः स्वर्गेषु गतवानहम् ।
मया तेषु महायोगी दृष्टः सम्पूजितोऽमरैः ॥ २९॥
ततोऽकस्मान् महायोगी सोंऽतर्धानं चकार ह ।
तद् दृष्ट्वा सिद्धसङ्घांश्चापृच्छं तैः कथितं नृप ॥ ३०॥
ब्रह्मलोके गतः सोऽपि तत्र तेन गतिर्भवेत् ।
ततोऽहं खेदसंयुक्तः स्वाश्रमं पुनरागमम् ॥ ३१॥
तत्रापि गृहमध्येऽसौ मया दृष्टो महायशाः ।
सम्पूज्य प्रणतो भूत्वाऽवदं योगपरायणः ॥ ३२॥
तारयस्व महायोगिन् संसारान् मां कुशिष्यकम् ।
छलनायां समायुक्तं दयया त्वं दयानिधे ॥ ३३॥
जैगीषव्य उवाच ।
हिंसात्मकं कुरुष्व त्वं कर्म मा यत्नधारकः ।
(Page खं. ४ अ. १८ पान ५४)
ब्रह्माहमिति बोधेन शमी दमपरो भव ॥ ३४॥
यदाज्ञावशगं सर्वं वर्तते तं भजस्व च ।
तेन योगी त्वमेवेह भविष्यसि न संशयः ॥ ३५॥
जैगीषव्यश्चैवमुक्त्वा तत्रैवान्तरधीयत ।
अहं तत्र समासीनो हिंसां त्यक्त्वा तथाऽभवम् ॥ ३६॥
ततः स्म पितरः सर्वे महत् कुर्वन्ति रोदनम् ।
अहो कर्म परित्यज्य देवलो न उपेक्षते ॥ ३७॥
अस्मान् कः पुष्यति प्राज्ञो निराधारा वयं कृताः ।
देवलेन न सन्देहः क्षुधाविष्टास्तृषा युताः ॥ ३८॥
तान् दृष्ट्वा दुःखितोऽहं वै कर्म कर्तुं समुद्यतः ।
मया दृष्टा ओषधयो महत् कुर्वन्ति रोदनम् ॥ ३९॥
अस्मानहोऽभयं दत्वा देवलः क्रौर्यमाश्रितः ।
निर्लज्जः पुनरेवाऽसौ छेदयिष्यति दुर्मतिः ॥ ४०॥
ततोऽहं नितरां खिन्नो ह्युभयत्रैव सङ्कटात् ।
विचार्य स्वहिते सक्तः शमी दमपरोऽभवम् ॥ ४१॥
सर्वाभयस्वभावेन कर्मणा योगसेवया ।
क्रमेण सहजे योग्यऽहं ब्रह्मणि परोऽभवम् ॥ ४२॥
तत्र स्वाधीनतां दृष्ट्वा शान्तिहीनोऽभवं पुनः ।
अगमं पितरं तत्र योगीन्द्रैर्वन्दितं स्तुतम् ॥ ४३॥
तत्राऽसितं प्रणम्यैवाऽपृच्छं ब्रह्म सनातनम् ।
योगशान्तिप्रदं पूर्णं ततो मां सोऽब्रवीद्वचः ॥ ४४॥
असित उवाच ।
संयोगाद्विद्धि पुत्र त्वं स्वसंवेद्यात्मकात् किल ।
चतुर्विधं समुत्पन्नं तत्त्यजस्व समाधिदम् ॥ ४५॥
अयोगेन च संयोगो दृश्यते योगिभिः कदा ।
संयोगायोगयोर्योगो योगशान्तिप्रदो मतः ॥ ४६॥
भजस्व गणराजं त्वं तदर्थं नित्यमादरात् ।
सदा योगस्वरूपं तं शान्तिदं योगिनोऽब्रुवन् ॥ ४७॥
संयोगेऽयं गकाराख्यो णकाराख्यस्त्वयोगके ।
तयोर्योगे गणाधीशो ज्ञातव्यो विबुधैः सदा ॥ ४८॥
एवमुक्त्वा ददौ मन्त्रं मह्यमेकाक्षरं परम् ।
गाणपत्यः प्रसन्नात्मा पिता मे गणपं भजन् ॥ ४९॥
ततस्तं प्रणिपत्यैव गतोऽहं स्वाश्रमे नृप ।
गणेशं पूजयामि स्म ध्यात्वा जपपरोऽभवम् ॥ ५०॥
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ।
योगिवन्द्योऽभवं राजंस्तथापि गणपं भजे ॥ ५१॥
गते वर्षे समायातो गणेशो भक्तवत्सलः ।
स्तुतः सम्पूजितस्तत्र मया हृष्टेन चेतसा ॥ ५२॥
ततो मां गाणपत्यं स पितृतुल्यं महोदरः ।
कृत्वा स्वानन्दके धाम्नि गतो ब्रह्मपतिः प्रभुः ॥ ५३॥
उक्त्वा दशाक्षरं मन्त्रं ददावेवं नृपाय च ।
अन्तर्धाय स्वमात्मानं देवलः स्वाश्रमेऽगमत् ॥ ५४॥
ततः स राजशार्दूलो गणेशभजने रतः ।
तत्राऽऽदौ श्रावणी प्राप्ता वरदा या चतुर्थिका ॥ ५५॥
तां चकार जनैः सर्वैः पुरवासिभिरादरात् ।
उपोषणसमायुक्तः पञ्चम्यां पारणे रतः ॥ ५६॥
ततो दाहविनिर्मुक्तो ज्वरहीनो बभूव ह ।
जनाः सर्वे च रोगाद्यैर्हीना जातास्तदद्भुतम् ॥ ५७॥
ततस्तेन महीपृष्ठे विख्यातं तद्व्रतं कृतम् ।
शुक्लकृष्णभवं चक्रुर्व्रतं सर्वे धरातले ॥ ५८॥
आरोग्यादिसमायुक्ता हृष्टपुष्टा जनाः बभुः ।
व्रतस्य पुण्ययोगेन पुत्रपौत्रधनान्विताः ॥ ५९॥
(Page खं. ४ अ. १९ पान ५५)
पुत्रे राज्यं परित्यज्य राजा शान्तिपरायणः ।
सस्त्रीक एकान्ते सोऽभूदभजद्गणनायकम् ॥ ६०॥
अन्ते स्वानन्दगो राजा ब्रह्मभूतो बभूव ह ।
क्रमेण सर्वे लोका वै ब्रह्मभूता बभूविरे ॥ ६१॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् ।
कथितं ते महाराज पुनः शृणु कथानकम् ॥ ६२॥
गुर्जरे पापकर्माकः क्षत्रियो दुर्बलोऽभवत् ।
बाल्यात् प्रारभ्य दुष्टात्मा पापकर्मपरायणः ॥ ६३॥
स्त्रीमांसमदिरासक्तो जनानां च पशोस्तथा ।
वधे रतो गुरुं चैव मारयामास मन्दधीः ॥ ६४॥
गुरोर्द्रव्यं गृहीत्वा स वनगश्च बभूव ह ।
एवं नानाविधं पापं चकार नित्यमादरात् ॥ ६५॥
एकदा ज्वरयुक्तः स बभूव क्षत्रियाधमः ।
अत्यन्तं व्याकुलो जातो देहशुद्धिं न चास्मरत् ॥ ६६॥
दैवयोगेन शुक्ला सा श्रावणे सुसमागता ।
चतुर्थी तत्र तेनैवान्नं जलं भक्षितं न च ॥ ६७॥
पञ्चम्यां तेन किञ्चिद्वै भक्षितं त्वन्नमादरात् ।
रोगहीनो बभूवाऽपि पुनः पापं समाचरत् ॥ ६८॥
कालेन निधनं प्राप्तं तं नेतुं च समागताः ।
दुष्टं सङ्गृह्य गाणेशा ब्रह्मभूतं प्रचक्रिरे ॥ ६९॥
अज्ञानव्रतजेनैव पुण्येन क्षत्रियो ययौ ।
स्वानन्दं किं पुनर्ज्ञानिनां कथा का नृपात्मज ॥ ७०॥
एवं नाना जनाद्याश्च चतुर्थीव्रतपुण्यतः ।
ब्रह्मभूता मया वक्तुं न शक्यास्ते बभूविरे ॥ ७१॥
इदं श्रावणगायाश्च वरदायाः पठेन्नरः ।
माहात्म्यं शृणुयाच्चेद्वा स सर्वं संल्लभेत् फलम् ॥ ७२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते श्रावणशुक्लचतुर्थीव्रतकथनं नामाष्टादशोऽध्यायः ॥ ४.१८
४.१९ मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
वद ब्रह्मन् मले मासे चतुर्थी या समागता ।
वरदा चरितं तस्याः सर्वसिद्धिप्रदायकम् ॥ १॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
चतुर्थी महिमायुक्तं श्रवणात् सर्वदं परम् ॥ २॥
आन्ध्रे राजा सुषेणश्च चकार राज्यमुत्तमम् ।
नगरे चम्पके भूप शस्त्रास्त्रे पारगो मतः ॥ ३॥
नीत्या धर्मेण कीर्त्या च दानेन यश आर्जयत् ।
देवविप्रातिथिप्रेप्सुर्यज्वा व्रतपरायणः ॥ ४॥
जित्वा भूमण्डलं सर्वं राज्यं चकार धर्मतः ।
राजानः करदाः सर्वे सेवां चक्रुर्महीपतेः ॥ ५॥
तस्य राज्ये महा सर्पा बभक्षुस्तज्जनान् सदा ।
यत्र तत्राऽचरन् क्षुब्धाः सर्पाः परमदारुणाः ॥ ६॥
जनैः कुत्र महीपाल प्रगन्तुं नैव शक्यते ।
तथैव दुःखितैः स्थातुं वनेषु च गृहेषु च ॥ ७॥
राजा तथैव दुःखार्तो महाभयपरायणः ।
(Page खं. ४ अ. १९ पान ५६)
नागानां शान्तये सर्वैः पञ्चमी साधिताऽभवत् ॥ ८॥
तथा स्म न शमं यान्ति नागाः परमदारुणाः ।
नानापुण्यानि तीर्थानि जनाश्चक्रुर्विशेषतः ॥ ९॥
तथाऽधिकं ययुः क्रूरा नागाः सर्वत्र भूमिषु ।
राजेन्द्रः खगुरुं तत्र जैमिनिं शरणं ययौ ॥ १०॥
तं प्रणम्य पुरस्तस्य संस्थितः स कृताञ्जलिः ।
तं मुनिर्मानयामासाऽऽसनदानाद्विशेषतः ॥ ११॥
पप्रच्छ विनयेनैव युक्तं किमर्थमागतः ।
सुषेणः स तथोवाच निःश्वस्य मुनिपुङ्गवम् ॥ १२॥
सुषेण उवाच ।
स्वामिन् सर्पा अपाराश्च धर्षन्तश्च सदा जनान् ।
न स्थातुं शक्यते तत्र भयसङ्कुलितैर्मुने ॥ १३॥
नानोपायाः कृतास्तत्र न शान्तिं लेभिरे ततः ।
तदर्थं त्वां महाभाग प्रष्टुमत्र समागतः ॥ १४॥
वद सर्पगणानां च शान्तये किं करोम्यहम् ।
विप्र नो चेत् त्वत्समीपे देहत्यागं करोमि वै ॥ १५॥
वसिष्ठ उवाच ।
एवं पृष्टो महातेजा जैमिनिस्तमुवाच ह ।
स्वशिष्यं निन्दयन् राजंस्तच्छृणुष्व समाहितः ॥ १६॥
जैमिनिरुवाच ।
चतुर्थीजं महापापिन्नष्टं राज्ये तव व्रतम् ।
तेन त्वं च मृतैः सर्वैर्नरके प्रपतिष्यसि ॥ १७॥
चतुर्णां पुरुषार्थानां दातृत्वाद्वरदा मता ।
तथा सङ्कटनाशित्वात् सङ्कष्टी सा प्रकीर्तिता ॥ १८॥
यदि व्रतं च सर्वादौ न कृतं चेन्निरर्थकम् ।
कर्महीनं चतुर्भिस्तन्नित्यं कार्या ततः प्रभो ॥ १९॥
एवमुक्त्वा चतुर्थ्याश्च माहात्म्यं मुनिसत्तमः ।
कथयामास तच्छ्रुत्वा सुषेणस्तं तथाऽब्रवीत् ॥ २०॥
सुषेण उवाच ।
कीदृशोऽयं गणेशानो व्रतं यस्य महाद्भुतम् ।
वद तस्य स्वरूपं मे भजिष्यामि महाप्रभुम् ॥ २१॥
जैमिनिरुवाच ।
न वक्तुं शक्यते राजन् केनाप्येतत् स्वरूपकम् ।
उपाधिना युतं दुण्ढिं वदामि शृणु तत्त्वतः ॥ २२॥
अहं पुरा सुशान्त्यर्थं व्यासं च शरणं गतः ।
मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २३॥
तदेव त्वां वदिष्यामि स्वशिष्यं च नृपाधमम् ।
यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ २४॥
देहदेहिमयं सर्वं गकाराक्षरवाचकम् ।
णकारवाचकं ब्रह्म संयोगायोगरूपकम् ॥ २५॥
तयोः स्वामी गणेशस्तु पश्य वेदे महामते ।
चित्ते निवासकत्वाच्चिन्तामणिर्वै स कथ्यते ॥ २६॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महीपते ।
सिद्धिस्तत्र तयोर्योगे प्रलभ्येत तयोः पतिः ॥ २७॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् ।
सुषेणाय यथान्यायं विधियुक्तं विशेषतः ॥ २८॥
ततस्तेनाभ्यनुज्ञातः स्वपुरं स जगाम ह ।
तत्राऽऽदौ मलमासश्च सम्प्राप्तस्तेन भूमिप ॥ २९॥
मलमासे गणेशस्य वरदाख्यं समागतम् ।
सोऽपि शुक्ले चतुर्थीजं व्रतं चक्रे सुभक्तितः ॥ ३०॥
नागरैर्विविधैर्लोकैः समीपग्रामसंस्थितैः ।
तत्कृतं विधिना राजन् सर्वसिद्धिप्रदायकम् ॥ ३१॥
ततस्तेन सुषेणेन प्रशस्तं भूमिमण्डले ।
कृतं ततो जनाः सर्वे चक्रुर्हर्षसमन्विताः ॥ ३२॥
अभवन् व्रतपुण्येन सर्पा अन्तर्हिता बभुः ।
लोका रोगादिभिः सर्वे वर्जिता हर्षसंयुताः ॥ ३३॥
(Page खं. ४ अ. २० पान ५७)
पुत्रपौत्रादिसंयुक्ता धनधान्यसमन्विताः ।
नानासुखेषु संसक्ता अभवंस्तत्र ते ततः ॥ ३४॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
षडक्षरेण मन्त्रेण विधियुक्तेन पूजयन् ॥ ३५॥
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकः स वनं ययौ ।
तत्र विघ्नेशमेवं सोऽपूजयञ्जपतत्परः ॥ ३६॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
जनाः सर्वे व्रते संस्थाः शुक्लकृष्णभवे परे ॥ ३७॥
स्वान्ते क्रमेण ते सर्वे ब्रह्मभूता बभूविरे ।
व्रतस्यैव प्रभावेण न किञ्चिद् दुर्लभं भवेत् ॥ ३८॥
अन्यच्छृणु महीपाल चरितं मलमासगम् ।
पुण्यं शुक्लचतुर्थीजं श्रवणात् सर्वदं भवेत् ॥ ३९॥
हस्तिनापुरवासी च क्षत्रियः कः सुदारुणः ।
बाल्यात् प्रभृति वै सोऽपि पापाचारो बभूव ह ॥ ४०॥
द्रव्यलोभार्थमेवं स्वजनकं स जघान ह ।
परस्त्रीलालसः पूर्णश्चौरकर्मपरोऽभवत् ॥ ४१॥
एवं नानाविधं पापं चक्रेऽसौ दुर्मतिः सदा ।
वने स्थितः कदाचिद्वै जनान् जघ्ने महाखलः ॥ ४२॥
एतस्मिन्नन्तरे तत्र सर्पेणैव महीपते ।
दष्टः सोऽपि भयोद्विग्नो गृहे गन्तुं मनो दधे ॥ ४३॥
ततो विषेण संव्याप्तो देहस्तेन पपात ह ।
दैवयोगेन तत्राऽसौ जलान्नरहितोऽभवत् ॥ ४४॥
शुक्लपक्षे मले मासे चतुर्थी सा तिथिस्तदा ।
तेन प्राप्ता तत्र भूप अज्ञानेन व्रतं कृतम् ॥ ४५॥
पञ्चम्यां स मृतस्तत्र वने घोरे महाखलः ।
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ४६॥
नाना जना व्रतेनैव ब्रह्मभूता बभूविरे ।
इह भुक्त्वाऽखिलान् भोगानन्ते वक्तुं न शक्यते ॥ ४७॥
इदं चतुर्थीमाहात्म्यं मलमासे शृणोति चेत् ।
शुक्लपक्षे लभेत् सोऽपि पठेद्वा सर्वमञ्जसा ॥ ४८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते मलमासशुक्लचतुर्थीचरितवर्णनं नाम एकोनविंशोऽध्यायः ॥ ४.१९
४.२० माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
संश्रुत्य वरदाया वै माहात्म्यं सर्वदं परम् ।
अत्यन्तं कृतकृत्योऽहं जातो नास्त्यत्र संशयः ॥ १॥
नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदं परम् ।
धन्यास्ते पुरुषा विप्र चतुर्थीव्रतकारकाः ॥ २॥
अधुना सङ्कटायाश्च माहात्म्यं वद विस्तरात् ।
न तृप्यामि सुधारूपां कथां श्रुत्वा समासतः ॥ ३॥
मुद्गल उवाच ।
एवं पृष्टो महायोगी वसिष्ठस्तमुवाच ह ।
तच्छृणुष्व प्रजानाथ श्रवणानन्ददायकम् ॥ ४॥
वसिष्ठ उवाच ।
तव भावं विदित्वाऽहं सन्तुष्टो नृपसत्तम ।
पुण्यवानसि येन त्वं गणेशे भक्तिमानसि ॥ ५॥
न ह्यल्पपुण्ययोगेन गणेशस्य महात्मनः ।
कथायां जायते प्रीतिर्धन्योऽस्यत्र न संशयः ॥ ६॥
कथां शृणु महाभाग चतुर्थीसंश्रितां पराम् ।
कृष्णपक्षे महापुण्यां सर्वसिद्धिप्रदायिनीम् ॥ ७॥
(Page खं. ४ अ. २० पान ५८)
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
महापुण्यप्रदः पूर्णश्रवणात् पठनाद्भवेत् ॥ ८॥
सहस्राख्ये पुरे राजन् शूरसेनो महीपतिः ।
सभायां गानसंयुक्तो बभूवे भूपसेवितः ॥ ९॥
तत्राऽकस्माद्विमानं वै पतितं ज्वलनप्रभम् ।
तद् दृष्ट्वा परमाश्चर्यं ज्ञातुं दूतानचोदयत् ॥ १०॥
दूतैः संज्ञापितो राजा विमानं द्रष्टुमुत्सुकः ।
स ययौ नगरप्रान्ते पुरवासिभिरावृतः ॥ ११॥
तत्रेन्द्रं देवयुक्तं स दृष्ट्वा विस्मितमानसः ।
प्रणनाम पदा गत्वा दण्डवत् पृथिवीतले ॥ १२॥
पुनरुत्थाय राजाऽसौ कृत्वा करपुटं शनैः ।
हर्षयुक्त उवाचेदं वचनं भक्तिसंयुतः ॥ १३॥
शूरसेन उवाच ।
धन्यं जन्म वयो दानं पितरौ नगरादिकम् ।
कृतकृत्योऽस्मि देवेन्द्र दर्शनात्ते सहानुगः ॥ १४॥
वद कुत्र विभो गन्तुं कुतो व्रजसि वा स्थलात् ।
लालसस्ते विमानं च कथं निपतितं भुवि ॥ १५॥
न जाने केन पुण्येन सर्वेषां दर्शनं च ते ।
जातं देवसमूहेन वदाज्ञां किं करोम्यहम् ॥ १६॥
विमानचलने यत्नं कुरु त्वं देवनायक ।
केन पापेन ते यानं पतितं तद्वदस्व मे ॥ १७॥
एवं पृष्टो महातेजा महेन्द्रस्तमुवाच ह ।
विनीतं भक्तिसंयुक्तं राजेन्द्र हर्षसंयुतः ॥ १८॥
इन्द्र उवाच ।
कैवर्तको महापापी नामा विघ्नेशमाभजत् ।
मुद्गलेनोपदिष्टश्च नाममन्त्रपरायणः ॥ १९॥
सहस्रे तद्वरेणाऽसौ वर्षेषु ब्राह्मणोत्तमः ।
भ्रूमध्यान्निःसृता शुण्डा भृशुण्डी चाऽभवन् मुनिः ॥ २०॥
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ।
दर्शनार्थं गतोऽहं तु सम्पूज्येह समागमम् ॥ २१॥
अत्रापि पापरूपस्य दृशा वैश्यस्य कुष्ठिनः ।
विमानं पतितं भूमौ तव दूतस्य मानद ॥ २२॥
यदि सङ्कष्टिका राजंश्चतुर्थी कृष्णपक्षगा ।
साधिता व्रत भावन तस्याः पुण्यं प्रदीयताम् ॥ २३॥
तदा विमानमेवेदं चलेदत्र न संशयः ।
नान्यथा पुरुषार्थश्च विमानचलनं भवेत् ॥ २४॥
एतस्मिन्नन्तरे तत्र विमानं च द्वितीयकम् ।
समागतं गणेशस्य दूतयुक्तं महाद्भतम् ॥ २५॥
तत्रैव नगरे भूप चाण्डाली पापकारिणी ।
अन्धा कुष्ठयुताऽत्यन्तं कृमिभारसमाकुला ॥ २६॥
पूयशोणितदिग्धाङ्गा दुर्गधेन समावृता ।
बभूव भिक्षया सा वैरता जठरपोषणे ॥ २७॥
पौषकृष्णतृतीयायां निशा किञ्चावशेषिता ।
मद्यपानं तया तत्र कृतं सुष्वाप निर्भया ॥ २८॥
मद्यपानबलेनैव निद्रां लेभे तथांऽत्यजा ।
चतुर्थ्यामुदिते चन्द्रे जाते जागरिताऽभवत् ॥ २९॥
ततोऽपि क्षुधयाऽऽविष्टा रात्री भिक्षार्थमेव च ।
बभ्राम तत्र केनाऽपि दत्तान्नं बुभुजे च सा ॥ ३०॥
पञ्चम्यां सा मृता तत्र नृप सङ्गृह्य गाणपाः ।
विमानेन ययुस्ते वै स्वानन्दे व्रतकारिणीम् ॥ ३१॥
गच्छन्ती वायुना स्पृष्टा विमानेन्त्यजजा नृप ।
स वायुः सहसा गत्या स्पृशदिन्द्रविमानकम् ॥ ३२॥
व्रतकारिशरीरस्य स्पृष्टो वायुः सुपुण्यवान् ।
विमानं चालयामास देवेन्द्रस्य महाद्भुतम् ॥ ३३॥
(Page खं. ४ अ. २० पान ५९)
तद् दृष्ट्वा विस्मिताः सर्वे देवा मुनिगणादयः ।
ज्ञानदृष्टया च तज्ज्ञात्वा शशंसू राजसत्तमम् ॥ ३४॥
इन्द्रे स्वर्ग गते देवै राजा स्वनगरं ययौ ।
विस्मितस्तं प्रणम्यैव वसिष्ठं मां समानयत् ॥ ३५॥
मया विधियुतं तस्योपदिष्टं मुख्यकं व्रतम् ।
चकार स यथान्यायमङ्गारकयुतं पुरा ॥ ३६॥
माघे कृष्णचतुथ्यों स कृत्वा व्रतमनुत्तमम् ।
पुनः सम्पूज्य पञ्चम्यां गणेशं संस्थितोऽभवत् ॥ ३७॥
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ।
गणेशदूतसंयुक्तं शूरसेनपुरे महत् ॥ ३८॥
विमानाद्गण नाथस्य दूता उत्तीर्य तं नृपम् ।
जगुर्वतप्रभावेण चल राजन् गणेश्वरम् ॥ ३९॥
दूतानां वचनं श्रुत्वा राजा विस्मितमानसः ।
प्रणिपत्य प्रपूज्यैव तानुवाच सुहर्षितः ॥ ४०॥
शूरसेन उवाच ।
आरभ्य जन्मतो देवा अद्यावधि मया हठात् ।
यत्किचिन्नागरैः सार्धं सदा भुक्तं शुभाशुभम् ॥ ४१॥
अधुना तान् परित्यज्य कथं यामि गजाननम् ।
ततस्तं गणराजस्य दूता ऊचुः शृणुष्व तत् ॥ ४२॥
गाणपत्या ऊचुः ।
नागरैः सह राजेन्द्र चल त्वं विघ्ननायकम् ।
यथाविधि व्रतस्यैव प्रभावेण महामते ॥ ४३॥
यथाशास्त्रं व्रतस्यास्य महिमा केन गम्यते ।
अतो विश्वस्य चोद्धारे समर्थस्तु सुपुण्यतः ॥ ४४॥
ततोऽतिहर्षितो राजा चतुर्वर्णजनैः सह ।
नगरस्थैर्विमानं स समारुह्य स्थितोऽभवत् ॥ ४५॥
ततो गाणेशकैस्तत्र विमानं चालितं नृप ।
न चचाल जडीभूतं ध्यानयुक्ता बभूविरे ॥ ४६॥
ज्ञात्वा तं कुष्ठिनं त्यक्तुं गाणेशाश्च समागताः ।
तान् प्रणम्य जगादाऽसौ राजेन्द्रो रोदनाकुलः ॥ ४७॥
महापापी च वैश्योऽयं यस्य दृष्टया पपात ह ।
विमानं सुरनाथस्य तथापि शृणुत प्रियाः ॥ ४८॥
किमनेन कृतं पापं मां ततो वदत ह्यहम् ।
प्रायश्चित्तं करिष्याम्यनेन गच्छामि संयुतः ॥ ४९॥
ततस्तं गणनाथस्य दूता ऊचुः प्रहर्षिताः ।
शृणु राजन्नयं वैश्यः पूर्वजन्मनि वाडवः ॥ ५०॥
बुधनामा महापापी बाल्यात् प्रारभ्य सर्वदा ।
माता पतिव्रता चास्य शाकिनी परिकीर्तिता ॥ ५१॥
दूर्वो नाम पिता चास्य तपस्वी वेदपारगः ।
पत्नी पतिव्रता प्रोक्ता सावित्री कुलजाऽभवत् ॥ ५२॥
यौवनस्थः स्त्रियं त्यक्त्वा परस्त्रीलालसोऽभवत् ।
कदाचिद्गौडपुर्यां का वेश्या रूपवती ययौ ॥ २३॥
तां दृष्ट्वा विस्मितोऽत्यन्तं तया रेमे निरन्तरम् ।
हृत्वा गृहस्थं द्रव्यं स ददौ तस्यै विशेषतः ॥ ५४॥
पात्रभूषण कायं वै हृत्वा परगृहस्थितम् ।
चौर्यमद्यादिसंयुक्तस्तया रेमे सुदुर्मतिः ॥ ५५॥
कदाचित् स निशायां वै नागतः स्वगृहे नृप ।
तदर्थं मुनिमुख्योऽसौ दूर्वो बभ्राम तत्पुरे ॥ ५६॥
जनाः केऽपि न विप्रं त्वकथयस्तं विशेषतः ।
पुत्रस्य दुर्विनीतस्य चरित्रं क्रोधभीतितः ॥ ५७॥
गृहे गृहे स्वपुत्रं स नालभच्च ततो ययौ ।
निशीथे स्वगृहे प्राप्ते पप्रच्छ वनितां द्विजः ॥ ५८॥
(Page खं. ४ अ. २० पान ६०)
सोवाच नागतः स्वामिन् पुत्रो मे स्वगृहे प्रभो ।
एकपुत्रलेहवशात् पुनस्तं सो गवेषयत् ॥ ५९॥
निशीथे निद्रित लोके जनान् पप्रच्छ मार्गगान् ।
वुधः कुत्र प्रदृष्टो मामेकं वदत पुत्रकम् ॥ ६०॥
एवं नाना जनास्तेन पृष्टास्तेन जगुः सुतम् ।
ततो भीमोऽत्यजो वृद्धो मिलितस्तं जगाद सः ॥ ६१॥
तेनैव कथितं स्पष्टं पुत्रो वेश्यागृहे स्थितः ।
मद्यपः किं पृच्छसि त्वं तपस्विन् जातिदूषणम् ॥ ६२॥
तस्य तद्वचनं श्रुत्वा विस्मितो मुनिपुङ्गवः ।
वेश्यागृहे स्वपुत्रं तं दृष्ट्वोवाच मदान्वितम् ॥ ६३॥
किं त्वं मद्यप वेश्याया गृहे तिष्ठसि दूषक ।
अधुना देहमुत्सृज्य व्रजस्व यममन्दिरे ॥ ६४॥
पुन्नामनरकात् त्राता पुत्रस्तेन प्रकीर्तितः ।
नरकप्रद एवं मे किमर्थं पुत्र आगतः ॥ ६५॥
एवं पितुर्वचः श्रुत्वा बुधः क्रोधसमन्वितः ।
लत्तया ताडयामास पितरं च पुनः पुनः ॥ ६६॥
वृद्धः क्षुधातुरः सोऽपि मर्मस्थाने प्रहारतः ।
ममार तं प्रगृह्याऽसौ बुधश्चिक्षेप वै बहिः ॥ ६७॥
प्रभाते स्वगृहे पुत्रमागतं सा बुधं ततः ।
जननी लेहसंयुक्ता पप्रच्छ क स्थितं त्वया ॥ ६८॥
गवेषितुं च ते पुत्र पिता त्वां प्रजगाम ह ।
तमानय महाभाग ततः स्नानं समाचर ॥ ६९॥
मातुर्वचनमेवं स बुधः श्रुत्वा पुनः पुनः ।
क्रोधयुक्तः स्वयष्ट्या तां ताडयामास मस्तके ॥ ७०॥
मस्तकः स्फुटितस्तस्याः सा ममार तपस्विनी ।
बहिः प्रक्षिप्य तां वेश्यागृहमागात् स हर्षितः ॥ ७१॥
अदहंस्तौ जनाः सन्तो ब्राह्मणी ब्राह्मणं तथा ।
पितृगौरवभावेन राजा तं न शशास ह ॥ ७२॥
पुनर्गृहागतं सा तं सावित्री दुःखसंयुता ।
उवाच किं कृतं स्वामिन् पितुर्मातुर्वधात्मकम् ॥ ७३॥
वेश्यां त्वं मां परित्यज्य किमर्थं गच्छसि प्रभो ।
सर्वावयवसम्पूर्णा सुन्दरी धर्मपालिनीम् ॥ ७४॥
चतुरा करजेष्वेव नरदेहः सुदुर्लभः ।
ज्ञानकर्मादिसंयुक्तस्तत्र ब्राह्मण्यकं कुतः ॥ ७२॥
ब्राह्मणत्वं समासाद्य पापमिच्छति दुर्मतिः ।
निधिं त्यक्त्वा स्वहस्तस्थं विष्ठाभक्षणलालसः ॥ ७६॥
तथा कृतं त्वया नाथ तेनाऽहं दुःखिता भृशम् ।
कां गतिं च त्वया सार्धं गमिष्यामि महामते ॥ ७७॥
एवमाकर्ण्य दुष्टात्मा तां जघान स्वयष्टितः ।
काष्ठैः सा मर्मभेदेन ममार स्वर्गगाऽभवत् ॥ ७८॥
एवं स्वल्पे गते काले बुधोऽगात् स्वगुरोहे ।
अयभद्गुरुपत्नीमेकाकिनी तां सुदुर्मतिः ॥ ७९॥
दारुणानि च पापानि एवं नानाविधानि सः ।
चकारान्ते गृहे याम्ये यातनां बुभुजे ततः ॥ ८०॥
भुक्तभोगः स वैश्योऽयं जातः कुष्ठसमन्वितः ।
पापाचरणमत्रापि कुरुते दारुणं महत् ॥ ८१॥
द्रव्यलोभार्थमेवायं वने गत्वा द्विजादिकान् ।
हन्ति नित्यं सतीनां च स वने दूषकोऽभवत् ॥ ८२॥
शूरसेन अतस्त्यक्त्वैनं याहि त्वं गजाननम् ।
अस्य स्पर्शन राजेन्द्र सचैलं स्नानमापतेत् ॥ ८३॥
दूतानां वचनं श्रुत्वा कम्पितो राजसत्तमः ।
(Page खं. ४ अ. २१ पान ६१)
जगाद तान् प्रणम्यैव हा हा कृत्वा सुदारुणम् ॥ ८४॥
शूरसेन उवाच ।
पापानां गणना नास्ति प्रायश्चित्तं न विद्यते ।
अधुना तादृशं चात्र मया किं क्रियते गणाः ॥ ८५॥
कृपया सर्वपापानां प्रायश्चित्तं महाद्भतम् ।
कथ्यतां तत् करिष्यामि देहपातावधिं किल ॥ ८६॥
ततस्तं गाणपत्यास्तेऽब्रुवन् हर्षसमन्विताः ।
गजानन इति प्राज्ञ श्रावयस्व जनाधमम् ॥ ८७॥
चतुर्वेदसमुद्भूतं सारं ब्रह्ममुखोद्गतम् ।
चतुर्मुखैश्च सङ्गीतं सुयोगन गजाननम् ॥ ८८॥
तेषां वचनमाकर्ण्य शूरसेनः प्रहर्षितः ।
गजाननेति वैश्यस्याऽजपत् कर्णे स सादरः ॥ ८९॥
श्रुत्वा पापविनिर्मुक्तो वैश्यः स्वर्णतनुर्यथा ।
कुष्ठहीनः स शोभाभियुक्तो वै हर्षितोऽभवत् ॥ ९०॥
ततः सर्वैः समायुक्तो नगरस्थैविशेषतः ।
चतुराकरजै राजा ययौ विघ्नेश मादरात् ॥ ९१॥
स्वानन्दे गणपं दृष्ट्वा ब्रह्मभूताश्च जन्तवः ।
बभूवुः स यथा राजा गाणपत्यो बभूव ह ॥ ९२॥
ब्रह्मभूतः स राजेन्द्रो व्रतपुण्यप्रभावतः ।
जन्तुभिः सहितश्चातः कोऽओ वर्णयितुं व्रतम् ॥ ९३॥
चतुर्विधं जगत् सर्व सङ्कष्टं सम्मतं नृप ।
तत्त्यक्त्वा व्रतपुण्येन ब्रह्मभूतो भवेन्नरः ॥ ९४॥
इदं माघचतुर्थ्यास्तु सङ्कष्टयाः संशृणोति यः ।
माहात्म्यं वापि पठति सर्वार्थ लभते परम् ॥ ९५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते माघकृष्णचतुर्थीमाहात्म्यवर्णनं नाम विंशोऽध्यायः ॥ ४.२०
४.२१ फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
ब्रह्मन् श्रुत्वा च वै माघी सङ्कष्टीजं सुविस्मितः ।
माहात्म्यं सर्वदं पुण्यं सर्वसङ्कटहारकम् ॥ १॥
फाल्गुने कृष्णपक्षे या चतुर्थी सङ्कटी मता ।
तस्याश्चरित्रमेवं मे कथयस्व कृपानिधे ॥ २॥
वसिष्ठ उवाच ।
पौलस्त्यो रावणः प्रोक्तस्तपस्तप्त्वा सुदारुणम् ।
वरं लब्ध्वा त्रिलोकस्य राज्यं चक्रे महाबलः ॥ ३॥
प्रधानेषु समाक्षिप्य राज्यं राक्षससत्तमः ।
एकान्ते निर्जने गत्वा ध्यानसंस्थो बभूव ह ॥ ४॥
वेदोपनिषदि प्रोक्तं ब्रह्म वेदान्तपारगम् ।
ध्यायति स्म विचारज्ञो ज्ञानयोगपरायणः ॥ ५॥
एवं बहौ गते काले न लेभे ज्ञानमुत्तमम् ।
तदा खेदसमायुक्तः सोऽतिष्ठच्छङ्करं स्मरन् ॥ ६॥
ततः शिवेन तत्रैव प्रेषितो नारदो मुनिः ।
तं दृष्ट्वा नारदं रक्षः प्रणनाम कृतांऽजलिः ॥ ७॥
पप्रच्छ खेदसंयुक्तो नारदं योगिनां वरम् ।
स्वामिन् ज्ञानप्रदं किञ्चिद्वदस्व करुणायुतः ॥ ८॥
ज्ञानार्थं ध्याननिष्ठोऽहं नित्यं तिष्ठामि चादरात् ।
न लेभे तन् महत् ज्ञानं किं करोमि महामुने ॥ ९॥
(Page खं. ४ अ. २१ पान ६२)
नारद उवाच ।
शिवेन प्रेषितोऽहं वै त्वदर्थं राक्षसोत्तम ।
शृणु ज्ञानप्रदं पूर्णं वाक्यं तत्कुरु सादरः ॥ १०॥
चतुर्विधं जगद्ब्रह्म सङ्कष्टं सम्मतं बुधैः ।
तन्नाशार्थं व्रतं मुख्यं सङ्कष्टीसंज्ञकं कुरु ॥ ११॥
एवमुक्त्वा चतुर्थ्याः स माहात्म्यं नारदोऽब्रवीत् ।
तच्छ्रुत्वा रावणस्तं चाब्रवीद्धर्षसमन्वितः ॥ १२॥
रावण उवाच ।
कीदृशोऽयं गणाधीशस्तस्य ज्ञानं वद प्रभो ।
यस्य व्रतं चतुर्णां च पदार्थानां प्रदायकम् ॥ १३॥
न कृतं चेच्चतुर्णां तन्नाशकं नाऽत्र संशयः ।
सर्वादौ सम्मतं विप्र सर्वसिद्धिप्रदायकम् ॥ १४॥
एवं पृष्टो महायोगी नारदस्तमुवाच ह ।
हर्षेण महता युक्तो रावणं लोकरावणम् ॥ १५॥
नारद उवाच ।
महज्ज्ञानं कथयितुं गणेशस्य न शक्यते ।
उपाधिना वदिष्यामि राक्षसाधिप तच्छृणु ॥ १६॥
गणः समूहरूपश्च समूहा ब्रह्मवाचकाः ।
बाह्यान्तरादियोगेऽयं समूहो जायते यतः ॥ १७॥
देहिदेहमयं ब्रह्म गकाराक्षरवाचकम् ।
संयोगायोगरूपं यण्णकाराक्षरगं मतम् ॥ १८॥
तयोर्योगे गणेशश्च स्वामी सर्वत्र सम्मतः ।
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ॥ १९॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् ।
रावणाय महायोगी विधियुक्तं तमब्रवीत् ॥ २०॥
यदि त्यजसि दैत्येन्द्र तदा भ्रंशमवाप्स्यसि ।
अतो गणेशमन्त्रो न त्याज्यो रक्षः कदाचन ॥ २१॥
एवमुक्त्वा महातेजा नारदोंऽतर्दधे स्वयम् ।
रावणस्य तदा प्राप्ता सङ्कष्टी फाल्गुनी नृप ॥ २२॥
सा कृता तेन हर्षेण विधियुक्तेन कर्मणा ।
व्रतपुण्यप्रभावेण स्फूर्तिः प्राप्ता च तत्क्षणात् ॥ २३॥
चकार स ततः शुक्लां कृष्णां वै राक्षसाधिपः ।
जनान् विशेषेणाबोध्य सह तैर्गणपे रतः ॥ २४॥
ततो ज्ञानं समालब्धं रावणेन महात्मना ।
ययौ स्वनगरे दैत्यै राज्यं चक्रे मदान्वितः ॥ २५॥
दुष्टसङ्गतियोगेन क्रमेण ज्ञानमुत्तमम् ।
नष्टं तस्य सुदुष्टस्य स्त्रीमांसादिपरोऽभवत् ॥ २६॥
अहं गणेशरूपश्च नाऽन्यो जगति वर्तते ।
न पापपुण्यभोक्तृत्वं कस्य पूजनमाचरे ॥ २७॥
ततो ज्ञानमदेनैव त्यक्तो मन्त्रः सुखप्रदः ।
व्रतं त्यक्तमिदं पुण्यं पूजा त्यक्ता विशेषतः ॥ २८॥
नष्टं ज्ञानं स्थितिर्नष्टा राक्षसो राक्षसोऽभवत् ।
धर्मलोपे रतोऽत्यन्तं चकार कर्मखण्डनम् ॥ २९॥
तेनैव दोषयुक्तोऽभूद्धतो रामेण तत्क्षणात् ।
राक्षसैः स्वजनैः सार्धं तव पुत्रेण धीमता ॥ ३०॥
दशरथ उवाच ।
अहं वन्ध्यश्च विप्रेश रावणश्च प्रवर्तते ।
किमिदं भाषसे स्वामिन् कूटरूपं भ्रमप्रदम् ॥ ३१॥
वसिष्ठ उवाच ।
कल्पे कल्पे स रामो वै तव पुत्रोऽभवत्प्रभुः ।
जघान रावणं वीरो गाणपत्यबलान्वितः ॥ ३२॥
अन्यच्छृणु चरित्रं त्वं फाल्गुने सङ्कटीभवम् ।
सर्वपापहरं पूर्णं भुक्तिमुक्तिप्रदायकम् ॥ ३३॥
महाराष्ट्रे द्विजः कश्चित् पापकर्मा बभूव ह ।
ब्राह्मणत्वं परित्यज्य चाण्डाल्यां निरतोऽभवत् ॥ ३४॥
(Page खं. ४ अ. २२ पान ६३)
चाण्डालैर्योनिसम्बन्धं पुत्रपुत्रीसमुद्भवम् ।
चकार मन्दधीः सोऽपि मद्यमांसपरायणः ॥ ३५॥
स कदाचिद्वने संस्थो जनान् हन्तुं समुद्यतः ।
द्रव्यलोभी महापापी परस्त्रीलालसोऽभवत् ॥ ३६॥
तत्र फाल्गुनमासे सा चतुर्थी कृष्णगाऽऽगता ।
संस्थितः पर्वतद्रोण्यां बभूव ब्राह्मणोऽधमः ॥ ३७॥
तत्र कश्चिन्नृपः सैन्यैश्चतुरङ्गैः समागतः ।
तद्भयात् सोऽपि तत्रैव संस्थितोऽन्नजलैर्विना ॥ ३८॥
महत् सैन्यं नृपस्यैव मार्गे गमनकारकम् ।
किञ्चिद्दिवसशेषे तत् सम्पूर्णगतमाभवत् ॥ ३९॥
ततः सोऽपि बहिर्वीक्ष्य निःसृतो भयवर्जितः ।
जगाम स्वगृहं चन्द्रोदये दुष्टः क्षुधातुरः ॥ ४०॥
बभक्षान्नं स्वपुत्रैः स रात्रौ सुप्तो निजालये ।
तत्र सर्पेण दष्टश्च ममार नृप दुर्मतिः ॥ ४१॥
ततो गणेशदूतैः स नीतः स्वानन्दके पुरे ।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ ४२॥
अज्ञानव्रतपुण्येन विधिहीनेन भो नृप ।
मुक्तश्चतुर्भिरेवं स किं पुनर्ज्ञानिनां परम् ॥ ४३॥
एतादृशा महाभागा विधियुक्ता विधिं विना ।
व्रतपुण्यप्रभावेण ब्रह्मभूता बभूविरे ॥ ४४॥
तत्रैवं कति ते ब्रूयां नालं वर्षायुतैरपि ।
भवामि नृप माहात्म्यं सङ्क्षेपेण निरूपितम् ॥ ४५॥
इदं फाल्गुनमासे या चतुर्थी कृष्णगा मता ।
तस्याः शृणोति माहात्म्यं पठेद्वा सर्वमालभेत् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते फाल्गुनकृष्णचतुर्थीवर्णनं नामैकविंशतितमोऽध्यायः ॥ ४.२१
