९ श्रीमद्देवीभागवतमहापुराणे नवमः स्कन्धः

९ श्रीमद्देवीभागवतमहापुराणे नवमः स्कन्धः

९.१ प्रथमोऽध्यायः । प्रकृतिचरित्रवर्णनम् ।

श्रीनारायण उवाच । गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ १॥ नारद उवाच । आविर्बभूव सा केन का वा सा ज्ञानिनांवर । किं वा तल्लक्षणं साधो बभूव पञ्चधा कथम् ॥ २॥ सर्वासां चरितं पूजाविधानं गुण ईप्सितः । अवतारः कुत्र कस्यास्तन्मे व्याख्यातुमर्हसि ॥ ३॥ श्रीनारायण उवाच । प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत् । किञ्चित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ॥ ४॥ प्रकृष्टवाचकः प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ॥ ५॥ गुणे सत्त्वे प्रकृष्टे च प्रशब्दो वर्तते श्रुतः । मध्यमे रजसि कृश्च तिशब्दस्तमसि स्मृतः ॥ ६॥ त्रिगुणात्मस्वरूपा या सा च शक्तिसमन्विता । प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ॥ ७॥ प्रथमे वर्तते प्रश्न कृतिश्च सृष्टिवाचकः । सृष्टेरादौ च या देवी प्रकृतिः सा प्रकीर्तिता ॥ ८॥ योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः । पुमांश्च दक्षिणार्धाङ्गो वामार्धा प्रकृतिः स्मृता ॥ ९॥ सा च ब्रह्मस्वरूपा च नित्या सा च सनातनी । यथाऽऽत्मा च तथा शक्तिर्यथाग्नौ दाहिका स्थिता ॥ १०॥ अत एव हि योगीन्द्रैः स्त्रीपुम्भेदो न मन्यते । सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्सदपि नारद ॥ ११॥ स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया । साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ॥ १२॥ तदाज्ञया पञ्चविधा सृष्टिकर्मविभेदिका । अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ॥ १३॥ गणेशमाता दुर्गा या शिवरूपा शिवप्रिया । नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ॥ १४॥ ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता स्तुता । सर्वाधिष्ठातृदेवी सा शर्वरूपा सनातनी ॥ १५॥ धर्मसत्यपुण्यकीर्तिर्यशोमङ्गलदायिनी । सुखमोक्षहर्षदात्री शोकार्तिदुःखनाशिनी ॥ १६॥ शरणागतदीनार्तपरित्राणपरायणा । तेजःस्वरूपा परमा तदधिष्ठातृदेवता ॥ १७॥ सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् । सिद्धेश्वरी सिद्धिरूपा सिद्धिदा सिद्धिरीश्वरी ॥ १८॥ बुद्धिर्निद्रा क्षुत्पिपासा छाया तन्द्रा दया स्मृतिः । जातिः क्षान्तिश्च भ्रान्तिश्च शान्तिः कान्तिश्च चेतना ॥ १९॥ तुष्टिः पुष्टिस्तथा लक्ष्मीर्धृतिर्माया तथैव च । सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ॥ २०॥ उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् । गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ॥ २१॥ शुद्धसत्त्वस्वरूपा या पद्मा सा परमात्मनः । सर्वसम्पत्स्वरूपा सा तदधिष्ठातृदेवता ॥ २२॥ कान्तातिदान्ता शान्ता च सुशीला सर्वमङ्गला । लोभमोहकामरोषमदाहङ्कारवर्जिता ॥ २३॥ भक्तानुरक्ता पत्युश्च सर्वाभ्यश्च पतिव्रता । प्राणतुल्या भगवतः प्रेमपात्रं प्रियंवदा ॥ २४॥ सर्वसस्यात्मिका देवी जीवनोपायरूपिणी । महालक्ष्मीश्च वैकुण्ठे पतिसेवारता सती ॥ २५॥ स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहेषु गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा ॥ २६॥ सर्वप्राणिषु द्रव्येषु शोभारूपा मनोहरा । कीर्तिरूपा पुण्यवतां प्रभारूपा नृपेषु च ॥ २७॥ वाणिज्यरूपा वणिजां पापिनां कलहाङ्कुरा । दयारूपा च कथिता वेदोक्ता सर्वसम्मता ॥ २८॥ सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय । वाग्बुद्धिविद्याज्ञानाधिष्ठात्री च परमात्मनः ॥ २९॥ सर्वविद्यास्वरूपा या सा च देवी सरस्वती । सा बुद्धिः कविता मेधा प्रतिभा स्मृतिदा नृणाम् ॥ ३०॥ नानाप्रकारसिद्धान्तभेदार्थकलना मता । व्याख्याबोधस्वरूपा च सर्वसन्देहभञ्जिनी ॥ ३१॥ विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी । स्वरसङ्गीतसन्धानतालकारणरूपिणी ॥ ३२॥ विषयज्ञानवाग्रूपा प्रतिविश्वोपजीविनी । व्याख्यावादकरी शान्ता वीणापुस्तकधारिणी ॥ ३३॥ शुद्धसत्त्वस्वरूपा च सुशीला श्रीहरिप्रिया । हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा ॥ ३४॥ यजन्ती परमात्मानं श्रीकृष्णं रत्नमालया । तपःस्वरूपा तपसां फलदात्री तपस्विनाम् ॥ ३५॥ सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा । यया विना तु विप्रौघो मूको मृतसमः सदा ॥ ३६॥ देवी तृतीया गदिता श्रुत्युक्ता जगदम्बिका । यथागमं यथाकिञ्चिदपरां त्वं निबोध मे ॥ ३७॥ माता चतुर्णां वर्णानां वेदाङ्गानां च छन्दसाम् । सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा ॥ ३८॥ द्विजातिजातिरूपा च जपरूपा तपस्विनी । ब्रह्मण्यतेजोरूपा च सर्वसंस्काररूपिणी ॥ ३९॥ पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया । तीर्थानि यस्याः संस्पर्शं वाञ्छन्ति ह्यात्मशुद्धये ॥ ४०॥ शुद्धस्फटिकसङ्काशा शुद्धसत्त्वस्वरूपिणी । परमानन्दरूपा च परमा च सनातनी ॥ ४१॥ परब्रह्मस्वरूपा च निर्वाणपददायिनी । ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ॥ ४२॥ यत्पादरजसा पूतं जगत्सर्वं च नारद । देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ॥ ४३॥ पञ्चप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी । प्राणाधिकप्रियतमा सर्वाभ्यः सुन्दरी परा ॥ ४४॥ सर्वयुक्ता च सौभाग्यमानिनी गौरवान्विता । वामाङ्गार्धस्वरूपा च गुणेन तेजसा समा ॥ ४५॥ परावरा सारभूता परमाद्या सनातनी । परमानन्दरूपा च धन्या मान्या च पूजिता ॥ ४६॥ रासक्रीडाधिदेवी श्रीकृष्णस्य परमात्मनः । रासमण्डलसम्भूता रासमण्डलमण्डिता ॥ ४७॥ रासेश्वरी सुरसिका रासावासनिवासिनी । गोलोकवासिनी देवी गोपीवेषविधायिका ॥ ४८॥ परमाह्लादरूपा च सन्तोषहर्षरूपिणी । निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ॥ ४९॥ निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा । वेदानुसारिध्यानेन विज्ञाता मा विचक्षणैः ॥ ५०॥ दृष्टिदृष्टा न सा चेशैः सुरेन्द्रैर्मुनिपुङ्गवैः । वह्निशुद्धांशुकधरा नानालङ्कारभूषिता ॥ ५१॥ कोटिचन्द्रप्रभा पुष्टसर्वश्रीयुक्तविग्रहा । श्रीकृष्णभक्तिदास्यैककरा च सर्वसम्पदाम् ॥ ५२॥ अवतारे च वाराहे वृषभानुसुता च या । यत्पादपद्मसंस्पर्शात्पवित्रा च वसुन्धरा ॥ ५३॥ ब्रह्मादिभिरदृष्टा या सर्वैर्दृष्टा च भारते । स्त्रीरत्नसारसम्भूता कृष्णवक्षःस्थले स्थिता ॥ ५४॥ यथाम्बरे नवघने लोला सौदामनी मुने । षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ॥ ५५॥ यत्पादपद्मनखरदृष्टये चात्मशुद्धये । न च दृष्टं च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा ॥ ५६॥ तेनैव तपसा दृष्टा भुवि वृन्दावने वने । कथिता पञ्चमी देवी सा राधा च प्रकीर्तिता ॥ ५७॥ अंशरूपाः कलारूपाः कलांशांशांशसम्भवाः । प्रकृतेः प्रतिविश्वेषु देव्यश्च सर्वयोषितः ॥ ५८॥ परिपूर्णतमाः पञ्च विद्यादेव्यः प्रकीर्तिताः । या याः प्रधानांशरूपा वर्णयामि निशामय ॥ ५९॥ प्रधानांशस्वरूपा सा गङ्गा भुवनपावनी । विष्णुविग्रहसम्भूता द्रवरूपा सनातनी ॥ ६०॥ पापिपापेध्मदाहाय ज्वलदग्निस्वरूपिणी । सुखस्पर्शा स्नानपानैर्निर्वाणपददायिनी ॥ ६१॥ गोलोकस्थानप्रस्थानसुखसोपानरूपिणी । पवित्ररूपा तीर्थानां सरितां च परावरा ॥ ६२॥ शम्भुमौलिजटामेरुमुक्तापङ्क्तिस्वरूपिणी । तपःसम्पादिनी सद्यो भारतेषु तपस्विनाम् ॥ ६३॥ चन्द्रपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी । निर्मला निरहङ्कारा साध्वी नारायणप्रिया ॥ ६४॥ प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी । विष्णुभूषणरूपा च विष्णुपादस्थिता सती ॥ ६५॥ तपःसङ्कल्पपूजादिसङ्घसम्पादिनी मुने । सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ॥ ६६॥ दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी । कलौ कलुषशुष्केध्मदहनायाग्निरूपिणी ॥ ६७॥ यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा । यत्स्पर्शदर्शने चैवेच्छन्ति तीर्थानि शुद्धये ॥ ६८॥ यया विना च विश्वेषु सर्वकर्म च निष्फलम् । मोक्षदा या मुमुक्षूणां कामिनी सर्वकामदा ॥ ६९॥ कल्पवृक्षस्वरूपा या भारते वृक्षरूपिणी । भारतीनां प्रीणनाय जाता या परदेवता ॥ ७०॥ प्रधानांशस्वरूपा या मनसा कश्यपात्मजा । शङ्करप्रियशिष्या च महाज्ञानविशारदा ॥ ७१॥ नागेश्वरस्यानन्तस्य भगिनी नागपूजिता । नागेश्वरी नागमाता सुन्दरी नागवाहिनी ॥ ७२॥ नागेन्द्रगणसंयुक्ता नागभूषणभूषिता । नागेन्द्रवन्दिता सिद्धा योगिनी नगशायिनी ॥ ७३॥ विष्णुरूपा विष्णुभक्ता विष्णुपूजापरायणा । तपःस्वरूपा तपसां फलदात्री तपस्विनी ॥ ७४॥ दिव्यं त्रिलक्षवर्षं च तपस्तप्त्वा च या हरेः । तपस्विनीषु पूज्या च तपस्विषु च भारते ॥ ७५॥ सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा । ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ॥ ७६॥ जरत्कारुमुनेः पत्नी कृष्णांशस्य पतिव्रता । आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम् ॥ ७७॥ प्रधानांशस्वरूपा या देवसेना च नारद । मातृकासु पूज्यतमा सा षष्ठी च प्रकीर्तिता ॥ ७८॥ पुत्रपौत्रादिदात्री च धात्री त्रिजगतां सती । षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ॥ ७९॥ स्थाने शिशूनां परमा वृद्धरूपा च योगिनी । पूजा द्वादशमासेषु यस्या विश्वेषु सन्ततम् ॥ ८०॥ पूजा च सूतिकागारे पुरा षष्ठदिने शिशोः । एकविंशतिमे चैव पूजा कल्याणहेतुकी ॥ ८१॥ मुनिभिर्नमिता चैषा नित्यकामाप्यतः परा । मातृका च दयारूपा शश्वद्रक्षणकारिणी ॥ ८२॥ जले स्थले चान्तरिक्षे शिशूनां सद्मगोचरे । प्रधानांशस्वरूपा च देवीमङ्गलचण्डिका ॥ ८३॥ प्रकृतेर्मुखसम्भूता सर्वमङ्गलदा सदा । सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ॥ ८४॥ तेन मङ्गलचण्डी सा पण्डितैः परिकीर्तिता । प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ॥ ८५॥ पुत्रपौत्रधनैश्वर्ययशोमङ्गलदायिनी । परितुष्टा सर्ववाञ्छाप्रदात्री सर्वयोषिताम् ॥ ८६॥ रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी । प्रधानांशस्वरूपा सा काली कमललोचना ॥ ८७॥ दुर्गाललाटसम्भूता रणे शुम्भनिशुम्भयोः । दुर्गार्धांशस्वरूपा सा गुणेन तेजसा समा ॥ ८८॥ कोटिसूर्यसमाजुष्टपुष्टजाज्वलविग्रहा । प्रधाना सर्वशक्तीनां बला बलवती परा ॥ ८९॥ सर्वसिद्धिप्रदा देवी परमा योगरूपिणी । कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ॥ ९०॥ कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी । संहर्तुं सर्वब्रह्माण्डं शक्ता निःश्वासमात्रतः ॥ ९१॥ रणं दैत्यैः समं तस्याः क्रीडया लोकशिक्षया । धर्मार्थकाममोक्षांश्च दातुं शक्ता च पूजिता ॥ ९२॥ ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः । प्रधानांशस्वरूपा सा प्रकृतेश्च वसुन्धरा ॥ ९३॥ आधाररूपा सर्वेषां सर्वसस्या प्रकीर्तिता । रत्नाकरा रत्नगर्भा सर्वरत्नाकराश्रया ॥ ९४॥ प्रजाभिश्च प्रजेशैश्च पूजिता वन्दिता सदा । सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ॥ ९५॥ यया विना जगत्सर्वं निराधारं चराचरम् । प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ॥ ९६॥ यस्य यस्य च या पत्नी तत्सर्वं वर्णयामि ते । स्वाहादेवी वह्निपत्नी प्रतिविश्वेषु पूजिता ॥ ९७॥ यया विना हविर्दानं न ग्रहीतुं सुराः क्षमाः । दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ॥ ९८॥ यया विना हि विश्वेषु सर्वकर्म हि निष्फलम् । स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ॥ ९९॥ पूजिता पितृदानं हि निष्कलं च यया विना । स्वस्तिदेवी वायुपत्नी प्रतिविश्वेषु पूजिता ॥ १००॥ आदानं च प्रदानं च निष्फलं च यया विना । पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ॥ १०१॥ यया विना परिक्षीणाः पुमांसो योषितोऽपि च । अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता भवेत् ॥ १०२॥ यया विना न सन्तुष्टाः सर्वलोकाश्च सर्वतः । ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ॥ १०३॥ सर्वे लोका दरिद्राश्च विश्वेषु च यया विना । धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ॥ १०४॥ सर्वे लोका अधैर्याश्च जगत्सु च यया विना । सत्यपत्नी सती मुक्तैः पूजिता च जगत्प्रिया ॥ १०५॥ यया विना भवेल्लोको बन्धुतारहितः सदा । मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ॥ १०६॥ सर्वे लोकाश्च सर्वत्र निष्फलाश्च यया विना । पुण्यपत्नी प्रतिष्ठा सा पूजिता पुण्यदा सदा ॥ १०७॥ यया विना जगत्सर्वं जीवन्मृतसमं मुने । सुकर्मपत्नी संसिद्धा कीर्तिर्धन्यैश्च पूजिता ॥ १०८॥ यया विना जगत्सर्वं यशोहीनं मृतं यथा । क्रिया तूद्योगपत्नी च पूजिता सर्वसम्मता ॥ १०९॥ यया विना जगत्सर्वं विधिहीनं च नारद । अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ॥ ११०॥ यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् । सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ॥ १११॥ अर्धावयवरूपा च द्वापरे चैव संवृता । कलौ महाप्रगल्भा च सर्वत्र व्यापिका बलात् ॥ ११२॥ कपटेन समं भ्रात्रा भ्रमते च गृहे गृहे । शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ॥ ११३॥ याभ्यां विना जगत्सर्वमुन्मत्तमिव नारद । ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधाधृतिस्तथा ॥ ११४॥ याभिर्विना जगत्सर्वं मूढं मत्तसमं सदा । मूर्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ॥ ११५॥ परमात्मा च विश्वौघो निराधारो यया विना । सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ॥ ११६॥ श्रीरूपा मूर्तिरूपा च मान्या धन्यातिपूजिता । कालाग्नी रुद्रपत्नी च निद्रा सा सिद्धयोगिनी ॥ ११७॥ सर्वे लोकाः समाच्छन्ना यया योगेन रात्रिषु । कालस्य तिस्रो भार्याश्च सन्ध्या रात्रिर्दिनानि च ॥ ११८॥ याभिर्विना विधाता च सङ्ख्यां कर्तुं न शक्यते । क्षुत्पिपासे लोभभार्ये धन्ये मान्ये च पूजिते ॥ ११९॥ याभ्यां व्याप्तं जगत्सर्वं नित्यं चिन्तातुरं भवेत् । प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ॥ १२०॥ याभ्यां विना जगत्स्रष्टा विधातुं च न हीश्वरः । कालकन्ये मृत्युजरे प्रज्वारस्य प्रियाप्रिये ॥ १२१॥ याभ्यां जगत्समुच्छिन्नं विधात्रा निर्मितं विधौ । निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये ॥ १२२॥ याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ । वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ॥ १२३॥ याभ्यां शश्वज्जगत्सर्वं यज्जीवन्मुक्तिमन्मुने । अदितिर्देवमाता च सुरभी च गवां प्रसूः ॥ १२४॥ दितिश्च दैत्यजननी कद्रूश्च विनता दनुः । उपयुक्ताः सृष्टिविधावेतास्तु कीर्तिताः कलाः ॥ १२५॥ कला अन्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे । रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ॥ १२६॥ शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी । तारा बृहस्पतेर्भार्या वसिष्ठस्याप्यरुन्धती ॥ १२७॥ अहल्या गौतमस्त्री साप्यनसूयात्रिकामिनी । देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ॥ १२८॥ पितॄणां मानसी कन्या मेनका साम्बिकाप्रसूः । लोपामुद्रा तथा कुन्ती कुबेरकामिनी तथा ॥ १२९॥ वरुणानी प्रसिद्धा च बलेर्विन्ध्यावलिस्तथा । कान्ता च दमयन्ती च यशोदा देवकी तथा ॥ १३०॥ गान्धारी द्रौपदी शैव्या सा च सत्यवती प्रिया । वृषभानुप्रिया साध्वी राधामाता कुलोद्वहा ॥ १३१॥ मन्दोदरी च कौसल्या सुभद्रा कौरवी तथा । रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ॥ १३२॥ जाम्बवती नाग्नजितिर्मित्रविन्दा तथापरा । लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ॥ १३३॥ काली योजनगन्धा च व्यासमाता महासती । बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ॥ १३४॥ प्रभावती भानुमती तथा मायावती सती । रेणुका च भृगोर्माता राममाता च रोहिणी ॥ १३५॥ एकनन्दा च दुर्गा सा श्रीकृष्णभगिनी सती । बह्व्यः सत्यः कलाश्चैव प्रकृतेरेव भारते ॥ १३६॥ या याश्च ग्रामदेव्यः स्युस्ताः सर्वाः प्रकृतेः कलाः । कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ॥ १३७॥ योषितामवमानेन प्रकृतेश्च पराभवः । ब्राह्मणी पूजिता येन पतिपुत्रवती सती ॥ १३८॥ प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः । कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः ॥ १३९॥ पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता । सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः ॥ १४०॥ सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः । मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्तिताः ॥ १४१॥ सुखसम्भोगवश्याश्च स्वकार्ये तत्पराः सदा । अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ॥ १४२॥ दुर्मुखाः कुलहा धूर्ताः स्वतन्त्राः कलहप्रियाः । पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ॥ १४३॥ प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्तिताः । एवं निगदितं सर्वं प्रकृते रूपवर्णनम् ॥ १४४॥ ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते । पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ॥ १४५॥ ततः श्रीरामचन्द्रेण रावणस्य वधार्थिना । तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ॥ १४६॥ जाताऽऽदौ दक्षकन्या या निहत्य दैत्यदानवान् । ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ॥ १४७॥ जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् । गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ॥ १४८॥ बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद । लक्ष्मीर्मङ्गलभूपेन प्रथमं परिपूजिता ॥ १४९॥ त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः । सावित्री चाश्वपतिना प्रथमं परिपूजिता ॥ १५०॥ तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ॥ १५१॥ तत्पश्चात्त्रिषु लोकेषु देवतामुनिपुङ्गवैः । प्रथमं पूजिता राधा गोलोके रासमण्डले ॥ १५२॥ पौर्णमास्यां कार्तिकस्य कृष्णेन परमात्मना । गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ॥ १५३॥ गवां गणैः सुरभ्या च तत्पश्चादाज्ञया हरेः । तदा ब्रह्मादिभिर्देवैर्मुनिभिः परया मुदा ॥ १५४॥ पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा । पृथिव्यां प्रथमं देवी सुयज्ञेनैव पूजिता ॥ १५५॥ शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते । त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ॥ १५६॥ पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सदा । कला या याः समुद्भूता पूजितास्ताश्च भारते ॥ १५७॥ पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने । एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ॥ १५८॥ यथागमं लक्षणं च किं भूयः श्रोतुमिच्छसि ॥ १५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे प्रकृतिचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ ९.१॥