४.२२ चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
चैत्रकृष्णचतुर्थी या तां मे वद महामुने ।
न तृप्यामि गणेशस्य कथां श्रुत्वा सुखप्रदाम् ॥ १॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
चतुर्थीमहिमायुक्तं सर्वसिद्धिप्रदायकम् ॥ २॥
कलिङ्गे नृपवर्यश्चोग्रसेनो धर्मतत्परः ।
यज्वा दानपरो नित्यं धर्मात्मा शंसितव्रतः ॥ ३॥
शस्त्रास्त्रकुशलो धीमान् सत्यवाक् नीतिसंयुतः ।
जित्वा राजगणान् सर्वांश्चकार राज्यमुत्तमम् ॥ ४॥
तस्य राज्ये नृपश्रेष्ठ बभक्षुः सर्वमानवान् ।
अपारास्तत्पुरे व्याघ्राः समागत्य महाबलाः ॥ ६॥
उग्रसेनश्च शस्त्रैस्तान् जघान नृपसंयुतः ।
तथा स्म न शमं यान्ति व्याघ्रा दैवोद्भवा यथा ॥ ६॥
लोकाः सम्पीडिता व्याघ्रैर्निनिन्दुस्तं नृपं तदा ।
पापकर्मा नृपोऽयं वै प्रजाभ्यो दुःखदायकः ॥ ७॥
धर्मयुक्तो यदा राजा प्रजास्तत्र सुखे रताः ।
किं कर्तव्यं प्रजाभिश्च दुष्टे राजनि नित्यदा ॥ ८॥
स राजर्षिर्दूतमुखाच्छ्रुत्वा दुःखसमन्वितः ।
ययौ वनं प्रधानेषु राज्यं त्यक्त्वा सुदारुणम् ॥ ९॥
तत्र गत्वा स एकान्ते तताप तप उत्तमम् ।
(Page खं. ४ अ. २२ पान ६४)
सूर्यं ध्यात्वा च सौरैस्तं तोषयामास नित्यदा ॥ १०॥
निराहारपरो राजा गते वर्षे बभूव ह ।
अस्थिचर्मावशेषः स तथाऽपि तप आचरत् ॥ ११॥
ततो ब्राह्मणरूपेण रविस्तं प्रजगाम ह ।
राजा प्रणम्य तं विप्रं फलैरापूजयत्ततः ॥ १२॥
फलानि भक्षयित्वा स उवाच राजसत्तमम् ।
तपः किमर्थं राजन् ते देहं शोषयसे वद ॥ १३॥
उग्रसेनस्ततो विप्रं तमुवाच कृताञ्जलिः ।
दुःखेन महता युक्तो निःश्वस्य स पुनः पुनः ॥ १४॥
उग्रसेन उवाच ।
करोमि नीतियुक्तेन राज्यं धर्मेण नित्यदा ।
तत्र व्याघ्रगणाः क्रूरा नरान् सम्भक्षयन्ति भोः ॥ १५॥
शान्तयेऽत्र मया तेषां नानोपायाः कृता मुने ।
अपरास्ते भवन्तीह तदर्थं तप आचरम् ॥ १६॥
राज्ञो वचनमाकर्ण्य विप्रस्तं पुनरब्रवीत् ।
निन्दयन् सर्वभावेन साक्षाद्भानुः प्रतापवान् ॥ १७॥
द्विज उवाच ।
महापापी त्वमेवासि कर्मदूषणतो नृप ।
चतुर्थीजं व्रतं मुख्यं नष्टं राज्ये सुदुर्मते ॥ १८॥
सर्वादौ तत् प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ।
तदा कर्म कृतं भूप फलयुक्तं भवेत् सदा ॥ १९॥
चतुःपदार्थदं पूर्णं व्रतानामुत्तमं व्रतम् ।
व्याघ्रास्तद्दोषभावेन पीडयन्ति च मानवान् ॥ २०॥
एवमुक्त्वा चतुर्थीजं माहात्म्यं द्विजसत्तमः ।
श्रावयामास तस्मै स श्रुत्वा सोऽभूत् सुविस्मितः ॥ २१॥
जगाद हर्षसंयुक्तस्तं विप्रं ज्ञानदं परम् ।
कृताञ्जलिः प्रणम्याऽसौ वचनं स्वहितप्रदम् ॥ २२॥
उग्रसेन उवाच ।
किं त्वं साक्षात् स्वयं भानुस्तपसा तुष्टचेतसा ।
आगतोऽनुग्रहार्थं मे धन्योऽहं ते प्रदर्शनात् ॥ २३॥
अधुना वद मे ब्रह्मन् गणेशस्य स्वरूपकम् ।
ज्ञात्वा तं देवदेवशं भजिष्यामि विशेषतः ॥ २४॥
द्विज उवाच ।
शृणु राजन् गणेशस्य स्वरूपं योगदं परम् ।
भुक्तिमुक्तिप्रदं पूर्णं धारितं चेन्नरेण वै ॥ २५॥
चित्ते चिन्तामणिः साक्षात् पञ्चचित्तप्रचालकः ।
पञ्चवृत्तिनिरोधेन प्राप्यते योगसेवया ॥ २६॥
असम्प्रज्ञातसंस्थश्च गजशब्दो महामते ।
तदेव मस्तकं यस्य देहः सर्वात्मकोऽभवत् ॥ २७॥
भ्रान्तिरूपा महामाया सिद्धिर्वामाङ्गसंश्रिता ।
भ्रान्तिधारकरूपा च बुद्धिः सा दक्षिणाङ्गके ॥ २८॥
तयोः स्वामी गणेशश्च मायाभ्यां खेलते सदा ।
तं भजस्व विधानेन तदा शं लभसे नृप ॥ २९॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं दशाक्षरम् ।
विधियुक्तं ततः सूर्योंऽतर्धानं प्रचकार ह ॥ ३०॥
राजा स्वनगरे गत्वा प्रधानैरनुमोदितः ।
कथयामास वृत्तान्तं सर्वेभ्यः सुखदायकम् ॥ ३१॥
तत्रादौ चैत्रगा कृष्णा चतुर्थी सहसाऽऽगता ।
तां चकार विधानेन गणेशे भक्तिसंयुतः ॥ ३२॥
समीपे नागराः संस्था नरा ग्रामान्तरे स्थिताः ।
चक्रुस्ते हर्षसंयुक्ताः सङ्कष्टीं कष्टहारिणीम् ॥ ३३॥
तत् सर्वत्र व्रतं मुख्यं प्रशस्तं स चकार ह ।
भयाद्धठेन चक्रुस्ते जना भूमिस्थिताः परे ॥ ३४॥
ततो व्याघ्रा महोग्राः स्म सर्वेंऽतर्धानमाययुः ।
रोगादिभिर्विनिर्मुक्ताश्चिक्रीडुर्हर्षिता जनाः ॥ ३५॥
(Page खं. ४ अ. २३ पान ६५)
राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
गुरुरूपेण भानुं स पूजयामास नित्यदा ॥ ३६॥
गते काले ततः पुत्रं स संस्थाप्य महामतिः ।
राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥ ३७॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥ ३८॥
एवं व्रतस्य माहात्म्यं लेशतः कथितं मया ।
अन्यच्छृणु महाभाग पापनाशकरं परम् ॥ ३९॥
द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः ।
भिल्लैः संस्कारहीनश्च सम्बन्धं स चकार ह ॥ ४०॥
एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् ।
कञ्चित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥ ४१॥
पपाल सोऽपि दूरं वै नरो भयसमन्वितः ।
ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥ ४२॥
तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप ।
ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥ ४३॥
भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः ।
निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥ ४४॥
दैवयोगेन सा देवी चैत्री सङ्कष्टहारिणी ।
तद्दिने तेन सम्प्राप्ता चतुर्थी कृष्णपक्षगा ॥ ४५॥
जलान्नसंविहीनोऽयं बभूवे पापकारकः ।
चन्द्रोदये फलं तत्र पपात नृप वृक्षतः ॥ ४६॥
दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् ।
पञ्चम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥ ४७॥
एवं नाना जना राजन् व्रतस्यैव प्रभावतः ।
इह भुक्त्वाऽखिलान् भोगानन्ते ब्रह्म प्रलेभिरे ॥ ४८॥
तत्र ते कति शक्यं न वक्तुं वर्षायुतैरपि ।
नानेन सदृशं किञ्चिद्व्रतं सर्वार्थदायकम् ॥ ४९॥
अज्ञानेन कृतं दुष्टैर्व्रतं गाणेश्वरं महत् ।
ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥ ५०॥
इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः ।
शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेद् ध्रुवम् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ४.२२
४.२३ वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद साम्प्रतम् ।
माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥ १॥
वसिष्ठ उवाच ।
अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः ।
न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥ २॥
ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् ।
वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥ ३॥
ज्ञात्वा माहात्म्यमुग्रं स नित्यं मन्त्रपरायणः ।
शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥ ४॥
दशरथ उवाच ।
तपस्तेजोयुतः साक्षादगस्त्यः सर्वशास्त्रवित् ।
व्रतहीनः कथं सोऽपि कुण्ठितश्च महाद्युतिः ॥ ५॥
वसिष्ठ उवाच ।
शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण ।
(Page खं. ४ अ. २३ पान ६६)
अधुना तस्य माहात्म्यं कथयामि समासतः ॥ ६॥
अगस्त्यस्तपसा युक्तो बभूवाऽतीव दारुणः ।
न समस्तेन राजेन्द्र ब्राह्मणेषु तपस्विषु ॥ ७॥
न व्रतं तेन तदपि कृतमज्ञानभावतः ।
ब्रवीमि कारणं तत्र शृणु संशयनाशनम् ॥ ८॥
वेदशास्त्रपुराणेषु कर्म नानाविधं नृप ।
कथितं तच्च सर्वं तु कर्तुं केन प्रशक्यते ॥ ९॥
स्वेच्छया कर्मणः कर्ता स्वयं भवति मानवः ।
तत्र मार्गं प्रवक्ष्यामि शृणुष्व सुसमाहितः ॥ १०॥
नित्यं नैमित्तिकं कर्म द्विविधं शास्त्रमार्गतः ।
तत्रागस्त्यश्चकाराऽसौ नित्यं कर्म महीपते ॥ ११॥
अन्यव्रतादिकं सर्वं त्यक्त्वा विधिसमन्वितः ।
तपस्सु तत्परो नान्यदजानात् स तपोधनः ॥ १२॥
अतस्तेन व्रतं मुख्यं न धृतं राजसत्तम ।
न समर्थेन शास्त्रेऽन्यच्छृणुष्व कथयामि ते ॥ १३॥
गणेशभजनं मुख्यं सर्वेषां नात्र संशयः ।
सर्वसिद्धिकरं प्रोक्तं वेदादिषु विशेषतः ॥ १४॥
राजशार्दूल तदपि नराः संस्कारहीनकाः ।
नाभजंस्तं गणेशानं ब्रह्मणां नायकं परम् ॥ १५॥
तपसा दग्धपापश्च पुण्यराशिः प्रजायते ।
तदा रुचिर्भवेत्तत्र गणेशे भक्तिसंयुता ॥ १६॥
अतोऽयं तपसा युक्तोऽगस्त्यस्तेजस्विनां वरः ।
जातः पात्रं विजानीहि ज्ञाने गाणेशसंज्ञिते ॥ १७॥
अगस्त्यः क्रोधसंयुक्तो नृप वातापिरक्षकम् ।
समुद्रं तं शोषयितुं क्षोभयामास चोद्यतः ॥ १८॥
तत्राऽतिकुण्ठितो जातस्तदर्थं विस्मितः स्वयम् ।
गत्वा ब्रह्माणमानम्य वचनं स जगाद ह ॥ १९॥
अगस्त्य उवाच ।
तपसा जलधिं ब्रह्मन् शोषयामि न संशयः ।
तत्र मे तपसः शक्तिः कुण्ठिताऽभूत् कथं वद ॥ २०॥
ब्रह्मोवाच ।
शृणु पुत्र महाभाग कारणं कथयामि ते ।
नित्यकर्मपरस्त्वं वै सदा तपसि संस्थितः ॥ २१॥
गणेशस्मरणं वत्स पूजनं नित्यमादरात् ।
करोषि तेन भवति कर्म ते सफलं मुने ॥ २२॥
तथापि नित्यवत्तात चतुर्थी व्रतमुत्तमम् ।
कर्तव्यं यत्त्वया त्यक्तं तन्नैमित्तिकमानतः ॥ २३॥
चतुर्णां पुरुषार्थानां दायकं शास्त्रसम्मतम् ।
तेन हीनस्त्वमद्यैव कुण्ठितो नात्र संशयः ॥ २४॥
अधुना तद्व्रतं मुख्यं कुरु भावसमन्वितः ।
नित्यवत्तन् महाभाग समाचर विशेषतः ॥ २५॥
तदा सङ्कटहीनस्त्वं चतुष्पदसमन्वितः ।
पूर्णयोगी भवसि वै गाणपत्यमवाप्स्यसि ॥ २६॥
ततस्तेन कृतं राजन् व्रतं गाणेश्वरं महत् ।
पुरुषार्थसमायुक्तस्तेनैव स बभूव ह ॥ २७॥
समुद्रं शोषयामास व्रतपुण्यप्रभावतः ।
अचलां गणनाथस्य भक्तिं चकार नित्यदा ॥ २८॥
ततस्तेन मुनीन्द्रेषु विख्यातं तत् कृतं व्रतम् ।
नित्यवत्ते व्रतं मुख्यं चक्रुः सर्वार्थसिद्धये ॥ २९॥
अन्यच्च शृणु माहात्म्यं पुण्यदं श्रवणान्नृणाम् ।
अवन्तीनगरे वैश्यो बभूवे पापकारकः ॥ ३०॥
बाल्यात् प्रारभ्य तेनैव कृतं पापं महाद्भुतम् ।
मरणावधि राजेन्द्र वक्तुं तन्न प्रशक्यते ॥ ३१॥
(Page खं. ४ अ. २३ पान ६७)
मातृहा द्रव्यलोभार्थं पितृहा सम्बभूव ह ।
गुरुद्रोहं चकारैव ब्रह्महत्यां समाचरत् ॥ ३२॥
ततो लोकैः समाज्ञप्तो राजा तं निरवासयत् ।
ग्रामाद्वनं समागत्य गुहायां संस्थितोऽभवत् ॥ ३३॥
जघान मार्गगान् लोकान् जीवान्नानाविधान् सदा ।
तत्र प्रयोजनेनैव हीनो वा युक्त एव वा ॥ ३४॥
ततो बहुधनो जातश्चौराः सम्मिलिताः परे ।
सह तैस्तत्र तेनैव कृतं दुर्गं सुदुर्गमम् ॥ ३५॥
पर्वतद्रोणगं तत्र गृहं चक्रे महाखलः ।
चौरास्तत्र निवासार्थमाययुः सर्वतः स्थिताः ॥ ३६॥
तेषां राजा बभूवाऽसौ भार्या तत्र महीपते ।
समानीताऽतिदुष्टेन पुत्रपुत्रीभिरावृता ॥ ३७॥
यथेष्टं रमते तत्र चौरैश्चौर्यपरायणः ।
चकार लेशमात्रं स न पुण्यं दुर्मतिः कदा ॥ ३८॥
मार्गे परस्त्रियं धृत्वा स सतीदूषकोऽयभत् ।
काश्चित्तत्र मृता राजन् स्त्रियः सत्यो महाभयात् ॥ ३९॥
सोऽवन्तीपालको लोकै राजेन्द्रो बोधितस्ततः ।
मार्गरोधभयाच्चौरं तं हन्तुं प्रोद्यतोऽभवत् ॥ ४०॥
सर्वत्र दशदिक्ष्वेव सैनिकाः प्रेषितास्ततः ।
राज्ञा चक्रुः प्रयत्नेन रुद्धं सर्वत्र तं खलम् ॥ ४१॥
ततस्ते सन्धृतं चौरं पुत्रश्चौरैः समन्वितम् ।
राज्ञे निवेदयामासुस्तं दुष्टं वैश्ययोनिजम् ॥ ४२॥
राजा चौरान् जघानापि जनैः शस्त्रधरैर्नृप ।
तं वैश्यं बन्धने क्षिप्त्वा ताडयन्नित्यदा खलम् ॥ ४३॥
ततोऽकस्माच्चतुर्थी सा वैशाखी सहसाऽऽगता ।
कृष्णा तत्र च वैश्येन न प्राप्तं त्वन्नभक्षणम् ॥ ४४॥
नित्यताडनभावेन दुःखितोऽतितरां खलः ।
क्षुधया पीडितोऽत्यन्तं पापी स निशि चैककः ॥ ४५॥
ततो दयायुतैस्तत्र राजदूतैश्च भक्षणम् ।
किञ्चिद्दत्तं विधोरेवोदये वैश्यो बभक्ष सः ॥ ४६॥
पञ्चम्यां स मृतस्तत्र बन्धने ताडितो भृशम् ।
गाणेशैर्ब्रह्मभूतः स कृतः स्वानन्दके पुरे ॥ ४७॥
एतादृशः सुदुष्टात्मा व्रतपुण्यप्रभावतः ।
ब्रह्मभूतो बभूवाऽपि किं पुनर्व्रतकारिणः ॥ ४८॥
एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ।
तेऽत्र वक्तुं न शक्या वै भवन्ति नृपसत्तम ॥ ४९॥
इदं वैशाखमासे वै चतुर्थ्याः संशृणोति चेत् ।
कृष्णाया वाऽपि पठति माहात्म्यं लभते परम् ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते वैशाखकृष्णचतुर्थीचरितं नाम त्रयोविंशोऽध्यायः ॥ ४.२३
४.२४ ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
माहात्म्यं तच्छ्रुतं मुख्यं मया वैशाखके परम् ।
सङ्कष्टीसम्भवं मुख्यं न तृप्तस्तदपि प्रभो ॥ १॥
अतो ज्येष्ठे चतुर्थी या सङ्कष्टी मुनिसत्तम ।
तस्याश्चरितमेवं मे वद पूर्णं समासतः ॥ २॥
वसिष्ठ उवाच ।
निषधेषु महाभागो नलो नामाऽभवन्नृपः ।
तेजस्वी शस्त्रसम्पन्नः शास्त्रज्ञश्च बभूव ह ॥ ३॥
रूपवान् धनसम्पन्नश्चतुरङ्गबलान्वितः ।
शस्त्रास्त्रैर्भूमिपालांश्च बभौ जित्वा महाबलान् ॥ ४॥
सामन्ता वशगा यस्य करदा इतरे नृपाः ।
सार्वभौमो महाराजः शशास पृथिवीमिमाम् ॥ ५॥
धर्मेण दानशीलेन नीत्या त्यागेन भूमिपः ।
यशसा पूरयामास त्रैलोक्यं स चराचरम् ॥ ६॥
इन्द्रलोके विधेर्लोके कैलासे वैष्णवे पदे ।
यस्य वार्तां प्रचक्रुस्ते धर्मशीलस्य देवपाः ॥ ७॥
त्रिलोकीगमने सक्तः साधुदर्शनतत्परः ।
देवविप्रातिथिप्रेप्सुर्दीनान्धादीनपालयत् ॥ ८॥
दमयन्ती महाभागा रूपेणाऽप्रतिमा भुवि ।
भार्या यस्य विशालाक्षी जगन्मोहकरी बभौ ॥ ९॥
गुणा वर्णयितुं नैव शक्यास्तस्य महात्मनः ।
पुण्यश्लोकः स वै राजा कलिं जिग्ये महायशाः ॥ १०॥
कदाचिद्वनगेनैव भ्रात्रा कलिवशेन सः ।
जितो द्यूतेन राज्यं त्यक्त्वा वनं स जगाम ह ॥ ११॥
तत्राऽपि कलिना मत्स्यमिषेणैव महासती ।
प्रेरितेन नलेनाऽसौ त्यक्ता नृप वनान्तरे ॥ १२॥
अर्धवस्त्रधरा साऽपि दमयन्ती पितुर्गृहे ।
नानादुःखसमायुक्ता जगाम नलवर्जिता ॥ १३॥
गृप्तरूपेण वर्षाणि त्रीणि क्रमणलालसः ।
नलो बभ्राम तेजस्वी वने वस्त्रार्धधारकः ॥ १४॥
धर्मशीलं स राजानं कलिना पीडितं परम् ।
दृष्ट्वा मुनिवरस्तत्र नारदः प्रजगाम ह ॥ १५॥
तं दृष्ट्वा लज्जितो राजा प्रणनाम कृताञ्जलिः ।
लज्जितं तं समाज्ञाय नारदः स उवाच ह ॥ १६॥
नारद उवाच ।
मा लज्जां कुरु राजेन्द्र कर्मणां गतिरीदृशी ।
सावधानमना भूत्वा शृणु मे परमं वचः ॥ १७॥
तव राज्ये महाभाग व्रतं नष्टं महाद्भुतम् ।
चतुर्थीसंज्ञितं तेन राज्यभ्रष्टोऽसि साम्प्रतम् ॥ १८॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् ।
न कृतं चेन् महाराज कर्म सर्वं निरर्थकम् ॥ १९॥
चतुःफलविहीनस्त्वं भवस्यत्र न संशयः ।
अतोऽवश्यकभावेन कुरु त्वं सर्वसिद्धिदम् ॥ २०॥
एवमुक्त्वा महायोगी नारदः श्रावयन्नृपम् ।
माहात्म्यं व्रतमुख्यस्य चतुर्थ्याः शान्तिकारकम् ॥ २१॥
तच्छ्रुत्वा विस्मितो राजा नलस्तं प्रत्युवाच ह ।
गणेश्वरस्य माहात्म्यं भजिष्यामि वदस्व मे ॥ २२॥
नारद उवाच ।
गणेश्वरस्य माहात्म्यं शान्तियोगफलप्रदम् ।
वक्तुं न शक्यते राजंस्तथापि शृणु मे वचः ॥ २३॥
ब्रह्मा विष्णुश्च शम्भुश्च शक्तिः सूर्योऽमरास्तथा ।
शेषादिनागमुख्यास्तं भजन्ति कुलदैवतम् ॥ २४॥
अन्नप्राणादिकान्येव ब्रह्माणि नृपसत्तम ।
भजन्ति तं विशेषेण कुलदेवं सनातनम् ॥ २५॥
(Page खं. ४ अ. २४ पान ६९)
महावाक्यादिभिर्वेदास्तं भजन्ति सुयोगदम् ।
महावाक्यानि राजेन्द्र भजन्ति ब्रह्मनायकम् ॥ २६॥
सर्वसिद्धिप्रदा यस्य वामाङ्गे प्रकृतिः परा ।
पञ्चचित्तमयी बुद्धिर्दक्षिणाङ्गे व्यवस्थिता ॥ २७॥
स्वानन्दे वसतिर्यस्य सर्वपूज्योऽयमुच्यते ।
सर्वादिर्गणनाथश्च विप्रैः सोंऽतेषु तिष्ठति ॥ २८॥
गणाः समूहरूपाश्चान्तरबाह्यादियोगतः ।
तेषां स्वामी गणेशोऽयं तं भजस्व विधानतः ॥ २९॥
एवमुक्त्वा ददौ तस्मै नृप मन्त्रं षडक्षरम् ।
विधियुक्तं ततः सोंऽतर्दधे गाणेशको मुनिः ॥ ३०॥
ततः स नृपशार्दूलो ध्यात्वा हृदि गजाननम् ।
मन्त्रं जजाप भावेन स्वात्मानं निन्दयन् भृशम् ॥ ३१॥
ततः कर्कोटकेनैव दष्टस्तेन बभूव ह ।
विरूपस्तं ददौ वस्त्रं नागः पुनः स्वरूपदम् ॥ ३२॥
तेन संहर्षितो भूप ऋतुपर्णं जगाम ह ।
तेनैव मानितोऽत्यन्तं विरूपो गुणसंयुतः ॥ ३३॥
पितुर्गृहे गता नारी दमयन्ती महासती ।
तद्व्रतं कारयामास गत्वा तामपि नारदः ॥ ३४॥
नलेन दमयन्त्या तज्ज्येष्ठमासे समागतम् ।
प्रथमं तद्व्रतं मुख्यं सङ्कष्टीसंज्ञकं कृतम् ॥ ३५॥
त्रीणि वर्षाणि पूर्णानि गुप्तरूपेण संस्थितः ।
नलश्चतुर्थीजेनैव पुण्येन ज्ञानवानभूत् ॥ ३६॥
ततः श्वशुरमागम्य ऋतुपर्णेन संयुतः ।
स्वात्मानं नागवस्त्रेण पूर्वरूपं चकार ह ॥ ३७॥
दमयन्त्या युतः सोऽपि श्वशुरेण च सेनया ।
ऋतुपर्णेन राजेन्द्रो गतः स्वनगरे ततः ॥ ३८॥
भ्रात्रा सम्मानितोऽत्यन्तं चकार राज्यमुत्तमम् ।
विघ्नहीनः स्वभावेन हृष्टपुष्टजनैर्वृतः ॥ ३९॥
ततो बहौ गते काले पुत्रं राज्येऽभिषिच्य सः ।
सपत्नीको वने गत्वाऽभजत्तं गणनायकम् ॥ ४०॥
अन्ते जगाम राजाऽसौ स्वानन्दे गणपं नृप ।
तत्रैव ब्रह्मभूतः स बभूव नलनामकः ॥ ४१॥
नलेन सम्प्रदिष्टा ये जना भूमितले ततः ।
शुक्लकृष्णचतुर्थीजं मुख्यं चक्रुर्व्रतं नृप ॥ ४२॥
ते सर्वे सुखसंयुक्ता बुभुजुः सुखमुत्तमम् ।
पुत्रपौत्रादिभिर्युक्ता रोगैः संवर्जिता नृप ॥ ४३॥
अन्ते क्रमेण सर्वे ते ब्रह्मभूता बभूविरे ।
एवं कृष्णे ज्येष्ठमासे माहात्म्यं सङ्कटीभवम् ॥ ४४॥
कथितं ते नृपश्रेष्ठ पुनस्त्वं शृणु सिद्धिदम् ।
ज्येष्ठकृष्णचतुर्थीजं सर्वसङ्कटहारकम् ॥ ४५॥
मालवेन्त्यजजः कश्चित् पापकर्मा बभूव ह ।
वनं गत्वा द्विजादीन् स जघान द्रव्यलोलुपः ॥ ४६॥
एकाकिनीं स्त्रियं दृष्ट्वा बलेन बुभुजे खलः ।
सती परनरस्पर्शहीना तत्याज सा तनुम् ॥ ४७॥
एवं नानाविधं पापं चकार जातिदूषणः ।
न तच्छक्यं कथयितुं पापभोगभयान् मया ॥ ४८॥
एकदा वनसंस्थश्च चाण्डालः शस्त्रधारकः ।
कञ्चित् पुरुषकं दृष्ट्वाऽधावत् स हननाय तम् ॥ ४९॥
पलायनपरः सोऽपि जगाम भयसङ्कुलः ।
हाहा कृत्वा पुरोदेशे स ततो निष्फलोऽभवत् ॥ ५०॥
एतस्मिन्नन्तरे तत्र पुरुषाः शस्त्रधारकाः ।
राज्ञः समागतास्तत्र श्रुत्वा कोलाहलं तयोः ॥ ५१॥
(Page खं. ४ अ. २५ पान ७०)
ते धृत्वा ताडयामासुः पुनस्तं राजसेवकाः ।
बद्ध्वा राज्ञे ददुर्दुष्टं राजा चिक्षेप बन्धने ॥ ५२॥
तत्रैव दैवयोगेन प्राप्ता ज्येष्ठचतुर्थिका ।
कृता तेनान्नहीनोऽयं बभूवे बन्धनाकुलः ॥ ५३॥
चन्द्रोदये दयायुक्तै रक्षकैस्तैर्महामते ।
अन्नं दत्तं तथा भुक्तं तेन दुष्टेन तत्क्षणात् ॥ ५४॥
राजाज्ञया च तं दुष्टं पञ्चम्यां जघ्नुरादरात् ।
स मृतोन्त्यजजस्तत्र ब्रह्मभूतो बभूव ह ॥ ५५॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः ।
भुक्त्वा भोगांश्च ते सर्वे ब्रह्मभूता बभूविरे ॥ ५६॥
अपारमाहात्म्ययुतं व्रतं वक्तुं न शक्यते ।
तथाऽपि कथितं भूप माहात्म्यं सङ्कटीभवम् ॥ ५७॥
इदं ज्येष्ठचतुर्थ्यास्तु कृष्णायाः संशृणोति यः ।
माहात्म्यं वा पठति स लभते स्वेप्सितं फलम् ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते ज्येष्ठकृष्णचतुर्थीवर्णनं नाम चतुर्विंशोऽध्यायः ॥ ४.२४
४.२५ आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
आषाढे सङ्कटी प्रोक्ता चतुर्थी चरितं शुभम् ।
तस्या वद महायोगिन् सर्वदं पापनाशनम् ॥ १॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
सर्वसिद्धिकरं पूर्णं सेवितं चेन्नृपात्मज ॥ २॥
वृत्रेण पीडितोऽत्यन्तं महेन्द्रश्चिन्तयान्वितः ।
वने वसत्तु सन्त्रस्तस्त्यक्त्वा राज्यादिकं पुरा ॥ ३॥
मुनयः श्रुतिभिर्हीना भ्रष्टाचाराः समन्ततः ।
अतिष्ठंस्ते भयोद्विग्ना वर्णाः सर्वे तथा नृप ॥ ४॥
कर्मखण्डनभावेन देवाः परमविह्वलाः ।
उपोषणपरा भूत्वाऽतिष्ठंस्ते मरणोन्मुखाः ॥ ५॥
गिरेर्गुहासु संस्थास्ते ददृशुर्मुनिपुङ्गवम् ।
विशेषज्ञं गृत्समदं योगिनां गुरुमागतम् ॥ ६॥
तं दृष्ट्वा दण्डवत् सर्वे प्रणेमुश्चेन्द्रमुख्यकाः ।
पप्रच्छुः पूजयित्वा तं स्वासने संस्थितं मुनिम् ॥ ७॥
इन्द्र उवाच ।
दृष्टिर्धन्या जन्म धन्यं पिता माता व्रतादिकम् ।
यज्ञो ज्ञानादिकं मे वै त्वदङ्घ्रेर्दर्शनात् प्रभो ॥ ८॥
तव दर्शनमात्रेण कल्याणं नो भविष्यति ।
साक्षाद्योगीश्वरस्यैव सर्वसिद्धिप्रदस्य च ॥ ९॥
वृत्रासुरेण दुष्टेन निर्जिता वयमेव च ।
राज्यं त्यक्त्वा वने विप्र तिष्ठामः पशवो यथा ॥ १०॥
अत्रातिकर्मनाशेनोपोषणेन समन्विताः ।
मरिष्यामो न सन्देहस्तत्र किं दर्शनं भवेत् ॥ ११॥
तथाऽपि पुण्ययोगेन प्राप्तं ते दर्शनं परम् ।
वद ब्रह्मन् दयां कृत्वा वृत्रनाशकरं महत् ॥ १२॥
जगत् सर्वं महायोगिन् भ्रष्टाचारं कृतं सदा ।
(Page खं. ४ अ. २५ पान ७१)
किं पश्यसि सुसंहारे प्राप्ते योगीन्द्रसत्तम ॥ १३॥
वसिष्ठ उवाच ।
एवं पृष्टो गृत्समदस्तमुवाच दयान्वितः ।
विश्वरक्षणभावार्थं दुष्टनाशकरं वचः ॥ १४॥
गृत्समद उवाच ।
राज्यं प्राप्य महाभाग सुर त्यक्ता चतुर्थिका ।
व्रतभ्रष्टोऽसि देवेन्द्र अधुना तद्व्रतं कुरु ॥ १५॥
ज्ञानमदेन विघ्नेशमन्त्रस्त्यक्तस्तथा त्वया ।
किं चित्रं राज्यहीनत्वे दुर्मते मदलालस ॥ १६॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः ।
कथयामास तस्मै तत् पुनर्मन्त्रं ददौ स्वयम् ॥ १७॥
यदृच्छया गते राजन् मुनाविन्द्रेण तत्ततः ।
व्रतं कृतं द्विजैर्देवैर्गणेशं सम्प्रपूज्य च ॥ १८॥
तत्रादौ देवराजेनाषाढी कृष्णा महातिथिः ।
प्राप्ता चतुर्थिका भूप सा कृता भूतिदायिका ॥ १९॥
गणेशं मनसा ध्यात्वा दधीचेरस्थिजं महत् ।
वज्रं धृत्वा ययौ देवैर्वृत्रं युद्धपरायणः ॥ २०॥
चतुर्थीव्रतजेनाऽसौ प्रभावेण महासुरम् ।
कृत्वा युद्धं महाघोरं वज्रेणैव जघान तम् ॥ २१॥
हत्वा वृत्रं महावीर्यं देवैः सह शतक्रतुः ।
स्वस्थोऽभूदमरावत्या मुमुदे स्वजनैर्नृप ॥ २२॥
ततो देवगणाः सर्वे स्वस्वस्थानेषु नित्यशः ।
शुक्लकृष्णभवं चक्रुश्चतुर्थीसंज्ञितं व्रतम् ॥ २३॥
पृथिव्यां सर्वलोकास्तद्व्रतं चक्रुविशेषतः ।
इन्द्रेण बोधितं भक्त्या सर्वसिद्धिकरं महत् ॥ २४॥
मन्वन्तरे गते देवैरिन्द्रः स्वानन्दगोऽभवत् ।
दृष्ट्वा विघ्नेश्वरं तत्र ब्रह्मभूतो बभूव ह ॥ २५॥
भूमिसंस्था नराः सर्वे क्रमेण प्रययुर्नृप ।
गणेशं ब्रह्मभूतास्ते व्रतपुण्यप्रभावतः ॥ २६॥
एतत्ते कथितं स्वल्पं माहात्म्यं व्रतसम्भवम् ।
पुनरन्यच्छृणुष्व त्वं पापकञ्चुकनाशनम् ॥ २७॥
गुर्जरे ब्राह्मणः कश्चिद् बाल्यात् पापपरायणः ।
परयोनिषु संसक्तो जीवघातं चकार ह ॥ २८॥
एकदा भगिनी यब्धा तेन दुष्टेन चाऽभवत् ।
मद्यमांसपरेणाऽपि चरता वनगह्वरे ॥ २९॥
द्रव्यलोभी जघानाऽसो द्विजादींश्च विशेषतः ।
पशुपक्षिगणान् राजन् भ्रष्टाचारः सुदुर्मतिः ॥ ३०॥
नित्यं चकार स खलो यवनैः सह भोजनम् ।
न शक्यं तन्मया तस्य पापं वर्णयितुं परम् ॥ ३१॥
एकदा वनमध्यस्थो बभूवे जातिदूषकः ।
आषाढे कृष्णपक्षे स चतुर्थ्यां पापकारकः ॥ ३२॥
दैवयोगेन तेनैव न प्राप्तं वनगह्वरे ।
किञ्चित्तेनाऽतिदुःखार्तस्तदा बभ्राम पर्वते ॥ ३३॥
तथाऽपि नालभत् किञ्चित् ततो दुःखपरायणः ।
अपराह्णे पुनः सोऽपि स्वगृहं गन्तुमुत्सुकः ॥ ३४॥
न ददर्श स तत्राऽपि जलान्नं दैवयोगतः ।
आजगाम क्षुधार्तः स स्वगृहे शोकसंयुतः ॥ ३५॥
यवनजां समालिङ्ग्य निशि चन्द्रोदये नृप ।
बभक्षान्नं सुतैः सार्धं मोहितो मायया भृशम् ॥ ३६॥
ततो ज्वरयुतोऽकस्माद्बभूवे पापनिश्चयः ।
राजन् यवनजातेन न स्पृष्टा पापकारिणी ॥ ३७॥
पञ्चम्यां स मृतस्तत्र भृशं दुःखेन पीडितः ।
गाणेशास्तं प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे ॥ ३८॥
एतादृशा महापापा उद्धरन्ति व्रतेन वै ।
(Page खं. ४ अ. २६ पान ७२)
अज्ञानकृतपुण्येन तत्र किं वर्णयाम्यहम् ॥ ३९॥
विधियुक्तं व्रतं भूप ये कुर्वन्ति नरोत्तमाः ।
दर्शनेन जनानां ते तारकाः सम्भवन्ति हि ॥ ४०॥
एवं व्रतप्रभावेण ब्रह्मभूता बभूविरे ।
अनन्ताश्चरितं तेषां वक्तुं नैव प्रशक्यते ॥ ४१॥
इदमाषाढसङ्कष्ट्याश्चरितं यः शृणोति चेत् ।
पठेद्वा लभते सोऽपि वाञ्छितं नात्र संशयः ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते आषाढकृष्णचतुर्थीवर्णनं नाम पञ्चविंशोऽध्यायः ॥ ४.२५
४.२६ श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रावणे कृष्णपक्षे या चतुर्थी सङ्कटी भवेत् ।
माहात्म्यं वद तस्या मे सर्वेभ्यः सुखदायकम् ॥ १॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि श्रावणे सङ्कटीभवम् ।
श्रवणात् सुखदः पूर्णो भवते पठनात्तथा ॥ २॥
चन्द्रवंशे समुत्पन्नो युधिष्ठिरः प्रतापवान् ।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ ३॥
साक्षाद्धर्मावतारश्च सत्यवाक् करुणायुतः ।
पाण्डुपुत्रो महातेजाः प्रजापालनतत्परः ॥ ४॥
द्रौपद्या भ्रातृभिश्चैव सहितः सर्वसम्मतः ।
कुन्त्या मात्रा महाभागो विख्यातः सर्वमण्डले ॥ ५॥
कृष्णो यस्य सहायोऽभूत् सदा वृष्णिकुलोद्भवः ।
साक्षान्नारायणः श्रीमान् भूभारहरणे रतः ॥ ६॥
एकदा स्वगृहे राजा संस्थितो राजभिर्वृतः ।
राजसूयं महायज्ञं कृत्वा कृष्णविवर्जितः ॥ ७॥
धृतराष्ट्रेण तत्रैव प्रेषितो विदुरः स्वयम् ।
आजगाम स तं दृष्ट्वा मानयामास कुन्तिजः ॥ ८॥
भोजितं परमान्नेन विदुरं सदसि स्थितम् ।
तमुवाच महाभागो हर्षितः स युधिष्ठिरः ॥ ९॥
धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् ।
वयं पाल्याः सदा तात त्वया धर्मभृता प्रभो ॥ १०॥
कुशलं स्वजनानां ते किमर्थं त्वं समागतः ।
वद मे सकलं पूर्णं वृत्तान्तं धृतराष्ट्रगम् ॥ ११॥
विदुर उवाच ।
सर्वत्र कुशलं वत्स स्वजनेषु महामते ।
धृतराष्ट्रस्य दुर्बुद्धेरादराद्वचनं शृणु ॥ १२॥
पुत्रवत्सलभावेन दुर्योधनसमाश्रितः ।
तेनाऽहं प्रेषितो भूप त्वत्समीपे विचक्षणः ॥ १३॥
इच्छति त्वां विजेतुं स प्रभो द्यूतेन मन्दधीः ।
दुर्योधनो महापापी कुलक्लेशविवर्धनः ॥ १४॥
कर्णेन प्रेरितोऽत्यन्तं शकुनिना विशेषतः ।
सक्तस्ते राज्यहरणे दुःशासनसमन्वितः ॥ १५॥
धृतराष्ट्रस्तथा राजन् मन्यते मनसि ध्रुवम् ।
स त्वामाह्वयते लोभी मया चैव युधिष्ठिर ॥ १६॥
मा गच्छ दुर्मतिं तात पुत्रपक्षसमाश्रितम् ।
धृतराष्ट्रं च कुन्त्या त्वं सस्त्रीको भ्रातृभिः कदा ॥ १७॥
वसिष्ठ उवाच ।
विदुरस्य वचः श्रुत्वा युधिष्ठिरो महायशाः ।
(Page खं. ४ अ. २६ पान ७३)
उवाच तं महाभागं निःश्वस्य वचनं हितम् ॥ १८॥
युधिष्ठिर उवाच ।
शृणु तात मदीयं त्वं वाक्यं धर्मयुतं महत् ।
राज्ये सुसंस्थितो राजा धृतराष्ट्रो विशेषतः ॥ १९॥
तदाज्ञावशगाः सर्वे वयं भीष्मादयः किल ।
अतो यामि त्वया सार्धं भावि यत्तद्भविष्यति ॥ २०॥
धर्मयुक्तं वचः श्रुत्वा विदुरः खिन्नमानसः ।
न किञ्चिदुक्तवांस्तत्र तं निःश्वस्य महायशाः ॥ २१॥
विदुरेण युताः सर्वे सस्त्रीकाः पाण्डवा नृप ।
समागताश्च द्रौपद्या धृतराष्ट्रं सभास्थितम् ॥ २२॥
तेनाज्ञप्ताश्च ते सर्वे भ्रातरः कलहे रताः ।
चिक्रीडुर्द्यूतमुग्रं वै दुर्योधनमुखैः पुरा ॥ २३॥
शकुनिना महोग्रेण तपसा साधितं पुरा ।
द्यूतं तदेव राजेन्द्र तदधीनं बभूव ह ॥ २४॥
क्रमेण राज्यमुग्रं तत् सर्वं जित्वा सुयोधनः ।
वनवासे पाण्डवान् स स्थापयामास दुर्मतिः ॥ २५॥
द्रौपदी तेन दुष्टेन सभायां सर्वसन्निधौ ।
समानीता स तां प्राह पत्नी मे भव सुन्दरि ॥ २६॥
पतयः पञ्च कुत्राऽपि न दृश्यन्ते स्त्रियाः क्वचित् ।
अस्माकं कुलजं सर्वं यशो नष्टं त्वया खले ॥ २७॥
भ्राता तां हठसंयुक्तो नग्नां चक्रे महाखलः ।
भीष्मादींश्च तिरस्कृत्य दुःशासनसमन्वितः ॥ २८॥
पाण्डवा धर्मरक्षार्थमसहंस्तस्य कर्म तत् ।
द्रौपद्या संस्मृतः कृष्णो गुप्तरूपधरो ययौ ॥ २९॥