९.२ द्वितीयोऽध्यायः । पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनम् ।

नारद उवाच । समासेन श्रुतं सर्वं देवीनां चरितं प्रभो । विबोधनाय बोधस्य व्यासेन वक्तुमर्हसि ॥ १॥ सृष्टेराद्या सृष्टिविधौ कथमाविर्बभूव ह । कथं वा पञ्चधा भूता वद वेदविदांवर ॥ २॥ भूता ययांशकलया तया त्रिगुणया भवे । व्यासेन तासां चरितं श्रोतुमिच्छामि साम्प्रतम् ॥ ३॥ तासां जन्मानुकथनं पूजाध्यानविधिं बुध । स्तोत्रं कवचमैश्वर्यं शौर्यं वर्णय मङ्गलम् ॥ ४॥ श्रीनारायण उवाच । नित्य आत्मा नभो नित्यं कालो नित्यो दिशो यथा । विश्वानां गोलकं नित्यं नित्यो गोलोक एव च ॥ ५॥ तदेकदेशो वैकुण्ठो नम्रभागानुसारकः । तथैव प्रकृतिर्नित्या ब्रह्मलीला सनातनी ॥ ६॥ यथाग्नौ दाहिका चन्द्रे पद्मे शोभा प्रभा रवौ । शश्वद्युक्ता न भिन्ना सा तथा प्रकृतिरात्मनि ॥ ७॥ विना स्वर्णं स्वर्णकारः कुण्डलं कर्तुमक्षमः । विना मृदा घटं कर्तुं कुलालो हि नहीश्वरः ॥ ८॥ न हि क्षमस्तथात्मा च सृष्टिं स्रष्टुं तया विना । सर्वशक्तिस्वरूपा सा यया च शक्तिमान्सदा ॥ ९॥ ऐश्वर्यवचनः शश्च क्तिः पराक्रम एव च । तत्स्वरूपा तयोर्दात्री सा शक्तिः परिकीर्तिता ॥ १०॥ ज्ञानं समृद्धिः सम्पत्तिर्यशश्चैव बलं भगः । तेन शक्तिर्भगवती भगरूपा च सा सदा ॥ ११॥ तया युक्तः सदात्मा च भगवांस्तेन कथ्यते । स च स्वेच्छामयो देवः साकारश्च निराकृतिः ॥ १२॥ तेजोरूपं निराकारं ध्यायन्ते योगिनः सदा । वदन्ति च परं ब्रह्म परमानन्दमीश्वरम् ॥ १३॥ अदृश्यं सर्वद्रष्टारं सर्वज्ञं सर्वकारणम् । सर्वदं सर्वरूपं तं वैष्णवास्तन्न मन्वते ॥ १४॥ वदन्ति चैव ते कस्य तेजस्तेजस्विना विना । तेजोमण्डलमध्यस्थं ब्रह्म तेजस्विनं परम् ॥ १५॥ स्वेच्छामयं सर्वरूपं सर्वकारणकारणम् । अतीव सुन्दरं रूपं बिभ्रतं सुमनोहरम् ॥ १६॥ किशोरवयसं शान्तं सर्वकान्तं परात्परम् । नवीननीरदाभासधामैकं श्यामविग्रहम् ॥ १७॥ शरन्मध्याह्नपद्मौघशोभामोचनलोचनम् । मुक्ताच्छविविनिन्द्यैकदन्तपङ्क्तिमनोरमम् ॥ १८॥ मयूरपिच्छचूडं च मालतीमाल्यमण्डितम् । सुनसं सस्मितं कान्तं भक्तानुग्रहकारणम् ॥ १९॥ ज्वलदग्निविशुद्धैकपीतांशुकसुशोभितम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ २०॥ सर्वाधारं च सर्वेशं सर्वशक्तियुतं विभुम् । सर्वैश्वर्यप्रदं सर्वस्वतन्त्रं सर्वमङ्गलम् ॥ २१॥ परिपूर्णतमं सिद्धं सिद्धेशं सिद्धिकारकम् । ध्यायन्ते वैष्णवाः शश्वद्देवदेवं सनातनम् ॥ २२॥ जन्ममृत्युजराव्याधिशोकभीतिहरं परम् । ब्रह्मणो वयसा यस्य निमेष उपचर्यते ॥ २३॥ स चात्मा स परं ब्रह्म कृष्ण इत्यभिधीयते । कृषिस्तद्भक्तिवचनो नश्च तद्दास्यवाचकः ॥ २४॥ भक्तिदास्यप्रदाता यः स च कृष्णः प्रकीर्तितः । कृषिश्च सर्ववचनो नकारो बीजमेव च ॥ २५॥ स कृष्णः सर्वस्रष्टाऽऽदौ सिसृक्षन्नेक एव च । सृष्ट्युन्मुखस्तदंशेन कालेन प्रेरितः प्रभुः ॥ २६॥ स्वेच्छामयः स्वेच्छया च द्विधारूपो बभूव ह । स्त्रीरूपो वामभागांशो दक्षिणांशः पुमान्स्मृतः ॥ २७॥ तां ददर्श महाकामी कामाधारां सनातनः । अतीव कमनीया च चारुपङ्कजसन्निभाम् ॥ २८॥ चन्द्रबिम्बविनिन्द्यैकनितम्बयुगलां पराम् । सुचारुकदलीस्तम्भनिन्दितश्रोणिसुन्दरीम् ॥ २९॥ श्रीयुक्तश्रीफलाकारस्तनयुग्ममनोरमाम् । पुष्पजुष्टां सुवलितां मध्यक्षीणां मनोहराम् ॥ ३०॥ अतीव सुन्दरीं शान्तां सस्मितां वक्रलोचनाम् । वह्निशुद्धांशुकाधारां रत्नभूषणभूषिताम् ॥ ३१॥ शश्वच्चक्षुश्चकोराभ्यां पिबन्तीं सततं मुदा । कृष्णस्य मुखचन्द्रं च चन्द्रकोटिविनिन्दितम् ॥ ३२॥ कस्तूरीबिन्दुना सार्धमधश्चन्दनबिन्दुना । समं सिन्दूरबिन्दुं च भालमध्ये च बिभ्रतीम् ॥ ३३॥ वक्रिमं कबरीभारं मालतीमाल्यभूषितम् । रत्नेन्द्रसारहारं च दधतीं कान्तकामुकीम् ॥ ३४॥ कोटिचन्द्रप्रभामृष्टपुष्टशोभासमन्विताम् । गमनेन राजहंसगजगर्वविनाशिनीम् ॥ ३५॥ दृष्ट्वा तां तु तया सार्धं रासेशो रासमण्डले । रासोल्लासे सुरसिको रासक्रीडाञ्चकार ह ॥ ३६॥ नानाप्रकारश‍ृङ्गारं श‍ृङ्गारो मूर्तिमानिव । चकार सुखसम्भोगं यावद्वै ब्रह्मणो दिनम् ॥ ३७॥ ततः स च परिश्रान्तस्तस्या योनौ जगत्पिता । चकार वीर्याधानं च नित्यानन्दे शुभक्षणे ॥ ३८॥ गात्रतो योषितस्तस्याः सुरतान्ते च सुव्रत । निःससार श्रमजलं श्रान्तायास्तेजसा हरेः ॥ ३९॥ महाक्रमणक्लिष्टाया निःश्वासश्च बभूव ह । तदा वव्रे श्रमजलं तत्सर्वं विश्वगोलकम् ॥ ४०॥ स च निःश्वासवायुश्च सर्वाधारो बभूव ह । निःश्वासवायुः सर्वेषां जीविनां च भवेषु च ॥ ४१॥ बभूव मूर्तिमद्वायोर्वामाङ्गात्प्राणवल्लभा । तत्पत्नी सा च तत्पुत्राः प्राणाः पञ्च च जीविनाम् ॥ ४२॥ प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । बभूवुरेव तत्पुत्रा अधः प्राणाश्च पञ्च च ॥ ४३॥ घर्मतोयाधिदेवश्च बभूव वरुणो महान् । तद्वामाङ्गाच्च तत्पत्नी वरुणानी बभूव सा ॥ ४४॥ अथ सा कृष्णचिच्छक्तिः कृष्णगर्भं दधार ह । शतमन्वन्तरं यावज्ज्वलन्ती ब्रह्मतेजसा ॥ ४५॥ कृष्णप्राणाधिदेवी सा कृष्णप्राणाधिकप्रिया । कृष्णस्य सङ्गिनी शश्वत्कृष्णवक्षःस्थलस्थिता ॥ ४६॥ शतमन्वन्तरान्ते च कालेऽतीते तु सुन्दरी । सुषाव डिम्भं स्वर्णाभं विश्वाधारालयं परम् ॥ ४७॥ दृष्ट्वा डिम्भं च सा देवी हृदयेन व्यदूयत । उत्ससर्ज च कोपेन ब्रह्माण्डगोलके जले ॥ ४८॥ दृष्ट्वा कृष्णश्च तत्त्यागं हाहाकारं चकार ह । शशाप देवीं देवेशस्तत्क्षणं च यथोचितम् ॥ ४९॥ यतोऽपत्यं त्वया त्यक्तं कोपशीले च निष्ठुरे । भव त्वमनपत्यापि चाद्यप्रभृति निश्चितम् ॥ ५०॥ या यास्त्वदंशरूपाश्च भविष्यन्ति सुरस्त्रियः । अनपत्याश्च ताः सर्वास्त्वत्समा नित्ययौवनाः ॥ ५१॥ एतस्मिन्नन्तरे देवी जिह्वाग्रात्सहसा ततः । आविर्बभूव कन्यैका शुक्लवर्णा मनोहरा ॥ ५२॥ श्वेतवस्त्रपरीधाना वीणापुस्तकधारिणी । रत्नभूषणभूषाढ्या सर्वशास्त्राधिदेवता ॥ ५३॥ अथ कालान्तरे सा च द्विधारूपो बभूव ह । वामार्धाङ्गाच्च कमला दक्षिणार्धाच्च राधिका ॥ ५४॥ एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । दक्षिणार्धश्च द्विभुजो वामार्धश्च चतुर्भुजः ॥ ५५॥ उवाच वाणीं कृष्णस्तां त्वमस्य कामिनी भव । अत्रैव मानिनी राधा तव भद्रं भविष्यति ॥ ५६॥ एवं लक्ष्मीं च प्रददौ तुष्टो नारायणाय च । स जगाम च वैकुण्ठं ताभ्यां सार्धं जगत्पतिः ॥ ५७॥ अनपत्ये च ते द्वे च जाते राधांशसम्भवे । भूता नारायणाङ्गाच्च पार्षदाश्च चतुर्भुजाः ॥ ५८॥ तेजसा वयसा रूपगुणाभ्यां च समा हरेः । बभूवुः कमलाङ्गाच्च दासीकोट्यश्च तत्समाः ॥ ५९॥ अथ गोलोकनाथस्य लोम्नां विवरतो मुने । भूताश्चासङ्ख्यगोपाश्च वयसा तेजसा समाः ॥ ६०॥ रूपेण च गुणेनैव बलेन विक्रमेण च । प्राणतुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥ ६१॥ राधाङ्गलोमकूपेभ्यो बभूवुर्गोपकन्यकाः । राधातुल्याश्च ताः सर्वा राधादास्यः प्रियंवदाः ॥ ६२॥ रत्नभूषणभूषाढ्याः शश्वत्सुस्थिरयौवनाः । अनपत्याश्च ताः सर्वाः पुंसः शापेन सन्ततम् ॥ ६३॥ एतस्मिन्नन्तरे विप्र सहसा कृष्णदेवता । आविर्बभूव दुर्गा सा विष्णुमाया सनातनी ॥ ६४॥ देवी नारायणीशाना सर्वशक्तिस्वरूपिणी । बुद्ध्यधिष्ठात्री देवी सा कृष्णस्य परमात्मनः ॥ ६५॥ देवीनां बीजरूपा च मूलप्रकृतिरीश्वरी । परिपूर्णतमा तेजःस्वरूपा त्रिगुणात्मिका ॥ ६६॥ तप्तकाञ्चनवर्णाभा कोटिसूर्यसमप्रभा । ईषद्धास्यप्रसन्नास्या सहस्रभुजसंयुता ॥ ६७॥ नानाशस्त्रास्त्रनिकरं बिभ्रती सा त्रिलोचना । वह्निशुद्धांशुकाधाना रत्नभूषणभूषिता ॥ ६८॥ यस्याश्चांशांशकलया बभूवुः सर्वयोषितः । सर्वे विश्वस्थिता लोका मोहिताः स्युश्च मायया ॥ ६९॥ सर्वैश्वर्यप्रदात्री च कामिनां गृहवासिनाम् । कृष्णभक्तिप्रदा या च वैष्णवानां च वैष्णवी ॥ ७०॥ मुमुक्षूणां मोक्षदात्री सुखिनां सुखदायिनी । स्वर्गेषु स्वर्गलक्ष्मीश्च गृहलक्ष्यीर्गृहेषु च ॥ ७१॥ तपस्विषु तपस्या च श्रीरूपा तु नृपेषु च । या वह्नौ दाहिकारूपा प्रभारूपा च भास्करे ॥ ७२॥ शोभारूपा च चन्द्रे च सा पद्मेषु च शोभना । सर्वशक्तिस्वरूपा या श्रीकृष्णे परमात्मनि ॥ ७३॥ यया च शक्तिमानात्मा यया च शक्तिमज्जगत् । यया विना जगत्सर्वं जीवन्मृतमिव स्थितम् ॥ ७४॥ या च संसारवृक्षस्य बीजरूपा सनातनी । स्थितिरूपा वृद्धिरूपा फलरूपा च नारद ॥ ७५॥ क्षुत्पिपासादयारूपा निद्रा तन्द्रा क्षमा मतिः । शान्तिलज्जातुष्टिपुष्टिभ्रान्तिकान्त्यादिरूपिणी ॥ ७६॥ सा च संस्तूय सर्वेशं तत्पुरः समुवास ह । रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ ७७॥ एतस्मिन्नन्तरे तत्र सस्त्रीकश्च चतुर्मुखः । पद्मनाभेर्नाभिपद्मान्निःससार महामुने ॥ ७८॥ कमण्डलुधरः श्रीमांस्तपस्वी ज्ञानिनां वरः । चतुर्मुखैस्तं तुष्टाव प्रज्वलन्ब्रह्मतेजसा ॥ ७९॥ सा तदा सुन्दरी सृष्टा शतचन्द्रसमप्रभा । वह्निशुद्धांशुकाधाना रत्नभूषणभूषणा ॥ ८०॥ रत्नसिंहासने रम्ये संस्तूय सर्वकारणम् । उवास स्वामिना सार्धं कृष्णस्य पुरतो मुदा ॥ ८१॥ एतस्मिन्नन्तरे कृष्णो द्विधारूपो बभूव सः । वामार्धाङ्गो महादेवो दक्षिणे गोपिकापतिः ॥ ८२॥ शुद्धस्फटिकसङ्काशः शतकोटिरविप्रभः । त्रिशूलपट्टिशधरो व्याघ्रचर्माम्बरो हरः ॥ ८३॥ तप्तकाञ्चनवर्णाभो जटाभारधरः परः । भस्मभूषितगात्रश्च सस्मितश्चन्द्रशेखरः ॥ ८४॥ दिगम्बरो नीलकण्ठः सर्पभूषणभूषितः । बिभ्रद्दक्षिणहस्तेन रत्नमालां सुसंस्कृताम् ॥ ८५॥ प्रजपन्पञ्चवक्त्रेण ब्रह्मज्योतिः सनातनम् । सत्यस्वरूपं श्रीकृष्णं परमात्मानमीश्वरम् ॥ ८६॥ कारणं कारणानां च सर्वमङ्गलमङ्गलम् । जन्ममृत्युजराव्याधिशोकभीतिहरं परम् ॥ ८७॥ संस्तूय मृत्योर्मृत्युं तं यतो मृत्युञ्जयाभिधः । रत्नसिंहासने रम्ये समुवास हरेः पुरः ॥ ८८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पञ्चप्रकृतितद्भर्तृगणोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ ९.२॥