मायया वस्त्रसंयुक्तां द्रौपदीं स पुनः पुनः ।
चकार च ततः सर्वे क्षुभिताः स्वगृहं ययुः ॥ ३०॥
द्रौपदी पाण्डवैः सार्धं ययौ मुक्ता वने तदा ।
तत्र कृष्णः समायातो बलेन क्रोधसंयुतः ॥ ३१॥
उवाच राजशार्दूलं युधिष्ठिरं प्रतापवान् ।
कृष्ण उवाच ।
हत्वा दुर्योधनं तात सपक्षं राज्यकामुकम् ॥ ३२॥
त्वां राज्ये स्थापयिष्यामि मा गच्छ वनमेव च ।
ततस्तं धर्मराजस्तु जगाद वचनं हितम् ॥ ३३॥
क्रोधं त्यज महाबाहो धर्मं रक्ष जनार्दन ।
धर्मयुक्तं च राज्यं मे देहि वृष्णिकुलोद्भव ॥ ३४॥
एवमुक्तो महातेजाः कृष्णस्तं प्रत्युवाच ह ।
कुरु त्वं भ्रातृभिः सार्धं गणेशोपासनं स्त्रिया ॥ ३५॥
सत्यासत्यसमाना व्यक्तैश्चतुर्धा बभौ प्रभुः ।
स्वानन्दवासकर्ताऽसावस्माकं कुलदैवतम् ॥ ३६॥
एवमुक्त्वा ददौ तस्मै प्रभुर्मन्त्रं दशाक्षरम् ।
स विधिं हर्षसंयुक्तः सर्वसिद्धिकरं परम् ॥ ३७॥
माहात्म्यं व्रतजं तत्र श्रावयामास केशवः ।
युधिष्ठिरस्य सर्वं वै पुण्यदं भ्रान्तिनाशनम् ॥ ३८॥
चतुर्विधप्रदं पूर्णं सर्वादौ सम्मतं व्रतम् ।
कृतं चेत् कर्म तत् सर्वं सफलं भवति प्रभो ॥ ३९॥
तव राज्ये व्रतं मुख्यं नष्टं तेन महामते ।
राज्यभ्रष्टश्च सञ्जातश्चतुःपदविवर्जितः ॥ ४०॥
श्रुत्वा युधिष्ठिरो राजा विस्मितः सुमहायशाः ।
गणेशं मनसि ध्यात्वा चकार विधिसंयुतः ॥ ४१॥
तत्रादौ श्रावणे मासे प्राप्ता सङ्कटनाशिनी ।
चतुर्थी कृष्णपक्षे तां साधयामास सानुजैः ॥ ४२॥
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुश्च पाण्डवाः ।
(Page खं. ४ अ. २६ पान ७४)
सस्त्रीकास्तेन ते सर्वे वनेषु सुखिनोऽभवन् ॥ ४३॥
पुनः स्वराज्यकर्तारो बभूवुश्च सुयोधनम् ।
हत्वा सर्वनृपैर्युक्तं कृष्णेन हर्षसंयुतः ॥ ४४॥
पुनस्तेन पृथिव्यां तद्विख्यातं प्रकृतं व्रतम् ।
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे जनास्ततः ॥ ४५॥
इह भुक्त्वाऽखिलान् भोगान् पौत्रं राज्येऽभिषिच्य ते ।
पाण्डवा ज्ञानसंयुक्ता बभुः स्वांशेषु सङ्गताः ॥ ४६॥
अन्ये जनाः क्रमेणैव गता गाणेश्वरं पदम् ।
दृष्ट्वा गणेश्वरं तत्र ब्रह्मभूता बभूविरे ॥ ४७॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यच्छृणु महाभाग महापुण्यप्रदं परम् ॥ ४८॥
कर्णाटे कारुकः कश्चिन् महापापपरोऽभवत् ।
वनेषु शस्त्रधारी जनान् जघान स नित्यदा ॥ ४९॥
परस्त्रियं तत्र दृष्ट्वैकाकिनीं स तथा दरात् ।
अयभद्धठसंयुक्तो बलेन स महाखलः ॥ ५०॥
गोवधादिकमेवं स ब्राह्मणानां च हिंसनम् ।
चकार दुष्टभावेन द्रव्यार्थं मांसकारणात् ॥ ५१॥
एवं नित्यं वने गत्वा पापं चक्रे स दुर्मतिः ।
चोरो ग्रामे जनान् जघ्ने गृहीत्वाऽर्थं विशेषतः ॥ ५२॥
कदाचित् स वने गत्वा गुहायां संस्थितोऽभवत् ।
जनान् हन्तुं महाचोरस्ततो वृष्टिर्बभूव ह ॥ ५३॥
अतिवृष्टिप्रभावेन जलैर्नद्यश्च पूरिताः ।
यत्र तत्र जलं पूर्णं गन्तुं मार्गो न विद्यते ॥ ५४॥
तत्र वृष्टिभयेनैव संस्थितः क्षुधितो नृप ।
दैवयोगेन सा देवी चतुर्थी तिथिराबभौ ॥ ५५॥
श्रावणे कृष्णपक्षे सा प्राप्ता तस्या व्रतं शुभम् ।
कृतं तेन सुदुष्टेन ह्यन्नहीनप्रभावतः ॥ ५६॥
चन्द्रोदये समुत्पन्ने जलेनागतमादरात् ।
फलं च नारिकेलं यत्तद्बभञ्ज बभक्ष सः ॥ ५७॥
निशाशेषे बहिः पापी निःसृतस्तत्र चाययौ ।
व्याघ्रः सङ्गृह्य तं हत्वा बभक्ष क्षुधितो भृशम् ॥ ५८॥
गाणपास्तं सम्प्रगृह्य ययुः स्वानन्दके पुरे ।
चक्रुर्व्रतप्रभावेण तत्र ब्रह्ममयं ततः ॥ ५९॥
महापापी व्रतेनैवाज्ञानजेन नृपात्मज ।
ब्रह्मभूतो बभूवाऽथ वर्णये किं महाद्भुतम् ॥ ६०॥
नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् ।
ययुः स्वानन्दके वर्णयितुं तत्र न शक्यते ॥ ६१॥
इदं श्रावणकृष्णायाश्चतुर्थ्या वर्णनं पठेत् ।
माहात्म्यं शृणुयाद्यो वै भुक्तिं मुक्तिं स विन्दति ॥ ६२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते श्रावणकृष्णचतुर्थीमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥ ४.२६
(Page खं. ४ अ. २७ पान ७५)
४.२७ भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
भाद्रकृष्णचतुर्थ्यास्त्वं माहात्म्यं वद भो मुने ।
न तृप्यामि कथां शृण्वन् सर्वसिद्धिप्रदायिनीम् ॥ १॥
वसिष्ठ उवाच ।
द्राविडे राजशार्दूलो बभूव परमद्युतिः ।
वीरसेनो यशोयुक्तः सार्वभौमो महाबलः ॥ २॥
नीतिज्ञो नीतियुक्तश्च चक्रे सौराज्यमुत्तमम् ।
सर्वान् राज्ञो वशे कृत्वा करभारेण संयुतान् ॥ ३॥
धर्मशीलः सदानन्दं चाददाद्भक्तिसंयुतः ।
क्षुधितं न नरं नारीमसहत् सुखकारकः ॥ ४॥
पुत्रानिव प्रजाः सर्वाः पालयामास यत्नतः ।
अपुत्रो दैवयोगेन बभूव परवीरहा ॥ ६॥
पुत्रार्थं यत्नमत्यन्तं जपहोमादिभिः सदा ।
चकार तीर्थक्षेत्रादि विधाने तादृशोऽभवत् ॥ ६॥
एवं बहौ गते काले पुत्रो नासीन् महीपते ।
ततोऽतिदुःखितो राजा राज्यं त्यक्त्वा ययौ वनम् ॥ ७॥
सस्त्रीकः स वने राजा बभ्राम यत्र तत्र ह ।
ततो महावनं गत्वा पपात क्षुधयान्वितः ॥ ८॥
सुमन्तुस्तत्र विप्रर्षिः समिदर्थं समाययौ ।
नृपं दृष्ट्वा दयायुक्त आययौ तं निरीक्षितुम् ॥ ९॥
वेदवेदाङ्गवित् साक्षात् सर्वशास्त्रप्रवर्तकः ।
पुराणज्ञो महायोगी व्यासशिष्यः प्रतापवान् ॥ १०॥
तं दृष्ट्वा सहसोत्थाय प्रणनाम महामुनिम् ।
वीरसेनः प्रहर्षेण सस्त्रीकः संयुतो नृपः ॥ ११॥
करसम्पुटमुत्थाय पुरः कृत्वा महामुनेः ।
तं जगाद विशेषज्ञं राजा वचनमुत्तमम् ॥ १२॥
वीरसेन उवाच ।
धन्यं मे कर्म जन्मादि पिता माता कुलं यशः ।
विद्या व्रतादिकं सर्वं त्वदङ्घ्रियुगदर्शनात् ॥ १३॥
राज्यं त्यक्त्वा वने संस्थः पुत्रार्थं पापवानहम् ।
तत्र ते दर्शनं प्राप्तं पूर्वपुण्यफलोदयात् ॥ १४॥
नानायत्नेन विप्रेश पुत्रो मे नाऽभवत्किल ।
त्वत्कृपोपायमेकं च पश्यामि सुखदायकम् ॥ १५॥
वसिष्ठ उवाच ।
एवं तस्य नृपस्याऽसौ श्रुत्वा वचनमुत्तमम् ।
सन्तुष्टस्तं जगादेदं सुमन्तुर्मुनिसत्तमः ॥ १६॥
सुमन्तुरुवाच ।
मा चिन्तां कुरु राजेन्द्र पुत्रस्ते कुलतारकः ।
भविष्यति न सन्देहः शृणु मे वचनं हितम् ॥ १७॥
राज्ये नष्टं त्वदीये तच्चतुर्थीजं व्रतं महत् ।
तेन त्वं पुत्रहीनोऽसि नृपाधम न बुध्यसे ॥ १८॥
सर्वादौ तद्व्रतं मुख्यं कर्तव्यं सर्वसिद्धिदम् ।
चतुःपदार्थदं सर्वैर्नोचेत् सर्वं सुनिष्फलम् ॥ १९॥
त्वया कर्म कृतं नानापुण्यदं सर्वसम्मतम् ।
चतुर्भिः पुरुषार्थैर्हीनं चतुर्थीविवर्जितम् ॥ २०॥
एवमुक्त्वा नृपायाऽथ माहात्म्यं व्रतजं महत् ।
श्रावयामास तं सोऽपि श्रुत्वा पप्रच्छ भाविकः ॥ २१॥
वीरसेन उवाच ।
वद ब्रह्मन् गणेशस्य ज्ञानं यस्य चतुःप्रदम् ।
व्रतं सर्वादिसम्मान्यं तं भजिष्यामि नित्यदा ॥ २२॥
सुमन्तुरुवाच ।
गणेशस्य स्वरूपं यद्वक्तुं शक्तो भवेत्तु कः ।
उपाधिसंयुतं ज्ञानं शृणु राजेन्द्र सर्वदम् ॥ २३॥
अहं तपःप्रभावेण पुरा जातो विशेषतः ।
शापानुग्रहणे राजन् समर्थः सर्वमण्डले ॥ २४॥
ततोऽतितपसा युक्तोऽभवं तेन महामते ।
अन्तर्ज्ञानं समुत्पन्नं स दृष्ट्वा विस्मितो ह्यहम् ॥ २५॥
(Page खं. ४ अ. २७ पान ७६)
ततो जडादिका नाना भूमिकाः साधयंस्ततः ।
नानाब्रह्मविभेदेषु संस्थितो ब्रह्मधारकः ॥ २६॥
एवं क्रमेण राजेन्द्र आसं स्वानन्दगोऽभवम् ।
तत्र शान्तिसुखे सक्तो ब्रह्मभूतस्वभावतः ॥ २७॥
तस्माद्भेदमयं द्वन्द्वं दृष्ट्वा शान्तो महामुनिम् ।
व्यासं गत्वा प्रणम्यैवाऽऽपृच्छं तं स्वहितप्रदम् ॥ २८॥
ब्रह्मभूतस्वरूपां मे वद शान्तिं महामुने ।
शिष्योऽहं ते महाभाग तारयस्व भवार्णवात् ॥ २९॥
इति पृष्टो महायोगी मामुवाच प्रहर्षितः ।
तत्तेऽहं कथयिष्यामि गणेशज्ञानकारकम् ॥ ३०॥
व्यास उवाच ।
शृणु पुत्र प्रवक्ष्यामि ब्रह्मभूतस्वरूपकम् ।
शान्तीनां शान्तिरूपं तं ज्ञातव्यं योगसेवया ॥ ३१॥
स्वत उत्थानकं ब्रह्म उत्थानं परतस्तथा ।
तयोरभेदभावे च ह्यसत् स्वानन्द उच्यते ॥ ३२॥
तत्रामृतमयं यत्तत् सद्रूपं स्वस्वरूपकम् ।
तयोरभेदभावे चानन्दः स्वानन्द उच्यते ॥ ३३॥
त्रिभिर्हीनं त्रिभिर्युक्तमव्यक्तं ब्रह्म कथ्यते ।
चतुर्णामेव संयोगे स्वानन्दो ब्रह्म उच्यते ॥ ३४॥
पञ्चभिर्गतिहीनं यन्मतं चायोगवाचकम् ।
न तत्र कस्यचिद्योगस्ततः कुत्राऽपि पुत्रक ॥ ३५॥
संयोगायोगयोर्योगे योगः शान्तिप्रदायकः ।
स एव गणराजश्च ज्ञातव्यो विबुधैः सदा ॥ ३६॥
गणाः समूहरूपाश्चान्तरबाह्यादियोगतः ।
अन्नादिब्रह्मरूपास्ते ज्ञातव्या योगसेवया ॥ ३७॥
तेषां स्वामी गणेशानस्तं भजस्व विधानतः ।
तदा त्वं ब्रह्मभूतश्च भविष्यसि न संशयः ॥ ३८॥
चित्तं पञ्चविधं प्रोक्तं तदेव बुद्धिवाचकम् ।
चित्तं मोहस्वरूपं यत् सिद्धिरूपं वदन्ति च ॥ ३९॥
तयोः स्वामी गणाधीशो मायाभ्यां क्रीडति प्रभुः ।
पञ्चचित्तनिरोधेन लभ्यते चित्तधारकः ॥ ४०॥
अतश्चिन्तामणिः प्रोक्तो पश्य वेदेषु पुत्रक ।
चित्तं त्यक्त्वा समोहं त्वं भव चिन्तामणिस्ततः ॥ ४१॥
एवमुक्त्वा ददौ मह्यं मन्त्रमेकाक्षरं प्रभुः ।
सविधिं तं प्रणम्यैवाऽऽगतोऽहं स्वाश्रमे पुनः ॥ ४२॥
ध्यात्वा गणपतिं राजन् मन्त्रे जपपरोऽभवम् ।
ततः स्वल्पेन कालेन शान्तिं प्राप्तोऽहमेव च ॥ ४३॥
तथाऽपि गणराजं त्वपूजयन्तं विशेषतः ।
ततो मे दर्शयामास स्वात्मानं विघ्नपः प्रभुः ॥ ४४॥
समागतं गणेशानं दृष्ट्वा विस्मितमानसः ।
अपूजयं प्रहर्षेण तं प्रणम्य पुनः पुनः ॥ ४५॥
अथर्वोपनिषद्भिः स संस्तुतो गणनायकः ।
भक्तिं दत्त्वा स्वकीयां मेंऽतर्धानं प्रचकार ह ॥ ४६॥
तदादि गाणपत्योऽहं प्रभजे नित्यमादरात् ।
तं भजस्व महाराज ततः सर्वं शुभं भवेत् ॥ ४७॥
एवमुक्त्वा ददौ तस्मै स मन्त्रं षोडशाक्षरम् ।
सविधिं मुनिमुख्यः सोंऽतर्धानमगमत्ततः ॥ ४८॥
राजाऽतिविस्मितो भूत्वा सपत्नीकः प्रणम्य तम् ।
स्वपुरे स समागत्याऽभजत्तं गणनायकम् ॥ ४९॥
तत्राऽऽदौ भाद्रमासे सा कृष्णा प्राप्ता चतुर्थिका ।
कृता तेन जनैः सर्वैः पुरवासिभिरादरात् ॥ ५०॥
विशेषतस्ततस्तेन प्रशस्तं तद्व्रतं कृतम् ।
(Page खं. ४ अ. २७ पान ७७)
शुक्लकृष्णचतुर्थीजं चक्रुः सर्वे धरातले ॥ ५१॥
व्रतपुण्यप्रभावेण राजा पुत्रसमन्वितः ।
बभूवू रोगहीनास्ते भूमिपैवं जनास्तथा ॥ ५२॥
पुत्रे राज्यं परित्यज्य राजा निर्वृत्तिसंयुतः ।
सपत्नीको गणेशानमभजन्नित्यमादरात् ॥ ५३॥
अन्ते गणेशलोके स गत्वा ब्रह्ममयोऽभवत् ।
क्रमेण सर्वलोकाश्च ब्रह्मभूता बभूविरे ॥ ५४॥
एतत्ते कथितं भूप माहात्म्यं सङ्कटीभवम् ।
अन्यच्छृणु चतुर्थ्यास्त्वं पापघ्नं सर्वदं परम् ॥ ५५॥
आन्ध्रे च धीवरः कश्चिद् बभूवे सर्वहिंसकः ।
बाल्यात् प्रभृति सोऽत्यन्तं पापकर्मपरायणः ॥ ५६॥
वृथा साक्ष्यपरो भूत्वा कलहं सोऽकरोन् मिथः ।
लोकानां लोभशीलश्च चौर्यद्रव्यं समाहरत् ॥ ५७॥
वने गत्वा महापापी मार्गस्थान् प्रजघान वै ।
ब्राह्मणादीन् विशेषेण नानापापपरायणः ॥ ५८॥
न तस्य कर्म वक्तुं वै शक्यते पापभीतितः ।
ग्रन्थबाहुल्यतो भूप परस्त्रीलालसोऽभवत् ॥ ५९॥
भाद्रकृष्णचतुर्थीजे वनमध्यस्थ एकदा ।
व्रते प्राप्ते महापापी निराहारो बभूव ह ॥ ६०॥
अकस्मात् तत्र सम्प्राप्तो जनसङ्घो महान्नृप ।
भयात्तस्य प्रलीनोऽभूद्गुहायां धीवरः स तु ॥ ६१॥
किञ्चिद्दिनावशेषे स जनसङ्घो गतोऽभवत् ।
तदा बहिर्विनिःसृत्य गृहे गन्तुं मनो दधे ॥ ६२॥
न प्राप्तं तेन दुष्टेन किञ्चित्तदपि दारुणः ।
स्वात्मन्यास्थाय धैर्यं स मार्गसंस्थो बभूव ह ॥ ६३॥
रात्रौ समागतो दुष्टः स्वगृहे राजसत्तम ।
चन्द्रोदये सुतैः सार्धं भोजनं स चकार ह ॥ ६४॥
पञ्चम्यां सर्पदंशेन मृतः पापेन निश्चयः ।
गणराजस्य तदपि दूता नेतुं समागमन् ॥ ६५॥
गृहीत्वा धीवरं तेऽयुर्गणाः स्वानन्दके पुरे ।
गणेशानं स तं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ ६६॥
व्रतेनाऽज्ञानजेनाऽयं विधिहीनेन भूमिप ।
ब्रह्मभूतो धीवरश्च सम्बभूव वदामि किम् ॥ ६७॥
एवं नाना जना राजन् ब्रह्मभूता बभूविरे ।
चतुर्थ्या व्रतपुण्येन वक्तुं नैव प्रशक्यते ॥ ६८॥
इदं भाद्रपदे कृष्णचतुर्थीजं शृणोति यः ।
माहात्म्यं वाऽपि पठति स ईप्सितमवाप्नुयात् ॥ ६९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते भाद्रपदकृष्णचतुर्थीमाहात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ॥ ४.२७
(Page खं. ४ अ. २८ पान ७८)
४.२८ आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
माहात्म्यं यद्वद ब्रह्मन्नाश्विने कृष्णके महत् ।
चतुर्थीजं विशेषेण न तृप्तोऽहं भवामि वै ॥ १॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
अत्र तेन महाराज शृणु तृप्तो भविष्यसि ॥ २॥
पार्वतीशङ्कराभ्यां च तपसाऽऽराधितोऽभवत् ।
दिव्यवर्षसहस्रेण गणेशः पुत्रतां गतः ॥ ३॥
कार्तिकेयस्तथा जातः स्ववीर्यात् स्नेहकारकः ।
न तथा प्रीतिरुत्पन्ना गणेशे च तयोरभूत् ॥ ४॥
कार्तिकेयो गणेशानं स्पर्धते नित्यमादरात् ।
विवाहो मे पुरा पश्चात्तवापि स्म भविष्यति ॥ ५॥
एवं स्पर्धयतोर्वीक्ष्य पुत्रयोः पार्वतीशिवौ ।
विचारं चक्रतुस्तत्र विवाहार्थं महामते ॥ ६॥
अयं विघ्नेश्वरः साक्षाद्ब्रह्मरूपो न संशयः ।
क्षोभितश्चेत् पदभ्रष्टं करिष्यति विशेषतः ॥ ७॥
साक्षात् पुत्रं समुत्पन्नं स्कन्दं सन्त्यज्य विघ्नपम् ।
ज्येष्ठं विवाहयेच्चेद्वा सेनानीः कोपितो भवेत् ॥ ८॥
त्यक्त्वा स्वपुत्रं सेनान्यं विवाहो नैव शोभते ।
अतः कपटरूपेण कर्तव्यं कार्यमुत्तमम् ॥ ९॥
ततः शिवो गणेशानं स्कन्दं चैवाऽब्रवीद्वचः ।
धराप्रदक्षिणां कृत्वा य आदौ सुसमागतः ॥ १०॥
पूर्वं विवाहकं तस्य करिष्यामि न संशयः ।
ततस्तं गणनाथस्तु जगाद वचनं हितम् ॥ ११॥
ज्येष्ठं मां किं परित्यज्य प्रभो वदसि शङ्कर ।
वेदहीनं तथा मेऽस्तु भवदाज्ञां करोम्यहम् ॥ १२॥
स्थूलदेहधरोऽहं मे वाहनं मूषको मतः ।
पृथ्वीप्रदक्षिणां कर्तुं न शक्नोमि सदाशिव ॥ १३॥
एवमुक्त्वा गणाधीशः स्वगृहे संस्थितोऽभवत् ।
जगाम स्कन्द आरुह्य मयूरं हर्षसंयुतः ॥ १४॥
पृथ्वीप्रदक्षिणायां स रतः स्कन्दः स वेगवान् ।
चकार मायया तत्र गणेशः कौतुकं महत् ॥ १५॥
सम्पूज्य पार्वतीं शङ्करं चकार प्रदक्षिणाम् ।
उवाच शङ्करं तत्र विवाहो मे विधीयताम् ॥ १६॥
प्रदक्षिणा कृता येन पितुर्मातुः सदाशिव ।
पृथ्वीप्रदक्षिणा तेन कृता शास्त्रे न संशयः ॥ १७॥
श्रुत्वा गणपतेर्वाक्यं कम्पितः शङ्करोऽब्रवीत् ।
करोमि ते विवाहं वै क्रोधं मा कुरु पुत्रक ॥ १८॥
तत एकान्तगं शम्भुं पार्वती प्रेमविह्वला ।
उवाच कार्तिकेयं किं त्यक्त्वा ढुण्ढिः स मानितः ॥ १९॥
ततस्तां शङ्करो वाक्यं जगाद शृणु पार्वति ।
अयं क्रुद्धश्च सर्वस्वं हरत्यत्र न संशयः ॥ २०॥
अतः स्नेहं परित्यज्य रक्ष धर्मं सनातनम् ।
नाऽयं पुत्रो महादेवि ब्रह्मभूतः समागतः ॥ २१॥
एवमुक्त्वा सतीं शम्भुविवाहमकरोत्ततः ।
गणेशस्य विधानेन हृदयेनाविदूयता ॥ २२॥
सिद्धे विवाहके पूर्णे कार्तिकेयः समागतः ।
तत्र विघ्नकरो विघ्नं चकार परमाद्भुतम् ॥ २३॥
नारदः सहसाऽऽगत्य कार्तिकेयमुवाच ह ।
विवाहकृत्यमेतस्य पित्रा मात्रा कृतं पुरा ॥ २४॥
त्वां वञ्चयित्वा सेनानीः कृतं कर्म जुगुप्सितम् ।
नावलोक्यं मुखं मातुः पितुश्चापि त्वया कदा ॥ २५॥
एवमुक्त्वा गतो विप्रो नारदः कलहप्रियः ।
(Page खं. ४ अ. २८ पान ७९)
स्कन्दो निःश्वस्य तस्मात् स ययौ श्रीशैलपर्वतम् ॥ २६॥
ज्ञात्वा पुत्रस्य वृत्तान्तं पार्वतीशङ्कराविमम् ।
शोधार्थं तत्र शैले तौ गतौ ज्ञात्वा पपाल सः ॥ २७॥
क्रौञ्चे स्कन्दं स्थितं ज्ञात्वा पार्वतीशङ्करौ नृप ।
शोकसंविग्नचित्तौ तौ विलापं चक्रतुः पुरा ॥ २८॥
तत्राऽऽजगाम विप्रेन्द्रो मुद्गलः सर्वमुद्गलः ।
तं दृष्ट्वा सहसोत्थाय पूजयामासतुर्मुनिम् ॥ २९॥
सुखासीनं महाभाग उवाच शोकसङ्कुलः ।
भगवन् सर्वतत्त्वज्ञ वद मां शोकनाशनम् ॥ ३०॥
स्कन्दसंयोगदं पूर्णमुपायं तं करोम्यहम् ।
रुरोद पार्वती तत्र ततस्तौ मुनिरब्रवीत् ॥ ३१॥
मुद्गल उवाच ।
शम्भो शृणु महाभाग त्वं साक्षात् सर्ववित् प्रभुः ।
विद्यारूपेयमाद्या सा शक्तिः सर्वार्थदायिनी ॥ ३२॥
तथापि कथयामि त्वां पुत्रौ शास्त्रे प्रकीर्तितौ ।
द्विविधौ तौ त्वया प्राप्तौ त्वत्समो नैव दृश्यते ॥ ३३॥
योगाभ्यासेन विघ्नेशो ब्रह्मणां नायकस्तव ।
पुत्रः समाधिजः प्रोक्तस्ततश्चिन्तामणिः स्मृतः ॥ ३४॥
देहः शक्तिमयस्तत्रात्मा त्वं पुरुष उच्यसे ।
ताभ्यां योगबलेनैव क्रियते ब्रह्मपुत्रकः ॥ ३५॥
अर्धनारीश्वरस्त्वं च तस्माज्जातो गजाननः ।
ब्रह्मभूतपदस्याऽसौ पालको नात्र संशयः ॥ ३६॥
भिन्ना शक्तिरियं जाता भिन्नस्त्वं देहधारकः ।
भिन्नभावात् समुत्पन्नः पुत्रस्ते स्कन्द एव च ॥ ३७॥
देहसौख्यकरः प्रोक्तः स्कन्दः सर्वत्र सम्मतः ।
शान्तिसौख्यकरश्चैव गणेशः पुत्रभावतः ॥ ३८॥
तत्र त्वं भिन्नभावेन मोहितोऽसि न संशयः ।
स्कन्दं स्नेहेन शम्भो त्वमधिकं मन्यसे सदा ॥ ३९॥
न तथा ब्रह्मणि श्रद्धाऽधिका विश्वेश्वरेऽधुना ।
तेन विघ्नसमायुक्तो जातोऽसि च भजस्व तम् ॥ ४०॥
ब्रह्मणि स्नेहभावेन विषयान्निन्दयन् स्थितः ।
तदा विषयतापास्ते स्वयं वश्या भवन्ति वै ॥ ४१॥
विघ्नेश्वरमनादृत्य स्कन्दं विवाहसंयुतम् ।
आदौ पश्यामि शक्त्या वै सन्धृतं मानसे त्वया ॥ ४२॥
तदैव निष्फलं सर्वं कृतं विघ्नकरेण ते ।
वियोगश्च समुत्पन्नस्तस्मात्तं शरणं व्रज ॥ ४३॥
एवमुक्त्वा मुद्गलस्तं जगाम स्वेच्छया चरन् ।
शिवः शक्त्या युतः स स्म मन्यते सत्यमेव तत् ॥ ४४॥
त्यक्त्वा स्कन्दभवं स्नेहं विघ्नेशमभजत् सदा ।
तत्रादौ सङ्कटी प्राप्ताऽऽश्विनी तां तौ प्रचक्रतुः ॥ ४५॥
मायां भ्रान्तिकरीं सर्वां भिन्नभावप्रमोहतः ।
त्यक्त्वा शिवश्च शक्तिश्च शान्तिस्थौ तौ बभूवतुः ॥ ४६॥
कस्य पुत्रश्च का माता पिता को भ्रमदायकम् ।
कृतं विघ्नेश्वरेणैव तमावां शरणं गतौ ॥ ४७॥
ततो विघ्नेश्वरेणैव कृतं कौतुकमादरात् ।
बुद्धिभेदः कृतस्तत्र स्कन्दस्य नृप तच् शृणु ॥ ४८॥
त्यक्तौ मयाऽतिमूढेन पार्वतीशङ्करावहो ।
ज्येष्ठं गणपतिं नित्यं स्पर्धयामि महाप्रभुम् ॥ ४९॥
शक्त्या शिवेन विघ्नेशस्तपसाऽऽराधितोऽभवत् ।
सोऽयं पुत्रस्वरूपेण बभूव वरदानतः ॥ ५०॥
स्वानन्दवासकारी स सिद्धिबुद्धिपतिः स्वयम् ।
(Page खं. ४ अ. २९ पान ८०)
योगशान्तिस्वरूपोऽयं न जानामि सुमूर्खवत् ॥ ५१॥
एवं विचार्य स्कन्दः स ययौ कैलासमादरात् ।
आदौ प्रणम्य विघ्नेशं पूजयामास भक्तितः ॥ ५२॥
अथर्वशिरसा तं स ततः स्तुत्वा सदाशिवम् ।
उमां सम्पूज्य तुष्टाव प्रणनामाऽथ दण्डवत् ॥ ५३॥
सम्मानितः स तैः स्कन्दोऽतिष्ठत्तद्भक्तिसंयुतः ।
तदाज्ञावशगो भूत्वा शान्तियोगपरोऽभवत् ॥ ५४॥
विवाहार्थं शिवेनाऽसौ प्रेरितस्तमुवाच ह ।
स्त्रियं बन्धकरीं नाथ नेच्छामि गणपे रतः ॥ ५५॥
अत्याग्रहयुतः स्कन्दोऽभजत्तं गणनायकम् ।
मायासुखं परित्यज्य तन्निष्ठः स बभूव ह ॥ ५६॥
एवं सङ्कटहारिण्या चतुर्थ्या महिमाद्भुतः ।
कथितः शान्तिदः सर्वसम्मेलनकरोऽभवत् ॥ ५७॥
अन्यच्छृणु महाभाग चरित्रं पापनाशनम् ।
वङ्गदेशे द्विजः कश्चित् पापकर्मा बभूव ह ॥ ५८॥
त्यक्त्वा ब्राह्मणमार्गं स मद्यपानरतोऽभवत् ।
यवनीं स समादाय यवनोऽभून् महाबलः ॥ ५९॥
वक्तुं न शक्यते तस्य कर्म पापमयं महत् ।
कथने परदोषाणां दोषी भवति मानवः ॥ ६०॥
कदाचिज्ज्वरसंयुक्तो बभूवे जातिदूषणः ।
तत्राश्विनभवा प्राप्ता नृप कृष्णा चतुर्थिका ॥ ६१॥
तत्र तेन जलान्नं च भक्षितं न भयान्नृप ।
सुपक्वानां तन्दुलानां पीतं चन्द्रोदये जलम् ॥ ६२॥
ततो बहौ गते काले ममार यवनो द्विजः ।
सङ्गृह्य ब्रह्मभूतं तं गाणेशाश्चक्रिरे नृप ॥ ६३॥
एतादृशा महापापा व्रतपुण्यप्रभावतः ।
ब्रह्मभूता बभूवुश्च का कथा विधिकारिणाम् ॥ ६४॥
एवं नाना जना राजन् भुक्त्वा भोगान् यथेप्सितान् ।
ब्रह्मण्यं ते गतास्तत्तु मया वक्तुं न शक्यते ॥ ६५॥
इदमाश्विनजायास्तु माहात्म्यं यः शृणोति वा ।
पठेत् स कृष्णसङ्कष्ट्याः सर्वार्थं लभते नरः ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते आश्विनकृष्णचतुर्थीमाहात्म्यवर्णनं नाम अष्टाविंशोऽध्यायः ॥ ४.२८
४.२९ कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
कार्तिके कृष्णपक्षे या चतुर्थी सङ्कटी मता ।
माहात्म्यं वद तस्यास्त्वं सर्वपापहरं परम् ॥ १॥
वसिष्ठ उवाच ।
अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ।
महाराष्ट्रे महातेजा राजाऽभूत् कर्दमाभिधः ॥ २॥
वेदवेदार्थतत्त्वज्ञः स्वधर्मनिरतोऽभवत् ।
लोकान् सङ्गृह्य षष्ठांशं पालयन् पुत्रकान् यथा ॥ ३॥
अपारसेनया युक्तश्चतुरङ्गप्रमोदया ।
पूर्णकोशः कुबेराभो बभौ शस्त्रास्त्रपारगः ॥ ४॥
स्वबलेन नृपान् सर्वान् वशान् कृत्वा महाबलः ।
चकार वशगां पृथ्वीं समुद्रान्तां विशेषतः ॥ ५॥
(Page खं. ४ अ. २९ पान ८१)
करदा इतरे सर्वे राजानः सेवका इव ।
सामन्ताश्च महाराज तस्याज्ञावशवर्तिनः ॥ ६॥
पुण्यवान् धर्मशीलश्च नानादानपरायणः ।
देवविप्राऽतिथिप्रेप्सुः स्वदारनिरतोऽभवत् ॥ ७॥
यज्वा विनीतकस्तीर्थकारकः परवीरहा ।
नानागुणयुतः सोऽपि मया वक्तुं न शक्यते ॥ ८॥
स एव यक्ष्मणाऽत्यन्तं पीडितः पापरूपिणा ।
शोकाकुलोऽभवद्राजा अस्थिशेषो बभूव ह ॥ ९॥
नानोपायाः कृतास्तस्य शान्तये न च सोऽभवत् ।
शान्तस्ततो महाराजस्तीर्थयात्रापरोऽभवत् ॥ १०॥
नानातीर्थानि राजाऽसौ चकार तदपि ह्यहो ।
पीडया नैव मुक्तोऽभूत्ततो दुःखितमानसः ॥ ११॥
देवार्चनरता विप्राः कृतास्तेन महात्मना ।
तथापि रोगसंयुक्तोऽधिको राजा बभूव ह ॥ १२॥
ततः शान्तिधरो राजा वैराग्ये निदधे मनः ।
राज्यं त्यक्त्वा प्रधानेषु सस्त्रीकः स वनं ययौ ॥ १३॥
बभ्राम वनगो भूत्वा यत्र तत्र महीपतिः ।
ततो मङ्कणकं विप्रमदर्शद्योगिसत्तमम् ॥ १४॥
तद् दृष्ट्वा निपपातोर्व्यां रुरोद भृशमेव सः ।
ततस्तं मुनिमुख्योऽसौ जगाद दयया युतः ॥ १५॥
मङ्कणक उवाच ।
शृणु राजन् महाभाग येन त्वं रोगपीडितः ।
अभवस्तदघं सर्वं कथयामि नृपाधम ॥ १६॥
मुख्यं नष्टं च राज्ये ते चतुर्थीसंज्ञितं व्रतम् ।
तेन त्वं पापसंयुक्तो नरके गच्छसि ध्रुवम् ॥ १७॥
सर्वादौ तद्व्रतं कार्यं नित्यवद्राजसत्तम ।
सर्वसिद्धिकरं पूर्णं चतुर्विधफलप्रदम् ॥ १८॥
तद्व्रतेन विहीनस्त्वं नानाधर्मपरायणः ।
चतुःपदार्थहीनत्वान्निष्फलोऽसि नृपाधम ॥ १९॥
एवमुक्त्वा च माहात्म्यं चतुर्थीसम्भवं मुनिः ।
श्रावयामास तस्मै तच्छ्रुत्वा सोऽपि तमब्रवीत् ॥ २०॥
कर्दम उवाच ।
धन्यं मे जन्म कर्मादि त्वदङ्घ्रियुगदर्शनात् ।
व्रतस्य श्रवणाद्धन्यो कृतकृत्यो न संशयः ॥ २१॥
दयानिधे गणेशस्य स्वरूपं वद विस्तरात् ।
सर्वदेवाधिदेवं तं भजिष्यामि निरन्तरम् ॥ २२॥
मङ्कणक उवाच ।
गणेशस्य स्वरूपं कथयितुं शक्यते न तत् ।
तथाप्युपाधिसंयुक्तं वदामि शृणु कर्दम ॥ २३॥
पुराऽहं पत्रभक्षः संस्तपसे संस्थितोऽभवम् ।
बहुकाले गते हस्तो विद्धो मे कण्टकेन च ॥ २४॥
तदा पत्ररसस्तस्मादस्रवत् किञ्चिदप्यहो ।
दृष्ट्वा विस्मितचित्तोऽहं नृत्यं चाकरवं तदा ॥ २५॥
अहो देहाद्गतं कुत्र रुधिरं मे स्वभावजम् ।
पत्रभक्षणभावेन रसः स्रवति हस्ततः ॥ २६॥
ततो नृत्यस्य वेगेन कम्पितं स चराचरम् ।
मदीयतपसा युक्तं देवाः शङ्करमाययुः ॥ २७॥
शङ्करः सर्वदेवैश्चागत्य मामब्रवीद्वचः ।
किं नृत्यसि महाभाग पश्य मे कौतुकं महत् ॥ २८॥
इत्युक्त्वा त्रुटिका तेन कृता तत्र रसस्य मे ।
भस्मरूपं कृतं भूपाऽभवं तेनातिविस्मितः ॥ २९॥
त्यक्त्वा नृत्यं महेशानं प्रणम्य स्तुतवान् क्षणात् ।
अन्तर्धाय स्वमात्मानं शङ्करः स गतोऽभवत् ॥ ३०॥
(Page खं. ४ अ. २९ पान ८२)
मया मनसि राजेन्द्र सन्धृतं शङ्करात् परम् ।
विद्यते न तथा कर्तुमन्यथा कर्तुमीश्वरः ॥ ३१॥
दर्शयित्वा तपोरूपमतो भस्म कृतं महत् ।
रसस्य सर्वगः सोऽपि ब्रह्माकारः प्रदृश्यते ॥ ३२॥
त्यक्त्वा विष्णुं महेशस्य भजने निरतोऽभवम् ।
क्रमेण योगयुक्तोऽहं तपस्त्यक्त्वा शमे रतः ॥ ३३॥
जडादिका मया योगभूमयः क्रमितास्ततः ।
क्रमेण सहजे संस्थोऽभवं वै मोहवर्जितः ॥ ३४॥
यत्र तत्र महीदेशे भ्रान्तोऽहं योगधारकः ।
सहजं ब्रह्म मोहेन हीनं दृष्टं मया ततः ॥ ३५॥
स्वाधीनं सहजं ब्रह्म न योग्यं शान्तिदे परे ।
तेनाऽहं ब्रह्मणि भ्रान्तः सूर्यं च शरणं गतः ॥ ३६॥
प्रणम्य सौरमार्गेण स्तोत्रेण प्रस्तुतो मया ।
प्रसन्नो माऽवदत्तत्र वरं वरय चेप्सितम् ॥ ३७॥
ततोऽहमवदं सूर्यं वद शान्तिप्रदं प्रभो ।
सहजं मोहहीनत्वात् स्वाधीनं नैव शान्तिदम् ॥ ३८॥
ततो मामब्रवीत् सूर्यः प्रसन्नो भक्तियन्त्रितः ।
गणेशं भज भावेन तदा शान्तिमवाप्स्यसि ॥ ३९॥
असच्छक्तिश्च सत् सूर्यः समो विष्णुर्महामुने ।
सहजः शङ्करः प्रोक्तस्तेषां योगे गणेश्वरः ॥ ४०॥
चतुर्णां चैव संयोगे स्वानन्दः परिकीर्तितः ।
अयोगः पञ्चभिर्हीनस्तत्र निर्मायिको बभौ ॥ ४१॥
संयोगे मायया युक्तो योगे मायाविवर्जितः ।
तयोर्योगे शान्तिदः स गणेशो ब्रह्मनायकः ॥ ४२॥
चित्तरूपा महाबुद्धिः पञ्चधा परिकीर्तिता ।
चित्तमोहप्रदा सिद्धिस्ताभ्यां क्रीडति विघ्नपः ॥ ४३॥
चित्तं मोहयुतं विप्र त्यक्त्वा योगेन शान्तिदम् ।
चिन्तामणिं भजस्व त्वं योगिवन्द्यो भविष्यसि ॥ ४४॥
एवमुक्त्वा ददौ मन्त्रं प्रभुर्मह्यं षडक्षरम् ।
स विधिं तं नमस्कृत्य स्वाश्रमेऽहं समागमम् ॥ ४५॥
तत्र विघ्नेश्वरं भक्त्या भजं तं नित्यमादरात् ।
ततः स्वल्पेन शान्तिस्थोऽभवं योगस्य सेवया ॥ ४६॥
तथापि गणराजं सम्पूज्य मन्त्रपरायणः ।
अभजं तेन सन्तुष्टः प्रत्यक्षं प्रययौ स्वयम् ॥ ४७॥
मया सम्पूजितो भक्त्या स्तुतो नानाविधैः स्तवैः ।
मह्यं दत्त्वा दृढां भक्तिमन्तर्धानं चकार ह ॥ ४८॥
तदारभ्य महीपाल गाणपत्योऽहमादरात् ।
भजामि तं गणेशानं स्वच्छन्देन महामते ॥ ४९॥
एवमुक्त्वा ददौ तस्मै कर्दमाय षडक्षरम् ।
मन्त्रं विधियुतं विप्रो गणेशकृपया युतः ॥ ५०॥
अन्तर्धानं चकारापि महान् मङ्कणको मुनिः ।
राजा हर्षसमायुक्तः स्वगृहं प्रत्यपद्यत ॥ ५१॥
तत्राऽऽदौ कार्तिके मास्यागता कृष्णा चतुर्थिका ।
तां चकार पुरस्थैश्च जनैर्हर्षयुतो नृप ॥ ५२॥
ततो भूपेन विख्यातं कृतं व्रतमनुत्तमम् ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ५३॥
रोगहीनः स राजर्षिरभजद्गणनायकम् ।
जना वन्ध्यत्वहीनाश्चाऽभजंस्ते भावसंयुताः ॥ ५४॥
पुत्रे राज्यं परित्यज्य सस्त्रीकः स वनं ययौ ।
तत्र विघ्नेश्वरं भक्त्याऽभजच्चानन्यचेतसा ॥ ५५॥
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो बभूव ह ।
(Page खं. ४ अ. ३० पान ८३)
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ५६॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यत्त्वं शृणु भावेन परं कार्तिकसम्भवम् ॥ ५७॥
चाण्डालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् ।
जघान ब्राह्मणानन्यान् जन्तून् वनसमाश्रितान् ॥ ५८॥
परस्त्रियं वने दृष्ट्वाऽयभत्तां हठसंयुतः ।
एवं नानाविधं पापं चकार दुर्मतिः सदा ॥ ५९॥
कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः ।
कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥ ६०॥
ततोऽतिभयसंयुक्तः स्वगृहं प्रत्यपद्यत ।
तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥ ६१॥
तथापि विषबाधा च न जहौ तं सुदुर्मतिम् ।
ततश्चन्द्रोदये किञ्चित् सावधानो बभूव ह ॥ ६२॥
तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च ।
व्याकुलः पतितस्तत्र गतचेष्टोंऽत्यजोऽभवत् ॥ ६३॥
पञ्चम्यां स मृतः पापी ब्रह्मभूतो बभूव ह ।
व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥ ६४॥
एवं नानाविधा राजन् व्रतपुण्यप्रभावतः ।
बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥ ६५॥
एतत्ते कथितं सर्वं माहात्म्यं कार्तिके नृप ।
सङ्कष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥ ६६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥ ४.२९
४.३० मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद ।
माहात्म्यं सर्वदं स्वामिन् येन तृप्तो भवाम्यहम् ॥ १॥
वसिष्ठ उवाच ।
इतिहासं पुरावृत्तं कथयामि सविस्तरम् ।
राजा बभूव तेजस्वी हरिश्चन्द्रः प्रतापवान् ॥ २॥
अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः ।
सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥ ३॥
यद्यच्च याचते विप्रस्तद्ददाति स हर्षतः ।
तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥ ४॥
ततश्छलयितुं योगी विश्वामित्रः समाययौ ।
सर्वराज्यं नृपस्यैव जगृहे दानमार्गतः ॥ ५॥
राज्यभ्रष्टं नृपं कृत्वा परप्रान्ते गतं पुनः ।
नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥ ६॥
ततः सोऽपि नृपोऽत्यन्तं धर्मयुक्तो बभूव ह ।
न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥ ७॥
तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता ।
कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥ ८॥
छलितो मुनिनाऽत्यन्तं ततश्चन्द्रोदयोऽभवत् ।
तत्रान्नं भक्षयामास राजेन्द्रो दैवयोगतः ॥ ९॥
पञ्चम्यां बुद्धिसम्भेदो विश्वामित्रस्य चाऽभवत् ।
तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥ १०॥
(Page खं. ४ अ. ३० पान ८४)
ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् ।
प्रत्यक्षं वरदो भूत्वा हरिश्चन्द्रमुवाच ह ॥ ११॥
कुरु राज्यं महाबुद्धे शृणु मे परमं वचः ।
तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥ १२॥
तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम ।
अहं सङ्क्षुभितो वाऽपि तदर्थं नात्र संशयः ॥ १३॥
सर्वादौ तद्व्रतं कार्यं चतुःपादप्रदं नृप ।
नित्यवन्नात्र सन्देहः सर्वसिद्धिप्रदायकम् ॥ १४॥
त्वया नानाविधं पुण्यं कृतं विधियुतं महत् ।
तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥ १५॥
जनैः सर्वैर्महाराज नरके त्वं पतिष्यसि ।
त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥ १६॥
तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम ।
तत् कुरुष्व महीपाल जनैः सौख्यमवाप्स्यसि ॥ १७॥
एवमुक्त्वा ददौ तस्मै मन्त्रमष्टाक्षरं मुनिः ।
सविधिं गणनाथस्य सोऽपि तं पुनरब्रवीत् ॥ १८॥
हरिश्चन्द्र उवाच ।
गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः ।
व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥ १९॥
विश्वामित्र उवाच ।
गणेश्वरस्य माहात्म्यं शृणु सङ्क्षेपतो नृप ।
एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥ २०॥
मनोवाणीमयं विश्वं तदेव गणवाचकम् ।
नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥ २१॥
मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् ।
गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥ २२॥
सिद्धिर्भ्रान्तिकरी प्रोक्ता बुद्धिर्भ्रान्तिधरा नृप ।
ताभ्यां क्रीडति विघ्नेशश्चित्ते चिन्तामणिः स्थितः ॥ २३॥
तं भजस्व विधानेन तदा शान्तिमवाप्स्यसि ।
राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥ २४॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
समोऽहं चित्तमुत्सृज्य चिन्तामणिर्भविष्यसि ॥ २५॥
एवमुक्त्वा व्रतस्यैव माहात्म्यं मुनिपुङ्गवः ।
श्रावयामास तस्मै तत्ततश्चान्तर्हितोऽभवत् ॥ २६॥
विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः ।
अयोध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥ २७॥
नागरैः सह राजाऽपि चकार व्रतमुत्तमम् ।
शुक्लकृष्णचतुर्थीजं गणेशभजने रतः ॥ २८॥
सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः ।
भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥ २९॥
नानेन सदृशं किञ्चित् सर्वदं व्रतमुत्तमम् ।
ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥ ३०॥
राजा गणपतिं नित्यमभजन्नान्यचेतसा ।
पुत्रे राज्यं विनिक्षिप्य सस्त्रीकश्च ययौ वनम् ॥ ३१॥
तत्रैव गणराजं सोऽभजत् सुतपसा युतः ।
शान्तिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥ ३२॥
अन्ते स्वानन्दगो भूत्वा गणेशे लीनतां गतः ।
एवं व्रतस्य माहात्म्यं कथितं तेऽजनन्दन ॥ ३३॥
जनाः सर्वे क्रमेणैव ब्रह्मभूता बभूविरे ।
चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥ ३४॥
अन्यच्छृणु महीपाल मालवे नगरं महत् ।
कर्णा नाम च तत्राऽऽसीद्वेश्या नरविमोहिनी ॥ ३५॥
लोकान् सा हावभावेन मोहयामास तत्क्षणात् ।
नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः ॥ ३६॥
(Page खं. ४ अ. ३१ पान ८५)
स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे ।
मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥ ३७॥
ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः ।
चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥ ३८॥
कथने परदोषाणां दोषी भवति मानवः ।
एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥ ३९॥
नानाजनैर्युता राजन्नरके कृतनिश्चया ।
न विरामं चकाराऽपि नराणां मोहने कदा ॥ ४०॥
एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च ।
चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥ ४१॥
पञ्चम्यां सा मृता तत्र ब्रह्मभूता बभूव ह ।
व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥ ४२॥
एवं नाना जना राजन् ब्रह्मभूता बभूविरे ।
तत्र ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥ ४३॥
मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् ।
पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥ ४४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥ ४.३०
४.३१ पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो ।
न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम् ॥ १॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं महान् ।
राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥ २॥
बलवान्नीतियुक्तश्चाभवच्छस्त्रास्त्रपारगः ।
धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥ ३॥
नानादानरतश्चापि वान्ध्यदोषयुतोऽभवत् ।
तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥ ४॥
ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् ।
नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥ ५॥
तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् ।
स्वयं पूजापरो भूत्वा न लेभे सन्ततिं ततः ॥ ६॥
ततोऽतिदुःखितो राजा त्यक्त्वा राज्यं वने ययौ ।
सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥ ७॥
महावनान्तरं गत्वा दुःखशोकसमन्वितः ।
सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥ ८॥
तत्राऽऽजगाम योगीन्द्रस्त्रितो नाम महामुनिः ।
तं दृष्ट्वा प्रणनामाऽऽदौ कृताञ्जलिपुटः स्थितः ॥ ९॥
तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः ।
रुरोद तं महायोगी जगाद करुणायुतः ॥ १०॥
त्रित उवाच ।
राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् ।
नष्टं चतुर्थीजं पूर्णं तेन वन्ध्योऽसि निश्चितम् ॥ ११॥
सर्वादौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् ।
तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥ १२॥
नानाधर्मपरस्त्वं वै जनास्तथैव मानद ।
(Page खं. ४ अ. ३१ पान ८६)
फलहीनप्रभावेण पतिष्यन्ति च रौरवे ॥ १३॥
एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः ।
श्रावयामास सम्पूर्णं ततस्तं त्वब्रवीन्नृपः ॥ १४॥
वीरसह उवाच ।
गणेश्वरस्य माहात्म्यं वद मे करुणानिधे ।
एतादृशं व्रतं यस्य तं भजिष्यामि नित्यदा ॥ १५॥
त्रित उवाच ।
गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् ।
उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥ १६॥
अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः ।
एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥ १७॥
ताभ्यां यज्ञार्थमेवाहं गतो राज्ञो महात्मनः ।
अभवं कारयित्वा तं स्वगृहे गन्तुमुत्सुकः ॥ १८॥
दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् ।
भ्रातरौ लोकसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥ १९॥
जलहीने हि कूपेऽहं पतितः खेदसंयुतः ।
तत्र मानसिकं यज्ञं प्रचकार हितावहम् ॥ २०॥
आजग्मुस्तत्र देवाद्या हविर्भागार्थमादरात् ।
मया सम्पूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥ २१॥
अमरा ईप्सितं सर्वे वरं मह्यं ददुर्नृप ।
ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥ २२॥
ततोऽहं याचयित्वाऽन्यं नृपं गोभिः समन्वितः ।
हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥ २३॥
ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः ।
तपस्त्यक्त्वा च योगेन प्राभवं भूमिसाधकः ॥ २४॥
जडोन्मत्तपिशाचाद्या भूमयः साधिता मया ।
अन्ते ब्रह्मगतोऽतिष्ठं समात्माऽहं स्वशान्तिदे ॥ २५॥
स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः ।
धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥ २६॥
योगीन्द्रैर्वन्दितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् ।
पूजयित्वा सुविश्रान्तं तमपृच्छं कृताञ्जलिः ।
शान्तियोगं वद स्वामिन् शान्तिभ्यः शान्तिदायकम् ॥ २७॥
मुद्गल उवाच ।
असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने ।
अव्यक्तः शङ्करस्तेषां संयोगे गणपोऽभवत् ॥ २८॥
संयोगे मायया युक्तो गणेशो ब्रह्मनायकः ।
अयोगे मायया हीनो भव ते मुनिसत्तम ॥ २९॥
संयोगायोगयोर्योगे योगो गाणेशसंज्ञकः ।
शान्तिभ्यः शान्तिदः प्रोक्तो भज तं भक्तिसंयुतः ॥ ३०॥
एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः ।
एकाक्षरं विधियुतं ततः सोंऽतर्हितोऽभवत् ॥ ३१॥
ततोऽहं गणराजं तमभजं सर्वभावतः ।
तेन शान्तिसमायुक्तश्चरामि ह्यकुतोभयः ॥ ३२॥
न गणेशात् परं ब्रह्म न गणेशात् परं तपः ।
न गणेशात् परं कर्म ज्ञानं न गणपात् परम् ॥ ३३॥
न गणेशात् परो योगो भक्तिर्न गणपात् परा ।
तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥ ३४॥
गणेशानं परित्यज्य कर्म ज्ञानादिकं चरेत् ।
तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥ ३५॥
सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्यचेतसा ।
सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥ ३६॥
एवमुक्त्वा त्रितस्तस्मै ददौ मन्त्रं दशाक्षरम् ।
विधियुक्तं ततः साक्षादन्तर्धानं चकार ह ॥ ३७॥
(Page खं. ४ अ. ३१ पान ८७)
राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ ।
प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥ ३८॥
तत्रादौ पौषगां कृष्णां चतुर्थीं तां समागताम् ।
चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥ ३९॥
प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप ।
शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥ ४०॥
ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुतम् ।
लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥ ४१॥
रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् ।
यत्र तत्र चतुर्थीजं माहात्म्यमवदन् जनाः ॥ ४२॥
पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः ।
सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥ ४३॥
अन्ते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः ।
क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥ ४४॥
एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यच्छृणु महाभाग पापनाशकरं महत् ॥ ४५॥
गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह ।
द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥ ४६॥
मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा ।
वणिजो विषयोगेन मारयामास नित्यदा ॥ ४७॥
एवं बहुधनो जातः परस्त्रीलालसोऽभवत् ।
मद्यमांसपरो दुष्टो सतीसङ्गेषु लालसः ॥ ४८॥
नानामिषेण दुष्टः स्म सतीर्यभति वेगतः ।
परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥ ४९॥
निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि ।
दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥ ५०॥
तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः ।
चन्द्रोदये रक्षकैर्यद्दत्तमन्नमभक्षयत् ॥ ५१॥
पञ्चम्यां राजदूतैः स शूलप्रोतो ममार ह ।
ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥ ५२॥
एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे ।
ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥ ५३॥
तत्रैव कति ते राजन् कथयामि विशेषतः ।
न वक्तुं शक्यते तस्मादुक्तं सङ्क्षेपतो मया ॥ ५४॥
इदं पौषस्य सङ्कष्ट्या माहात्म्यं संशृणोति यः ।
पठेद्वा तस्य शुभदं भविष्यति निरन्तरम् ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥ ४.३१
(Page खं. ४ अ. ३२ पान ८८)
४.३२ माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
मलमासे च सङ्कष्ट्याश्चतुर्थ्या वद मानद ।
माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं कृपानिधे ॥ १॥
वसिष्ठ उवाच ।
आन्ध्रदेशे महाराजो बभूवे रैवतान्तरे ।
धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥ २॥
यज्वा विनीतकोऽत्यन्तं नीतिज्ञोऽखिलतोषकृत् ।
षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥ ३॥
जलोदरयुतोऽकस्मादभवन् मानदायकः ।
सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥ ४॥
नानोपायाः कृतास्तस्य शान्तये नृपसत्तम ।
तथाऽपि रोगनिर्मुक्तो न बभूव महीपतिः ॥ ५॥
तुलादानादिकान्येव महादानानि पीडितः ।
चकार रोगयुक्तस्तदप्यत्यन्तमजायत ॥ ६॥
परिभ्रमन् स तीर्थानि चकार विधिसंयुतः ।
देवताऽऽराधनं राजा नाऽभवद्रोगवर्जितः ॥ ७॥
ततोऽतिदुःखितो राजा जलेनैवात्मघातनम् ।
विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥ ८॥
ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ ।
तद्गृहे तं नमस्कृत्य पूजयामास बान्धवैः ॥ ९॥
भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः ।
धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥ १०॥
धर्मदत्त उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि सफलो मे भवोऽभवत् ।
तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥ ११॥
आत्मघातेऽहमुद्युक्तस्तत्र ते दर्शनं महत् ।
प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥ १२॥
वसिष्ठ उवाच ।
एवं वदन्तमानन्दयुक्तो योगीन्द्रसत्तमः ।
उवाच तं महाराजं दयया करुणानिधिः ॥ १३॥
अष्टावक्र उवाच ।
किमर्थं देहघाते त्वमुद्यतोऽसि महामते ।
रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥ १४॥
तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् ।
नष्टं तेन महोग्रेण पापेन संयुतो भवान् ॥ १५॥
राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् ।
त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥ १६॥
सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् ।
तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥ १७॥
त्वया धर्मयुतं कर्म कृतं नानाविधं तथा ।
चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥ १८॥
सर्वैः सह जनै राजन्नरके त्वं पतिष्यसि ।
तदर्थं व्रतराजं तत् कुरु सर्वसमन्वितः ॥ १९॥
एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः ।
श्रावयामास तस्मै स करुणायुतचेतसा ॥ २०॥
श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः ।
उवाच तं हि योगीन्द्रं हर्षयुक्तेन चेतसा ॥ २१॥
धर्मदत्त उवाच ।
पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते ।
मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥ २२॥
अधुना विघ्नराजस्य स्वरूपं मे दयानिधे ।
कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥ २३॥
न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् ।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २४॥
अष्टावक्र उवाच ।
धर्मदत्त महाभाग शृणु त्वं गणपस्य यत् ।
यस्येदृशं व्रतं मुख्यं सर्वसिद्धिप्रदं भवेत् ॥ २५॥
(Page खं. ४ अ. ३२ पान ८९)
निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च ।
तस्य देहः सगुणकं ब्रह्म योगे गजाननः ॥ २६॥
सिद्धिर्भ्रान्तिस्वरूपा सा बुद्धिर्भ्रान्तिधराऽभवत् ।
ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥ २७॥
स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् ।
तेन स्वानन्दवासी स कथ्यते योगिभिः प्रभुः ॥ २८॥
संयोगेऽयं गकारः सो योगेऽयं च णकारकः ।
तयोः स्वामी गणेशानः शान्तियोगेन लभ्यते ॥ २९॥
पञ्चधा चित्तवृत्तिर्या तस्यां मोहस्तु पञ्चधा ।
समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥ ३०॥
तेनाऽयं गणनाथस्तु चिन्तामणिरिति स्मृतः ।
तं भजस्व महाभाग तदा शान्तो भविष्यसि ॥ ३१॥
एवमुक्त्वा ददौ तस्मै मन्त्रं मालात्मकं प्रभुः ।
सविधिं धर्मदत्ताय ततः सोंऽतर्हितोऽभवत् ॥ ३२॥
राजाऽपि हर्षसंयुक्तो बभूवातितरां ततः ।
धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥ ३३॥
तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा ।
समागता जनै राजा तां चकार विधानतः ॥ ३४॥
ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् ।
ततो जना व्रतं चक्रुर्भूमिस्था यत्र तत्र ते ॥ ३५॥
ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह ।
जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥ ३६॥
नित्यं गणपतिं राजाऽभजच्चानन्यमानसः ।
गणेशप्रीतये नानादानानि स ददौ सदा ॥ ३७॥
ततो राज्ये स्वपुत्रं स संस्थाप्यैकान्तसंस्थितः ।
सस्त्रीको गणनाथं तमभजद्ध्यानमार्गतः ॥ ३८॥
अन्ते जगाम विघ्नेशं तल्लीनः स बभूव ह ।
जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥ ३९॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् ।
कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥ ४०॥
गान्धारदेशवासीयः क्षत्रियः पापकारकः ।
बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥ ४१॥
द्यूतमद्यरतो नित्यं परस्त्रीलम्पटोऽभवत् ।
गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥ ४२॥
नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै ।
चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥ ४३॥
ततो राज्ञा महापापी वने निष्कासितो बलात् ।
जघान मार्गगांस्तत्र जन्तून्नानाविधान् खलः ॥ ४४॥
द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः ।
एवं नानाविधं पापं नित्यमेव चकार सः ॥ ४५॥
ततो द्रव्ययुतोऽत्यन्तं बुभुजे भोगमुत्तमम् ।
हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥ ४६॥
कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः ।
चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥ ४७॥
ततो मानवमेकं तु मार्गस्थं स ददर्श ह ।
निःसृत्याधावदत्यन्तं शस्त्रहस्तो वधाय वै ॥ ४८॥
पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः ।
क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥ ४९॥
पतितं तं समाज्ञाय नरः क्रोधसमन्वितः ।
पाषाणेन महादुष्टं मारयामास मस्तके ॥ ५०॥
मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप ।
तेन स व्याकुलोऽत्यन्तं गतचेष्टो बभूव ह ॥ ५१॥
(Page खं. ४ अ. ३३ पान ९०)
रात्रौ चन्द्रोदये किञ्चित् सावधानोऽभवत् कुधीः ।
पायसं भक्षयामास स्वल्पं दुःखसमन्वितः ॥ ५२॥
ततो ममार पञ्चम्यां गतः स्वानन्दके पुरे ।
तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥ ५३॥
एवं व्रतप्रभावेण पापकर्मा स क्षत्रियः ।
ब्रह्मभूतो बभूवाऽपि किं पुनर्ज्ञानतः कृतम् ॥ ५४॥
नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् ।
ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥ ५५॥
इदं कृष्णचतुर्थ्या यन् माहात्म्यं मलमासके ।
शृणोति यस्तु पठति स ईप्सितमवाप्नुयात् ॥ ५६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते मलमासकृष्णपक्षचतुर्थी-
माहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ४.३२
४.३३ शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम ।
सङ्कष्ट्यां तस्य माहात्म्यं वद मे करुणानिधे ॥ १॥
वसिष्ठ उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं नृप ।
सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥ २॥
पाञ्चाले ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः ।
पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥ ३॥
नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः ।
कीटकैः सर्वतो व्याप्तो ह्यन्धः कुब्जोऽभवन्नृप ॥ ४॥
तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः ।
अत्रिं जगाम शरणं तं पप्रच्छ प्रणम्य सः ॥ ५॥
तेनापि कथितं राजन् शमीमूले स्थितो भवेत् ।
चतुर्थीं सङ्कटीं कुर्यात्तदा पापात् प्रमुच्यते ॥ ६॥
ततः सोऽपि स्वपुत्रं तं शमीमूले महीपते ।
समानाय्य बबन्धैव दाम्ना सर्वार्थसाधकः ॥ ७॥
सूर्योदयात् समारभ्य यावच्चन्द्रोदयोऽभवत् ।
तावत्तत्र महारोगी सोऽतिष्ठद्बन्धनाकुलः ॥ ८॥
ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् ।
नेत्रयुक्तो बभूवाऽथ रोगादिभिर्विवर्जितः ॥ ९॥
कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् ।
तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे ॥ १०॥
ततः सोऽपि गणेशानमभजन्नित्यमादरात् ।
चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥ ११॥
अन्ते शान्तिसमायुक्तो ब्रह्मभूतो बभूव ह ।
एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥ १२॥
अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् ।
चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥ १३॥
स्फोटयित्वा गृहं किञ्चित्तेन तत्र प्रविश्य सः ।
धनं गृहीत्वा निर्यातो नरैर्दृष्टः पपाल सः ॥ १४॥
जनैः कोलाहलस्तत्र कृतः परमदारुणः ।
श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥ १५॥
(Page खं. ४ अ. ३३ पान ९१)
ज्ञात्वा वृत्तान्तमुग्रं ते धाविताः क्रोधसंयुताः ।
वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥ १६॥
छिन्नाङ्गं पतितं चौरं दूताः सङ्गृह्य दारुणम् ।
तं बबन्धुः शमीवृक्षे ततो राजानमाययुः ॥ १७॥
समागता चतुर्थी सा तत्राऽकस्मान् महीपते ।
कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥ १८॥
पञ्चम्यां क्षतहीनाङ्गं चौरं सर्वत्र शोभनम् ।
सञ्जातं राजदूतास्ते ज्ञात्वा राज्ञे न्यवेदयन् ॥ १९॥
राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः ।
एतस्मिन्नन्तरे तत्र विमानं सहसाऽऽगतम् ॥ २०॥
तं तत्रागृह्य निक्षिप्य गणान् शुण्डाविराजितान् ।
तान् प्रणम्य स पप्रच्छ राजर्षिर्गन्तुमुत्सुकान् ॥ २१॥
महासेन उवाच ।
भो भो गणपतेर्दूताः किमनेन कृतं महत् ।
वदेत करुणायुक्तास्तद्वयं करवामहै ॥ २२॥
गाणेशा ऊचुः ।
कृष्णपक्षे चतुर्थ्यां यः शमीमूले जपेन्मनुम् ।
तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥ २३॥
निराहारः स विघ्नेशं पूजयेत् व्रतकारकः ।
पश्चाद्विप्रांश्च सम्भोज्य स्वयं भुञ्जीत वाग्यतः ॥ २४॥
रात्रौ जागरणं कुर्यात् पञ्चम्यां पूजनं पुनः ।
प्रकुर्यात् गणराजस्य स ईप्सितमवाप्नुयात् ॥ २५॥
फलयुक्तः सद्य एव भवत्यत्र न संशयः ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतः स जायते ॥ २६॥
एवमुक्त्वा गता दूताश्चौरेण सहिता नृप ।
चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥ २७॥
ततो राजा महाभागो गणेशभजने रतः ।
स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥ २८॥
ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः ।
ब्रह्मादीनां सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥ २९॥
पुनः स्वनगरे राजा चम्पावत्यां जगाम ह ।
एवं सर्वत्रगो भूत्वा रराजे राजमण्डले ॥ ३०॥
अन्ते सर्वजनै राजा नगरस्थैर्महामते ।
जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥ ३१॥
इदं ते मुख्यमाहात्म्यं शमीमूलस्थितेर्महत् ।
चतुर्थ्यां कथितं राजन् सङ्कष्ट्यां सर्वसिद्धिदम् ॥ ३२॥
शृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् ।
ईप्सितं गणराजस्य प्रसादान्नात्र संशयः ॥ ३३॥
एवं नाना जना राजन्नान्ध्यदोषादिवर्जिताः ।
बभूवुश्चरितं तेषां मया वक्तुं न शक्यते ॥ ३४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ४.३३
(Page खं. ४ अ. ३४ पान ९२)
४.३४ वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दशरथ उवाच ।
श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति ।
तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥ १॥
वसिष्ठ उवाच ।
मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः ।
राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥ २॥
बभक्ष श्रावणे कृष्णसङ्कष्ट्यां पञ्चखाद्यजान् ।
लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥ ३॥
दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह ।
आश्विने निर्जलं तद्वच्चकार व्रतमद्भुतम् ॥ ४॥
कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः ।
मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥ ५॥
पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् ।
माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥ ६॥
फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् ।
चैत्रे तद्वत् पञ्चगव्यं पूजयित्वा विनायकम् ॥ ७॥
वैशाखे पद्मबीजं स बभक्ष व्रतधारकः ।
ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥ ८॥
आषाढे मधुमात्रं स बभक्ष नियमे रतः ।
चन्द्रोदये गणेशानं पूजयित्वा विधानतः ॥ ९॥
ततस्तस्य व्रतस्यैव प्रभावेण महामते ।
सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठोऽभवन्नृप ॥ १०॥
ततो मुनिभिराद्यं तं राजानं स चकार ह ।
मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥ ११॥
एवं त्वसाध्यकं राजन्निच्छेद्वै यदि मानवः ।
धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥ १२॥
एवं नाना जना राजन् व्रतपुण्यप्रभावतः ।
लब्ध्वांऽते ब्रह्मभूताश्च बभूवुर्भूमिमण्डले ॥ १३॥
अतस्त्वं राजशार्दूल पापरूपोऽसि साम्प्रतम् ।
तव राज्ये व्रतं नष्टं नृपाधम न बुद्ध्यसे ॥ १४॥
जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि ।