९.३ तृतीयोऽध्यायः । ब्रह्मविष्णुमहेश्वरादिदेवतोत्पत्तिवर्णनम् ।

श्रीनारायण उवाच । अथ डिम्भो जले तिष्ठन्यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधाभूतो बभूव ह ॥ १॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमाणश्च स्तनान्धः पीडितः क्षुधा ॥ २॥ पित्रा मात्रा परित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डासङ्ख्यनाथो यो ददर्शोर्ध्वमनाथवत् ॥ ३॥ स्थूलास्थूलतमः सोऽपि नाम्ना देवो महाविराट् । परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाप्यसौ ॥ ४॥ तेजसा षोडशांशोऽयं कृष्णस्य परमात्मनः । आधारः सर्वविश्वानां महाविष्णुश्च प्राकृतः ॥ ५॥ प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । अस्यापि तेषां सङ्ख्यां च कृष्णो वक्तुं न हि क्षमः ॥ ६॥ सङ्ख्या चेद्रजसामस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा सङ्ख्या न विद्यते ॥ ७॥ प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद् ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्तितम् ॥ ८॥ तत ऊर्ध्वं च वैकुण्ठो ब्रह्माण्डाद् बहिरेव सः । तत ऊर्ध्वं च गोलोकः पञ्चाशत्कोटियोजनः ॥ ९॥ नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् । सप्तद्वीपमिता पृध्वी सप्तसागरसंयुता ॥ १०॥ ऊनपञ्चाशदुपद्वीपासङ्ख्यशैलवनान्विता । ऊर्ध्वं सप्त स्वर्गलोका ब्रह्यलोकसमन्विताः ॥ ११॥ पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च । ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परम् ॥ १२॥ ततः परश्च स्वर्लोको जनलोकस्तथा परः । ततः परस्तपोलोकः सत्यलोकस्ततः परः ॥ १३॥ ततः परं ब्रह्मलोकस्तप्तकाञ्चनसन्निभः । एवं सर्वं कृत्रिमं च बाह्याभ्यन्तरमेव च ॥ १४॥ तद्विनाशे विनाशश्च सर्वेषामेव नारद । जलबुद्बुदवत्सर्वं विश्वसङ्घमनित्यकम् ॥ १५॥ नित्यौ गोलोकवैकुण्ठौ प्रोक्तौ शश्वदकृत्रिमौ । प्रत्येकं लोमकूपेषु ब्रह्माण्डं परिनिश्चितम् ॥ १६॥ एषां सङ्ख्यां न जानाति कृष्णोऽन्यस्यापि का कथा । प्रत्येकं प्रतिब्रह्माण्डं ब्रह्मविष्णुशिवादयः ॥ १७॥ तिस्रः कोट्यः सुराणां च सङ्ख्या सर्वत्र पुत्रक । दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ॥ १८॥ भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः । अथ कालेऽत्र स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ॥ १९॥ डिम्भान्तरे च शून्यं च न द्वितीयं च किञ्चन । चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ॥ २०॥ ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् । ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ॥ २१॥ नवीनजलदश्यामं द्विभुजं पीतवाससम् । सस्मितं मुरलीहस्तं भक्तानुग्रहकातरम् ॥ २२॥ जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् । वरं तदा ददौ तस्मै वरेशः समयोचितम् ॥ २३॥ मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्जितः । ब्रह्माण्डासङ्ख्यनिलयो भव वत्स लयावधि ॥ २४॥ निष्कामो निर्भयश्चैव सर्वेषां वरदो भव । जरामृत्युरोगशोकपीडादिवर्जितो भव ॥ २५॥ इत्युक्त्वा तस्य कर्णे स महामन्त्रं षडक्षरम् । त्रिःकृत्वश्च प्रजजाप वेदाङ्गप्रवरं परम् ॥ २६॥ प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् । वह्निजायान्तमिष्टं च सर्वविघ्नहरं परम् ॥ २७॥ मन्त्रं दत्त्वा तदाहारं कल्पयामास वै विभुः । श्रूयतां तद् ब्रह्मपुत्र निबोध कथयामि ते ॥ २८॥ प्रतिविश्वं यन्नैवेद्यं ददाति वैष्णवो जनः । तत्षोडशांशो विषयिणो विष्णोः पज्वदशास्य वै ॥ २९॥ निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च । नैवेद्ये चैव कृष्णस्य न हि किञ्चित्प्रयोजनम् ॥ ३०॥ यद्यद्ददाति नैवेद्यं तस्मै देवाय यो जनः । स च खादति तत्सर्वं लक्ष्मीनाथो विराट् तथा ॥ ३१॥ तं च मन्त्रवरं दत्त्वा तमुवाच पुनर्विभुः । वरमन्यं किमिष्टं ते तन्मे ब्रूहि ददामि च ॥ ३२॥ कृष्णस्य वचनं श्रुत्वा तमुवाच विराड् विभुः । कृष्णं तं बालकस्तावद्वचनं समयोचितम् ॥ ३३॥ बालक उवाच । वरो मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला । सततं यावदायुर्मे क्षणं वा सुचिरं च वा ॥ ३४॥ त्वद्भक्तियुक्तलोकेऽस्मिञ्जीवन्मुक्तश्च सन्ततम् । त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥ ३५॥ किं तज्जपेन तपसा यज्ञेन पूजनेन च । व्रतेन चोपवासेन पुण्येन तीर्थसेवया ॥ ३६॥ कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा । येनात्मना जीवितश्च तमेव न हि मन्यते ॥ ३७॥ यावदात्मा शरीरेऽस्ति तावत्स शक्तिसंयुतः । पश्चाद्यान्ति गते तस्मिन्स्वतन्त्राः सर्वशक्तयः ॥ ३८॥ स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः । स्वेच्छामयश्च सर्वाद्यो ब्रह्मज्योतिः सनातनः ॥ ३९॥ इत्युक्त्वा बालकस्तत्र विरराम च नारद । उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥ ४०॥ श्रीकृष्ण उवाच । सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव । ब्रह्मणोऽसङ्ख्यपाते च पातस्ते न भविष्यति ॥ ४१॥ अंशेन प्रतिब्रह्माण्डे त्वं च क्षुद्रविराड् भव । त्वन्नाभिपद्माद् ब्रह्मा च विश्वस्रष्टा भविष्यति ॥ ४२॥ ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव ते । शिवांशेन भविष्यन्ति सृष्टिसंहरणाय वै ॥ ४३॥ कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः । पाता विष्णुश्च विषयी रुद्रांशेन भविष्यति ॥ ४४॥ मद्भक्तियुक्तः सततं भविष्यसि वरेण मे । ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥ ४५॥ मातरं कमनीयां च मम वक्षःस्थलस्थिताम् । यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥ ४६॥ गत्वा स्वलोकं ब्रह्माणं शङ्करं समुवाच ह । स्रष्टारं स्रष्टुमीशं च संहर्तुं चैव तत्क्षणम् ॥ ४७॥ श्रीभगवानुवाच । सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव । महाविराड् लोमकूपे क्षुद्रस्य च विधे श‍ृणु ॥ ४८॥ गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव । अंशेन च महाभाग स्वयं च सुचिरं तप ॥ ४९॥ इत्युक्त्वा जगतां नाथो विरराम विधेः सुत । जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ ५०॥ महाविराड् लोमकूपे ब्रह्माण्डगोलके जले । बभूव च विराट् क्षुद्रो विराडंशेन साम्प्रतम् ॥ ५१॥ श्यामो युवा पीतवासाः शयानो जलतल्पके । ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्दनः ॥ ५२॥ तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः । सम्भूय पद्मदण्डे च बभ्राम युगलक्षकम् ॥ ५३॥ नान्तं जगाम दण्डस्य पद्मनालस्य पद्मजः । नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥ ५४॥ स्वस्थानं पुनरागम्य दध्यौ कृष्णपदाम्बुजम् । ततो ददर्श क्षुद्रं तं ध्यानेन दिव्यचक्षुषा ॥ ५५॥ शयानं जलतल्पे च ब्रह्माण्डगोलकाप्लुते । यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ॥ ५६॥ श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् । तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ॥ ५७॥ बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः । ततो रुद्रकलाश्चापि शिवस्यैकादश स्मृताः ॥ ५८॥ बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः । चतुर्भुजश्च भगवान् श्वेतद्वीपे स चावसत् ॥ ५९॥ क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज ह । स्वर्गं मर्त्यं च पातालं त्रिलोकीं सचराचराम् ॥ ६०॥ एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च । प्रतिविश्वे क्षुद्रविराड् ब्रह्मविष्णुशिवादयः ॥ ६१॥ इत्येवं कथितं ब्रह्मन् कृष्णसङ्कीर्तनं शुभम् । सुखदं मोक्षदं ब्रह्मन्किं भूयः श्रोतुमिच्छसि ॥ ६२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे ब्रह्मविष्णुमहेश्वरादि- देवतोत्पत्तिवर्णनं नाम तृतीयोऽध्यायः ॥ ९.३॥

९.४ चतुर्थोऽध्यायः । सरस्वतीस्तोत्रपूजाकवचादिवर्णनम् ।

नारद उवाच । श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् । अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १॥ कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता । केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ २॥ तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् । काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३॥ श्रीनारायण उवाच । गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती । सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४॥ आसां पूजा प्रसिद्धा च प्रभावः परमाद्भुतः । सुधोपमं च चरितं सर्वमङ्गलकारणम् ॥ ५॥ प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् । सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ ६॥ काली वसुन्धरा गङ्गा षष्ठी मङ्गलचण्डिका । तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७॥ सङ्क्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् । जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ८॥ दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् । तद्वत्पश्चात्प्रवक्ष्यामि सङ्क्षेपक्रमतः श‍ृणु ॥ ९॥ आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता । यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ १०॥ आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः । इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ ११॥ स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् । तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ १२॥ श्रीकृष्ण उवाच । भज नारायणं साध्वि मदंशं च चतुर्भुजम् । युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १३॥ कामज्ञं कामिनीनां च तासां च कामपूरकम् । कोटिकन्दर्पलावण्यं लीलालङ्कतमीश्वरम् ॥ १४॥ कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि । त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ १५॥ यो यस्माद् बलवान्वापि ततोऽन्यं रक्षितुं क्षमः । कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १६॥ सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः । तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १७॥ प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः । प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ १८॥ त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति । पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ १९॥ लोभमोहकामक्रोधमानहिंसाविवर्जिता । तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २०॥ तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति । गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ २१॥ प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् । माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ २२॥ मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः । वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ २३॥ मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि । भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ २४॥ कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च । जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ २५॥ कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् । कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २६॥ पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते । इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ २७॥ ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः । अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २८॥ सर्वे देवाश्च मुनयो नृपाश्च मानवादयः । बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ २९॥ नारद उवाच । पूजाविधानं कवचं ध्यानं चापि निरन्तरम् । पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ ३०॥ वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम । वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३१॥ श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् । जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ ३२॥ माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च । पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥ ३३॥ स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः । स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥ ३४॥ गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् । ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥ ३५॥ ध्यात्वा पुनः षोडषोपचारेण पूजयेद् व्रती । पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥ ३६॥ वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् । नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥ ३७॥ इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु । स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥ ३८॥ अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् । घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥ ३९॥ यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् । पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥ ४०॥ परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् । नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥ ४१॥ पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् । कालदेशोद्भवं चारु फलं शुक्लं च संस्कतम् ॥ ४२॥ सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् । नवीनं शुक्लवस्त्रं च शङ्खं च सुन्दरं मुने ॥ ४३॥ माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् । यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥ ४४॥ तन्निबोध महाभाग भ्रमभञ्जनकारणम् । सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥ ४५॥ कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् । वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥ ४६॥ रत्नसारेन्द्रनिर्माणनवभूषणभूषिताम् । सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥ ४७॥ वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः । एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥ ४८॥ संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि । येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥ ४९॥ विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने । सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥ ५०॥ येषां येनोपदेशो वा तेषां स मूल एव च । सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ५१॥ लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः । पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥ ५२॥ प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते । भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥ ५३॥ चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा । भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥ ५४॥ आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ । विभाण्डको ददौ मेरौ ऋष्यश‍ृङ्गाय धीमते ॥ ५५॥ शिवः कणादमुनये गौतमाय ददौ मुदा । सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५६॥ शेषः पाणिनये चैव भारद्वाजाय धीमते । ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५७॥ चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् । यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥ ५८॥ कवचं श‍ृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा । विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥ ५९॥ भृगुरुवाच । ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद । सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥ ६०॥ सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो । अयातयामं मन्त्राणां समूहसंयुतं परम् ॥ ६१॥ ब्रह्मोवाच । श‍ृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२॥ उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३॥ अतीव गोपनीयं च कल्पवृक्षसमं परम् । अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४॥ यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । यद्धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ ६५॥ पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६६॥ कणादो गौतमः कण्वः पाणिनिः शाकटायनः । ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७॥ धृत्वा वेदविभागं च पुराणान्यखिलानि च । चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८॥ शातातपश्च संवर्तो वसिष्ठश्च पराशरः । यद्धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९॥ ऋष्यश‍ृङ्गो भरद्वाजश्चास्तिको देवलस्तथा । जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥ ७०॥ कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः । स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥ ७१॥ सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च । कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७२॥ श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः । श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥ ७३॥ ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् । ॐ श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥ ७४॥ ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु । ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥ ७५॥ ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपङ्क्तिं सदावतु । ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥ ७६॥ ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु । ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥ ७७॥ ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् । ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥ ७८॥ ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु । ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥ ७९॥ ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु । ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥ ८०॥ ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा । सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥ ८१॥ ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैरृत्यां सर्वदावतु । ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२॥ ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु । ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३॥ ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु । ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥ ८४॥ ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु । ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५॥ इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८६॥ पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ॥ ८८॥ पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् । यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ ८९॥ महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् । शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥ ९०॥ इदं च कण्वशाखोक्तं कवचं कथितं मुने । स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं श‍ृणु ॥ ९१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सरस्वतीस्तोत्र- पूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥ ९.४॥