पुत्रयुक्तश्च विघ्नेशमन्ते गच्छसि निश्चितम् ॥ १५॥
मुद्गल उवाच ।
प्रणम्य तं दशरथो महाराजो जगाम ह ।
स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥ १६॥
ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् ।
चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥ १७॥
व्रतपुण्यप्रभावेण विष्णुः साक्षाद्बभूव ह ।
चतुर्धाऽऽत्मानमाभज्य पुत्रस्तस्य महात्मनः ॥ १८॥
रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः ।
पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥ १९॥
अन्ते जगाम विघ्नेशं दशरथः प्रतापवान् ।
लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥ २०॥
वसिष्ठर्षेर्दशरथस्येमं विप्रस्य धीमतः ।
संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥ २१॥
तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् ।
पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥ २२॥
नानारोगविहीनत्वमैश्वर्यादियुतं महत् ।
अन्ते गणपतौ लीनं करोत्यत्र न संशयः ॥ २३॥
चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते ।
श्रोतुमिच्छा पुनः किं ते वर्तते वद साम्प्रतम् ॥ २४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ४.३४
(Page खं. ४ अ. ३५ पान ९३)
४.३५ चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम ।
येन साङ्गं फलं सर्वं लभते व्रतकारकः ॥ १॥
मुद्गल उवाच ।
उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः ।
अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥ २॥
अथवा भाद्रमासे वै शुक्लायां च प्रजापते ।
उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥ ३॥
महामण्डपकं कुर्यात् कदलीस्तम्भमण्डितम् ।
नानाशोभासमायुक्तं विभवे सति मानद ॥ ४॥
वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् ।
छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥ ५॥
मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः ।
यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥ ६॥
मध्याह्नसमये तस्याः शुक्लायाः कथितं प्रभो ।
चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥ ७॥
गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् ।
तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्गुरुणा स्वयम् ॥ ८॥
तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा ।
रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥ ९॥
तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः ।
वस्त्रं ततो गणेशस्य यन्त्रं कुर्याद्विचक्षणः ॥ १०॥
तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता ।
सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥ ११॥
द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि ।
ब्राह्मणान् वरयेच्छुद्धानेकविंशतिसङ्ख्यकान् ॥ १२॥
गणानां त्वेति मन्त्रस्य जपं कुर्याद्विशेषतः ।
ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥ १३॥
अष्टोत्तरशतं वाऽपि तथा जपदशांशकम् ।
गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥ १४॥
नानाशास्त्रप्रवादांश्च कुर्वन्तु ब्राह्मणास्ततः ।
यत्र तत्र गणेशस्य कथाः सङ्कथयन्तु ते ॥ १५॥
ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् ।
बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥ १६॥
एकविंशतिपक्वान्नैरेकविंशतिसङ्ख्यकैः ।
नैवेद्यैर्ब्राह्मणान् सम्भोज्यार्थयेत्तान् विशेषतः ॥ १७॥
दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् ।
योषिद्भ्यः कञ्चुकीर्दद्याद्भूषणानि महामतिः ॥ १८॥
कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् ।
शुक्लायां तत्तथा दक्ष चरेच्चन्द्रार्घ्यवर्जितम् ॥ १९॥
आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै ।
ततश्चन्द्राय तन् मन्त्रैरर्घ्यं मन्त्रसमन्वितम् ॥ २०॥
तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि ।
गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥ २१॥
गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने ।
गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥ २२॥
अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन ।
गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥ २३॥
कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् ।
शुक्लपक्षे च पञ्चम्यां ब्राह्मणादींस्तु भोजयेत् ॥ २४॥
चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः ।
पञ्चम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥ २५॥
दीनान्धकृपणेभ्यश्च दद्यादन्नादिकं तथा ।
(Page खं. ४ अ. ३६ पान ९४)
ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥ २६॥
सर्वान् सम्भोज्य दानेन तोषयेद्देवसन्निधौ ।
गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥ २७॥
ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् ।
एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥ २८॥
सन्तोष्योदारधीः सर्वान् स भावेन क्षमापयेत् ।
ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥ २९॥
एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः ।
स सम्पूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ३०॥
वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् ।
सोद्यापनं विशेषेण कथितं ते यथामति ॥ ३१॥
इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् ।
पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥ ३२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥ ४.३५
४.३६ लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
माहात्म्यं यच्छ्रुतं मुख्यं चतुर्थीसम्भवं महत् ।
कृतकृत्यश्च तेनाऽहं सञ्जातो मुनिसत्तम ॥ १॥
अधुना वद माहात्म्यं लोभासुरनिबर्हणे ।
गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥ २॥
मुद्गल उवाच ।
इतिहासं प्रवक्ष्यामि पुरातनभवं प्रभो ।
सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥ ३॥
एकदा शैलवर्ये तु कैलासे शङ्करः स्थितः ।
पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥ ४॥
तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः ।
प्रणम्य गिरिजायुक्तं शङ्करं पुरतः स्थितः ॥ ५॥
समीपे शङ्करस्यैव गत्वा चामरसंयुतः ।
असेवत महात्मानं भक्तियुक्तेन चेतसा ॥ ६॥
अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनन्दिनीम् ।
रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥ ७॥
साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह ।
कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥ ८॥
सकामदृष्टिसंयुक्तं पश्यन्तं तं धनाधिपम् ।
दृष्ट्वा कोपसमायुक्ता बभूवे शङ्करप्रिया ॥ ५॥
क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् ।
कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥ १०॥
अतिविह्वलगात्रत्वात् प्रास्कन्दद् वीर्यमुत्तमम् ।
धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥ ११॥
ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् ।
नियम्यात्मानमानिन्द्य तुष्टाव विविधैः स्तवैः ॥ १२॥
ततः सा शङ्करेणैव सान्त्विता जगदम्बिका ।
पिङ्गाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥ १३॥
जगदम्बा लोभनार्थं कुबेरोऽभूत् समुद्यतः ।
मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥ १४॥
(Page खं. ४ अ. ३६ पान ९५)
लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः ।
सङ्गृह्य तं गृहं देवो धनदः प्रजगाम ह ॥ १५॥
कुबेरभवने संस्थं लोभं तं नारदो मुनिः ।
ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥ १६॥
तारं पातालसंस्थं तं दानवानां हितैषिणम् ।
इन्द्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥ १७॥
तारः समुत्थितो विप्रं प्रणनाम मुदा युतः ।
पप्रच्छाऽऽपूज्य वृत्तान्तं दानवानां हितावहम् ॥ १८॥
तार उवाच ।
इन्द्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् ।
अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥ १९॥
नारद उवाच ।
अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपाततः ।
लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥ २०॥
तं पालय महाभाग तेन ते वाञ्छितं महत् ।
भविष्यति न सन्देहो मम तस्माद्वचः कुरु ॥ २१॥
एवमुक्त्वा महायोगी नारदोंऽतर्हितोऽभवत् ।
तारः स्म हर्षितोऽत्यन्तं मेने स कृतकृत्यताम् ॥ २२॥
मायया दानवाधीशस्त्वलकायां जगाम ह ।
गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥ २३॥
लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः ।
न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥ २४॥
तारः पुत्रं समानीय पालयामास हर्षतः ।
बालक्रीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥ २५॥
उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् ।
तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥ २६॥
एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः ।
हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥ २७॥
ततः पञ्चमवर्षे स चकार व्रतबन्धनम् ।
वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥ २८॥
स आसुरीं महामायां सर्वदेवविमोहिनीम् ।
विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥ २९॥
ततः प्रणम्य विपेन्द्रं शुक्रं सर्वविदांवरम् ।
पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥ ३०॥
ततः पञ्चाक्षरीं विद्यां ददौ तस्मै महामुनिः ।
शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥ ३१॥
तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः ।
जपं चकार भावेन निराहारपरायणः ॥ ३२॥
भस्माङ्गलेपसंयुक्तः शैवमार्गपरायणः ।
तोषयामास यत्नेन शङ्करं सर्वदं परम् ॥ ३३॥
एवं तपसि लोभः स संस्थितो बहुवासरम् ।
ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥ ३४॥
दिव्यवर्षसहस्रेण प्रसन्नः शङ्करः प्रभुः ।
आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥ ३५॥
समागतं महेशानं न बुबोध स दानवः ।
ततस्तं जलमासिच्य शम्भुः शक्तं चकार ह ॥ ३६॥
ततः शम्भुं समालोक्य हर्षयुक्तेन चेतसा ।
जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥ ३७॥
लोभासुर उवाच ।
धन्यं मेऽद्य तपो मन्त्रो धन्यौ मे जनकौ प्रभो ।
जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥ ३८॥
किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् ।
तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥ ३९॥
नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः ।
(Page खं. ४ अ. ३७ पान ९६)
शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥
त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥
अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज ।
स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥
अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।
सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३॥
स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४॥
कैलासवासिने तुभ्यं भस्मलेपकराय वै ।
दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५॥
एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः ।
लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७॥
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८॥
यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः ।
श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९॥
श्रुत्वा शङ्करवाक्यं स तं जगाद महासुरः ।
हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥ ५०॥
लोभासुर उवाच ।
वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् ।
देहि राज्यं महादेव ब्रह्माण्डस्य विशेषतः ॥ ५१॥
नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् ।
मनसीप्सितमेवं मे सिद्ध्यतु त्वदनुग्रहात् ॥ ५२॥
मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् ।
सदानन्दसमायुक्तं मां कुरुष्व कृपानिधे ॥ ५३॥
लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः ।
शङ्करस्तपसा बद्धस्तथेति तमुवाच ह ॥ ५४॥
अन्तर्धाय स्वमात्मानं कैलासस्थो बभूव ह ।
लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥ ५५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ४.३६
४.३७ लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
लोभासुरः समागत्य पितरं मातरं ततः ।
प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥ १॥
महिषासुरपुत्रीं स उवाह रूपशालिनीम् ।
तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥ २॥
एवं नाना विभोगेन सुहृदानन्दकारकः ।
बभूव बलसंयुक्तो मदेन भृशमोहितः ॥ ३॥
मह्यां समागतः सोऽपि दानवैः परिवारितः ।
नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥ ४॥
चकार नाम तस्यापि सुखदं दानवेरितः ।
ततो दिग्भ्यः समायाता नाना दैत्यगणाः पुरे ॥ ५॥
(Page खं. ४ अ. ३७ पान ९७)
ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् ।
शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥ ६॥
शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे ।
देवान्तकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥ ७॥
नरान्तकः प्रहेतिश्च हेतिर्विप्रचितिस्तथा ।
इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥ ८॥
ब्राह्मणैः कारयामास ततः शुक्रोऽभिषेचनम् ।
दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥ ९॥
सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः ।
ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥ १०॥
ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् ।
आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥ ११॥
आज्ञामात्रेण तस्यैव समाजग्मुर्बलान्विताः ।
असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥ १२॥
लोभासुरोऽसुरान् सर्वान् सम्प्रपूज्य यथाविधि ।
उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥ १३॥
लोभासुर उवाच ।
विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् ।
भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥ १४॥
यदीच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव सङ्गताः ।
तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥ १५॥
एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः ।
जगुस्तं भावगम्भीरं साधु साधु त्वयेरितम् ॥ १६॥
जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् ।
पराक्रमतुला तेन विद्यते जगति प्रभो ॥ १७॥
ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् ।
तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥ १८॥
गजासुरो विप्रचित्तिर्देवान्तकनरान्तकौ ।
प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥ १९॥
बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा ।
स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥ २०॥
पदातयोऽप्यसङ्ख्याता अश्वारोहास्तथाऽपरे ।
पशुसंस्थाः खगाराहा अपाराश्च समाययुः ॥ २१॥
गजारोहा रथारूढा नानावाहनसंस्थिताः ।
महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥ २२॥
तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् ।
पृथिवीजयनार्थाय कालकम्पनकारकः ॥ २३॥
एतादृशा महावीरा यत्रातिष्ठन् सुन्दशिताः ।
तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥ २४॥
नृपाः केचिन् मृतास्तत्र सङ्ग्रामे दारुणे प्रभो ।
केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥ २५॥
एवं सप्तसमुद्रान्तां पृथ्वीं जित्वा महाबलाः ।
असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥ २६॥
ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः ।
पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥ २७॥
शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः ।
वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥ २८॥
वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् ।
साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥ २९॥
ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् ।
लोभासुरेण संयुक्ता महामाया महाबलाः ॥ ३०॥
इन्द्रः सुरगणैः सार्धं दंशितो वज्रधारकः ।
(Page खं. ४ अ. ३८ पान ९८)
बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥ ३१॥
इन्द्र उवाच ।
लोभासुरः समायातो दानवैर्बलवत्तरैः ।
तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥ ३२॥
इन्द्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुङ्गवः ।
जगाद तं महेन्द्रं बृहस्पतिः स प्रतापवान् ॥ ३३॥
गुरुरुवाच ।
शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः ।
नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥ ३४॥
अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर ।
गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥ ३५॥
गुरोर्वचनमाकर्ण्य सुरेन्द्रः शोकसंयुतः ।
सुरेन्द्रैः सहितः सोऽपि विकुण्ठमगमत्तदा ॥ ३६॥
देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः ।
दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरञ्जसा ॥ ३७॥
दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः ।
गत्वाऽऽसने महेन्द्रस्य समारूढो बभौ स्वयम् ॥ ३८॥
सर्वान् सम्मान्य दैत्येन्द्रो ददौ नानापदानि सः ।
दैत्येन्द्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥ ३९॥
गन्धर्वास्तं महादैत्यमप्सरोभिः समन्विताः ।
सिषेविरे प्रजापाल विद्याध्राद्याः समादृताः ॥ ४०॥
देवोद्यानेषु दैत्येन्द्रा बभ्रमुर्हर्षसंयुताः ।
यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥ ४१॥
लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः ।
अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥ ४२॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ४.३७
४.३८ विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
इन्द्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः ।
वैकुण्ठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥ १॥
ततस्तुष्टो हरिः प्राह महेन्द्रं मान्यभावतः ।
स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥ २॥
त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् ।
स्त्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥ ३॥
इन्द्र उवाच ।
किं वदामि जगत्पाल सर्वज्ञं त्वां महामते ।
तथापि शृणु वृत्तान्तं शोकदं दैवकारितम् ॥ ४॥
लोभासुरश्च शैवेन वरेण बलदर्पितः ।
दानवेन्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥ ५॥
गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन ।
त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥ ६॥
दैत्योऽमरावतीसंस्थो देवस्थानानि माधव ।
प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥ ७॥
त्वं पालकः श्रुतौ प्रोक्तस्तस्माच्छरणमागतान् ।
रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥ ८॥
तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः ।
(Page खं. ४ अ. ३८ पान ९९)
जगाद देवराजं तं महाबाहुर्विचक्षणः ॥ ९॥
श्रीहरिरुवाच ।
हनिष्यामि महादैत्यं लोभं दानवसंयुतम् ।
मा कुरुष्व वृथा चिन्तां कुरु राज्यं मयार्पितम् ॥ १०॥
एवमुक्त्वा महेन्द्रं स देवेन्द्रैः सह माधवः ।
वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥ ११॥
समागतं महाविष्णुं महासैन्यसमाकुलम् ।
ज्ञात्वा दूतमुखात् सर्वे दानवाः सज्जका ययुः ॥ १२॥
लोभः क्रोधसमाविष्ट आययौ योद्धुमादृतः ।
रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥ १३॥
लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समन्ततः ।
महाकायं महावीर्यं कालकालं प्रदुद्रुवुः ॥ १४॥
पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् ।
तेन सार्धं ययुः सर्वे महेन्द्राद्याश्च दंशिताः ॥ १५॥
समागतं रमानाथं रणभूमौ प्रतापवान् ।
लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥ १६॥
ततो युद्धं समभवद्देवानां दानवैः सह ।
तुमुलं शस्त्रसङ्घातैर्मारयन्तः परस्परम् ॥ १७॥
अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः ।
इच्छन्तो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥ १८॥
रक्तौघैः सम्प्रवृत्ता स्म नदी परमभीतिदा ।
विश्रामं निशि चक्रुर्न क्रोधावेशैः परस्परम् ॥ १९॥
दिनत्रयं महाघोरं युद्धं दारुणरूपकम् ।
तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥ २०॥
गणा विष्णोश्च सङ्क्रुद्धास्तथा देवेन्द्रमुख्यकाः ।
नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥ २१॥
ततो हाहारवं कृत्वा दानवा भयसंयुताः ।
न लेभिरे यशो दैत्याः पलायन्त समन्ततः ॥ २२॥
ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् ।
जय विष्णो महाभाग वदन्ति स्म परस्परम् ॥ २३॥
ततोऽतिक्रोधसंयुक्ता दानवेन्द्राः समाययुः ।
विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे ॥ २४॥
तेषां बाणैः सुराः सर्वे छिन्नाङ्गाः पतिता मृधे ।
तद् दृष्ट्वा क्रोधयुक्ताश्च देवेन्द्रास्तान् प्रदुद्रुवुः ॥ २५॥
अभवत् द्वन्द्वयुद्धं च नियतं रोमहर्षणम् ।
तेषां मध्येऽथ किञ्चित्त्वां कथयामि समासतः ॥ २६॥
इन्द्रेण युयुधे तत्र गजासुरः प्रतापवान् ।
अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥ २७॥
वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः ।
कुबेरेण प्रहेतिश्च मदनेन च हेतिकः ॥ २८॥
सूर्येण युयुधे क्रोधात् स प्रतापी नरान्तकः ।
देवान्तको विष्णुना स क्रोधयुक्तः समाययौ ॥ २९॥
जृम्भः सोमेन दैत्येशो युयुधे बलसंयुतः ।
यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥ ३०॥
नानाद्वन्द्वभवं युद्धं चक्रुर्देवेन्द्रकैः सह ।
दैत्येन्द्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥ ३१॥
अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे ।
नानाशस्त्रास्त्रवर्षेण ववृषुस्ते परस्परम् ॥ ३२॥
दिवसास्तत्र पञ्चैव गतास्तेषां प्रयुध्यताम् ।
नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥ ३३॥
ततोऽतिकोपसंयुक्तः स प्रतापी गजासुरः ।
इन्द्रं सङ्गृह्य चिक्षेप महापर्वतमस्तके ॥ ३४॥
मूर्च्छितो देवराजः स ततो देवाः पलायिताः ।
(Page खं. ४ अ. ३८ पान १००)
एवं द्वन्द्वरतैर्दैत्यैर्देवेन्द्रा मूर्च्छिताः कृताः ॥ ३५॥
हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश ।
पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चुकोप ह ॥ ३६॥
चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् ।
दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥ ३७॥
केषाञ्चिन्मस्तकेष्वेतदपतद्दारुणं महत् ।
चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥ ३८॥
ततो दैत्येन्द्रकाः सर्वे आययुस्ते जनार्दनम् ।
शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥ ३९॥
नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् ।
गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥ ४०॥
तं मूर्च्छितं चकाराऽसौ ततो देवान्तकं हरिः ।
सप्तभिस्ताडयामास पातयामास भूतले ॥ ४१॥
एवं सर्वान् महाविष्णुः दानवेन्द्रान् सुदारुणान् ।
विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समन्ततः ॥ ४२॥
ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् ।
दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥ ४३॥
ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् ।
जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥ ४४॥
लोभ उवाच ।
सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः ।
अधुना त्वां न मुञ्चामि जीवयुक्तं कदाचन ॥ ४५॥
नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् ।
ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥ ४६॥
गदां गृहीत्वैवमुक्त्वा ताडयामास केशवम् ।
पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥ ४७॥
मुहूर्तमात्रकालेन सावधानो बभूव ह ।
पपाल देवराजैः स त्यक्त्वा सङ्ग्राममण्डलम् ॥ ४८॥
प्रहस्य दानवान् सर्वान् सावधानानथाऽकरोत् ।
लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥ ४९॥
स्तुतो बन्दिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः ।
इन्द्रासने समासीनो रेजे दानवसत्तमः ॥ ५०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥ ४.३८
४.३९ लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततोऽतिदुःखितो विष्णुर्देवेन्द्रैश्च समन्वितः ।
त्यक्त्वा विकुण्ठमेवं स ययौ शम्भुं शरण्यकम् ॥ १॥
गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः ।
स्तुत्वा वृत्तान्तमेवं स कथयामास विस्तरात् ॥ २॥
श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् ।
सान्त्वयामास युक्तैश्च नानादृष्टान्तदर्शनैः ॥ ३॥
शिव उवाच ।
मा चिन्तां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर ।
तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥ ४॥
तपः कृतं च लोभेन फलं तस्य जनार्दन ।
भुक्त्वा मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥ ५॥
(Page खं. ४ अ. ३९ पान १०१)
देवैः सह महाविष्णो मत्समीपे स्थिरो भव ।
मदीयभक्तियुक्तो ह्यागमिष्यत्यत्र नैव सः ॥ ६॥
एवमुक्त्वा वचो विष्णुं शङ्करः शोकसंयुतः ।
देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥ ७॥
अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् ।
इन्द्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥ ८॥
विप्रचित्त्याद्या ऊचुः ।
लोभ लोभ महाभाग शृणु नो वचनं हितम् ।
विष्णुर्देवगणैः सर्वैः कैलासे शङ्करं ययौ ॥ ९॥
अस्माकं शङ्करः सोऽपीष्टदेवः पूज्य आदरात् ।
शत्रून् रक्षति नः शम्भुर्भविष्यति विपक्षगः ॥ १०॥
अधुना शङ्करस्यास्य भावार्थं प्रेष्यतां महान् ।
दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥ ११॥
शिवो यदि स देवानां पक्षगो भवति प्रभो ।
तदा शम्भुं प्रजेष्यामस्तपोबलसमन्विताः ॥ १२॥
न ते शम्भुर्वरस्यैव दाता जानीहि मानद ।
कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥ १३॥
कर्माधीनं जगत् सर्वं सदेवासुरमानुषम् ।
कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥ १४॥