९.५ पञ्चमोऽध्यायः । याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनम् ।

श्रीनारायण उवाच । वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥ गुरुशापाज्ज स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं सुपुण्यदम् ॥ २॥ सम्प्राप्य तपसा सूर्यं लोलार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद च मुहुर्मुहुः ॥ ३॥ सूर्यस्तं पाठयामास वेदं वेदाङ्गमीश्वरः । उवाच स्तौहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥ ४॥ तमित्युक्त्वा दीननाथोऽप्यन्तर्धानं चकार सः । मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५॥ याज्ञवल्क्य उवाच । कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥ ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्यप्रबोधिनीम् । ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ ७॥ प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् । लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ८॥ यथाङ्कुरं भस्मनि च करोति देवता पुनः । ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ ९॥ सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः । विसर्गबिन्दुमात्रासु यदधिष्ठानमेव च ॥ १०॥ तदधिष्ठात्री या देवी तस्यै नित्यै नमो नमः । व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ ११॥ यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते । कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १२॥ भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः । स्मृतिशक्तिज्ञानशक्तिबुद्धिशक्तिस्वरूपिणी ॥ १३॥ प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः । सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ १४॥ बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ॥ १५॥ उवाच स तां स्तौहि वाणीमिष्टां प्रजापते । स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ १६॥ चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् । यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ १७॥ बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः । तदा तां स च तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ १८॥ ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् । व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ॥ १९॥ मौनीभूतश्च सस्मार तामेव जगदम्बिकाम् । तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ॥ २०॥ सम्प्राप्य निर्मलं ज्ञानं भ्रमान्धध्वंसदीपकम् । पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ २१॥ तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे । तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ॥ २२॥ तदा वेदविभागं च पुराणं च चकार सः । यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ॥ २३॥ क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः । पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ॥ २४॥ दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे । तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम् ॥ २५॥ उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् । अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २६॥ ते च तां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरीम् । त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ॥ २७॥ दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः । जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ॥ २८॥ यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः । इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ॥ २९॥ प्रणनाम निराहारो रुरोद च मुहुर्मुहुः । ज्योतीरूपा महामाया तेन दृष्टाप्युवाच तम् ॥ ३०॥ सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह । याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ॥ ३१॥ स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् । महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ॥ ३२॥ स पण्डितश्च मेधावी सुकवीन्द्रो भवे ध्रुवम् ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ९.५॥

९.६ षष्ठोऽध्यायः । लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनम् ।

श्रीनारायण उवाच । सरस्वती तु वैकुण्ठे स्वयं नारायणान्तिके । गङ्गाशापेन कलहात्कलया भारते सरित् ॥ १॥ पुण्यदा पुण्यरूपा च पुण्यतीर्थस्वरूपिणी । पुण्यवद्भिर्निषेव्या च स्थितिः पुण्यवतां मुने ॥ २॥ तपस्विनां तपोरूपा तपसः फलरूपिणी । कृतपापेध्मदाहाय ज्वलदग्निस्वरूपिणी ॥ ३॥ ज्ञानात्सरस्वतीतोये मृता ये मानवा भुवि । तेषां स्थितिश्च वैकुण्ठे सुचिरं हरिसंसदि ॥ ४॥ भारते कृतपापश्च स्नात्वा तत्र च लीलया । मुच्यते सर्वपापेभ्यो विष्णुलोके वसेच्चिरम् ॥ ५॥ चातुर्मास्यां पौर्णमास्यामक्षयायां दिनक्षये । व्यतीपाते च ग्रहणेऽन्यस्मिन्पुण्यदिनेऽपि च ॥ ६॥ अनुषङ्गेण यः स्नातो हेतुना श्रद्धयापि वा । सारूप्यं लभते नूनं वैकुण्ठे स हरेरपि ॥ ७॥ सरस्वतीमनुं तत्र मासमेकं च यो जपेत् । महामूर्खः कवीन्द्रश्च स भवेन्नात्र संशयः ॥ ८॥ नित्यं सरस्वतीतोये यः स्नायान्मुण्डयन्नरः । न गर्भवासं कुरुते पुनरेव स मानवः ॥ ९॥ इत्येवं कथितं किञ्चिद्भारतीगुणकीर्तनम् । सुखदं कामदं सारं भूयः किं श्रोतुमिच्छसि ॥ १०॥ सूत उवाच । नारायणवचः श्रुत्वा नारदो मुनिसत्तमः । पुनः पप्रच्छ सन्देहमिमं शौनक सत्वरम् ॥ ११॥ नारद उवाच । कथं सरस्वती देवी गङ्गाशापेन भारते । कलया कलहेनैव बभूव पुण्यदा सरित् ॥ १२॥ श्रवणे श्रुतिसाराणां वर्धते कौतुकं मम । कथामृतेन मे तृप्तिः केन श्रेयसि तृप्यते ॥ १३॥ कथं शशाप सा गङ्गा पूजितां तां सरस्वतीम् । सा तु सत्त्वस्वरूपा या पुण्यदा शुभदा सदा ॥ १४॥ तेजस्विनोर्द्वयोर्वादकारणं श्रुतिसुन्दरम् । सुदुर्लभं पुराणेषु तन्मे व्याख्यातुमर्हसि ॥ १५॥ श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि कथामेतां पुरातनीम् । यस्याः श्रवणमात्रेण सर्वपापात्प्रमुच्यते ॥ १६॥ लक्ष्मीः सरस्वती गङ्गा तिस्रो भार्या हरेरपि । प्रेम्णा समास्तास्तिष्ठन्ति सततं हरिसन्निधौ ॥ १७॥ चकार सैकदा गङ्गा विष्णोर्मुखनिरीक्षणम् । सस्मिता च सकामा च सकटाक्षं पुनः पुनः ॥ १८॥ विभुर्जहास तद्वक्त्रं निरीक्ष्य च क्षणं तदा । क्षमां चकार तद् दृष्ट्वा लक्ष्मीर्नैव सरस्वती ॥ १९॥ बोधयामास पद्मा तां सत्त्वरूपा च सस्मिता । क्रोधाविष्टा च सा वाणी न च शान्ता बभूव ह ॥ २०॥ उवाच वाणी भर्तारं रक्तास्या रक्तलोचना । कुपिता कामवेगेन शश्वत्प्रस्फुरिताधरा ॥ २१॥ सरस्वत्युवाच । सर्वत्र समताबुद्धिः सद्भर्तुः कामिनीं प्रति । धर्मिष्ठस्य वरिष्ठस्य विपरीता खलस्य च ॥ २२॥ ज्ञातं सौभाग्यमधिकं गङ्गायां ते गदाधर । कमलायां च तत्तुल्यं न च किञ्चिन्मयि प्रभो ॥ २३॥ गङ्गायाः पद्मया सार्धं प्रीतिश्चास्ति सुसम्मता । क्षमां चकार तेनेदं विपरीतं हरिप्रिया ॥ २४॥ किं जीवनेन मेऽत्रैव दुर्भगायाश्च साम्प्रतम् । निष्कलं जीवनं तस्या या पत्युः प्रेमवञ्चिता ॥ २५॥ त्वां सर्वे सत्त्वरूपं च ये वदन्ति मनीषिणः । ते च मूर्खा न वेदज्ञा न जानन्ति मतिं तव ॥ २६॥ सरस्वतीवचः श्रुत्वा दृष्ट्वा तां कोपसंयुताम् । मनसा च समालोच्य स जगाम बहिः सभाम् ॥ २७॥ गते नारायणे गङ्गामुवाच निर्भयं रुषा । वागधिष्ठातृदेवी सा वाक्यं श्रवणदुष्करम् ॥ २८॥ हे निर्लज्जे हे सकामे स्वामिगर्वं करोषि किम् । अधिकं स्वामिसौभाग्यं विज्ञापयितुमिच्छसि ॥ २९॥ मानचूर्णं करिष्यामि तवाद्य हरिसन्निधौ । किं करिष्यति ते कान्तो ममैवं कान्तवल्लभे ॥ ३०॥ इत्येवमुक्त्वा गङ्गायाः केशं ग्रहीतुमुद्यता । वारयामास तां पद्मा मध्यदेशं समाश्रिता ॥ ३१॥ शशाप वाणी तां पद्मां महाबलवती सती । वृक्षरूपा सरिद्रूपा भविष्यसि न संशयः ॥ ३२॥ विपरीतं ततो दृष्ट्वा किञ्चिन्नो वक्तुमर्हसि । सन्तिष्ठति सभामध्ये यथा वृक्षो यथा सरित् ॥ ३३॥ शापं श्रुत्वा तु सा देवी न शशाप चुकोप ह । तत्रैव दुःखिता तस्थौ वाणीं धृत्वा करेण च ॥ ३४॥ असन्तुष्टां तु तां दृष्ट्वा कोपप्रस्फुरिताधराम् । उवाच गङ्गा तां देवीं पद्मां चारक्तलोचनाम् ॥ ३५॥ गङ्गोवाच । त्वमुत्सृज महोग्रां च पद्मे किं मे करिष्यति । दुःशीला मुखरा नष्टा नित्यं वाचालरूपिणी ॥ ३६॥ वागधिष्ठात्री देवीयं सततं कलहप्रिया । यावती योग्यता चास्या यावती शक्तिरेव च ॥ ३७॥ तथा करोतु वादं च मया सार्धं च दुर्मुखी । स्वबलं यन्मम बलं विज्ञापयितुमिच्छति ॥ ३८॥ जानन्तु सर्वे ह्युभयोः प्रभावं विक्रमं सति । इत्येवमुक्त्वा सा देवी वाण्यै शापं ददाविति ॥ ३९॥ सरिक्त्यरूपा भवतु सा या त्वां च शशाप ह । अधोमर्त्यं सा प्रयातु सन्ति यत्रैव पापिनः ॥ ४०॥ कलौ तेषां च पापानि ग्रहीष्यति न संशयः । इत्येवं वचनं श्रुत्वा तां शशाप सरस्वती ॥ ४१॥ त्वमेव यास्यसि महीं पापिपापं लभिष्यसि । एतस्मिन्नन्तरे तत्र भगवानाजगाम ह ॥ ४२॥ चतुर्भुजश्चतुर्भिश्च पार्षदैश्च चतुर्भुजैः । सरस्वतीं करे धृत्वा वासयामास वक्षसि ॥ ४३॥ बोधयामास सर्वज्ञः सर्वज्ञानं पुरातनम् । श्रुत्वा रहस्यं तासां च शापस्य कलहस्य च ॥ ४४॥ उवाच दुःखितास्ताश्च वाचं सामयिकीं विभुः । श्रीभगवानुवाच । लक्ष्मि त्वं कलया गच्छ धर्मध्वजगृहं शुभे ॥ ४५॥ अयोनिसम्भवा भूमौ तस्य कन्या भविष्यसि । तत्रैव दैवदोषेण वृक्षत्वं च लभिष्यसि ॥ ४६॥ मदंशस्यासुरस्यैव शङ्खचूडस्य कामिनी । भूत्वा पश्चाच्च मत्पत्नी भविष्यसि न संशयः ॥ ४७॥ त्रैलोक्यपावनी नाम्ना तुलसीति च भारते । कलया च सरिद्भावं शीघ्रं गच्छ वरानने ॥ ४८॥ भारतं भारतीशापान्नाम्ना पद्मावती भव । गङ्गे यास्यसि पश्चात्त्वमंशेन विश्वपावनी ॥ ४९॥ भारतं भारतीशापात्पापदाहाय पापिनाम् । भगीरथस्य तपसा तेन नीता सुकल्पिते ॥ ५०॥ नाम्ना भागीरथी पूता भविष्यसि महीतले । मदंशस्य समुद्रस्य जाया जायेर्ममाज्ञया ॥ ५१॥ मत्कलांशस्य भूपस्य शन्तनोश्च सुरेश्वरि । गङ्गाशापेन कलया भारतं गच्छ भारति ॥ ५२॥ कलहस्य फलं भुङ्क्ष्व सपत्नीभ्यां सहाच्युते । स्वयं च ब्रह्मसदने ब्रह्मणः कामिनी भव ॥ ५३॥ गङ्गा यातु शिवस्थानमत्र पद्मैव तिष्ठतु । शान्ता च क्रोधरहिता मद्भक्ता सत्त्वरूपिणी ॥ ५४॥ महासाध्वी महाभागा सुशीला धर्मचारिणी । यदंशकलया सर्वा धर्मिष्ठाश्च पतिव्रताः ॥ ५५॥ शान्तरूपाः सुशीलाश्च प्रतिविश्वेषु पूजिताः । तिस्रो भार्यास्त्रिशीलाश्च त्रयो भृत्याश्च बान्धवाः ॥ ५६॥ ध्रुवं वेदविरुद्धाश्च न ह्येते मङ्गलप्रदाः । स्त्रीपुंवच्च गृहे येषां गृहिणां स्त्रीवशः पुमान् ॥ ५७॥ निष्फलं च जन्म तेषामशुभं च पदे पदे । मुखे दुष्टा योनिदुष्टा यस्य स्त्री कलहप्रिया ॥ ५८॥ अरण्यं तेन गन्तव्यं महारण्यं गृहाद्वरम् । जलानां च स्थलानां च फलानां प्राप्तिरेव च ॥ ५९॥ सततं सुलभा तत्र न तेषां गृह एव च । वरमग्नौ स्थितिर्हिंस्रजन्तूनां सन्निधौ सुखम् ॥ ६०॥ ततोऽपि दुःखं पुंसां च दुष्टस्त्रीसन्निधौ ध्रुवम् । व्याधिज्वाला विषज्वाला वरं पुंसां वरानने ॥ ६१॥ दुष्टस्त्रीणां मुखज्वाला मरणादतिरिच्यते । पुंसां च स्त्रीजितां चैव भस्मान्तं शौचमध्रुवम् ॥ ६२॥ यदह्नि कुरुते कर्म न तस्य फलभाग्भवेत् । निन्दितोऽत्र परत्रैव सर्वत्र नरकं व्रजेत् ॥ ६३॥ यशःकीर्तिविहीनो यो जीवन्नपि मृतो हि सः । बह्वीनां च सपत्नीनां नैकत्र श्रेयसे स्थितिः ॥ ६४॥ एकभार्यः सुखी नैव बहुभार्यः कदाचन । गच्छ गङ्गे शिवस्थानं ब्रह्मस्थानं सरस्वति ॥ ६५॥ अत्र तिष्ठतु मद्गेहे सुशीला कमलालया । सुसाध्या यस्य पत्नी च सुशीला च पतिव्रता ॥ ६६॥ इह स्वर्गे सुखं तस्य धर्मो मोक्षः परत्र च । पतिव्रता यस्य पत्नी स च मुक्तः शुचिः सुखी । जीवन्मृतोऽशुचिर्दुःखी दुःशीलापतिरेव च ॥ ६७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्मीगङ्गासरस्वतीनां भूलोकेऽवतरणवर्णनं नाम षष्ठोऽध्यायः ॥ ९.६॥

९.७ सप्तमोऽध्यायः । गङ्गादीनां शापोद्धारवर्णनम् ।

श्रीनारायण उवाच । इत्युक्त्वा जगतां नाथो विरराम च नारद । अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ १॥ ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् । कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ २॥ सरस्वत्युवाच । विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् । सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः ॥ ३॥ देहत्यागं करिष्यामि योगेन भारते ध्रुवम् । अत्युन्नतो हि नियतं पातुमर्हति निश्चितम् ॥ ४॥ गङ्गोवाच । अहं केनापराधेन त्वया त्यक्ता जगत्पते । देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ ५॥ निर्दोषकामिनीत्यागं करोति यो नरो भुवि । स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा ॥ ६॥ पद्मोवाच । नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव । प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा ॥ ७॥ भारते भारतीशापाद्यास्यामि कलया ह्यहम् । कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥ ८॥ दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् । केन तेन विमुक्ताहमागमिष्यामि ते पदम् ॥ ९॥ कलया तुलसीरूपं धर्मध्वजसुता सती । भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ १०॥ वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता । समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ ११॥ गङ्गा सरस्वतीशापाद्यदि यास्यति भारते । शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥ १२॥ गङ्गाशापेन वा वाणी यदि यास्यति भारतम् । कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ १३॥ तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् । गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ १४॥ इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा । स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥ १५॥ (उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि । ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥)॥ श्रीभगवानुवाच । त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि । समतां च करिष्यामि श‍ृणु त्वं कमलेक्षणे ॥ १६॥ भारती यातु कलया सरिद्रूपा च भारते । अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ १७॥ भगीरथेन सा नीता गङ्गा यास्यति भारते । पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ १८॥ तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् । ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥ १९॥ कलांशांशेन गच्छ त्वं भारते वामलोचने । पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ २०॥ कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् । युष्माकं सरितां चैव मद्गेहे चागमिष्यथ ॥ २१॥ सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् । विना विपत्तेर्महिमा केषां पद्मभवे भवेत् ॥ २२॥ मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् । युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ॥ २३॥ पृथिव्यां यानि तीर्थानि सन्त्यसङ्ख्यानि सुन्दरि । भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ २४॥ मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते । पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम् ॥ २५॥ मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च । तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ २६॥ स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः । जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २७॥ एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः । नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २८॥ असिजीवी मसीजीवी धावको ग्रामयाचकः । वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २९॥ विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः । स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३०॥ अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः । पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात् ॥ ३१॥ शूद्राणां सूपकारश्च देवलो ग्रामयाजकः । अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३२॥ पितरं मातरं भार्यां भ्रातरं तनयं सुताम् । गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम् ॥ ३३॥ श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि । स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३४॥ अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा । शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात् ॥ ३५॥ देवद्रव्यापहारी च विप्रद्रव्यापहारकः । लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ ३६॥ महापातकिनश्चैव शूद्राणां शवदाहकः । भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ॥ ३७॥ महालक्ष्मीरुवाच । भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर । येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥ ३८॥ हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः । स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः ॥ ३९॥ पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् । येषां च पादरजसा पूता पादोदकान्मही ॥ ४०॥ येषां सन्दर्शनं स्पर्शं ये वा वाञ्छन्ति भारते । सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ ४१॥ न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो ॥ ४२॥ सूत उवाव महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः । निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे ॥ ४३॥ श्रीभगवानुवाच । भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः । पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ ४४॥ सारभूतं गोपनीयं न वक्तव्यं खलेषु च । त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ ४५॥ गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति । वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम् ॥ ४६॥ पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः । स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥ ४७॥ यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु । जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम् ॥ ४८॥ मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः । मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम् ॥ ४९॥ मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः । सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च ॥ ५०॥ न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् । ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ ५१॥ इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् । स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति ॥ ५२॥ भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् । मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः ॥ ५३॥ ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् । इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् । तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने ॥ ५४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गादीनां शापोद्धारवर्णनं नाम सप्तमोऽध्यायः ॥ ९.७॥

९.८ अष्टमोऽध्यायः । नारायणनारदसंवादे कलिमाहात्म्यवर्णनम् ।

श्रीनारायण उवाच । सरस्वती पुण्यक्षेत्रमाजगाम च भारते । गङ्गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १॥ भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया । वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ २॥ सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते । हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ ३॥ सरस्वती नदी सा च तीर्थरूपातिपावनी । पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ ४॥ पश्चाद्भागीरथी नीता महीं भगीरथेन च । सा वै जगाम कलया वाणीशापेन नारद ॥ ५॥ तत्रैव समये तां च दधार शिरसा शिवः । वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ ६॥ पद्मा जगाम कलया सा च पद्मावती नदी । भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७॥ ततोऽन्यया सा कलया लेभे जन्म च भारते । धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८॥ पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः । बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९॥ कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते । जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम् ॥ १०॥ यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना । यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः ॥ ११॥ शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् । कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम् ॥ १२॥ साधवश्च पुराणानि शङ्खानि श्राद्धतर्पणे । वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ १३॥ देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् । वेदाङ्गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ १४॥ सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः । व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ १५॥ वामाचाररताः सर्वे मिथ्याकपटसंयुताः । तुलसीरहिता पूजा भविष्यति ततः परम् ॥ १६॥ शठाः क्रूरा दाम्भिकाश्च महाहङ्कारसंयुताः । चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १७॥ पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः । स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥ १८॥ सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे । तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ १९॥ गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः । चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ २०॥ कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः । विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥ २१॥ यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः । सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २२॥ ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः । सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ २३॥ म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च । म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च ॥ २४॥ ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ । सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ २५॥ सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी । फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ २६॥ क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् । दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥ २७॥ प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः । जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ २८॥ धर्महीना पुण्यहीना वर्णाश्चत्वार एव च । लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥ २९॥ कुत्सिता विकृताकारा नरा नार्यश्च बालकाः । कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥ ३०॥ केचिद्ग्रामाश्च नगरा नरशून्या भयानकाः । केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥ ३१॥ अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च । अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥ ३२॥ सस्यानि च भविष्यन्ति तडागेषु नदीषु च । प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥ ३३॥ अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः । प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद ॥ ३४॥ हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः । हिंसकाश्च दयाहीना पौराश्च नरघातिनः ॥ ३५॥ वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः । स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ ॥ ३६॥ पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ । अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥ ३७॥ वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता । पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥ ३८॥ कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च । मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥ ३९॥ कन्यानां भगिनीनां वा जारोपात्तानजीविनः । हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥ ४०॥ स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे । ततः पश्चात्स्वदानं च स्वयमुल्लङ्घयिष्यति ॥ ४१॥ देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च । स्वदत्तां परदत्तां वा सर्वमुल्लङ्घयिष्यति ॥ ४२॥ कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः । केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः ॥ ४३॥ भगिनीगामिनः केचित्सपत्नीमातृगामिनः । भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ॥ ४४॥ अगम्यागमनं चैव करिष्यन्ति गृहे गृहे । मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥ ४५॥ पत्नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे । प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः ॥ ४६॥ अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः । परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥ ४७॥ ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः । लाक्षा लोहरसानां च व्यापारं लवणस्य च ॥ ४८॥ वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः । शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥ ४९॥ पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः । यज्ञसूत्रविहीनाश्च सन्ध्याशौचविहीनकाः ॥ ५०॥ पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला । विप्राणां रन्धनागारे भविष्यति च पाचिका ॥ ५१॥ अन्नानां नियमो नास्ति योनीनां च विशेषतः । आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५२॥ एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् । हस्तप्रमाणे वृक्षे च अङ्गुष्ठे चैव मानवे ॥ ५३॥ विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति । नारायणकलांशश्च भगवान् बलिनां वरः ॥ ५४॥ दीर्घेण करवालेन दीर्घघोटकवाहनः । म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५५॥ निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति । अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ ५६॥ स्थूलाप्रमाणा षड्रात्रं वर्षधाराऽऽप्लुता मही । लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ५७॥ ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने । प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ ५८॥ कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे । तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ५९॥ तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि । पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६०॥ राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः । प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६१॥ वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः । शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६२॥ विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः । देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः ॥ ६३॥ श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः । लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥ ६४॥ धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः । कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम् ॥ ६५॥ वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः । तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥ ६६॥ द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् । चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ ६७॥ वर्षं पञ्चविधं ज्ञेयं कालसङ्ख्याविधिक्रमे । यथा चायान्ति यान्त्येव यथा युगचतुष्टयम् ॥ ६८॥ वर्षे पूर्णे नराणां च देवानां च दिवानिशम् । शतत्रये षष्ठ्यधिके नराणां च युगे गते ॥ ६९॥ देवानां च युगं ज्ञेयं कालसङ्ख्याविदां मतम् । मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७०॥ मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः । अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥ ७१॥ अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः । प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥ ७२॥ जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः । ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि ॥ ७३॥ तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः । लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥ ७४॥ निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने । एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥ ७५॥ निमेषान्तरकालेन पुनः सृष्टिक्रमेण च । एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥ ७६॥ कति कल्पा गतायाताः सङ्ख्यां जानाति कः पुमान् । सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ॥ ७७॥ ब्रह्मादीनां च ब्रह्माण्डे सङ्ख्यां जानाति कः पुमान् । ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥ ७८॥ सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् । ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥ ७९॥ तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा । तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः ॥ ८०॥ सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः । चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ८१॥ ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् । यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८२॥ एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् । स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ ८३॥ निरुपाधि निराकारं भक्तानुग्रहकातरम् । करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्भवः ॥ ८४॥ शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् । यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान् ॥ ८५॥ महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः । सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम् ॥ ८६॥ विष्णुः सर्वेश्वरः श्रीमान् यद्भक्त्या यस्य सेवया । महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी ॥ ८७॥ सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी । यज्ज्ञानाद्यस्य तपसा यद्भक्त्या यस्य सेवया ॥ ८८॥ सावित्री देवमाता च वेदाधिष्ठातृदेवता । पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥ ८९॥ सर्वविद्याधिदेवी सा पूज्या च विदुषां परा । यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥ ९०॥ सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी । सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी ॥ ९१॥ सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी । कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता ॥ ९२॥ कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया । सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥ ९३॥ कृष्णवक्षःस्थलस्थानं पत्नीत्वे प्राप सेवया । तपश्चकार सा पूर्वं शतश‍ृङ्गे च पर्वते ॥ ९४॥ दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च । जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम् ॥ ९५॥ कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः । वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥ ९६॥ मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती । सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ॥ ९७॥ त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् । वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥ ९८॥ सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे । इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः ॥ ९९॥ सपत्नीरहितां तां च चकार प्राणवल्लभाम् । अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया ॥ १००॥ तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने । दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले ॥ १०१॥ दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह । सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥ १०२॥ लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा । लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥ १०३॥ सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् । सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा ॥ १०४॥ षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् । शतमन्वन्तरं तप्तं शङ्करेण पुरा विभो ॥ १०५॥ शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह । शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥ १०६॥ दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः । गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि ॥ १०७॥ दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः । सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ १०८॥ एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः । मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥ १०९॥ एवं ते कथितं सर्वं पुराणं सयथागमम् । गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ ११०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ९.८॥

९.९ नवमोऽध्यायः । भूमिस्तोत्रवर्णनम् ।

नारद उवाच । देव्या निमेषमात्रेण ब्रह्मणः पात एव च । तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १॥ प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा । जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २॥ वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति । सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३॥ कथं बभूव सा धन्या मान्या सर्वाश्रया जया । तस्याश्च जन्मकथनं वद मङ्गलकारणम् ॥ ४॥ श्रीनारायण उवाच । सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः । आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५॥ श्रूयतां वसुधाजन्म सर्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ ६॥ अहो केचिद्वदन्तीति मधुकैटभमेदसा । बभूव वसुधा धन्या तद्विरुद्धमतः श‍ृणु ॥ ७॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ ८॥ तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् । ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९॥ मेदिनीति च विख्यातेत्युक्तमेतन्मतं श‍ृणु । जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ १०॥ कथयामि ते तज्जन्म सार्थकं सर्वमङ्गलम् । पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११॥ महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् । मनो बभूव कालेन सर्वाङ्गव्यापकं ध्रुवम् ॥ १२॥ तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च । कालेन महता पश्चाद् बभूव वसुधा मुने ॥ १३॥ प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा । आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ १४॥ आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता । प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ १५॥ प्रतिविश्वेषु वसुधा शैलकाननसंयुता । सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ १६॥ हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता । ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ १७॥ पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता । काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ १८॥ पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः । ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९॥ एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च । नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ २०॥ प्रलये प्राकृते चैव ब्रह्मणश्च निपातने । महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ २१॥ नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह । नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ २२॥ मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च । विष्णोर्वराहरूपस्य पत्नी सा श्रुतिसम्मता ॥ २३॥ तत्पुत्रो मङ्गलो ज्ञेयो घटेशो मङ्गलात्मजः । नारद उवाच । पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ २४॥ वाराहे चैव वाराही सर्वैः सर्वाश्रया सती । मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ २५॥ तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः । मङ्गलं मङ्गलस्यापि जन्म वासं वद प्रभो ॥ २६॥ श्रीनारायण उवाच । वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा । उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ २७॥ जले तां स्थापयामास पद्मपत्रं यथा हृदे । तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ २८॥ दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः । वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ २९॥ कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् । क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३०॥ सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी । विदग्धाया विदग्धेन सङ्गमोऽतिसुखप्रदः ॥ ३१॥ विष्णुस्तदङ्गसंश्लेषाद् बुबुधे न दिवानिशम् । वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ ३२॥ पूर्वरूपं वराहं च दधार स च लीलया । पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम् ॥ ३३॥ धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः । वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ ३४॥ श्रीभगवानुवाच । सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् । मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥ ३५॥ अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने । वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥ ३६॥ तव पूजां करिष्यन्ति मद्वरेण सुरादयः । मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७॥ वसुधोवाच । वहामि सर्वं वाराहरूपेणाहं तवाज्ञया । लीलामात्रेण भगवन् विश्वं च सचराचरम् ॥ ३८॥ मुक्तां शुक्तिं हरेरर्चां शिवलिङ्गं शिवां तथा । शङ्खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा ॥ ३९॥ यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् । जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ ४०॥ गोरोचनं चन्दनं च शालग्रामजलं तथा । एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु ॥ ४१॥ श्रीभगवानुवाच । द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि । यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ ४२॥ इत्येवमुक्त्वा भगवान् विरराम च नारद । बभूव तेन गर्भेण तेजस्वी मङ्गलग्रहः ॥ ४३॥ पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः । कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते ॥ ४४॥ ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च । संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५॥ नारद उवाच । किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद । गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६॥ श्रीनारायण उवाच । आदौ च पृथिवी देवी वराहेण च पूजिता । ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा ॥ ४७॥ ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः । ध्यानं च स्तवनं मन्त्रं श‍ृणु वक्ष्यामि नारद ॥ ४८॥ ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन मन्त्रेण विष्णुना पूजिता पुरा । श्वेतपङ्कजवर्णाभां शरच्चन्द्रनिभाननाम् ॥ ४९॥ चन्दनोत्क्षिप्तसर्वाङ्गीं रत्नभूषणभूषिताम् । रत्नाधारां रत्नगर्भां रत्नाकरसमन्विताम् ॥ ५०॥ वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे । ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत् ॥ ५१॥ स्तवनं श‍ृणु विप्रेन्द्र कण्वशाखोक्तमेव च । श्रीनारायण उवाच । जये जये जलाधारे जलशीले जलप्रदे ॥ ५२॥ यज्ञसूकरजाये त्वं जयं देहि जयावहे । मङ्गले मङ्गलाधारे माङ्गल्ये मङ्गलप्रदे ॥ ५३॥ मङ्गलार्थं मङ्गलेशे मङ्गलं देहि मे भवे । सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥ ५४॥ सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे । पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ॥ ५५॥ पुण्याश्रये पुण्यवतामालये पुण्यदे भवे । सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ॥ ५६॥ सर्वसस्यहरे काले सर्वसस्यात्मिके भवे । भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥ ५७॥ भूमिपानां सुखकरे भूमिं देहि च भूमिदे । इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ ५८॥ कोटिजन्मसु स भवेद् बलवान्भूमिपेश्वरः । भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥ ५९॥ भूमिदानहरात्पापान्मुच्यते नात्र संशयः । अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥ ६०॥ अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् । परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥ ६१॥ भूमौ वीर्यत्यागपापाद्भूमौ दीपादिस्थापनात् । पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥ ६२॥ अश्वमेधशतं पुण्यं लभते नात्र संशयः । भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥ ६३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे भूमिस्तोत्रवर्णनं नाम नवमोऽध्यायः ॥ ९.९॥