देवाः कर्मफलं लोभाद्ददते न विशेषतः ।
तदैश्वर्यविहीनास्ते पतन्ति स्वपदात् किल ॥ १५॥
अतस्त्यक्त्वा स्वसन्देहं त्यज शम्भुं विपक्षगम् ।
कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥ १६॥
इत्युक्त्वा दानवेन्द्रास्ते विरामं चक्रुरञ्जसा ।
लोभासुरस्ततस्तेषां वचने निरतोऽभवत् ॥ १७॥
गजासुरं महावीर्यं प्रेषयामास सत्वरम् ।
कैलासे शङ्करस्यैव भावार्थं भावधारकः ॥ १८॥
गत्वा शम्भुं महादैत्यः प्रणम्य प्रत्युवाच सः ।
वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥ १९॥
गजासुर उवाच ।
महादेव नमस्तुभ्यं शृणु मे वचनं हितम् ।
लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥ २०॥
तेन सङ्कथितं वाक्यं तच्छृणुष्व सुखप्रदम् ।
त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरन्तरम् ॥ २१॥
विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ ।
अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥ २२॥
वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते ।
मित्रं शत्रुस्तथा शम्भो पालयस्वादराद्धि नः ॥ २३॥
नो चेत् सङ्ग्रामभावेन जेष्यामस्त्वां न संशयः ।
कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ॥ २४॥
कर्मणा लोभकः शम्भो सर्वैश्वर्ययुतोऽधुना ।
तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥ २५॥
तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शङ्करः ।
गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥ २६॥
शिव उवाच ।
गजासुर महालोभं वद मे वचनं हितम् ।
गत्वा तं दानवेन्द्रं त्वं सर्वासुरसमन्वितम् ॥ २७॥
कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः ।
गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥ २८॥
कर्मणा त्वं समर्थश्चेत् सञ्जातो भुङ्क्ष्व विष्टपम् ।
सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥ २९॥
एवमुक्त्वा सुदुर्बुद्धिं शङ्करः सुरनायकैः ।
जगाम पर्वतोद्देशे त्यक्त्वा कैलासमात्मनः ॥ ३०॥
(Page खं. ४ अ. ४० पान १०२)
महावने महेशानः पर्वतद्रोणिमाश्रितः ।
देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥ ३१॥
गजासुरः सभां गत्वा जगाद सकलैर्युतम् ।
लोभासुरं स वृत्तान्तं श्रुत्वा संहर्षितोऽभवत् ॥ ३२॥
ततः स सत्यलोके च विकुण्ठे शङ्करालये ।
दानवान् स्थापयामास नानादेवपदेषु वै ॥ ३३॥
इन्द्रासनं परित्यज्य ययौ भूम्यां महासुरः ।
स्वपुरे दानवेन्द्रैश्चावसद्भोगपरायणः ॥ ३४॥
न ममर्श निजात्मानं गर्वितः केवलं स तु ।
स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥ ३५॥
धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् ।
ब्रह्माण्डं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥ ३६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥ ४.३९
४.४० गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
ततो बहौ गते काले दानवा बलदर्पिताः ।
जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥ १॥
दानवेन्द्रा ऊचुः ।
देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः ।
सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥ २॥
शस्त्रास्त्रैर्देवसङ्घास्ते न मरिष्यन्ति कर्हिचित् ।
अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥ ३॥
कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् ।
मरिष्यन्ति महाभाग तदर्थं यत्नमाचर ॥ ४॥
जित्वा ब्रह्माण्डगोलं किं संस्थितोऽसि महासुर ।
न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुषु ॥ ५॥
हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् ।
राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥ ६॥
ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो ।
तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥ ७॥
अतस्त्वं दैत्यराजेन्द्र हितं कुरु विशेषतः ।
तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥ ८॥
तेषां वचनमाकर्ण्य लोभासुरः सुमन्दधीः ।
आज्ञापयत्ततो दैत्यो दैत्येन्द्रान् कर्मखण्डने ॥ ९॥
ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः ।
यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥ १०॥
यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते ।
जघ्नुर्बभञ्जुरत्यन्तं कर्मखण्डनकारणात् ॥ ११॥
बभञ्जुः क्रोधसंयुक्ता देवताऽऽयतनानि ते ।
स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥ १२॥
सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः ।
जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥ १३॥
न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा ।
न वषट्कारगं कर्म त्रासितं भूमिमण्डलम् ॥ १४॥
लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् ।
ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥ १५॥
ब्राह्मणा वनगा भूत्वा केचिन् मरणनिश्चयाः ।
(Page खं. ४ अ. ४० पान १०३)
चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥ १६॥
एवं बहौ गते काले देवाः परमदुःखिताः ।
उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥ १७॥
ततोऽतियत्नसंयुक्ता विचारं चक्रुरञ्जसा ।
लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥ १८॥
ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः ।
सन्तस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥ १९॥
तत्राऽऽजगाम योगीन्द्रो रैभ्यः सर्वप्रियङ्करः ।
अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥ २०॥
तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् ।
उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥ २१॥
ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः ।
जगाद तान् सुरेन्द्रान् स दीनान् दृष्ट्वा विशेषतः ॥ २२॥
रैभ्य उवाच ।
शृणुध्वं विष्णुशम्भ्वाद्या मुनयस्तत्त्वभाविताः ।
लोभासुरो महापापी दुर्जयो नात्र संशयः ॥ २३॥
विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः ।
तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥ २४॥
स्वयं साक्षाद् बुद्धिपतिर्बुद्धिं सञ्चालयिष्यति ।
गजाननस्य मन्त्रं वै जपध्वं विधिपूर्वकम् ॥ २५॥
एवमुक्त्वा महायोगी रैभ्यः स्वच्छन्दगोऽभवत् ।
शिवादयो महाभागा हर्षिताः सम्बभूविरे ॥ २६॥
गजाननस्य मन्त्रं ते जेपुस्तपःपरायणाः ।
सविधिं ध्यानसंयुक्तास्तोषयामासुरन्वहम् ॥ २७॥
निराहारप्रभावेण सन्तुष्टो भक्तिभावितः ।
शतवर्षेषु देवेशानाययौ स गजाननः ॥ २८॥
दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः ।
देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥ २९॥
कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् ।
पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥ ३०॥
देवर्षय ऊचुः ।
गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे ।
निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ ३१॥
अनन्तायैकदन्ताय हेरम्बाय नमो नमः ।
चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ ३२॥
सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते ।
सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ ३३॥
अगुणाय गुणेशाय गुणरूपाय गौणिने ।
मायामयाय मायायाश्चालकाय परात्मने ॥ ३४॥
सर्वादये महोदार पराक्रमपराय ते ।
स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ ३५॥
योगाकाराय योगानां स्वामिने शान्तिदायिने ।
ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ ३६॥
अनाधाराय सर्वेषामाधाराय नमो नमः ।
आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ ३७॥
परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर ।
नमो मूषकवाहाय मूषकध्वजिने नमः ॥ ३८॥
नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे ।
जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ ३९॥
विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय ।
सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ ४०॥
बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् ।
गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ ४१॥
(Page खं. ४ अ. ४० पान १०४)
यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः ।
तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ ४२॥
विदेहं गजरूपं यत्तेन ते मुखमुच्यते ।
गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ ४३॥
किं स्तवाम गणाधीश यत्र वेदादिकास्तथा ।
योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ ४४॥
स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः ।
तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ ४५॥
गजानन उवाच ।
स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ ४६॥
यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः ।
पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ ४७॥
वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् ।
तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ ४८॥
गजाननवचः श्रुत्वा हर्षिता देवतर्षयः ।
प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥ ४९॥
देवर्षय ऊचुः ।
लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् ।
वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥ ५०॥
अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन ।
तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥ ५१॥
तेषां वचनमाकर्ण्य गजानन उवाच तान् ।
मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥ ५२॥
लोभहीना मदीया या भक्तिर्वश्च भविष्यति ।
अधुना दानवेन्द्रं तं जेष्यामि च न संशयः ॥ ५३॥
मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः ।
सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥ ५४॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥ ४.४०
४.४१ शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
दूतं गजाननस्तत्र प्रेषयामास शङ्करम् ।
स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥ १॥
शिव उवाच ।
शृणु लोभासुर त्वं मे वचनं हितकारकम् ।
करिष्यसि यदा साम्ना भविष्यसि तदा सुखी ॥ २॥
गजाननः स्वयं साक्षाद्ब्रह्मणां नायकः स्मृतः ।
स आगतः सुरैः सर्वैर्देवेन्द्रैर्मुनिभिर्वृतः ॥ ३॥
नगरप्रान्तभागे ते दशयोजनदूरतः ।
संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥ ४॥
मदीयवरदानेन निर्भयोऽसि हि मानद ।
अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥ ५॥
ब्रह्माण्डं वशमानीय त्वं सर्वेशोऽसि साम्प्रतम् ।
देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरन्तरम् ॥ ६॥
अधुना वैरमुत्सृज्य स्नेहं कुरु महामते ।
देवाः स्वपदगाः सन्तु ब्राह्मणाः कर्मकारिणः ॥ ७॥
गजाननस्य वर्तस्व मित्रभावेन दानव ।
भुङ्क्ष्व भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥ ८॥
(Page खं. ४ अ. ४१ पान १०५)
शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः ।
जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥ ९॥
लोभासुर उवाच ।
कोऽसौ गजाननः शम्भो त्वं भेदकर एव च ।
मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥ १०॥
अधुना त्वां महादेव हन्मि क्रोधसमन्वितः ।
किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥ ११॥
वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् ।
गजाननं न सन्देहः पश्य मे पौरुषं महत् ॥ १२॥
एवं निर्भर्त्सितः शम्भुः क्रोधारुणविलोचनः ।
जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥ १३॥
शिव उवाच ।
मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः ।
गजाननं तेन लोभ निन्दसि ब्रह्मनायकम् ॥ १४॥
शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् ।
गजाननं प्रणम्यादौ वृत्तान्तं सञ्जगौ पुनः ॥ १५॥
तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् ।
क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥ १६॥
अनन्तादित्यसङ्काशः परशुः कालभीतिदः ।
आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥ १७॥
तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् ।
भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥ १८॥
दानवेन्द्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः ।
जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥ १९॥
नागरा ऊचुः ।
किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् ।
अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥ २०॥
तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः ।
जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥ २१॥
लोभासुर उवाच ।
गजाननोऽमरैः सार्धं समायातो न संशयः ।
समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥ २२॥
तस्य तद्वचनं श्रुत्वा दानवेन्द्रा महाबलाः ।
ऊचुः प्राञ्जलयः सर्वे मा भयं कुरु सत्तम ॥ २३॥
गजाननं हनिष्यामः पश्यति त्वयि मानद ।
एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमादृताः ॥ २४॥
ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् ।
अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥ २५॥
ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा ।
हाहाकाररवाः सर्वे पपलुर्भयविह्वलाः ॥ २६॥
दानवेन्द्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् ।
जलौघैः सर्वतो मेघा ववृषुर्दारुणं परम् ॥ २७॥
जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् ।
मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥ २८॥
दैत्येन्द्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा ।
ददाह च ततो भीता पपलुर्यत्र तत्र ते ॥ २९॥
तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ ।
रथारूढो महातेजास्तन्निवृत्त्यर्थमादृतः ॥ ३०॥
पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता ।
रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥ ३१॥
ततः पपाल दैत्येन्द्रः कविं लोभासुरो ययौ ।
तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥ ३२॥
लोभासुर उवाच ।
स्वामिन् गजाननो देव आगतः स महाबलः ।
(Page खं. ४ अ. ४१ पान १०६)
दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥ ३३॥
तन्निवृत्त्यर्थमेवाहं न पश्यामीह किञ्चन ।
अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥ ३४॥
मनोवाणीमयं सर्वं तस्मान् मृत्युर्न मे भवेत् ।
नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥ ३५॥
यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु साम्प्रतम् ।
देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥ ३६॥
अतो वद महाभाग उपायं हितदायकम् ।
त्वदाधारं च योगीन्द्र जीवनं मे प्रवर्तते ॥ ३७॥
इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः ।
लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥ ३८॥
शुक्र उवाच ।
मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् ।
तत् समाचार दैत्येन्द्र ततः क्षेमं भविष्यति ॥ ३९॥
गजाननः प्रसन्नात्मा यदिच्छति महासुर ।
तदेव सत्यरूपं वै भविष्यति न संशयः ॥ ४०॥
ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः ।
नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥ ४१॥
एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् ।
निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥ ४२॥
मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् ।
न लज्जा तेन मे स्वामिन् संशयं छिन्धि हृत्स्थितम् ॥ ४३॥
शुक्र उवाच ।
देहरूपं महद्ब्रह्म देह्यात्मा वेदभाषितम् ।
तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥ ४४॥
बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् ।
सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥ ४५॥
सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते ।
तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥ ४६॥
गजचिह्नेन गच्छन्ति योगिनो हि गजाननम् ।
तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥ ४७॥
यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः ।
गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥ ४८॥
तेनैव स्थापितं विश्वं बोधरूपं महामते ।
स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥ ४९॥
पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् ।
पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥ ५०॥
यदा देवा महाभाग लोभयुक्ता मदान्विताः ।
पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥ ५१॥
तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् ।
देवानां विघ्नसन्दाता गणेशः सर्वभाववित् ॥ ५२॥
ततो दैत्यगणाः सर्वे बलयुक्ता सुरेन्द्रकान् ।
जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥ ५३॥
यदा दैत्या महालोभ लोभयुक्ता विशेषतः ।
देवानां जीवनाशार्थमभवन् कर्मखण्डनात् ॥ ५४॥
तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् ।
हत्वा स्वस्थानगान् देवानकरोद्धर्मपालकः ॥ ५५॥
सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा ।
तदाऽयं ब्रह्मरूपः संश्चित्ते चिन्तामणिर्बभौ ॥ ५६॥
चित्तरूपा स्वयं बुद्धिर्भ्रान्तिरूपा महामते ।
सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥ ५७॥
स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः ।
(Page खं. ४ अ. ४२ पान १०७)
तेनाऽयं गणपः स्वानन्दवासी कथ्यते बुधैः ॥ ५८॥
अतस्तस्यैव दैत्येन्द्र शरणं सुखदं भवेत् ।
अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥ ५९॥
गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः ।
तस्मै कुरु नमो भक्त्या शान्तरूपं भविष्यति ॥ ६०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शुक्रोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४.४१
४.४२ लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः
श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् ।
तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥ १॥
नगरप्रान्तभागे तच्छस्त्रं गजाननस्य च ।
समीपसंस्थान् जज्वाल दानवादीन् समास्थितम् ॥ २॥
तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् ।
कृताञ्जलिः प्रतुष्टाव भयभीतः समन्ततः ॥ ३॥
लोभासुर उवाच ।
नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे ।
नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥ ४॥
प्रलयानलसङ्काशं स्वरूपं धरते नमः ।
अनन्तवीर्ययुक्ताय भास्करामिततेजसे ॥ ५॥
दृश्यादृश्यमयायैव सर्वदर्पहराय ते ।
धर्मसंस्थापनार्थाय नानारूपधराय च ॥ ६॥
साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् ।
तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥ ७॥
शरणागतपालाय सदा स्वानन्दसंस्थितः ।
रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥ ८॥
एवं लोभासुरं संस्तुवन्तं तं तु महाबलम् ।
काव्येन शस्त्रराजं तच्छान्तिरूपधरं बभौ ॥ ९॥
गत्वा गजाननस्यैव हस्तगं तद्बभूव ह ।
लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥ १०॥
समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् ।
विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥ ११॥
गजाननं प्रणम्यैव लोभासुरः प्रतापवान् ।
काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥ १२॥
प्रणम्य तं पुनर्दैत्यः कृत्वा करपुटं प्रभुम् ।
गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥ १३॥
लोभासुर उवाच ।
नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने ।
बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥ १४॥
हेरम्बाय सदा स्वानन्दवासिने महात्मने ।
परात्परतरायैव विघ्नेशाय नमो नमः ॥ १५॥
सुरासुरप्रियकर सुरासुरमयाय ते ।
लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥ १६॥
देवानां पालकायैव दैत्यानां रक्षकाय ते ।
सर्वेषां दर्पहन्त्रे वै गणेशाय नमो नमः ॥ १७॥
लम्बोदराय देवेश दैत्येश मूषकध्वज ।
अनादये च सर्वेषामादिरूपाय ते नमः ॥ १८॥
आदिमध्यान्त हीनायादिमध्यान्तस्वरूपिणे ।
ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥ १९॥
ब्रह्मभ्यो ब्रह्मदात्रे च सदा शान्तिधराय ते ।
(Page खं. ४ अ. ४२ पान १०८)
शान्तीनां शान्तिरूपाय नमो योगाय वै नमः ॥ २०॥
एकदन्ताय सर्वेश वक्रतुण्डाय ते नमः ।
महोदराय पूर्णाय पूर्णानन्दाय ते नमः ॥ २१॥
सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः ।
ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥ २२॥
बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् ।
चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥ २३॥
बोधहीनाय रूपाय सदा साङ्ख्यमयाय च ।
विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥ २४॥
यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः ।
तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥ २५॥
त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो ।
तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥ २६॥
एवं स्तुत्वा महालोभः प्रणनाम गजाननम् ।
तमुवाच दयासिन्धुर्भक्तं भक्तप्रपालकः ॥ २७॥
गजानन उवाच ।
वरं वृणु महालोभ ददामि मनसीप्सितम् ।
प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥ २८॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् ।
पठतः शृण्वतश्चैव लोभ तं नैव पीडय ॥ २९॥
पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दलोके स ब्रह्मभूतो भविष्यति ॥ ३०॥
यः स्तौति मामनेनैव स मे मान्यो न संशयः ।
सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥ ३१॥
त्वां हन्तुं क्रोधसंयुक्त आगतोऽहं न संशयः ।
शरणागतमेवं तु दानवोत्तम हन्मि न ॥ ३२॥
गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः ।
उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥ ३३॥
लोभासुर उवाच ।
गजानन वरं मे त्वं देहि सम्पूर्णदायक ।
तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥ ३४॥
स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् ।
कार्यं कथय सर्वेश करिष्यामि गजानन ॥ ३५॥
गजानन उवाच ।
मदीया भक्तिराद्या ते भविष्यति महामते ।
गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥ ३६॥
स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुतः ।
यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥ ३७॥
आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा ।
यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥ ३८॥
मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः ।
मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥ ३९॥
एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् ।
काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥ ४०॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते लोभासुरशान्तिवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४.४२
(Page खं. ४ अ. ४३ पान १०९)
४.४३ देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः
श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
शान्तिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः ।
गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ १॥
गजाननं पूजयित्वा विधानेन सुरर्षयः ।
पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ २॥
विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वमुखप्रदं तम् ।
अमेयसाङ्ख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥ ३॥
मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकालहीनं सकलान्तगं वै गजाननं भक्तियुता भजामः ॥ ४॥
अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् ।
अनादिमध्यान्तमपाररूपं गजाननं भक्तियुता भजामः ॥ ५॥
जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥ ६॥
न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरणस्थम् ।
न खे गतं पञ्चविभूतिहीनं गजाननं भक्तियुता भजामः ॥ ७॥
न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनन्तगं न ।
गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥ ८॥
गुणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढिम् ।
संयोगहीनाः प्रवदन्ति तत्स्थं गजाननं भक्तियुता भजामः ॥ ९॥
अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥ १०॥
यदि त्वया नाथ कृतं न किञ्चित्तदा कथं सर्वमिदं विभाति ।
अतो महात्मानमचिन्त्यमेव गजाननं भक्तियुता भजामः ॥ ११॥
सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं गजाननं भक्तियुता भजामः ॥ १२॥
सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् ।
अनन्तवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥ १३॥
सदा सुखानन्दमये जले च समुद्रजे चेक्षुरसे निवासम् ।
द्वन्द्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥ १४॥
चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥ १५॥
महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥ १६॥
रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥ १७॥
महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥ १८॥
शिवादिदेवैश्च खगैः सुवन्द्यं नरैर्लतावृक्षपशुप्रभूभिः ।
चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥ १९॥
मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥ २०॥
वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।
(Page खं. ४ अ. ४३ पान ११०)
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥ २१॥
गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥ २२॥
पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥ २३॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २४॥
गजानन उवाच ।
वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥ २५॥
गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २६॥
देवर्षय ऊचुः ।
गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २७॥
लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २८॥
अधुना देवदेवेश कर्मयुक्ता द्विजादयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २९॥