९.१० दशमोऽध्यायः । पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनम् ।

नारद उवाच । भूमिदानकृतं पुण्यं पापं तद्धरणेन च । परभूहरणात्पापं परकूपे खनने तथा ॥ १॥ अम्बुवाच्यां भूखनने वीर्यस्य त्याग एव च । दीपादिस्थापनात्पापं श्रोतुमिच्छामि यत्नतः ॥ २॥ अन्यद्वा पृथिवीजन्यं पापं यत्पृच्छते परम् । यदस्ति तत्प्रतीकारं वद वेदविदांवर ॥ ३॥ श्रीनारायण उवाच । वितस्तिमात्रभूमिं च यो ददाति च भारते । सन्ध्यापूताय विप्राय स याति शिवमन्दिरम् ॥ ४॥ भूमिं च सर्वसस्याढ्यां ब्राह्मणाय ददाति च । भूमिरेणुप्रमाणाब्दमन्ते विष्णुपदे स्थितिः ॥ ५॥ ग्रामं भूमिं च धान्यं च ब्राह्मणाय ददाति यः । सर्वपापाद्विनिर्मुक्तौ चोभौ देवीपुरःस्थितौ ॥ ६॥ भूमिदानं च तत्काले यः साधुश्चानुमोदते । स च प्रयाति वैकुण्ठे मित्रगोत्रसमन्वितः ॥ ७॥ स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत्तु यः । स तिष्ठति कालसूत्रे यावच्चन्द्रदिवाकरौ ॥ ८॥ तत्युत्रपौत्रप्रभृतिर्भूमिहीनः श्रिया हतः । पुत्रहीनो दरिद्रश्च घोरं याति च रौरवम् ॥ ९॥ गवां मार्गं विनिष्कृष्य यश्च सस्यं ददाति च । दिव्यं वर्षशतं चैव कुम्भीपाके च तिष्ठति ॥ १०॥ गोष्ठं तडागं निष्कृष्य मार्गे सस्यं ददाति यः । स तिष्ठत्यसिपत्रे च यावदिन्द्राश्चतुर्दश ॥ ११॥ पञ्चपिण्डाननुद्धृत्य परकूपे च स्नाति यः । प्राप्नोति नरकं चैव स्नानं निष्फलमेव च ॥ १२॥ कामी भूमौ च रहसि वीर्यत्यागं करोति यः । भूमिरेणुप्रमाणं च वर्षं तिष्ठति रौरवे ॥ १३॥ अम्बुवाच्यां भूकरणं यः करोति च मानवः । स याति कृमिदंशं च स्थितिस्तत्र चतुर्युगम् ॥ १४॥ परकीये लुप्तकूपे कूपं मूढः करोति यः । पुष्करिण्यां च लुप्तायां पुष्करिणीं ददाति यः ॥ १५॥ सर्वं फलं परस्यैव तप्तकुण्डं व्रजेच्च सः । तत्र तिष्ठति सन्तप्तो यावदिन्द्राश्चतुर्दश ॥ १६॥ परकीये तडागे च पङ्कमुद्धृत्य चोन्मृजेत् । रेणुप्रमाणवर्षं च ब्रह्मलोके वसेन्नरः ॥ १७॥ पिण्डं पित्रे भूमिभर्तुर्न प्रदाय च मानवः । श्राद्धं करोति यो मूढो नरकं याति निश्चितम् ॥ १८॥ भूमौ दीपं योऽर्पयति स चान्धः सप्तजन्मसु । भूमौ शङ्खं च संस्थाप्य कुष्ठं जन्मान्तरे लभेत् ॥ १९॥ मुक्तां माणिक्यहीरौ च सुवर्णं च मणिं तथा । पञ्च संस्थापयेद्भूमौ स चान्धः सप्तजन्मसु ॥ २०॥ शिवलिङ्गं शिवामर्चां यश्चार्पयति भूतले । शतमन्वन्तरं यावत्कृमिभक्षः स तिष्ठति ॥ २१॥ शङ्खं यन्त्रं शिलातोयं पुष्पं च तुलसीदलम् । यश्चार्पयति भूमौ च स तिष्ठेन्नरके ध्रुवम् ॥ २२॥ जपमालां पुष्पमालां कर्पूरं रोचनं तथा । यो मूढश्चार्पयेद्भूमौ स याति नरकं ध्रुवम् ॥ २३॥ भूमौ चन्दनकाष्ठं च रुद्राक्षं कुशमूलकम् । संस्थाप्य भूमौ नरके वसेन्मन्वन्तरावधि ॥ २४॥ पुस्तकं यज्ञसूत्रं च भूमौ संस्थापयेन्नरः । न भवेद्विप्रयोनौ च तस्य जन्मान्तरे जनिः ॥ २५॥ ब्रह्महत्यासमं पापमिह वै लभते ध्रुवम् । ग्रन्धियुक्तं यज्ञसूत्रं पूज्यं च सर्ववर्णकैः ॥ २६॥ यज्ञं कृत्वा तु यो भूमिं क्षीरेण न हि सिञ्चति । स याति तप्तभूमिं च सन्तप्तः सप्तजन्मसु ॥ २७॥ भूकम्पे ग्रहणे यो हि करोति खननं भुवः । जन्मान्तरे महापापो ह्यङ्गहीनो भवेद् ध्रुवम् ॥ २८॥ भवनं यत्र सर्वेषां भूमिस्तेन प्रकीर्तिता । काश्यपी कश्यपस्येयमचला स्थिररूपतः ॥ २९॥ विश्वम्भरा धारणाच्चानन्तानन्तस्वरूपतः । पृथिवी पृथुकन्यात्वाद्विस्तृतत्वान्महामुने ॥ ३०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे पृथिव्युपाख्याने नरकफलप्राप्तिवर्णनं नाम दशमोऽध्यायः ॥ ९.१०॥

९.११ एकादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।

नारद उवाच । श्रुतं पृथिव्युपाख्यानमतीव सुमनोहरम् । गङ्गोपाख्यानमधुना वद वेदविदांवर ॥ १॥ भारते भारतीशापात्सा जगाम सुरेश्वरी । विष्णुस्वरूपा परमा स्वयं विष्णुपदीति च ॥ २॥ कथं कुत्र युगे केन प्रार्थिता प्रेरिता पुरा । तत्क्रमं श्रोतुमिच्छामि पापघ्नं पुण्यदं शुभम् ॥ ३॥ श्रीनारायण उवाच । राजराजेश्वरः श्रीमान् सगरः सूर्यवंशजः । तस्य भार्या च वैदर्भी शैव्या च द्वे मनोहरे ॥ ४॥ तत्पत्न्यामेकपुत्रश्च बभूव सुमनोहरः । असमञ्ज इति ख्यातः शैव्यायां कुलवर्धनः ॥ ५॥ अन्या चाराधयामास शङ्करं पुत्रकामुकी । बभूव गर्भस्तस्याश्च हरस्य च वरेण ह ॥ ६॥ गते शताब्दे पूर्णे च मांसपिण्डं सुषाव सा । तद् दृष्ट्वा सा शिवं ध्यात्वा रुरोदोच्चैः पुनः पुनः ॥ ७॥ शम्भुर्ब्राह्मणरूपेण तत्समीपं जगाम ह । चकार संविभज्यैतत्पिण्डं षष्टिसहस्रधा ॥ ८॥ सर्वे बभूवुः पुत्राश्च महाबलपराक्रमाः । ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टकलेवराः ॥ ९॥ कपिलस्य मुनेः शापाद् बभूवुर्भस्मसाच्च ते । राजा रुरोद तच्छ्रुत्वा जगाम गहने वने ॥ १०॥ तपश्चकारासमञ्जो गङ्गानयनकारणात् । लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ ११॥ अंशुमांस्तस्य तनयो गङ्गानयनकारणात् । तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ १२॥ भगीरथस्तस्य पुत्रो महाभागवतः सुधीः । वैष्णवो विष्णुभक्तश्च गुणवानजरामरः ॥ १३॥ तपः कृत्वा लक्षवर्षं गङ्गानयनकारणात् । ददर्श कृष्णं ग्रीष्मस्थसूर्यकोटिसमप्रभम् ॥ १४॥ द्विभुजं मुरलीहस्तं किशोरं गोपवेषिणम् । गोपालसुन्दरीरूपं भक्तानुग्रहरूपिणम् ॥ १५॥ स्वेच्छामयं परं ब्रह्म परिपूर्णतमं प्रभुम् । ब्रह्मविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ १६॥ निर्लिप्तं साक्षिरूपं च निर्गुणं प्रकृतेः परम् । ईषद्धास्यप्रसन्नास्यं भक्तानुग्रहकारणम् ॥ १७॥ वह्निशुद्धांशुकाधानं रत्नभूषणभूषितम् । तुष्टाव दृष्ट्वा नृपतिः प्रणम्य च पुनः पुनः ॥ १८॥ लीलया च वरं प्राप वाञ्छितं वंशतारणम् । कृत्वा च स्तवनं दिव्यं पुलकाङ्कितविग्रहः ॥ १९॥ श्रीभगवानुवाच । भारतं भारतीशापाद् गच्छ शीघ्रं सुरेश्वरि । सगरस्य सुतान्सर्वान्पूतान्कुरु ममाज्ञया ॥ २०॥ त्वत्स्पर्शवायुना पूता यास्यन्ति मम मन्दिरम् । बिभ्रतो मम मूर्तीश्च दिव्यस्यन्दनगामिनः ॥ २१॥ मत्पार्षदा भविष्यन्ति सर्वकालं निरामयाः । समुच्छिद्य कर्मभोगान् कृताञ्जन्मनि जन्मनि ॥ २२॥ कोटिजन्मार्जितं पापं भारते यत्कृतं नृभिः । गङ्गाया वातस्पर्शेन नश्यतीति श्रुतौ श्रुतम् ॥ २३॥ स्पर्शनाद्दर्शनाद्देव्याः पुण्यं दशगुणं ततः । मौसलस्नानमात्रेण सामान्यदिवसे नृणाम् ॥ २४॥ शतकोटिजन्मपापं नश्यतीति श्रुतौ श्रुतम् । यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ २५॥ जन्मसङ्ख्यार्जितान्येव कामतोऽपि कृतानि च । तानि सर्वाणि नश्यन्ति मौसलस्नानतो नृणाम् ॥ २६॥ पुण्याहस्नानतः पुण्यं वेदा नैव वदन्ति च । किञ्चिद्वदन्ति ते विप्र फलमेव यथागमम् ॥ २७॥ ब्रह्मविष्णुशिवाद्याश्च सर्वं नैव वदन्ति च । सामान्यदिवसस्नानसङ्कल्पं श‍ृणु सुन्दरि ॥ २८॥ पुण्यं दशगुणं चैव मौसलस्नानतः परम् । ततस्त्रिंशद्गुणं पुण्यं रविसङ्क्रमणे दिने ॥ २९॥ अमायां चापि तत्तुल्यं द्विगुणं दक्षिणायने । ततो दशगुणं पुण्यं नराणामुत्तरायणे ॥ ३०॥ चातुर्मास्यां पौर्णमास्यामनन्तं पुण्यमेव च । अक्षयायां च तत्तुल्यं चैतद्वेदे निरूपितम् ॥ ३१॥ असङ्ख्यपुण्यफलदमेतेषु स्नानदानकम् । सामान्यदिवसस्नानाद्दानाच्छतगुणं फलम् ॥ ३२॥ मन्वन्तराद्यायां तिथौ युगाद्यायां तथैव च । माघस्य सितसप्तम्यां भीष्माष्टम्यां तथैव च ॥ ३३॥ अथाप्यशोकाष्टम्यां च नवम्यां च तथा हरेः । ततोऽपि द्विगुणं पुण्यं नन्दायां तव दुर्लभम् ॥ ३४॥ दशहरादशम्यां तु युगाद्यादिसमं फलम् । नन्दासमं च वारुण्यां महत्पूर्वे चतुर्गुणम् ॥ ३५॥ ततश्चतुर्गुणं पुण्यं द्विमहत्पूर्वके सति । पुण्यं कोटिगुणं चैव सामान्यस्नानतोऽपि यत् ॥ ३६॥ चन्द्रोपरागसमये सूर्ये दशगुणं ततः । पुण्यमर्धोदये काले ततः शतगुणं फलम् ॥ ३७॥ इत्येवमुक्त्वा देवेशो विरराम तयोः पुरः । तमुवाच ततो गङ्गा भक्तिनम्राऽऽत्मकन्धरा ॥ ३८॥ गङ्गोवाच । यामि चेद्भारतं नाथ भारतीशापतः पुरा । तवाज्ञया च राजेन्द्र तपसा चैव साम्प्रतम् ॥ ३९॥ दास्यन्ति पापिनो मह्यं पापानि यानि कानि च । तानि मे केन नश्यन्ति तमुपायं वद प्रभो ॥ ४०॥ कतिकालं परिमितं स्थितिर्मे तत्र भारते । कदा यास्यामि देवेश तद्विष्णोः परमं पदम् ॥ ४१॥ ममान्यद्वाञ्छितं यद्यत्सर्वं जानासि सर्ववित् । सर्वान्तरात्मन् सर्वज्ञ तदुपायं वद प्रभो ॥ ४२॥ श्रीभगवानुवाच । जानामि वाञ्छितं गङ्गे तव सर्वं सुरेश्वरि । पतिस्ते द्रवरूपाया लवणोदो भविष्यति ॥ ४३॥ स ममांशस्वरूपश्च त्वं च लक्ष्मीस्वरूपिणी । विदग्धाया विदग्धेन सङ्गमो गुणवान् भुवि ॥ ४४॥ यावत्यः सन्ति नद्यश्च भारत्याद्याश्च भारते । सौभाग्या त्वं च तास्वेव लवणोदस्य सौरते ॥ ४५॥ अद्यप्रभृति देवेशि कलेः पञ्चसहस्रकम् । वर्षं स्थितिस्ते भारत्याः शापेन भारते भुवि ॥ ४६॥ नित्यं त्वमब्धिना सार्धं करिष्यसि रहो रतिम् । त्वमेव रसिका देवि रसिकेन्द्रेण संयुता ॥ ४७॥ त्वां स्तोष्यन्ति च स्तोत्रेण भगीरथकृतेन च । भारतस्था जनाः सर्वे पूजयिष्यन्ति भक्तितः ॥ ४८॥ कण्वशाखोक्तध्यानेन ध्यात्वा त्वां पूजयिष्यति । यः स्तौति प्रणमेन्नित्यं सोऽश्वमेधफलं लभेत् ॥ ४९॥ गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ५०॥ सहस्रपापिनां स्नानाद्यत्पापं ते भविष्यति । प्रकृतेर्भक्तसंस्पर्शादेव तद्धि विनङ्क्ष्यति ॥ ५१॥ पापिनां तु सहस्राणां शवस्पर्शेन यत्त्वयि । तन्मन्त्रोपासकस्नानात्तदघं च विनङ्क्ष्यति ॥ ५२॥ तत्रैव त्वमधिष्ठानं करिष्यस्यघमोचनम् । सार्धं सरिद्भिः श्रेष्ठाभिः सरस्वत्यादिभिः शुभे ॥ ५३॥ तत्तु तीर्थं भवेत्सद्यो यत्र त्वद्गुणकीर्तनम् । त्वद्रेणुस्पर्शमात्रेण पूतो भवति पातकी ॥ ५४॥ रेणुप्रमाणवर्षं च देवीलोके वसेद् ध्रुवम् । ज्ञानेन त्वयि ये भक्त्या मन्नामस्मृतिपूर्वकम् ॥ ५५॥ समुत्सृजन्ति प्राणांश्च ते गच्छन्ति हरेः पदम् । पार्षदप्रवरास्ते च भविष्यन्ति हरेश्चिरम् ॥ ५६॥ लयं प्राकृतिकं ते च द्रक्ष्यन्ति चाप्यसङ्ख्यकम् । मृतस्य बहुपुण्येन तच्छवं त्वयि विन्यसेत् ॥ ५७॥ प्रयाति स च वैकुण्ठं यावदह्नः स्थितिस्त्वयि । कायव्यूहं ततः कृत्वा भोजयित्वा स्वकर्मकम् ॥ ५८॥ तस्मै ददामि सारूप्यं करोमि तं च पार्षदम् । अज्ञानी त्वज्जलस्पर्शाद्यदि प्राणान्समुत्सृजेत् ॥ ५९॥ तस्मै ददामि सालोक्यं करोमि तं च पार्षदम् । अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६०॥ तस्मै ददामि सालोक्यं यावद्वै ब्रह्मणो वयः । अन्यत्र वा त्यजेत्प्राणांस्त्वन्नामस्मृतिपूर्वकम् ॥ ६१॥ तस्मै ददामि सारूप्यमसङ्ख्यं प्राकृतं लयम् । रत्नेन्द्रसारनिर्माणयानेन सह पार्षदैः ॥ ६२॥ सद्यः प्रयाति गोलोकं मम तुल्यो भवेद् ध्रुवम् । तीर्थेऽप्यतीर्थे मरणे विशेषो नास्ति कश्चन ॥ ६३॥ मन्मन्त्रोपासकानां तु नित्यं नैवेद्यभोजिनाम् । पूतं कर्तुं सशक्तो हि लीलया भुवनत्रयम् ॥ ६४॥ रत्नेन्द्रसारयानेन गोलोकं सम्प्रयान्ति च । मद्भक्ता बान्धवा येषां तेऽपि पश्वादयोऽपि हि ॥ ६५॥ प्रयान्ति रत्नयानेन गोलोकं चातिदुर्लभम् । यत्र यत्र स्मृतास्ते च ज्ञानेन ज्ञानिनः सति ॥ ६६॥ जीवन्मुक्ताश्च ते पूता मद्भक्तेः संविधानतः । इत्युक्त्वा श्रीहरिस्तांश्च प्रत्युवाच भगीरथम् ॥ ६७॥ स्तुहि गङ्गामिमां भक्त्या पूजां च कुरु साम्प्रतम् । भगीरथस्तां तुष्टाव पूजयामास भक्तितः ॥ ६८॥ कौथुमोक्तेन ध्यानेन स्तोत्रेणापि पुनः पुनः । प्रणनाम च श्रीकृष्णं परमात्मानमीश्वरम् ॥ ६९॥ भगीरथश्च गङ्गा च सोऽन्तर्धानं चकार ह । नारद उवाच । केन ध्यानेन स्तोत्रेण केन पूजाक्रमेण च ॥ ७०॥ पूजां चकार नृपतिर्वद वेदविदांवर । श्रीनारायण उवाच । स्नात्वा नित्यक्रियां कृत्वा धृत्वा धौते च वाससी ॥ ७१॥ सम्पूज्य देवषट्कं च संयतो भक्तिपूर्वकम् । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ ७२॥ सम्पूज्य देवषट्कं च सोऽधिकारी च पूजने । गणेशं विघ्ननाशाय आरोग्याय दिवाकरम् ॥ ७३॥ वह्निं शौचाय विष्णुं च लक्ष्यर्थं पूजयेन्नरः । शिवं ज्ञानाय ज्ञानेशं शिवां च मुक्तिसिद्धये ॥ ७४॥ सम्पूज्यैताँल्लभेत्प्राज्ञो विपरीतमतोऽन्यथा । दध्यावनेन ध्यानेन तद्ध्यानं श‍ृणु नारद ॥ ७५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नामैकादशोऽध्यायः ॥ ९.११॥