स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ ३०॥
यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ ३१॥
एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।
स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३२॥
गजानन उवाच ।
यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३३॥
भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३४॥
पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३५॥
मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३६॥
सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३७॥
कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३८॥
एकविंशतिवारं चैकविंशति दिनावधिम् ।
प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३९॥
धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ ४०॥
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ।
देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥ ४१॥
गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः ।
नैरृते कोणभागे स्म दर्शनेन सुखप्रदा ॥ ४२॥
तत्रैव संस्थिता देवा मुनयो भक्तिसंयुताः ।
अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥ ४३॥
ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि ।
यथायोग्यं जगत् सर्वं बभूवे हर्षितं विधे ॥ ४४॥
(Page खं. ४ अ. ४४ पान १११)
एतद्गजाननस्यैव चरितं पापनाशनम् ।
भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥ ४५॥
यः पठेत् पाठयेद्वापि शृणुते श्रद्धयान्वितः ।
स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४.४३
४.४४ सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः
श्रीगणेशाय नमः ॥
दक्ष उवाच ।
धन्योऽहं मुद्गल स्वामिंस्त्वत्सङ्गान्नात्र संशयः ।
लोभशान्तिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥ १॥
न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो ।
वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥ २॥
गजाननस्य भक्त्यर्थमवतारान् धृतान् वद ।
सङ्क्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥ ३॥
सूत उवाच ।
दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः ।
जगाद तं महाभागं महाभागो दयान्वितः ॥ ४॥
मुद्गल उवाच ।
अवतारा अनन्ताश्च गजाननस्य मानद ।
भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥ ५॥
तथापि शृणु दक्ष त्वमवतारचरित्रकम् ।
गजाननस्य कथयामि समासेन सर्वदम् ॥ ६॥
पार्वत्या शङ्करेणैवाऽऽराधितो गणनायकः ।
दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥ ७॥
ताभ्यां सम्पूजितो देवः स्तुतः संयाचितोऽभवत् ।
त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥ ८॥
तथेति प्रतिपाद्याऽसौ गणेशोंऽतर्दधे स्वयम् ।
पुत्रः सिन्धुवधायाभून् मयूरेश इति स्मृतः ॥ ९॥
हत्वा सिन्धुं महावीर्यं गतः स्वानन्दके पुरे ।
एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥ १०॥
अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः ।
शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥ ११॥
केचिच्छिवात् सुमुद्भूताः केचिच्छक्तेर्महात्मनः ।
उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥ १२॥
यादृशं सङ्कटं प्राप्तं तदर्थं संस्मृतो विभुः ।
तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥ १३॥
कृत्वा कार्यस्य संसिद्धिं पुनः स्वानन्दगोऽभवत् ।
तद्वियोगेन सन्तप्तौ शिवौ किल बभूवतुः ॥ १४॥
अन्ये नानाऽवताराश्च कश्यपादिगृहेंऽशतः ।
धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥ १५॥
इतिहासं प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
गजाननावतारेण युक्तं शृणु प्रजापते ॥ १६॥
एकदा निद्रितं शम्भुर्ब्रह्माणं प्रययौ प्रभुः ।
किञ्चित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥ १७॥
स उत्थितो महाजृम्भां चकार क्रोधसंयुतः ।
तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥ १८॥
सुवासबहुलेनैव युक्तः काम इवापरः ।
तं दृष्ट्वा विस्मितो ब्रह्मा जगाद स महाबलम् ॥ १९॥
ब्रह्मोवाच ।
कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद ।
एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥ २०॥
पुमानुवाच ।
जृम्भायास्ते समुत्पन्नः पुत्रोऽहं देवनायक ।
स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥ २१॥
ततोऽतिहर्षितो ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् ।
ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥ २२॥
सुवासबहुलं रक्तं वपुस्ते तेन सिन्दुर ।
नाम नानाविधान् भोगान् भुङ्क्ष्व सर्वत्रगः स्वयम् ॥ २३॥
न बलेन समस्ते वै भविष्यति चराचरे ।
ब्रह्माण्डजयसंयुक्तो भव पुत्र ममाज्ञया ॥ २४॥
यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ।
क्रोधादालिङ्गसे यं त्वं भस्मसात्तं करिष्यसि ॥ २५॥
एवं नानावरान् दत्त्वा संस्थितं प्रपितामहम् ।
तं प्रणम्य स सिन्दूरो जगामास्तुत्य भूतले ॥ २६॥
शौनक उवाच ।
तपोहीनाय दाताऽसौ ददौ सन्दुर्लभान् वरान् ।
किं कारणं वद प्राज्ञ संशयो मे महान् हृदि ॥ २७॥
सूत उवाच ।
इच्छासङ्कल्पसिद्ध्यर्थं तपस्तपति यो नरः ।
विपुले सोऽपि तपसि मृतो यदि भवेन् मुने ॥ २८॥
अन्यस्मिन् जन्मनि प्राज्ञः फलयुक्तः प्रजायते ।
स्वल्पश्रमेण देवोऽपि वरं ददाति निश्चितम् ॥ २९॥
एतत्ते कथितं सर्वं संशयच्छेदनं वचः ।
अधुना शृणु संवादं प्रकृतं यं पुरा भवम् ॥ ३०॥
विचारं मार्गमध्ये स गत्वा सिन्दूर आकरोत् ।
तपोहीनायाऽपि देवो मे ददाति वरं कथम् ॥ ३१॥
अतोऽहं वञ्चितो नूनं विधिना नात्र संशयः ।
लिङ्गयित्वा मृतं कुर्वे तं सत्यत्वदिदृक्षया ॥ ३२॥
निःसंशयं भवेदेवं विचार्य सिन्दुरासुरः ।
आययौ ब्रह्मणः सोऽपि समीपे क्रोधसंयुतः ॥ ३३॥
गर्जयित्वा विधातारमालिङ्गितुं प्रचक्रमे ।
तद् दृष्ट्वा परमाश्चर्यं ब्रह्मोवाच सुदारुणम् ॥ ३४॥
ब्रह्मोवाच ।
मद्वरस्य प्रभावेन मां हन्तुं समुपागतः ।
अतो दैत्योऽसि दुष्ट त्वमभाग्यान्नात्र संशयः ॥ ३५॥
पुत्रस्नेहेन रे दुष्ट वरा दत्ताः सुदुर्लभाः ।
अतो गजाननस्त्वां वै हनिष्यति कुलाधम ॥ ३६॥
एवमुक्त्वा पपालाऽसौ विकुण्ठे शरणं ययौ ।
नारायणं च सिन्दूरस्तमनु प्रययौ खलः ॥ ३७॥
नारायणाय वृत्तान्तं कथयामास विस्तरात् ।
सोऽपि श्रुत्वा विनिःश्वस्याऽभवत् सम्पूज्य संस्थितः ॥ ३८॥
एतस्मिन्नन्तरे तत्र सिन्दूरश्च समागमत् ।
जगाद विष्णुमव्यक्तं वचः क्रोधसमन्वितः ॥ ३९॥
सिन्दूर उवाच ।
विष्णो रक्ष विधातारं मां शप्त्वा प्रसमागतम् ।
हनिष्यामि त्वया सार्धं पश्य मे पौरुषं परम् ॥ ४०॥
विष्णुरुवाच ।
अहं सत्त्वगुणश्चायं वेदाध्ययनतत्परः ।
आवां हत्वा महादैत्य न यशस्ते भविष्यति ॥ ४१॥
त्वदधीनौ च सिन्दूर आवां जानीहि मानद ।
शङ्करः सर्वसंहर्ता स यशस्ते हरिष्यति ॥ ४२॥
विष्णोर्वचनमाकर्ण्य त्यक्त्वा विष्णुं चतुर्मुखम् ।
जगाम शङ्करं सद्यः कैलासे युद्धलालसः ॥ ४३॥
ध्यानस्थं शङ्करं दृष्ट्वा विचारमकरोद्धृदि ।
अमुं नग्नं तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥ ४४॥
(Page खं. ४ अ. ४५ पान ११३)
वामाङ्गे संस्थितां नारीं रूपेणाप्रतिमां पराम् ।
तां गृहीत्वा गमिष्यामि स्वेच्छया क्रीडानोत्सुकः ॥ ४५॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते सिन्दूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४.४४
४.४५ शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एवं निश्चितसङ्कल्पः सिन्दूरो गिरिजां ततः ।
गृह्योड्डीय ययौ सद्यो मूर्च्छितां भयविह्वलाम् ॥ १॥
तस्य श्वसनवेगेन पतिता नन्दिमुख्यकाः ।
गणाः पुनः समुत्थाय हाहाकारं प्रचक्रिरे ॥ २॥
हस्तगा पार्वती तत्र सावधाना बभूव ह ।
सस्मार गणपं देवं दैत्यपाशनियन्त्रिता ॥ ३॥
गौर्युवाच ।
गजानन ज्ञानविहारकारिन् न मां च जानासि परावमर्शाम् ।
गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ ४॥
विघ्नस्य शत्रोऽसुरसङ्घहन्तर्विघ्नेश हेरम्ब महोदरप्रिय ।
मां रक्ष दैत्यात्त्वयि भक्तियुक्तां लम्बोदर प्रेमविवर्धनाच्युत ॥ ५॥
किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि ।
किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ६॥
किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि ।
किं मोदकाद्यैर्गणपाऽऽवृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ ७॥
स्वानन्दभोगेषु परिप्लुतोऽसि दासीं च विस्मृत्य महानुभाव ।
अनन्तलीलासु सलालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थ ॥ ८॥
अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि ।
तदर्थनानाविधिसंयुतोऽसि विसृज्य दासीं त्वमनन्यभावाम् ॥ ९॥
रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् ।
प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ १०॥
भक्ताभिमानीति च नाम मुख्यं वेदे बभूवात्र न किं महात्मन् ।
आगत्य हत्वा दितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ११॥
अहो न दूरं बत किञ्चिदेव कथं न बुद्धीश समागतोऽसि ।
सञ्चिन्त्य देहं प्रजहामि ते हि यशः करिष्ये विपरीतमेव ॥ १२॥
रक्ष रक्ष दयासिन्धोऽपराधान् मे क्षमस्व च ।
क्षणे क्षणे वयं दास्यो रक्षितव्या विशेषतः ॥ १३॥
स्तुवन्त्यामेव पार्वत्यां शङ्करो बोधसंयुतः ।
बभूव गणपानां वै श्रुत्वा हाहारवं विधे ॥ १४॥
गणेशं मनसा स्मृत्वा वृषारूढः समाययौ ।
क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणा त्वहन् ॥ १५॥
ततः सोऽपि शिवं वीक्ष्याऽऽलिङ्गितुं धावितोऽभवत् ।
शिवस्य शूलकादीनि शस्त्राण्याकुण्ठितानि वै ॥ १६॥
(Page खं. ४ अ. ४५ पान ११४)
तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः ।
सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १७॥
पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ ।
ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥ १८॥
गणेशेन कृतं तत्र कौतुकं परमाद्भुतम् ।
पपात गुप्तरूपश्च परशुर्दैत्यवक्षसि ॥ १९॥
तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्नपः ।
ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥ २०॥
जगज्जनिमिमां शक्तिं मुञ्च नो चेच्छिवः स्वयम् ।
गुप्तरूपेण सद्यस्त्वां मारयिष्यति निश्चितम् ॥ २१॥
अहं शम्भुं करिष्यामि त्वदाज्ञावशवर्तिनम् ।
भार्यां तस्य परित्यज्य कुरु राज्यं त्रिलोकगः ॥ २२॥
तथेति सिन्दुरेणैव कृतं सोऽपि शिवं वचः ।
जगाद हास्यवदनो दैत्याधीनो भव प्रभो ॥ २३॥
ब्रह्मलब्धवरं दैत्यं न जेतुं तं क्षमो भवान् ।
महेशशक्तिं सङ्गृह्य कालस्य क्रमणं कुरु ॥ २४॥
तथेति शङ्करेणोक्तं ददौ शक्तिं शिवाय सः ।
दैत्यः कैलासगो भूत्वा ननन्द विजयी ततः ॥ २५॥
ततः कैलासमेवं स त्यक्त्वा भूलोकगोऽभवत् ।
दैत्यस्त्रिभुवनं जित्वा जगदीशो बभूव ह ॥ २६॥
अन्तर्धानं चकाराऽसौ गणेशो द्विजरूपधृक् ।
तत् दृष्ट्वा पार्वती तत्र शोकयुक्ता बभूव ह ॥ २७॥
अहो ब्राह्मणरूपेणाऽऽगतोऽयं गणनायकः ।
मोचयित्वा स मां शम्भो त्वां संरक्ष्य ययौ पुनः ॥ २८॥
ततस्तौ पार्वतीशम्भू परलीवनगौ प्रभू ।
बभूवतुश्च विघ्नेशं तपसा हृदि चिन्तकौ ॥ २९॥
तताप तप उग्रं स सस्त्रीकः शङ्करस्ततः ।
गते वर्षशते पूर्णे तं गजानन आययौ ॥ ३०॥
गणेश उवाच ।
वरं वृणु महादेव यत्ते चित्ते प्रवर्तते ।
दास्यामि तपसा तुष्टो वाञ्छितं प्राह शङ्करम् ॥ ३१॥
ततस्तं शङ्करो नत्वा स्तुत्वा नानाविधैः स्तवैः ।
पार्वत्या पूज्य विघ्नेशं प्रणम्य प्रत्युवाच ह ॥ ३२॥
शिव उवाच ।
वरदोऽसि गणाधीश तदा मे त्वं सुतो भव ।
यावज्जीवनपर्यन्तं तिष्ठ नाथ नमोऽस्तु ते ॥ ३३॥
त्वया नानाऽवताराश्च धृता मदीयवेश्मनि ।
ते सर्वे स्वल्पकांशस्था बभूवुर्गणनायक ॥ ३४॥
तादृशं मा कुरु स्वामिन् वस नित्यं च मे गृहे ।
तत्राऽहं त्वां भजिष्यामि पुत्रभावेन विघ्नप ॥ ३५॥
संसारे पुत्रभावेन मूर्तौ त्वां कुलदैवतम् ।
हृदये योगयुक्तोऽहं भजिष्यामि गजानन ॥ ३६॥
तथेति गणनाथस्तं जगादान्तर्दधे पुनः ।
कैलासमागतः शम्भुः शोकयुक्तो विशेषतः ॥ ३७॥
ततः किञ्चिद्गते काले पार्वती स्नानमाचरत् ।
नग्ना तत्र महेशानः सहसा समुपागतः ॥ ३८॥
लज्जिता तं निरीक्ष्यैव जगदम्बा स्वकेशतः ।
देहं सञ्छादयामास शङ्करो गृहगोऽभवत् ॥ ३९॥
ततः कदाचित्सा देवी सखीभ्यां संस्थिताऽभवत् ।
उवाच तां सखी तत्र जया च विजया परा ॥ ४०॥
जयाविजये ऊचतुः ।
गणा नन्दिमुखाः सर्वेऽस्मदीया नात्र संशयः ।
शिवं यदि निरुद्ध्यैव तिष्ठामश्चेच्छिवात्मकाः ॥ ४१॥
(Page खं. ४ अ. ४६ पान ११५)
अतः कं च महादेवि स्वकीयं वशगं गणम् ।
कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते ॥ ४२॥
स्वाङ्गान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् ।
पुनः सञ्जीवयामास पार्वती तं जगाद ह ॥ ४३॥
द्वारे तिष्ठ महाबाहो मदाज्ञावशगः सदा ।
मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥ ४४॥
अहं स्नानार्थमत्रैव संस्थिता कालपर्यये ।
पतिर्मे तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥ ४५॥
केनापि कथितं तत्राऽतो मा कुरु च तादृशम् ।
स्वामिनं शङ्करं पुत्र निषेधस्व मदाज्ञया ॥ ४६॥
तथेति तां प्रणम्याऽऽदौ द्वारसंस्थो बभूव सः ।
पुरुषः सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४७॥
एतस्मिन्नन्तरे तत्र गणयुक्तः शिवो ययौ ।
तं न्यषेधत् स्ववेगेन बोधितोऽपि प्रजापते ॥ ४८॥
ततोऽतिकोपसंयुक्तः शङ्करः प्रबभूव ह ।
तज्ज्ञात्वा सा सखीभ्यां च मुदिता संस्थिताऽभवत् ॥ ४९॥
ततोऽतिक्रोधसंयुक्तो गणान्नन्दिमुखान् शिवः ।
आज्ञापयच्च युद्धाय हन्तव्योऽयं न संशयः ॥ ५०॥
ततस्ते शस्त्रसङ्घातैर्जघ्नुस्तं क्रोधसंयुताः ।
पार्वत्या तेज उग्रं यन्निक्षिप्तं पुरुषे तदा ॥ ५१॥
तेजसा शस्त्रसङ्घाता मोघा जाता विशेषतः ।
मुसलेन जघानाऽसौ गणान् सर्वान् महाबलः ॥ ५२॥
ततः पलायनं चक्रुर्गणाः सर्वे भयान्विताः ।
ततः स्कन्दं शिवः क्रुद्धः प्रेषयामास दारुणम् ॥ ५३॥
कुण्ठितास्त्रो भयोद्विग्नः सेनानीस्ताडितो भृशम् ।
पपाल च ततः शम्भुः सस्माराऽमरमुख्यकान् ॥ ५४॥
ब्रह्मा विष्णुश्च देवेन्द्रो यमाद्याः सर्व आगताः ।
प्रणिपत्य महेशानं संस्थिताश्चाऽभवन् पुरः ॥ ५५॥
तान् शिवः कथयामास वृत्तान्तं ते ततो ययुः ।
इन्द्रादयः सगन्धर्वा युयुधुः पुरुषेण च ॥ ५६॥
पलायनं तेऽपि चक्रुः कुण्ठितास्त्रा भयातुराः ।
ताडिता मुसलेनैव शङ्करः क्षोभितोऽभवत् ॥ ५७॥
ततस्तत्र विचारं ते चक्रुः सर्वे सुरेन्द्रकाः ।
विष्णुमुख्याः शिवेनैव मुनिभिश्च प्रजापते ॥ ५८॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शिवविचारवर्णनप्रसङ्गो नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४.४५
४.४६ शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः
श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
विचार्य देवपैः सर्वैः प्रेषयामास शङ्करः ।
ब्रह्माणं ब्राह्मणैः सार्धं स्नेहार्थं सोऽपि तं ययौ ॥ १॥
तं दृष्ट्वा गृह्य पुरुषो मुसलं सोऽपि दारुणम् ।
आययौ तं निरीक्ष्यैव पपाल स पितामहः ॥ २॥
वयं सर्वे द्विजाः पुत्र शस्त्रहीनाः समागताः ।
शृणु वाक्यं विचारज्ञ पलन्तस्ते तमब्रुवन् ॥ ३॥
तथापि न बुबोधैव पुरुषस्तं विलोक्य सः ।
ब्रह्मा जगाम शम्भुं तं वृत्तान्तमवदत्ततः ॥ ४॥
ततो विष्णुयुतः शम्भुः क्रोधानलविलोचनः ।
सङ्ग्रामाय ययौ तत्र मुसलं सोऽपि चाददे ॥ ५॥
(Page खं. ४ अ. ४६ पान ११६)
आगत्यैव न्यहञ्छम्भुं हृदये यमसन्निभः ।
शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥ ६॥
ततस्तं गदया विष्णुर्योधयामास दारुणम् ।
ततस्त्रिशूलघातेन शिरश्चिच्छेद शङ्करः ॥ ७॥
ममार पुरुषस्तत्र श्रुत्वा सा पार्वती पुनः ।
कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥ ८॥
तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् ।
प्राप्ता आलोक्य देवास्ते भयभीता बभूविरे ॥ ९॥
शङ्करेण द्विजास्तत्र प्रेषिता नारदादयः ।
अन्तरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥ १०॥
रक्ष रक्ष जगत्सर्वं जगदम्ब त्वदुद्भवम् ।
तुष्टुवुस्तामथोवाच मुनीन् क्रोधयुता सती ॥ ११॥
पार्वत्युवाच ।
मम पुत्रः किमर्थं तैर्हतः सर्वैः सुरेश्वरैः ।
सजीवं संहरिष्यामि कुरुध्वं चेन्न संशयः ॥ १२॥
तथेति प्रतिपाद्यैव गतास्ते शङ्करं पुनः ।
शक्तयस्तम्भिताः सर्वाः शिवः सर्वैः समाययौ ॥ १३॥
युद्धे मृतस्य बालस्य मस्तकं त्वप्सरोगणाः ।
जगृहुस्तत्र तं दृष्ट्वा शिरोहीनं सुदुःखितः ॥ १४॥
शिवस्ततो गणान् प्राह यः पूर्वं दृश्यते त्वया ।
तमानयत हत्वा वै तस्य मस्तकमत्र यत् ॥ १५॥
ततो गजासुरः प्राप्तः सहसा नारदेरितः ।
हन्तुं देवगणान् सर्वान् महाबलपराक्रमः ॥ १६॥
ततश्च क्षोभिताः सर्वे पलायन्त दिशो दश ।
शूलघातेन शम्भुस्तं मारयामास तत्क्षणात् ॥ १७॥
तस्य मस्तकयोगेन पुरुषं ते दिवौकसः ।
योजयित्वा प्रजानाथ सजीवं चक्रिरे नरम् ॥ १८॥
सर्वे हतोद्यमा जातास्ततो ब्रह्मा समागतः ।
जीवयामास तं तत्र सजीवो न बभूव ह ॥ १९॥
ततो विष्णुः स्वयं तत्र जीवयामास विद्यया ।
सजीवो न बभूवाऽपि दुःखितोऽतिततोऽभवत् ॥ २०॥
ततः शिवः स्वयं तत्र जीवयुक्तं चकार तम् ।
सजीवं न ददर्शैव दुःखितोऽतितरां तदा ॥ २१॥
ततो विघ्नेश्वरं सर्वे तुष्टुवुः कार्यसिद्धये ।
अथर्वशिरसा दक्ष शङ्कराद्याः सुरेश्वराः ॥ २२॥
प्रार्थयामासुरत्यन्तं निर्विघ्नं कुरु विघ्नप ।
अधुना विश्वमेवेदमकाले लयमेष्यति ॥ २३॥
गणेशस्मरणेन स्म बुद्धिःप्राप्ता दिवौकसाम् ।
वेदमन्त्रेण देवास्ते तारमावाहयन्ति च ॥ २४॥
ओङ्कारस्तत्र मन्त्रेणाऽऽकर्षितः सहसाऽऽगतः ।
शवं प्रविश्य सन्तस्थौ ततः सोऽभवदुत्थितः ॥ २५॥
ततो ज्ञानयुता देवा जाता विघ्नविहीनकाः ।
तं दृष्ट्वा गजवक्त्रं वै प्रणवं प्रणवाकृतिम् ॥ २६॥
तुष्टुवुर्देवदेवेशं नानास्तोत्रैः प्रजापते ।
पुपूजुस्तं च सार्वादौ पूज्यं चक्रुः स्वमूलकम् ॥ २७॥
दक्ष उवाच ।
साक्षादोङ्काररूपश्च गणेशोऽयं न संशयः ।
स कथं मलजः शक्तेर्दैत्यमस्तकधारकः ॥ २८॥
एनं मे संशयं ब्रह्मञ्छेत्तुमर्हसि साम्प्रतम् ।
श्रुत्वा कथां महारम्यां ज्ञानयुक्तो भवाम्यहम् ॥ २९॥
मुद्गल उवाच ।
सती दक्षगृहे तात दग्धा सा शैलजाऽभवत् ।
हिमाचले स्वयं शम्भुस्तताप तप उत्तमम् ॥ ३०॥
तत्र सा पार्वती देवी शुश्रूषायां प्रजापते ।
(Page खं. ४ अ. ४७ पान ११७)
निरता तां निरीक्ष्यैव शम्भुः सस्मार पूर्वगाम् ॥ ३१॥
ममाज्ञावशगा देवी नेयं दक्षगृहे गता ।
अतोऽहं न वृणोम्येतां पुनः शैलसुतां कदा ॥ ३२॥
तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः ।
स ययौ शङ्करस्थानं मोहितुं मदसंयुतः ॥ ३३॥
तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ ।
अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥ ३४॥
मनसि ज्ञानमार्गेण ज्ञात्वा शम्भुविचेष्टितम् ।
तपसा संयुता भूत्वा वनगा शिवमार्चयत् ॥ ३५॥
गते वर्षशते शम्भुः प्रसन्नो न बभूव ह ।
ततः सा विघ्नराजं च सस्मार ध्यानसंयुता ॥ ३६॥
वर्षेणैकेन हेरम्बः प्रसन्नश्च बभूव ह ।
शिवबुद्धिप्रभेदं स चकार बुद्धिधारकः ॥ ३७॥
ततो दयायुतः शम्भुस्तां ययौ द्विजरूपधृक् ।
शङ्करं निन्दयामास नानावाक्यैः समीपगः ॥ ३८॥
तच्छ्रुत्वा कम्पिता देवी बोधयामास शाम्भवैः ।
चेष्टितैस्तं ततः सोऽपि पुनर्निन्दां चकार ह ॥ ३९॥
स्थानं त्यक्त्वा ततो देवी तं जगाम द्विजं पुनः ।
तिरस्कृत्य शिवस्तां स्वं दर्शयामास रूपकम् ॥ ४०॥
ततः सा तं प्रणम्यैव तुष्टाव विविधैः स्तवैः ।
गणेशं मनसा ध्यात्वा प्रार्थ्य तं सिद्धिदो भव ॥ ४१॥
ततः प्रसन्नभावेन शङ्करः प्रददौ वरम् ।
विस्मितस्तां निरीक्ष्यैव तपसा कर्शितां प्रभुः ॥ ४२॥
शिव उवाच ।
वृणोमि त्वां महादेवि वश्योऽहं ते सदाऽनघे ।
तपसा भक्तिभावेन न वियोगो भविष्यति ॥ ४३॥
धूलिधूसरितं तेंऽगं शिरोभूच्च जटान्वितम् ।
अतो मलस्तवाङ्गस्य सर्वपूज्यो भविष्यति ॥ ४४॥
इत्युक्त्वा शङ्करस्तत्रान्तर्धानं प्रचकार सः ।
पार्वती प्रेमसंयुक्ता स्वगृहं वै जगाम ह ॥ ४५॥
स्वभक्तस्य शिवस्यैव रक्षणार्थं वचो महत् ।
गौरीमलाङ्गसम्भूतो बभूव ह गजाननः ॥ ४६॥
गणेशान्न परः कोऽपि सर्वपूज्यो महामते ।
गणेशवरदानेन सत्यवाक्याः शिवादयः ॥ ४७॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते शक्तिमलमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ४.४६
४.४७ गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः
श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
अन्यच्छृणु चरित्रं तु गजमस्तकधारणे ।
महेश इति विख्यातो राजा धर्मयुतोऽभवत् ॥ १॥
तस्य गेहे गुरुः साक्षाज्जगाम कीर्तिमोहितः ।
राज्ञा सम्मानितः सोऽपि नृपाय च ददौ वरम् ॥ २॥
बृहस्पतिरुवाच ।
प्रणतस्ते महीपाल मूर्धा मे प्रभविष्यति ।
सर्वपूज्यो विशेषेण गतोऽभूत् स्वगृहे गुरुः ॥ ३॥
ततः कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् ।
अवमत्य ययौ सोऽपि तं शशाप नृपाधमम् ॥ ४॥
नारद उवाच ।
मदेन राजशार्दूल मामनादृत्य गच्छसि ।
(Page खं. ४ अ. ४७ पान ११८)
अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥ ५॥
काले सोऽपि ममाराऽथ गजयोनौ बभूव ह ।
गजासुर इति ख्यातो नरकुञ्जरवेषभृत् ॥ ६॥
गजासुरेण शम्भोस्तपः कृतं च विशेषतः ।
मन्त्रं जजाप शैवेनातोषयन्नियमे रतः ॥ ७॥
सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः ।
जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥ ८॥
स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च ।
बलं सर्वातिगं शम्भो आरोग्यं सर्वपूज्यताम् ॥ ९॥
अन्ते मोक्षं च मे देहि तथेति शङ्करोऽब्रवीत् ।
मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥ १०॥
अतो गजासुरस्यैव मस्तकं गणपेन तत् ।
धृतं वचो रक्षणार्थं शङ्करस्य बृहस्पतेः ॥ ११॥
अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् ।
कदाचिच्छङ्करेणैव पूजितो गणनायकः ॥ १२॥
ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः ।
स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥ १३॥
श्रीगणेश उवाच ।
एकनिष्ठतया शम्भो भक्त्याऽहं पूजितस्त्वया ।
प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥ १४॥
निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव ।
येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥ १५॥
सर्वपूज्यः स वै भावी सर्वातिगयशोधरः ।
ततः सोंऽतर्दधे ढुण्ढिः शिवो जागरितोऽभवत् ॥ १६॥
हस्ते पुष्पं समालोक्य विस्मितः शङ्करोऽभवत् ।
विचारं स चकारैव किमिदं देवभाषितम् ॥ १७॥
सर्वपूज्यो गणाधीशो नान्यो ब्रह्माण्डमण्डले ।
अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥ १८॥
ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके ।
पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥ १९॥
ततोऽत्रिसम्भवस्तत्र दुर्वासाः सहसाऽऽययौ ।
दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥ २०॥
शिवो विचारमकरोदयं योगी सयोगवित् ।
वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥ २१॥
अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः ।
निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥ २२॥
तं प्रणम्य महायोगी दुर्वासाः प्रययो प्रभुम् ।
यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥ २३॥
विचारं मनसा योगी चकार स्वहितावहम् ।
सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥ २४॥
वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः ।
अतो निर्माल्ययोग्योऽहं नैव शङ्करवत् कदा ॥ २५॥
अयं देवपतिः साक्षादिन्द्रः सत्त्वगुणान्वितः ।
योग्योऽयं नैव सन्देहस्तं ययौ मुनिसत्तमः ॥ २६॥
तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः ।
आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥ २७॥
ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः ।
निर्माल्यं गणनाथस्य माहात्म्यं प्रोच्य सादरः ॥ २८॥
इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके ।
निर्माल्यमिन्द्रः संस्थाप्य ययौ मार्गमवस्थितः ॥ २९॥
निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः ।
गता सत्त्वमयी लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥ ३०॥
(Page खं. ४ अ. ४७ पान ११९)
तिरस्कृत्य महेन्द्रं तं गजो हत्वा सुरान् परान् ।
ययौ वने प्रजानाथ स्वच्छन्दश्च बभूव सः ॥ ३१॥
ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् ।
दैत्यराजा बुभुजिरे सङ्गृह्य स्वर्गमागताः ॥ ३२॥
ततो बहौ गते काले गुरुणा बोधितः सुरः ।
देवैः सह गणेशानं तोषयामास नित्यदा ॥ ३३॥
गते वर्षसहस्रे तु गणेशस्तं ययौ तदा ।
पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥ ३४॥
श्रीगणेश उवाच ।
मा कुरुष्व महेन्द्र त्वं मम निर्माल्यदूषणम् ।
भक्त्यधीनः स्वभावेन प्रसन्नोऽहं कृतस्त्वया ॥ ३५॥
समुद्रतनया लक्ष्मीर्भविष्यति सुसिद्धिदा ।
तां प्राप्य पूर्ववद्देवाः श्रिया युक्ता भविष्यथ ॥ ३६॥
पूजाकृतफलं यच्च निर्माल्ये संस्थितं भवेत् ।
तस्य वन्दनमात्रेण सफलो जायते नरः ॥ ३७॥
भावेनाऽऽगृह्य निर्माल्यं मस्तके धारितं यदि ।
पुनस्तच्छुद्धभूमौ वै स्थापयेद्वा जले सुर ॥ ३८॥
गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै भवेत् ।
तदा फलयुतः सोऽपि मद्रूपो जायते नरः ॥ ३९॥
सदा दुःखयुतं त्वाऽहं पुरा कर्तुं समुद्यतः ।
गुरुणा बोधितं मत्वाऽपराधं ते सहाम्यहम् ॥ ४०॥
मामेव शरणं देवमागतं संविचिन्त्य वै ।
बहुकालेन देवेश क्रोधहीनोऽहमागतः ॥ ४१॥
एवमुक्त्वा गणाधीशो गतः स्वानन्दके पुरे ।
इन्द्रो राज्यश्रिया युक्तो बभूवे स प्रजापते ॥ ४२॥
सदा निर्माल्यभावज्ञो गणेशभजने रतः ।
निर्विघ्नेन महेन्द्रश्चाऽऽमरणं राज्यमाकरोत् ॥ ४३॥
अधुना शृणु वृत्तान्तमैरावतगजस्य च ।
इन्द्रं त्यक्त्वा वने गत्वा चचार स्वेच्छयेरितः ॥ ४४॥
हस्तिनीभिः सदा मोहयुक्तः परमदुर्जयः ।
बुभुजे विविधान् भोगान् मदेनैव समन्वितः ॥ ४५॥
ततः स्वल्पेन कालेन गणेशो जठरे गतः ।
पार्वत्या वरदानेन तस्य दैत्यः शिरोऽहरत् ॥ ४६॥
मस्तकेन विहीनश्च बभूव गणनायकः ।
तादृशोऽवातरत्तत्र विष्णुः शोकपरोऽभवत् ॥ ४७॥
जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौ वने ।
ऐरावतशिरश्छित्वा योजयामास तत्क्षणात् ॥ ४८॥
तत्रोङ्कारं समावाह्य मन्त्रेण जीवसंयुतम् ।
चकार विघ्नराजं स देवास्ते हर्षिता बभुः ॥ ४९॥
दैत्येन तच्छिरस्त्यक्तं नर्मदायां प्रजापते ।
तत्र कुण्डं समुत्पन्नं गणेशमहिमान्वितम् ॥ ५०॥
तत्र या दृषदो रक्ता नर्मदायां समास्थिताः ।
यत्र तत्र गणेशास्ते बभूवुः सर्वसिद्धिदाः ॥ ५१॥
दक्ष उवाच ।
कथं रेवाजले संस्था दृषदो मुनिसत्तम ।
गणेशास्तन्ममाऽऽचक्ष्व धन्या सा सरितां वरा ॥ ५२॥
मुद्गल उवाच ।
ब्रह्मकमण्डलूत्पन्नाश्चतस्रो नद्य एव च ।
गङ्गा च यमुना दक्ष नर्मदा तु सरस्वती ॥ ५३॥