९.१२ द्वादशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।

श्रीनारायण उवाच । ध्यानं च कण्वशाखोक्तं सर्वपापप्रणाशनम् । श्वेतपङ्कजवर्णाभां गङ्गां पापप्रणाशिनीम् ॥ १॥ कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २॥ शरत्पूर्णेन्दुशतकमृष्टशोभाकरां पराम् । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ ३॥ नारायणप्रियां शान्तां तत्सौभाग्यसमन्विताम् । बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् ॥ ४॥ सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः । कस्तूरीपत्रकं गण्डे नानाचित्रसमन्वितम् ॥ ५॥ पक्वबिम्बविनिन्द्याच्छचार्वोष्ठपुटमुत्तमम् । मुक्तापङ्क्तिप्रभामुष्टदन्तपङ्क्तिमनोरमम् ॥ ६॥ सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् । कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ॥ ७॥ बृहच्छ्रोणि सुकठिनां रम्भास्तम्भविनिन्दिताम् । स्थलपद्मप्रभामुष्टपादपद्मयुगं वरम् ॥ ८॥ रत्नपादुकसंयुक्तं कुङ्कुमाक्तं सयावकम् । देवेन्द्रमौलिमन्दारमकरन्दकणारुणम् ॥ ९॥ सुरसिद्धमुनीन्द्रैश्च दत्तार्घसंयुतं सदा । तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ॥ १०॥ मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् । वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ॥ ११॥ श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् । इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ॥ १२॥ दत्त्वा सम्पूजयेद् ब्रह्मन्नुपचाराणि षोडश । आसनं पाद्यमर्ध्यं च स्नानीयं चानुलेपनम् ॥ १३॥ धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् । वसनं भूषणं माल्यं गन्धमाचमनीयकम् ॥ १४॥ मनोहरं सुतल्पं च देयान्येतानि षोडश । दत्त्वा भक्त्या च प्रणमेत्संस्तूय सम्पुटाञ्जलिः ॥ १५॥ सम्पूज्यैव प्रकारेण सोऽश्वमेधफलं लभेत् । नारद उवाच । श्रोतुमिच्छामि देवेश लक्ष्मीकान्त जगत्पते ॥ १६॥ विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् । श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ॥ १७॥ शिवसङ्गीतसम्मुग्धश्रीकृष्णाङ्गसमुद्भवाम् । राधाङ्गद्रवसंयुक्तां तां गङ्गां प्रणमाम्यहम् ॥ १८॥ यज्जन्म सृष्टेरादौ च गोलोके रासमण्डले । सन्निधाने शङ्करस्य तां गङ्गां प्रणमाम्यहम् ॥ १९॥ गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे । कार्तिकीपूर्णिमायां च तां गङ्गां प्रणमाम्यहम् ॥ २०॥ कोटियोजनविस्तीर्णा दैर्घ्ये लक्षगुणा ततः । समावृता या गोलोके तां गङ्गां प्रणमाम्यहम् ॥ २१॥ षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा । समावृता या वैकुण्ठे तां गङ्गां प्रणमाम्यहम् ॥ २२॥ त्रिंशल्लक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता ब्रह्मलोके या तां गङ्गां प्रणमाम्यहम् ॥ २३॥ त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः । आवृता शिवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २४॥ लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः । आवृता धुवलोके या तां गङ्गां प्रणमाम्यहम् ॥ २५॥ लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः । आवृता चन्द्रलोके या तां गङ्गां प्रणमाम्यहम् ॥ २६॥ षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः । आवृता सूर्यलोके या तां गङ्गां प्रणमाम्यहम् ॥ २७॥ लक्षयोजनविस्तीर्णा दैर्घ्ये पञ्चगुणा ततः । आवृता या तपोलोके तां गङ्गां प्रणमाम्यहम् ॥ २८॥ सहस्रयोजनायामा दैर्घ्ये दशगुणा ततः । आवृता जनलोके या तां गङ्गां प्रणमाम्यहम् ॥ २९॥ दशलक्षयोजना या दैर्घ्ये पञ्चगुणा ततः । आवृता या महर्लोके तां गङ्गां प्रणमाम्यहम् ॥ ३०॥ सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः । आवृता या च कैलासे तां गङ्गां प्रणमाम्यहम् ॥ ३१॥ शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः । मन्दाकिनी येन्द्रलोके तां गङ्गां प्रणमाम्यहम् ॥ ३२॥ पाताले भोगवती च विस्तीर्णा दशयोजना । ततो दशगुणा दैर्घ्ये तां गङ्गां प्रणमाम्यहम् ॥ ३३॥ क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् । क्षितौ चालकनन्दा या तां गङ्गां प्रणमाम्यहम् ॥ ३४॥ सत्ये या क्षीरवर्णा च त्रेतायामिन्दुसन्निभा । द्वापरे चन्दनाभा या तां गङ्गां प्रणमाम्यहम् ॥ ३५॥ जलप्रभा कलौ या च नान्यत्र पृथिवीतले । स्वर्गे च नित्यं क्षीराभा तां गङ्गां प्रणमाम्यहम् ॥ ३६॥ यत्तोयकणिकास्पर्शे पापिनां ज्ञानसम्भवः । ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ॥ ३७॥ इत्येवं कथिता ब्रह्मन् गङ्गापद्मैकविंशतिः । स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ॥ ३८॥ नित्यं यो हि पठेद्भक्त्या सम्पूज्य च सुरेश्वरीम् । सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ॥ ३९॥ अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् । रोगात्प्रमुच्यते रोगी बन्धान्मुक्तो भवेद् ध्रुवम् ॥ ४०॥ अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः । यः पठेत्प्रातरुत्थाय गङ्गास्तोत्रमिदं शुभम् ॥ ४१॥ शुभं भवेच्च दुःस्वप्ने गङ्गास्नानफलं लभेत् । श्रीनारायण उवाच । स्तोत्रेणानेन गङ्गा च स्तुत्वा चैव भगीरथः ॥ ४२॥ जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः । वैकुण्ठं ते ययुस्तूर्णं गङ्गायाः स्पर्शवायुना ॥ ४३॥ भगीरथेन सा नीता तेन भागीरथी स्मृता । इत्येवं कथितं सर्वं गङ्गोपाख्यानमुत्तमम् ॥ ४४॥ पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच । कथं गङ्गा त्रिपथगा जाता भुवनपावनी ॥ ४५॥ कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो । तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम् ॥ ४६॥ एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि । श्रीनारायणाय उवाच । कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ॥ ४७॥ कृष्णः सम्पूज्य तां राधामुवास रासमण्डले । कृष्णेन पूजितां तां तु सम्पूज्य हृष्टमानसाः ॥ ४८॥ ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः । एतस्मिन्नन्तरे कृष्णसङ्गीता च सरस्वती ॥ ४९॥ जगौ सुन्दरतालेन वीणया च मनोहरम् । तुष्टो ब्रह्मा ददौ तस्यै रत्नेन्द्रसारहारकम् ॥ ५०॥ शिवो मणीन्द्रसारं तु सर्वब्रह्माण्डदुर्लभम् । कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ॥ ५१॥ अमूल्यरत्ननिर्माणं हारसारं च राधिका । नारायणश्च भगवान् ददौ मालां मनोहराम् ॥ ५२॥ अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुण्डलम् । विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ॥ ५३॥ दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् । धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे ॥ ५४॥ वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् । एतस्मिन्नन्तरे शम्भुर्ब्रह्मणा प्रेरितो मुहुः ॥ ५५॥ जगौ श्रीकृष्णसङ्गीतं रासोल्लाससमन्वितम् । मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ॥ ५६॥ कष्टेन चेतनां प्राप्य ददृशू रासमण्डले । स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ॥ ५७॥ अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः । ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम् ॥ ५८॥ गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति । ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरम् ॥ ५९॥ स्वमूर्तिं दर्शय विभो वाञ्छितं वरमेव नः । एतस्मिन्नन्तरे तत्र वाग्बभूवाशरीरिणी ॥ ६०॥ तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् । सर्वात्माहमियं शक्तिर्भक्तानुग्रहविग्रहा ॥ ६१॥ ममाप्यस्याश्च देहेन कर्तव्यं च किमावयोः । मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ॥ ६२॥ मन्मन्त्रपूता मां द्रष्टुमागमिष्यन्ति मत्पदम् । मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छथ सुरेश्वराः ॥ ६३॥ करोतु शम्भुस्तत्रैवं मदीयं वाक्यपालनम् । स्वयं विधातस्त्वं ब्रह्मन्नाज्ञां कुरु जगद्गुरुम् ॥ ६४॥ कर्तुं शास्त्रविशेषं च वेदाङ्गं सुमनोहरम् । अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ॥ ६५॥ स्तोत्रैश्च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः । मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ॥ ६६॥ भवन्ति विमुखा येन जना मां तत्करिष्यति । सहस्रेषु शतेष्वेको मन्मन्त्रोपासको भवेत् ॥ ६७॥ जना मन्मन्त्रपूताश्च गमिष्यन्ति च मत्पदम् । अन्यथा न भविष्यन्ति सर्वे गोलोकवासिनः ॥ ६८॥ निष्कलं भविता सर्वं ब्रह्माण्डं चैव ब्रह्मणः । जनाः पञ्चप्रकाराश्च युक्ताः स्रष्टुं भवे भवे ॥ ६९॥ पृथिवीवासिनः केचित्केचित्स्वर्गनिवासिनः । इदं कर्तुं महादेवः करोति देवसंसदि ॥ ७०॥ प्रतिज्ञां सुदृढां सद्यस्ततो मूर्तिं च द्रक्ष्यति । इत्येवमुक्त्वा गगने विरराम सनातनः ॥ ७१॥ तच्छ्रुत्वा जगतां धाता तमुवाच शिवं मुदा । ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनां वरः ॥ ७२॥ गङ्गातोयं करे कृत्वा स्वीकारं च चकार सः । संयुक्तं विष्णुमायाया मन्त्रौघैः शास्त्रमुत्तमम् ॥ ७३॥ वेदसारं करिष्यामि प्रतिज्ञापालनाय च । गङ्गातोयमुपस्मृश्य मिथ्या यदि वदेज्जनः ॥ ७४॥ स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः । इत्युक्ते शङ्करे ब्रह्मन् गोलोके सुरसंसदि ॥ ७५॥ आविर्बभूव श्रीकृष्णो राधया सहितस्ततः । तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ॥ ७६॥ परमानन्दपूर्णाश्च चकुश्च पुनरुत्सवम् । कालेन शम्भुर्भगवान् मुक्तिदीपं चकार सः ॥ ७७॥ इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् । स एव द्रवरूपा सा गङ्गा गोलोकसम्भवा ॥ ७८॥ राधाकृष्णाङ्गसम्भूता भुक्तिमुक्तिफलप्रदा । स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना । कृष्णस्वरूपा परमा सर्वब्रह्माण्डपूजिता ॥ ७९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नाम द्वादशोऽध्यायः ॥ ९.१२॥

९.१३ त्रयोदशोऽध्यायः । गङ्गोपाख्यानवर्णनम् ।

नारद उवाच । कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर । क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १॥ श्रीनारायण उवाच । भारतं भारतीशापात्समागत्येश्वरेच्छया । जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ २॥ भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् । पद्मावती च शापान्ते गङ्गा सा चैव नारद ॥ ३॥ गङ्गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः । तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४॥ नारद उवाच । केनोपायेन सा देवी विष्णुपादाब्जसम्भवा । ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ ५॥ बभूव सा मुनिश्रेष्ठ गङ्गा नारायणप्रिया । अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६॥ श्रीनारायण उवाच । पुरा बभूव गोलोके सा गङ्गा द्रवरूपिणी । राधाकृष्णाङ्गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७॥ द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि । नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ ८॥ शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा । तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९॥ स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी । सुपीनकठिनश्रोणिः सुनितम्बयुगन्धरा ॥ १०॥ पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् । सुचारुनेत्रयुगलं सुकटाक्षं सुवङ्क्रिमम् ॥ ११॥ वङ्क्रिमं कबरीभारं मालतीमाल्यसंयुतम् । सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२॥ कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् । बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३॥ पक्वदाडिमबीजाभदन्तपङ्क्तिसमुज्ज्वलम् । वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४॥ सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता । वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५॥ निमेषरहिताभ्यां च पिबन्ती सततं मुदा । प्रफुल्लवदना हर्षान्नवसङ्गमलालसा ॥ १६॥ मूर्च्छिता प्रभुरूपेण पुलकाङ्कितविग्रहा । एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७॥ गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा । कोपेनारक्तपद्मास्या रक्तपङ्कजलोचना ॥ १८॥ पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी । अमूल्यरत्ननिर्माणनानाभूषणभूषिता ॥ १९॥ अमूल्यरत्नखचितममूल्यं वह्निशौचकम् । पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ २०॥ स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् । कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ २१॥ रत्नेन्द्रसारनिर्माणविमानादवरुह्य सा । सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ २२॥ कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् । दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ २३॥ दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले । पारिजातप्रसूनानां मालायुक्तं सुवङ्क्रिमम् ॥ २४॥ सुचारुकबरीभारं कम्पयन्ती सुकम्पिता । सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ २५॥ गत्वोवास कृष्णपार्श्वे रत्नसिंहासने शुभे । सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ २६॥ तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् । सम्भाष्य मधुरालापैः सस्मितश्च ससम्भ्रमः ॥ २७॥ प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः । तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ २८॥ उत्थाय गङ्गा सहसा स्तुतिं बहु चकार सा । कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ २९॥ नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका । ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ ३०॥ तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ । बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१॥ ऊर्ध्वसिंहासनस्थां च राधां गङ्गा ददर्श सा । सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२॥ असङ्ख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् । सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥ ३३॥ विश्ववृन्दे निरुपमां रूपेण च गुणेन च । शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४॥ शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् । सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च ॥ ३५॥ कृष्णार्धाङ्गां कृष्णसमां तेजसा वयसा त्विषा । पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥ ३६॥ प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् । सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम् ॥ ३७॥ अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् । कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ ३८॥ दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी । निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ ३९॥ एतस्मिन्नन्तरे राधा जगदीशमुवाच सा । वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ ४०॥ राधोवाच । केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् । पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना ॥ ४१॥ मूर्च्छां प्राप्नोति रूपेण पुलकाङ्कितविग्रहा । वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२॥ त्वं चापि तां सन्निरीक्ष्य सकामः सस्मितः सदा । मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३॥ त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च । क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा ॥ ४४॥ सङ्गृह्येमां प्रियामिष्टां गोलोकाद् गच्छ लम्पट । अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ ४५॥ दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने । क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ ४६॥ त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा । देहं तत्याज विरजा नदीरूपा बभूव सा ॥ ४७॥ कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा । अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ ४८॥ गृहं मयि गतायां च पुनर्गत्वा तदन्तिके । उच्चै रुरोद विरजे विरजे चेति संस्मरन् ॥ ४९॥ तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी । सालङ्कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ ५०॥ ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया । ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥ ५१॥ दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने । सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५२॥ शोभा देहं परित्यज्य जगाम चन्द्रमण्डले । ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३॥ संविभज्य त्वया दत्तं हृदयेन विदूयता । रत्नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च ॥ ५४॥ किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन । किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ ५५॥ किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन । नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ ५६॥ किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन । दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥ ५७॥ सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । प्रभा देहं परित्यज्य जगाम सूर्यमण्डले ॥ ५८॥ ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ५९॥ विसृष्टं चक्षुषोः कृष्ण लज्जया मद्भयेन च । हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन ॥ ६०॥ किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन । किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन ॥ ६१॥ ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन । स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥ ६२॥ तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया । शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले ॥ ६३॥ वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः । रत्नप्रदीपैर्युक्ते च रत्ननिर्माणमन्दिरे ॥ ६४॥ रत्नभूषणभूषाढ्यो रत्नभूषितया सह । तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो ॥ ६५॥ सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया । शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥ ६६॥ ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह । संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ६७॥ विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो । शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥ ६८॥ त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन । तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥ ६९॥ मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह । सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः ॥ ७०॥ रत्नभूषितया गन्धचन्दनोक्षितया सह । सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते ॥ ७१॥ श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्गमात् । मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥ ७२॥ गृहीतं पीतवस्त्रं च मुरली च मनोहरा । वनमालाकौस्तुभश्चाप्यमूल्यं रत्नकुण्डलम् ॥ ७३॥ पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो । लज्जया कृष्णवर्णोऽभूद्भवान् पापेन यः प्रभो ॥ ७४॥ क्षमा देहं परित्यज्य लज्जया पृथिवीं गता । ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७५॥ संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः । किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ ७६॥ धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन । तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ ७७॥ एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि । त्वद्गुणं चैव बहुशो न जानामि परं प्रभो ॥ ७८॥ इत्येवमुक्त्वा सा राधा रक्तपङ्कजलोचना । गङ्गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ ७९॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥ ८०॥ राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् । पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८१॥ गङ्गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी । श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ ॥ ८२॥ गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा । ददर्श राधा सर्वत्र नैव गङ्गां ददर्श सा ॥ ८३॥ सर्वत्र जलशून्यं च शुष्कपङ्कं च गोलकम् । जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ ८४॥ ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः । मनवो मुनयः सर्वे देवसिद्धतपस्विनः ॥ ८५॥ गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः । सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८६॥ वरं वरेण्यं वरदं वरिष्ठं वरकारणम् । गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम् ॥ ८७॥ निरीहं च निराकारं निर्लिप्तं च निराश्रयम् । निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥ ८८॥ स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् । सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ८९॥ परं परेशं परमं परमात्मानमीश्वरम् । प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ ९०॥ सगद्गदाः साश्रुनेत्राः पुलकाङ्कितविग्रहाः । सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम् ॥ ९१॥ ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् । अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ॥ ९२॥ सेव्यमानं च गोपालैः श्वेतचामरवायुना । गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९३॥ प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् । तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ९४॥ परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् । मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥ ९५॥ प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् । परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥ ९६॥ निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् । ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥ ९७॥ वामतो वामदेवं च जगाम कृष्णसन्निधिम् । परमानन्दयुक्तं च परमानन्दरूपिणीम् ॥ ९८॥ सर्वं कृष्णमयं धाता ददर्श रासमण्डले । सर्वं समानवेषं च समानासनसंस्थितम् ॥ ९९॥ द्विभुजं मुरलीहस्तं वनमालाविभूषितम् । मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥ १००॥ अतीव कमनीयं च सुन्दरं शान्तविग्रहम् । गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०१॥ परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् । किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः ॥ १०२॥ क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् । निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥ १०३॥ एकमेव क्षणं कृष्णं राधया रहितं परम् । प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम् ॥ १०४॥ राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् । किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥ १०५॥ हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा । चकार स्तवनं भक्त्या परिहारमनेकधा ॥ १०६॥ ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया । ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥ १०७॥ स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् । पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम् ॥ १०८॥ तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः । सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः ॥ १०९॥ श्रीभगवानुवाच । आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते । इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११०॥ आगता हि महाभागा गङ्गानयनकारणात् । गङ्गा च चरणाम्भोजे भयेन शरणं गता ॥ १११॥ राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः । दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥ ११२॥ श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्भवः । तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥ ११३॥ वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः । धाता चतुर्णां वेदानामुवाच चतुराननः ॥ ११४॥ चतुरानन उवाच । गङ्गा त्वदङ्गसम्भूता प्रभोश्च रासमण्डले । युवयोर्द्रवरूपा सा मुग्धयोः शङ्करस्वनात् ॥ ११५॥ कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया । त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ ११६॥ भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः । भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ॥ १ रे ७॥ गोलोकस्था च या गङ्गा सर्वत्रस्था तथाम्बिके । तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥ ११८॥ ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता । वहिर्बभूव सा कृष्णपादाङ्गुष्ठनखाग्रतः ॥ ११९॥ तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः । उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२०॥ तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ । किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः ॥ १२१॥ गङ्गायै राधिकामन्त्रं प्रददौ कमलोद्भवः । तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च ॥ १२२॥ सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा । गङ्गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह ॥ १२३॥ लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रो योषितो मुने ॥ १२४॥ अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः । सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम् ॥ १२५॥ श्रीकृष्ण उवाच । गृहाण गङ्गां हे ब्रह्मन् हे विष्णो हे महेश्वर । श‍ृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय ॥ १२६॥ यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा । सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः ॥ १२७॥ एते जीवन्ति गोलोके कालचक्रविवर्जिते । जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥ १२८॥ ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि । वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥ १२९॥ गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् । स्वं ब्रह्माण्डं विरचय पश्चाद् गङ्गा प्रयास्यति ॥ १३०॥ एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः । करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३१॥ गतो बहुतरः कालो युष्माकं च चतुर्मुखाः । गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३२॥ इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने । देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्नतः ॥ १३३॥ गोलोके च स्थिता गङ्गा वैकुण्ठे शिवलोकके । ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता ॥ १३४॥ तत्रैव सा गता गङ्गा चाज्ञया परमात्मनः । निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १३५॥ इत्येवं कथितं ब्रह्मन् गङ्गोपाख्यानमुत्तमम् । सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १३६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गोपाख्यानवर्णनं नाम त्रयोदशोऽध्यायः ॥ ९.१३॥