गङ्गाया महिमानं तं सर्वत्रातुलमुत्तमम् ।
ज्ञात्वा सा नर्मदा देवी सन्तप्ता चेतसाऽभवत् ॥ ५४॥
ततस्तया तपस्तप्तं शङ्करस्य महात्मनः ।
शतवर्षे गते शम्भुः प्रसन्नो वरदोऽभवत् ॥ ५५॥
तया सम्पूजितः शम्भुः स्तुतो ज्ञात्वा मनेप्सितम् ।
(Page खं. ४ अ. ४८ पान १२०)
तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥ ५६॥
ततो गङ्गासमं तेजो बभूव सरितः प्रभोः ।
नर्मदायास्तथा सापि न सन्तोषयुताऽभवत् ॥ ५७॥
पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता ।
गतेषु वै सहस्रेषु वर्षेषु वरदोऽभवत् ॥ ५८॥
स्तुतः सम्पूजितः सोऽपि हृदीप्सितवरं ददौ ।
रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥ ५९॥
ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा ।
दर्शनेन जनानां वै गङ्गास्नानफलप्रदा ॥ ६०॥
यस्यास्तीरे जले संस्था दृषदः शङ्करात्मिकाः ।
रक्ता गणेशरूपास्तत् साम्यगा का भवेन्नदी ॥ ६१॥
महिमानं वर्णयितुं रेवायाः कः क्षमो भवेत् ।
गणेशशिवसंयुक्ता यत्र तत्र महानदी ॥ ६२॥
एतत्ते कथितं सर्वं विस्तराद्गणपस्य वै ।
चेष्टितं सर्वपापघ्नं सर्वसंशयनाशनम् ॥ ६३॥
आदौ दक्ष गणेशस्य दैत्यमस्तकधारणम् ।
ऐरावतस्य तद्वद्वै भक्तमाहात्म्यरक्षणात् ॥ ६४॥
शिरश्छेदादिकं तस्य चरित्रं तद् बृहस्पतेः ।
निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितम् ॥ ६५॥
भक्तवचः समाबद्धो गणेशः किं प्रजापते ।
न करोति महाभाग भक्ताधीनस्ततः स्मृतः ॥ ६६॥
येन स्वशिरसश्छेदः कृतो भक्तस्य कारणात् ।
मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः ॥ ६७॥
एतत्ते कथितं सर्वं चेष्टितं परमाद्भुतम् ।
प्रकृतं शृणु दक्ष त्वं गजाननचरित्रकम् ॥ ६८॥
पार्वती प्रेमसंयुक्ता पूजयामास तं सुतम् ।
देवा हर्षयुताः सर्वे जग्मुः स्वं स्वं निवेशनम् ॥ ६९॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४.४७
४.४८ सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
एकदा नारदो योगी सिन्दूरासुरमागमत् ।
पूजितस्तेन तं विप्रो हर्षयुक्तो जगाद ह ॥ १॥
नारद उवाच ।
कैलासे शङ्करस्यैव बभूवे पुत्र उत्तमः ।
गणेशस्तपसा तुष्टः सिद्धिबुद्धिपतिः स्वयम् ॥ २॥
देवैः सम्प्रार्थितः सोऽपि त्वां हनिष्यति निश्चितम् ।
अतो यत्नपरो दैत्य भव गच्छामि मानद ॥ ३॥
एवमुक्त्वा महायोगी नारदः स्वेच्छया चरन् ।
गतः सोऽपि भयोद्विग्नो बभूवासुरनायकः ॥ ४॥
एतस्मिन्नन्तरे तत्र प्रधानं सहसाऽऽगतम् ।
विचार्य तेन दैत्येन्द्रो ययौ हन्तुं सुरान् पुरा ॥ ५॥
समागतं विलोक्यैव पलायन्तेन्द्रमुख्यकाः ।
ब्रह्माणं शरणं सर्वे भयभीता दिवौकसः ॥ ६॥
सिन्दूरः कोपसंयुक्त आययौ तत्र मानद ।
ब्रह्मा हंसं समारुह्य देवैः पपाल तत्क्षणात् ॥ ७॥
विकुण्ठे स गतो विष्णुं दैत्यस्तत्र समागतः ।
(Page खं. ४ अ. ४८ पान १२१)
ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥ ८॥
तत्राऽपि स ययौ दैत्यः शम्भुर्देवैर्गणेश्वरम् ।
तुष्टाव दैत्यनाशार्थं ततः स वरदोऽभवत् ॥ ९॥
सिन्दूरमाययौ तत्र प्रभुः परशुधारकः ।
गजाननो मूषकारूढको भूत्वा प्रतापवान् ॥ १०॥
तं दृष्ट्वा योद्धुमायान्तं सिन्दूरः क्रोधसंयुतः ।
जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥ ११॥
सिन्दूर उवाच ।
किमर्थं रणभूमौ त्वमागतोऽसि गजानन ।
बालभावेन मां मूर्ख न जानासि सुरेरितः ॥ १२॥
मच्छ्वासेन चलन्ति स्म मेरुमन्दरकादयः ।
तलप्रहारवेगेन ब्रह्माण्डं शतधा भवेत् ॥ १३॥
शिवादयः सुरेशाश्च भयभीताः समागताः ।
तान् दृष्ट्वाऽपि गणाधीश योद्धुं कथमुपागतः ॥ १४॥
बालभावेन संयातं न त्वां हन्मि गजानन ।
त्वत्प्रेरकान् सुरांश्चाहं हनिष्यामि न संशयः ॥ १५॥
क्रोधेनाहं च यं कञ्चिदालिङ्गामि गजानन ।
स भस्मसाद्भवेन्नूनं किं करिष्यसि मां वद ॥ १६॥
एवं श्रुत्वा गणाधीशो दैत्येशस्य वचो महत् ।
स उवाच प्रहस्याऽथ सिन्दूरं लोकपीडकम् ॥ १७॥
श्रीगजानन उवाच ।
दैत्याधम महाबाहो मां न वेत्सि प्रभाविणम् ।
स्वानन्दवासिनं पूर्णं ब्रह्मभूतं विशेषतः ॥ १८॥
एवमुक्त्वा विराड्रूपं दधार स गजाननः ।
हस्ताभ्यां मर्दयित्वा तं मस्तके विभुरालिपत् ॥ १९॥
ब्रह्मणो रक्षणार्थं स वचः सिन्दूरधारकः ।
गजाननो बभूवापि भक्तेशो भक्तिभावितः ॥ २०॥
सिन्दूरं मर्दितं दृष्ट्वा देवा हर्षसमन्विताः ।
तुष्टुवुस्तं प्रपूज्यैव भक्तिनम्रात्मकन्धराः ॥ २१॥
देवा ऊचुः ।
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते ।
विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥ २२॥
अमेयाय च हेरम्बाय ते परशुधारक ।
मूषकवाहनायैव विघ्नेशाय नमो नमः ॥ २३॥
अनन्तविभवायैव परेषां पररूपिणे ।
गुहाग्रजाय देवाय शिवपुत्राय ते नमः ॥ २४॥
पार्वतीनन्दनायैव देवानां पालकाय ते ।
सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥ २५॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत ।
विष्ण्वादीनां विशेषेण कुलदेवाय ते नमः ॥ २६॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च ।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूयप्रदाय ते ॥ २७॥
सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने ।
मायिने मायिकेभ्यश्च मोहदाय नमो नमः ॥ २८॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च ।
अमायिने च मायाया आधाराय नमो नमः ॥ २९॥
गजः सर्वस्य बीजं यत्तेन चिह्नेन विघ्नप ।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते ॥ ३०॥
तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन ।
वेदादयो विकुण्ठाश्च शङ्कराद्याश्च देवपाः ॥ ३१॥
शुकादयश्च शेषाद्याः स्तोतुं शक्ता भवन्ति न ।
तथापि संस्तुतोऽसि त्वं स्फूर्त्या त्वद्दर्शनात्मना ॥ ३२॥
गजाननं प्रणेमुस्तमेवमुक्त्वा शिवादयः ।
स तानुवाच प्रीतात्मा भक्तिभावेन तोषितः ॥ ३३॥
(Page खं. ४ अ. ४९ पान १२२)
श्रीगजानन उवाच ।
भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् ।
पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥ ३४॥
वरं वृणुत देवेशास्तुष्टिं स्तोत्रेण चागतः ।
दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥ ३५॥
शिवादय ऊचुः ।
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा तिष्ठ गृहे शम्भोः सर्वदा विघ्ननाशनः ॥ ३६॥
त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरन्तरम् ।
प्रत्यक्षं योगरूपं च पश्यामस्तेन सार्थकाः ॥ ३७॥
मुद्गल उवाच ।
गजाननस्तानुवाचाऽथ तथेति सुरेश्वरान् ।
स्वलोकं कल्पयामास तत्रैव शिवपार्श्वगम् ॥ ३८॥
दशयोजनसाहस्रविस्तारस्तस्य मानद ।
गणाः कुमुदमुख्याश्च कल्पिता मोदकादयः ॥ ३९॥
तिष्ठति स्वर्गलोकेषु तदादि गणनायकः ।
गणेशलोक एवाऽसौ बभूवे भुक्तिमुक्तिदः ॥ ४०॥
सकामास्तं समागम्य पतन्ति पृथिवीतले ।
निष्कामास्तस्य देहे ते अन्ते लीना भवन्ति हि ॥ ४१॥
एतत्ते कथितं सारं गजाननचरित्रकम् ।
शिवपुत्रत्वभावेन ब्रह्मेशोऽयं बभूव ह ॥ ४२॥
यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ।
भविष्यति प्रजानाथ तथा नानासुखप्रदम् ॥ ४३॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते सिन्दूरवधो नामाष्टचत्वारिंशोऽध्यायः ॥ ४.४८
४.४९ गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
निर्माल्यस्य च माहात्म्यं श्रुतं यत् परमाद्भुतम् ।
विस्तरेण पुनः स्वामिन् वद तस्य चरित्रकम् ॥ १॥
मुद्गल उवाच ।
पराशरगृहे देवो बभूव ह गजाननः ।
पुत्रभावेन तस्यापि चरितं कथितं पुरा ॥ २॥
पराशरेणैव तत्र स्थापिता मूर्तिरादरात् ।
गजाननस्य भो दक्ष सर्वदाऽभूत् सुसेविता ॥ ३॥
नित्यं तत्रैव देवेशा ब्रह्मविष्णुशिवादयः ।
रात्रौ गजाननं ते सम्पूजयन्ति सुसिद्धिदम् ॥ ४॥
गजासुरवधाद्दक्ष प्रारभ्य भक्तिसंयुताः ।
स्वर्गपुष्पोपहाराद्यैः सुप्रसन्नाननाम्बुजाः ॥ ५॥
कदाचित् तत्र राजर्षिर्मृगयासक्त आययो ।
सैन्येन स्वप्रधानैश्च संवृतो वीरभद्रकः ॥ ६॥
स आगत्य गणेशानं पूजयन् भक्तिसंयुतः ।
तत्रैव निशि संस्थोऽभूद्गाणपत्यो महायशाः ॥ ७॥
उषःकाले समागत्य स पुपूज गजाननम् ।
पुष्पाणि दृष्टवान् सोऽभूत् तत्र स्वर्गोद्भवानि च ॥ ८॥
सुवासबहुलान्येव मन्दाराद्यानि भूमिपः ।
विस्मितो मानसे भूत्वाऽभवत्तत्रैव संस्थितः ॥ ९॥
देवालयं पिधायाऽसौ भूपःसंस्थाप्य रक्षकान् ।
सैन्ययुक्तो जजागार देवदर्शनलालसः ॥ १०॥
(Page खं. ४ अ. ४९ पान १२३)
ततो देवेन्द्रमुख्याश्च रात्रौ देवाः समाययुः ।
तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥ ११॥
पूजयित्वा गताः सर्वे राजा तत्र समागतः ।
पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥ १२॥
ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः ।
देवदर्शनकाङ्क्षी कृताञ्जलिः स विशेषतः ॥ १३॥
वीरभद्र उवाच ।
स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् ।
नित्यमायान्ति तान् द्रष्टुमिच्छामि वद कारणम् ॥ १४॥
शिवशर्मोवाच ।
निर्माल्यसम्भवानि त्वं पुष्पाणि यत्र तत्र च ।
आच्छादय महीपाल तेषां ते दर्शनं भवेत् ॥ १५॥
तथेति वीरभद्रेण कृतं देवालये पुनः ।
देवाः समागता रात्रावज्ञानेनाचरंस्ततः ॥ १६॥
निर्माल्यस्पर्शमात्रेण पुण्यहीना बभूविरे ।
पूजां कृत्वा पुनर्गन्तुमिच्छां चक्रुः सुरेश्वराः ॥ १७॥
ततोऽतिवेगहीनैश्च देवैर्देवेन्द्रसत्तमैः ।
विचारेण समाज्ञातं कारणं गतिखण्डने ॥ १८॥
पादस्पर्शः कृतोऽस्माभिर्निर्माल्ये गणपस्य च ।
अतो गतिविहीनैश्च किं कर्तव्यं विशेषतः ॥ १९॥
ततो राजा समायातः पूजार्थं देवसन्निधौ ।
निर्माल्यमार्जनं कृत्वा ददर्श देवमुख्यकान् ॥ २०॥
तान् प्रणम्य महाभक्त्या तुष्टाव विविधैः स्तवैः ।
प्रसन्नास्ते च राजानमूचुः शम्भ्वादयः सुराः ॥ २१॥
शिवादय ऊचुः ।
राजंस्त्वया कृतं कर्म स्वार्थभावेन दुःखदम् ।
देवानां तत्र चोपायं कुरु गतिप्रदायकम् ॥ २२॥
ततो राजा भयोद्विग्नः स्वगुरुं प्रणिपत्य तम् ।
पप्रच्छ चलने तेषामुपायं पुण्यदं परम् ॥ २३॥
गुरुणा बोधितो राजा हृदि ध्यात्वा गजाननम् ।
गणेशपूजया जातं पुण्यपुष्पं ददौ तदा ॥ २४॥
अगाधपुण्ययोगेन देवा गतियुताः कृताः ।
विष्ण्वादयो जगुस्तं ते वरं वृणु महीपते ॥ २५॥
अमोघं दर्शनं प्रोक्तमस्माकं शास्त्रसम्मतम् ।
अतो मनेप्सितं भूप दास्यामो नात्र संशयः ॥ २६॥
ततो राजा च ब्रह्माद्यानुवाच स कृताञ्जलिः ।
गणेशे दृढभक्तिर्मेऽस्तु भवत्कृपया परा ॥ २७॥
ततस्ते विस्मिताः सर्वे प्रार्थयित्वा गजाननम् ।
ददुर्भक्तिं गणेशाने ब्रह्मभूतपदप्रदाम् ॥ २८॥
गताः स्वर्गेषु देवास्ते राजा तत्र समास्थितः ।
राज्यं पुत्रे विनिक्षिप्य बाले प्रधानसंयुते ॥ २९॥
नित्यं गजाननं भक्त्याऽभजदनन्यचेतसा ।
अन्ते स्वानन्दगो भूत्वा भजते गणनायकम् ॥ ३०॥
एवं निर्माल्यमाहात्म्यं सङ्क्षेपेण निरूपितम् ।
पठनाच्छ्रवणान्नृभ्यो भुक्तिमुक्तिफलप्रदम् ॥ ३१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते गणेशनिर्माल्यमाहात्म्यवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४.४९
(Page खं. ४ अ. ५० पान १२४)
४.५० विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह ।
पत्न्या परमसत्या वै तपसाऽऽराधितो विभुः ॥ १॥
दशवर्षसहस्रेषु गणेशो वरदोऽभवत् ।
स्तुतः सम्पूजितस्तेन नानास्तोत्रैः प्रजापते ॥ २॥
ताभ्यां पुत्रो भव स्वामिन् वृतस्त्वन्नौ वरो महान् ।
तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥ ३॥
ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययो ।
पूजितः सुरनाथेन जगाद वचनं हितम् ॥ ४॥
नारद उवाच ।
हिमवत्यां हिमप्रान्ते राजा मदसमन्वितः ।
अभिनन्दन एवाऽसौ यज्ञं करोति दुर्मतिः ॥ ५॥
ब्राह्मणान् स समानीय प्रोवाच बलगर्वितः ।
यज्ञमिन्द्रेण हीनं मे कुरुध्वं यत्नसंयुताः ॥ ६॥
नो चेत् सर्वान् हनिष्यामि क्रोधयुक्तो महर्षयः ।
तस्य तद्वचनं श्रुत्वा तथेति ब्राह्मणा जगुः ॥ ७॥
अद्य श्वो वा करिष्यन्ति यज्ञं भयसमन्विताः ।
ब्राह्मणा नात्र सन्देहो यथेच्छसि तथा कुरु ॥ ८॥
एवमुक्त्वा महायोगी नारदः प्रययौ ततः ।
विकुण्ठे स महाविष्णुं ततः स्वच्छन्दगोऽभवत् ॥ ९॥
इन्द्रः क्रोधसमाविष्टः सस्मार कालरूपिणम् ।
भगवन्तं महाकायमिन्द्रं स प्रययौ प्रभुः ॥ १०॥
तं प्रणम्य प्रतुष्टाव कथयामास दुःखदम् ।
वृत्तान्तं प्रार्थयामास यज्ञविध्वंसनाय तम् ॥ ११॥
कालस्तथेति तं तुष्टः कथयित्वा ययौ धराम् ।
धारयामास मनसि कालः कलयतां प्रभुः ॥ १२॥
कालाधीनं जगत् सर्वं सदा कालेन भुज्यते ।
कालं योगबलेनैव जयन्त्यत्र हि योगिनः ॥ १३॥
तत्रादौ कर्मसंशुद्धा योगनिष्ठा भवन्ति च ।
अतः कर्मविनाशार्थं यतिष्येऽहं विशेषतः ॥ १४॥
कर्महीना नराः सर्वे मलिनाः सम्भवन्ति च ।
नेच्छन्ति योगमाद्यं ते भविष्यन्ति मदात्मकाः ॥ १५॥
जन्ममृत्युयुताः सर्वे मदधीना न संशयः ।
इन्द्रेण प्रेरितस्तत्र च्छद्म नैव करोम्यहम् ॥ १६॥
विचार्य काल इति स आसुरं रूपमादधे ।
विघ्नरूपेण तं भूपं ययौ क्रोधसमन्वितः ॥ १७॥
यज्ञं बभञ्ज वेगेन ब्राह्मणांस्ताडयन् पुरा ।
ततो नानास्थले दुष्टो ह्यगमद्विघ्नरूपधृक् ॥ १८॥
कर्मखण्डनभावेन चचार बलमोहितः ।
सर्वत्र कर्मलोपाय विघ्नेनापीड्य मानवान् ॥ १९॥
ततः सोऽपि महावेगो जनान् कालेन मोहयन् ।
भ्रामयामास विप्रान् योगिनो नानास्वरूपधृक् ॥ २०॥
प्रातःकालं चकाराऽसौ निशीथं सायमादरात् ।
मध्याह्नं कारयामास नानाभ्रमकरः सदा ॥ २१॥
चकार रात्रिरूपं स दिवसं कर्मखण्डकः ।
रात्रिं दिवसरूपां तां वक्तुं नैव प्रशक्यते ॥ २२॥
लोकान् भ्रमयुतान् सर्वान् कर्महीनांश्चकार सः ।
चन्द्रमाच्छाद्य कालस्तु सूर्यं नक्षत्रकादिकान् ॥ २३॥
ततोऽतिभयसंयुक्ता देवा भ्रान्ता बभूविरे ।
कर्महीनप्रभावेण चोपोषणपरायणाः ॥ २४॥
न समर्था बभूवुस्ते कालं चलयितुं प्रभुम् ।
कालाधीनाः सुराः सर्वे सृष्टिस्थितिलयात्मकाः ॥ २५॥
ततो वसिष्ठमुख्याश्च ब्रह्माणं शरणं ययुः ।
(Page खं. ४ अ. ५० पान १२५)
तेन सार्धं च वैकुण्ठं जग्मुः कालभयान्विताः ॥ २६॥
विष्णुना शङ्करं जग्मुर्ब्राह्मणा भयसङ्कुलाः ।
स्तुत्वा नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥ २७॥
शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् ।
तपसा ध्यानयुक्तेन तोषयामासुरादरात् ॥ २८॥
गते वर्षशते काले परमात्मा गजाननः ।
वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥ २९॥
ततस्तैः संस्तुतो देवः प्रार्थितो विघ्ननाशने ।
तथेति प्रतिपाद्यैव पार्श्वपुत्रो बभूव सः ॥ ३०॥
दीपवत्सलया युक्तः पार्श्वः परमयोगवित् ।
पुरा तताप घोरं स तपो विघ्नेश्वरं स्मरन् ॥ ३१॥
प्रगतेषु स वर्षेषु सहस्रे गणनायकः ।
प्रसन्नस्तं ययौ तेन पूजितः संस्तुतोऽभवत् ॥ ३२॥
स वव्रे मे भव स्वामिन् पुत्रः परमतारकः ।
संसारे पुत्रवात्सल्याद्भजिष्यामि सह स्त्रिया ॥ ३३॥
मूर्तौ देवस्वभावेन हृदये योगमार्गतः ।
भजिष्यामि त्रिधा ढुण्ढे त्वां सर्वत्र विशेषतः ॥ ३४॥
नानाकर्मपरोऽहं वै तव देव गजानन ।
पिता जातश्च तेन त्वं तारको मे भविष्यसि ॥ ३५॥
तथेति विघ्नराजस्तमुवाचांऽतर्दधे प्रभुः ।
विघ्नासुरविनाशाय बभूवे देहधारकः ॥ ३६॥
दीपवत्सलिकायाः स जठरे सङ्गतो विभुः ।
स्तनपानादिकं सर्वं स चकारातितोषितः ॥ ३७॥
पञ्चवर्षात्मको बालो बभूव मुनिवेश्मनि ।
तदा देवर्षयः सर्वे तं ययुर्भक्तिसंयुताः ॥ ३८॥
शम्भ्वाद्यान् स सुरान् वीक्ष्य वसिष्ठादिमुनीश्वरान् ।
पार्श्वः सम्भ्रमसंयुक्तस्तान् पुपूज यथाविधि ॥ ३९॥
उवाच प्रेमसंयुक्तो धन्यं मे जन्म कर्म च ।
येन देवगणाः सर्वे मुनयो गृहमागताः ॥ ४०॥
आज्ञां कुरुत देवेशा दासोऽहं भवतां द्विजाः ।
करिष्यामि न सन्देहो भवत्स्मृतिबलेन वै ॥ ४१॥
देवर्षय ऊचुः ।
तव भाग्यबलेनैव सुतः स्वानन्दगोऽभवत् ।
गजाननः स्वयं सर्वे प्रार्थयामो हिताय तम् ॥ ४२॥
विघ्नासुरेण दुष्टेन जगद्भ्रष्टं कृतं मुने ।
तस्य नाशार्थमेवं त्वं कुरु यत्नं महामते ॥ ४३॥
श्रुत्वा तेषां वचः क्रूरं मुनिः शोकयुतोऽभवत् ।
एतस्मिन्नन्तरे तत्र स गजानन आययौ ॥ ४४॥
तं दृष्ट्वा सहसोत्थाय नेमुः सर्वे सुरेश्वराः ।
मुनयस्तुष्टुवुर्देवं प्रार्थयामासुरादरात् ॥ ४५॥
तेषां हृदि स्थितं ज्ञात्वा शस्त्रहस्तश्चतुर्भुजः ।
मूषकोपरि संस्थो यो ययौ हन्तुं महासुरम् ॥ ४६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते विघ्नासुराश्रमगमनं नाम पञ्चाशत्तमोऽध्यायः ॥ ४.५०
(Page खं. ४ अ. ५१ पान १२६)
४.५१ विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
मुद्गल उवाच ।
केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा ।
कालस्य गणनाथस्तु ययौ तस्याऽश्रमं प्रभुः ॥ १॥
गुप्तरूपधरं विघ्नमङ्कुशेन समानयत् ।
तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥ २॥
ततस्तं स महाकालः प्रावमत्य गजाननम् ।
अन्तर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥ ३॥
त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् ।
विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥ ४॥
ततः कालः स्वयं दक्षाऽभवदाकाशतत्त्वगः ।
वायुस्थं गणनाथं स कर्षयामास दारुणः ॥ ५॥
आकाशस्थं महाकालं ज्ञात्वाऽहङ्कारधारकः ।
गजाननश्च तं क्रुद्धोऽकर्षयत् प्रलयं प्रभुः ॥ ६॥
ततो विघ्नो महत्तत्त्वं समाश्रित्य गजाननम् ।
ताडयामास सङ्क्रुद्धः कालः कलयतां प्रभुः ॥ ७॥
ततो गजाननः क्रुद्धः प्रधानरूपधारकः ।
महत्तत्त्वस्थमेवं तं कर्षयामास दारुणम् ॥ ८॥
ततोऽभवत् सोऽपि महत्तत्त्वं त्यक्त्वा गुणेशगः ।
प्रधानं हन्तुमारेभे कालः परमदुर्जयः ॥ ९॥
ततो गजाननः साक्षाद्बिन्दुब्रह्मस्थितोऽभवत् ।
चतुष्पादमयीं शक्तिं हन्तुं चिक्षेप सोंऽतकम् ॥ १०॥
गुणेशान्न परः कालस्ततः खण्डितविक्रमः ।
कालो मायां चतुष्पादां निरीक्ष्य त्रासितोऽभवत् ॥ ११॥
शक्तिं दृष्ट्वा महाघोरां कालगर्वहरां पराम् ।
शरणं गणराजं स ययौ कालः प्रजापते ॥ १२॥
समागतं महाविघ्नं देवा मुनिगणास्ततः ।
विस्मिताश्चाऽभवन् सर्वे जयेति गणपं जगुः ॥ १३॥
विघ्नासुरः प्रणम्यादौ पुपूज ह गजाननम् ।
तद् दर्शनजबोधेन तुष्टाव स कृताञ्जलिः ॥ १४॥
विघ्नासुर उवाच ।
नमस्ते गणनाथाय गजाननस्वरूपिणे ।
योगाय योगनाथाय योगिभ्यो योगदायिने ॥ १५॥
अनाकाराय साकाररूपाय ते नमो नमः ।
नानाभेदविहीनाय भेदानां पतये नमः ॥ १६॥
विघ्नेशाय परेशाय कालभीतिहराय ते ।
हेरम्बाय परेषां वै परात्पर नमो नमः ॥ १७॥
अनादये ह्यनाथाय सर्वेषामादिमूर्तये ।
भक्तेशाय सदा भक्तवाञ्छितप्रद ते नमः ॥ १८॥
स्वानन्दवासिने तुभ्यं मूषकध्वजिने नमः ।
मूषकोपरिसंस्थाय ढुण्ढिराजाय ते नमः ॥ १९॥
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ।
गजवक्त्राय वै तुभ्यं सर्वपूज्याय ते नमः ॥ २०॥
सिद्धिबुद्धिस्वरूपाय सिद्धिबुद्धिप्रदाय च ।
सिद्धिबुद्धिपते तुभ्यं महोदर नमो नमः ॥ २१॥
अमेयमायातिगमूर्तयेऽपि ते सदा सुशान्तिप्रदपूर्णमूर्तये ।
मनोवचोहीनमयाय तेजसे मनोवचोयुक्तकलाय ते नमः ॥ २२॥
अज्ञानदोषेण कृतोऽपराधो हेरम्ब तं क्षन्तुमिहार्हसि त्वम् ।
रक्षस्व मां भक्तियुतं दयाब्धे श्रेष्ठं वरं देहि परेशपाल ॥ २३॥
अधुना हि मया बुद्धं स्वरूपं ते गजानन ।
योगाकारमयोऽसि त्वं ततोऽहं निर्जितस्त्वया ॥ २४॥
त्वां विना का समर्थः स्यात् कालं कलयतां प्रभुम् ।
जेतुं धन्यः कृतो नाथ पादपद्मस्य दर्शनात् ॥ २५॥
(Page खं. ४ अ. ५१ पान १२७)
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् ।
तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥ २६॥
श्रीगजानन उवाच ।
त्वया कृतं मदीयं वै स्तोत्रं सर्वप्रदं भवेत् ।
कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥ २७॥
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ।
महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥ २८॥
हन्तुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः ।
वाञ्छितं वृणु नो हन्मि अधुना शरणार्थिनम् ॥ २९॥
महाकाल उवाच ।
भक्तिं देहि त्वदीयां मे सुदृढां तां गजानन ।
दासरूपेण मां नाथ रक्षस्व त्वत्समीपगम् ॥ ३०॥
ब्रह्मेश कार्यं कथय तत् करिष्यामि यन्त्रितः ।
स्थानं भक्ष्ययुतं देहि तत्र तिष्ठामि नित्यशः ॥ ३१॥
मन्नामपूर्वकं नाम कुरु त्वं ते गजानन ।
सर्वसिद्धिकरं नाथ पूर्णयोगप्रदं परम् ॥ ३२॥
जगाद गणराजस्तु ततस्तं भक्तमुत्तमम् ।
निर्विकल्पं मनस्तस्य ज्ञात्वा भक्तप्रपालकः ॥ ३३॥
श्रीगजानन उवाच ।
मदीया भक्तिरचला भविष्यति तवाऽनघ ।
यद्यदिच्छसि तत्तत्ते सफलं चास्तु सर्वदा ॥ ३४॥
मत् समीपे गणो भूत्वा तिष्ठ त्वं बलसंयुतः ।
महाविघ्नस्वरूपेण नानाविघ्नगणैर्वृतः ॥ ३५॥
विघ्नराजेति मन्नाम भविष्यति सुसिद्धिदम् ।
ब्रह्मभूयकरं पूर्णं वाञ्छितार्थप्रदायकम् ॥ ३६॥
यत्र मे स्मरणं नास्ति कर्मादौ पूजनं तथा ।
तत् सर्वं भुक्ष्व विघ्न त्वं भ्रंशयित्वा सुरेन्द्रकान् ॥ ३७॥
शिवविष्णुमुखा देवा अन्ये मुनिमुखा नराः ।
शेषाद्या नागराजास्ते नानाजन्तव एव च ॥ ३८॥
अहङ्कारेण संयुक्ता भवन्ति यदि तेऽसुर ।
तदा तान् भ्रंशयित्वा त्वं भुङ्क्ष्व भोगान् यथेप्सितान् ॥ ३९॥
मद्भक्तिकारिणः सर्वे त्वया पाल्या विशेषतः ।
तेषां निर्विघ्नभावेन पुरो भावपरो भव ॥ ४०॥
एवमुक्त्वान्तर्दधेऽसौ गजाननः प्रतापवान् ।
विघ्नो विघ्नैः समायुक्तः शान्तरूपो बभूव ह ॥ ४१॥
देवा मुनिमुखाः सर्वे स्वस्वस्थानं ययुस्ततः ।
सपत्नीकस्तत्र पार्श्वो मूर्च्छितोऽभूत् प्रजापते ॥ ४२॥
तयोर्हृदि गणाधीशः प्रकटोऽभूद्वचोऽब्रवीत् ।
मां चिन्तामणिरूपं ते पश्य तात हृदि स्थितम् ॥ ४३॥
मूर्तौ पूजनमात्रेण हृदि ध्यानेन मानदौ ।
सन्तुष्टौ जनकौ नित्यं संशयो न भविष्यथः ॥ ४४॥
यदा मे स्मरणं तातौ महाकार्ये करिष्यथः ।
द्रक्ष्यथो मां न सन्देहो योगशान्तौ भविष्यथः ॥ ४५॥
एवमुक्त्वांर्तदधे सोऽपि गणेशो हृदि रूपधृक् ।
तौ स्वस्थौ मूर्तिमास्थाप्य निरन्तरमपूजताम् ॥ ४६॥
इति ते गणराजस्य कथितं चरितं महत् ।
अंशा गजाननस्यैते अवतारा विधे स्मृताः ॥ ४७॥
वरेण्यपुत्रभावेन बभूव ह गजाननः ।
कस्मिन् काले वधार्थाय सिन्दूरस्य न संशयः ॥ ४८॥
कल्पभेदानुसारेण नानारूपधरः प्रभुः ।
गजाननो ह्यभूद्वर्णयितुं वापि न शक्यते ॥ ४९॥
(Page खं. ४ अ. ५२ पान १२८)
इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः ।
तांश्च ज्ञातुं कोर्हति वर्णयितुं वा प्रजापते ॥ ५०॥
सङ्क्षेपेण मया तुभ्यं कथितं पापनाशनम् ।
चरितं विघ्नराजस्य भुक्तिमुक्तिफलप्रदम् ॥ ५१॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपञ्चशत्तमोऽध्यायः ॥ ४.५१
४.५२ चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः
॥ श्रीगणेशाय नमः ॥
दक्ष उवाच ।
गजाननस्य क्षेत्रं मे वद कुत्र प्रतिष्ठितम् ।
माहात्म्यं तस्य विप्रेश सङ्क्षेपेण सुसिद्धिदम् ॥ १॥
मुद्गल उवाच ।
दिशान्ते नैरृते कोणे देवैर्मुनिभिरादरात् ।
स्थापितो गणनाथश्च गजवक्त्रावतारधृक् ॥ २॥
द्वीपेषु स्वस्वखण्डेषु विभुर्नैरृतकोणगः ।
पूज्यते मानवैः सर्वैर्देवैश्च मुनिभिस्तथा ॥ ३॥
भाद्रशुक्लचतुर्थ्यां तैः स्थापितो गणनायकः ।
मध्याह्नसमये दक्ष पुरा सोत्सववर्धिनी ॥ ४॥
तस्यां यात्रां प्रकुर्वन्ति जना भक्तिपरायणाः ।
त्रिलोकस्था विशेषेण नानासिद्धिप्रवृद्धये ॥ ५॥
दशयोजनविस्तारो विभुः क्षेत्रस्य मध्यगः ।
मूषकश्चतुरस्रस्य पुरतस्तिष्ठति प्रभोः ॥ ६॥
सिद्धिस्तस्याऽपि वामाङ्गे दक्षिणाङ्गे च बुद्धिका ॥
अष्टदिक्षु प्रजानाथ सिद्धयोऽष्टौ व्यवस्थिताः ॥ ७॥
अष्टमातृगणः पश्चात्ततोऽष्टौ भैरवा मताः ।
दशदिक्षु च दिक्पालाः सशस्त्राः संस्थिताः प्रभोः ॥ ८॥
शिवविष्णुमुखा देवा वामाङ्गे संस्थिता विभोः ।
काश्यादिमुख्यक्षेत्राणि गङ्गाद्याश्च तथोत्तरे ॥ ९॥
मुनयः शेषकाद्याश्च पृष्ठभागे व्यवस्थिताः ।
भक्ता मुद्गलमुख्याश्च पुरतः संस्तुवन्ति तम् ॥ १०॥
त्रिलोकेषु च ये मुख्यास्ते सर्वे तत्र संस्थिताः ।
अंशेन देवसेवार्थं स्वाधिकारेषु मानद ॥ ११॥
तीर्थेषु स्नानकर्तारः समुद्रे भक्तिसंयुताः ।
स्वस्वनाम्नाङ्कितेष्वेव स्वल्पदेहधरा अपि ॥ १२॥
परस्परं बोधयन्तो गजाननचरित्रकम् ।
नृत्यन्ति ते हसन्त्येव देवचेष्टापरायणाः ॥ १३॥
गणेशतीर्थं वै तत्र गजाननसुसिद्धिदम् ।
तत्र स्नानं प्रकुर्वन्ति ये नरास्ते प्रजापते ॥ १४॥
कृतकृत्या न सन्देहो मनेप्सितफलप्रदे ।
तत्र यात्रां प्रकुर्वन्ति चतुर्विधफलप्रदाम् ॥ १५॥
धन्यास्ते पुरुषा लोके कृतकृत्या भवन्ति वै ।
वसन्ति ये यत्र कुत्र गजाननपरायणाः ॥ १६॥
ब्रह्मभूताश्च ते प्रोक्ता दर्शनात् पापनाशनाः ।
अन्यदेवस्य ये भक्ता मृताः क्षेत्रे भवन्ति चेत् ॥ १७॥
ते तस्य लोकमासाद्य भोगान् भुञ्जन्ति शाश्वतान् ।
तदन्ते गणनाथं वै गच्छन्ति ब्रह्मसिद्धये ॥ १८॥
तत्र सिद्धिं गता नाना नरा नार्यश्च भो विधे ।
तेषां चरित्रकं पूर्णं मया वक्तुं न शक्यते ॥ १९॥
(Page खं. ४ अ. ५२ पान १२९)
यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् ।
मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥ २०॥
सङ्क्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् ।
माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥ २१॥
इदं गजाननस्यापि चरितं सर्वसिद्धिदम् ।
भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २२॥
नानाख्यानसमायुक्तं कथितं ते प्रजापते ।
यः शृणोति नरो भक्त्या पठेद्वा तस्य सिद्धिदम् ।
भविष्यति महाभाग सर्वसौख्यकरं तथा ॥ २३॥
नानेन सदृशं किञ्चित् पावनं ब्रह्मदायकम् ।
विद्यते सर्वशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥ २४॥
स्वर्णभारसहस्राणि नित्यं यो वै ददाति चेत् ।
तदस्य श्रवणान् मर्त्यो लभते नात्र संशयः ॥ २५॥
गोदानानि नरो यस्तु ददाति भक्तिसंयुतः ।
नित्यं सहस्रशो दक्ष फलं प्राप्नोति शाश्वतम् ॥ २६॥
नानादानानि यो दद्याद्ब्राह्मणेभ्यो यथाविधि ।
तेषां पुण्यफलं भुक्त्वा पतति मानवो भुवि ॥ २७॥
अस्य श्रवणमात्रेण भुक्त्वा भोगान् मनेप्सितान् ।
अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥ २८॥
नानायज्ञादिकं कर्म कुरुते मानवः सदा ।
नास्य श्रवणमात्रेण कलांशमपि तत् फलम् ॥ २९॥
जन्ममृत्युप्रदान्येव कर्माणि सकलानि च ।
इदं सर्वप्रदं प्रोक्तमन्ते ब्रह्मप्रदायकम् ॥ ३०॥
सङ्क्षेपेण प्रजानाथ कथितं सुखदं परम् ।
गजाननस्य माहात्म्यं किं भूयः श्रोतुमिच्छसि ॥ ३१॥
सूत उवाच ।
एवमुक्त्वा महायोगी मुद्गलो विरराम ह ।
श्रुत्वा दक्षोऽपि संहृष्टो बभूव मुनिसत्तम ॥ ३२॥
मयाऽपि कथितं सर्वं माहात्म्यं पूर्णसिद्धिदम् ।
तुभ्यं विप्रर्षियुक्ताय यथा मुद्गलभाषितम् ॥ ३३॥
धन्योऽहं कृतकृत्योऽहं भवतां सङ्गमेन वै ।
गणेशामृतधारायां प्रवृत्तः सर्वभावतः ॥ ३४॥
गणेशान्न परं किञ्चित् सर्वादौ तेन स स्मृतः ।
सर्वपूज्यश्च विप्रर्षे ब्रह्मेशो ब्रह्मदः परः ॥ ३५॥
श्रुतं त्वया महाभाग ब्राह्मणैः शास्त्रकोविदैः ।
अधुना किं च ते विप्र इच्छा श्रोतुं वदस्व ताम् ॥ ३६॥
॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
चतुर्थे खण्डे गजाननचरिते चरित्रमाहात्म्यवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ४.५२
॥ इति चतुर्थः खण्डः समाप्तः ॥
॥ इति श्रीमुद्गलपुराणे चतुर्थः खण्डः समाप्तः ॥
Proofread by Yash Khasbage