९.१४ चतुर्दशोऽध्यायः । गङ्गायाः कृष्णपत्नीत्ववर्णनम् ।

नारद उवाच । लक्ष्मीः सरस्वती गङ्गा तुलसी विश्वपावनी । एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १॥ गङ्गा जगाम वैकुण्ठमिदमेव श्रुतं मया । कथं सा तस्य पत्नी च बभूवेति च न श्रुतम् ॥ २॥ श्रीनारायण उवाच । गङ्गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः । गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥ ३॥ ब्रह्मोवाच । राधाकृष्णाङ्गसम्भूता या देवी द्रवरूपिणी । नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥ ४॥ शुद्धसत्त्वस्वरूपा च क्रोधाहङ्कारवर्जिता । तदङ्गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५॥ तत्रातिमानिनी राधा सा च तेजस्विनी वरा । समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥ ६॥ विवेश चरणाम्भोजे कृष्णस्य परमात्मनः । सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥ ७॥ गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये । सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥ ८॥ बहिश्चकार गङ्गा च पादाङ्गुष्ठनखाग्रतः । दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥ ९॥ प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो । गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥ १०॥ सुरेश्वरेषु रसिको रसिकेयं समागता । त्वं रत्नं पुंसु देवेश स्त्रीरत्नं स्त्रीष्वियं सती ॥ ११॥ विदग्धया विदग्धेन सङ्गमो गुणवान् भवेत् । उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान् ॥ १२॥ तं विहाय महालक्ष्मी रुष्टा याति न संशयः । यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते ॥ १३॥ सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः । त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥ १४॥ अर्धाङ्गं द्विभुजः कृष्णो योऽर्धाङ्गेन चतुर्भुजः । कृष्णवामाङ्गसम्भूता बभूव राधिका पुरा ॥ १५॥ दक्षिणांशः स्वयं सा च वामांशः कमला तथा । तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥ १६॥ एकाङ्गं चैव स्वीपुंसोर्यथा प्रकृतिपूरुषौ । इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः ॥ १७॥ गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् । नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥ १८॥ रेमे रमापतिस्तत्र गङ्गया सहितो मुदा । गङ्गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥ १९॥ निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च । मूर्च्छां सम्प्राप सा देवी नवसङ्गमलीलया ॥ २०॥ रसिका सुखसम्भोगाद्रसिकेश्वरसंयुता । तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च ॥ २१॥ नित्यमीर्ष्यति तां वाणी न च गङ्गा सरस्वतीम् । गङ्गा शशाप कोपेन भारते च हरिप्रिया ॥ २२॥ गङ्गया सह तस्यैव तिस्रो भार्या रमापतेः । सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने ॥ २३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्गायाः कृष्णपत्नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ ९.१४॥

९.१५ पञ्चदशोऽध्यायः । नारायणनारदसंवादे शक्तिप्रादुर्भावः ।

नारद उवाच । नारायणप्रिया साध्वी कथं सा च बभूव ह । तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ॥ १॥ कस्य वा सा कुले जाता कस्य कन्या कुले सती । केन वा तपसा सा च सम्प्राप्ता प्रकृतेः परम् ॥ २॥ निर्विकारं निरीहं च सर्वविश्वस्वरूपकम् । नारायणं परं ब्रह्म परमेश्वरमीश्वरम् ॥ ३॥ सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् । सर्वाधारं सर्वरूपं सर्वेषां परिपालकम् ॥ ४॥ कथमेतादृशी देवी वृक्षत्वं समवाप ह । कथं साप्यसुरग्रस्ता सम्बभूव तपस्विनी ॥ ५॥ सुस्निग्धं मे मनो लोलं प्रेरयन्मां मुहुर्मुहुः । छेत्तुमर्हसि सन्देहं सर्वं सन्देहभञ्जन ॥ ६॥ श्रीनारायण उवाच । मनुश्च दक्षसावर्णिः पुण्यवान् वैष्णवः शुचिः । यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः ॥ ७॥ तत्पुत्रो ब्रह्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः । तत्पुत्रो धर्मसावर्णिर्वैष्णवश्च जितेन्द्रियः ॥ ८॥ तत्पुत्रो रुद्रसावर्णिर्भक्तिमान्विजितेन्द्रियः । तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ॥ ९॥ तत्पुत्र इन्द्रसावर्णिर्महाविष्णुपरायणः । वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ॥ १०॥ यस्याश्रमे स्वयं शम्भुरासीद्देवयुगत्रयम् । पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ॥ ११॥ न च नारायणं मेने न लक्ष्मीं न सरस्वतीम् । पूजां च सर्वदेवानां दूरीभूता चकार सः ॥ १२॥ भाद्रे मासि महालक्ष्मीपूजां मत्तो बभञ्ज ह । तथा माघीयपञ्चम्यां विस्मृता सर्वदैवतैः ॥ १३॥ पापः सरस्वतीपूजां दूरीभूता चकार सः । यज्ञं च विष्णुपूजां च निन्दन्तं तं दिवाकरः ॥ १४॥ चुकोप देवो भूपेन्द्रं शशाप शिवकारणात् । भ्रष्टश्रीस्त्वञ्च भवेति तं शशाप दिवाकरः ॥ १५॥ शूलं गृहीत्वा तं सूर्यमधावच्छङ्करः स्वयम् । पित्रा सार्धं दिनेशश्च ब्रह्माणं शरणं ययौ ॥ १६॥ शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा । ब्रह्मा सूर्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ॥ १७॥ ब्रह्मकश्यपमार्तण्डाः सन्त्रस्ताः शुष्कतालुकाः । नारायणं च सर्वेशं ते ययुः शरणं भिया ॥ १८॥ मूर्छा प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः । सर्वं निवेदनं चक्रुर्भयस्य कारणं हरौ ॥ १९॥ नारायणश्च कृपया तेभ्यश्च ह्यभयं ददौ । स्थिरा भवत हे भीता भयं किञ्च मयि स्थिते ॥ २०॥ स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः । तांस्तत्र गत्वा रक्षामि चक्रहस्तस्त्वरान्वितः ॥ २१॥ पाताहं जगतां देवाः कर्ता च सततं सदा । स्रष्टा च ब्रह्मरूपेण संहर्ता शिवरूपतः ॥ २२॥ शिवोऽहं त्वमहं चापि सूर्योऽहं त्रिगुणात्मकः । विधाय नानारूपं च करोमि सृष्टिपालनम् ॥ २३॥ यूयं गच्छत भद्रं वो भविष्यति भयं कुतः । अद्यप्रभृति मद्वरेण भयं वो नास्ति शङ्करात् ॥ २४॥ सर्वेशो वै स भगवाच्छङ्करश्च सतां पतिः । भक्ताधीनश्च भक्तानां भक्तात्मा भक्तवत्सलः ॥ २५॥ सुदर्शनः शिवश्चैव मम प्राणाधिकः प्रियः । ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः ॥ २६॥ शक्तः स्रष्टुं महादेवः सूर्यकोटिं च लीलया । कोटिं च ब्रह्मणामेवं नासाध्यं शूलिनः प्रभोः ॥ २७॥ बाह्यज्ञानं नैव किञ्चिद्ध्यायते मां दिवानिशम् । मन्मन्त्रान्मद्गुणान्भक्त्या पञ्चवक्त्रेण गायति ॥ २८॥ अहमेवं चिन्तयामि तत्कल्याणं दिवानिशम् । ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ॥ २९॥ शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता । शिवं भवति तस्माच्च शिवं तेन विदुर्बुधाः ॥ ३०॥ एतस्मिन्नन्तरे तत्र जगाम शङ्करः स्थितः । शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः ॥ ३१॥ अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः । ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ॥ ३२॥ रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् । किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ॥ ३३॥ नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् । चतुर्भुजैः सेवितं च श्वेतचामरवायुना ॥ ३४॥ चन्दनोक्षितसर्वाङ्गं भूषितं पीतवाससम् । लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ॥ ३५॥ विद्याधरीनृत्यगीतं पश्यन्तं सस्मितं सदा । ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ॥ ३६॥ तं ननाम महादेवो ब्रह्मणा नमितश्च सः । ननाम सूर्यो भक्त्या च सन्त्रस्तश्चन्द्रशेखरम् ॥ ३७॥ कश्यपश्च महाभक्त्या तुष्टाव च ननाम च । शिवः संस्तूय सर्वेशं समुवास सुखासने ॥ ३८॥ सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् । श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ॥ ३९॥ पीयूषतुल्यमधुरं वचनं सुमनोहरम् । विष्णुरुवाच । आगतोऽसि कथं चात्र वद कोपस्य कारणम् ॥ ४०॥ महादेव उवाच । वृषध्वजं च मद्भक्तं मम प्राणाधिकं प्रियम् । सूर्यः शशाप इति मे प्रकोपस्य तु कारणम् ॥ ४१॥ पुत्रवत्सलशोकेन सूर्यं हन्तुं समुद्यतः । स ब्रह्माणं प्रपन्नश्च सूर्यश्च स विधिस्त्वयि ॥ ४२॥ त्वयि ये शरणापन्ना ध्यानेन वचसापि वा । निरापदो विशङ्कास्ते जरा मृत्युश्च तैर्जितः ॥ ४३॥ प्रत्यक्षं शरणापन्नास्तत्फलं किं वदामि भोः । हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ॥ ४४॥ किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो । श्रीहतस्यास्य मूढस्य सूर्यशापेन हेतुना ॥ ४५॥ विष्णुरुवाच । कालोऽतियातो दैवेन युगानामेकविंशतिः । वैकुण्ठं घटिकार्धेन शीघ्रं गच्छ त्वमालयम् ॥ ४६॥ वृषध्वजो मृतः कालाद्दुर्निवार्यात्सुदारुणात् । रथध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ॥ ४७॥ तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ । हृतश्रियौ सूर्यशापात्स्मृतौ परमवैष्णवौ ॥ ४८॥ राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातपसा रतौ । तयोश्च भार्ययोर्लक्ष्मीः कलया च भविष्यति ॥ ४९॥ सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः । मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत ॥ ५०॥ इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरङ्गतः । देवा जग्मुः सम्प्रहृष्टाः स्वाश्रमं परया मुदा । शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ ॥ ५१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शक्तिप्रादुर्भावो नाम पञ्चदशोऽध्यायः ॥ ९.१५॥

९.१६ षोडशोऽध्यायः । महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम् ।

श्रीनारायण उवाच । लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने । वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ १॥ महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः । पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २॥ कुशध्वजस्य पत्नी च देवी मालावती सती । सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३॥ सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह । कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात् ॥ ४॥ वेदध्वनिं सा चकार जातमात्रेण कन्यका । तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः ॥ ५॥ जातमात्रेण सुस्नाता जगाम तपसे वनम् । सर्वैर्निषिद्धा यत्नेन नारायणपरायणा ॥ ६॥ एकमन्वन्तरं चैव पुष्करे च तपस्विनी । अत्युग्रां च तपस्यां च लीलया हि चकार सा ॥ ७॥ तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता । सुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥ ८॥ जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् । ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ ९॥ इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः । अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ १०॥ तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा । ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ ११॥ दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल । सुस्वादुभूतं च फलं जलं चापि सुशीतलम् ॥ १२॥ तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः । चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे ॥ १३॥ तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् । शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम् ॥ १४॥ मूर्च्छामवाप कृपणः कामबाणप्रपीडितः । स करेण समाकृष्य श‍ृङ्गारं कर्तुमुद्यतः ॥ १५॥ सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह । स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः ॥ १६॥ तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् । सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह ॥ १७॥ सा शशाप मदर्थे त्वं विनङ्क्ष्यसि सबान्धवः । स्पृष्टाहं च त्वया कामाद् बलं चाप्यवलोकय ॥ १८॥ इत्युक्त्वा सा च योगेन देहत्यागं चकार ह । गङ्गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ १९॥ अहो किमद्भुतं दृष्टं किं कृतं वानयाधुना । इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः ॥ २०॥ सा च कालान्तरे साध्वी बभूव जनकात्मजा । सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ २१॥ महातपस्विनी सा च तपसा पूर्वजन्मतः । लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ २२॥ सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् । सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ २३॥ जातिस्मरा न स्मरति तपसश्च क्लमं पुरा । सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ २४॥ नानाप्रकारविभवं चकार सुचिरं सती । सम्प्राप्य सुकुमारं तमतीव नवयौवना ॥ २५॥ गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् । स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ २६॥ पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः । जगाम काननं पश्चात्कालेन च बलीयसा ॥ २७॥ तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च । ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ २८॥ रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह । उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ २९॥ द्विज उवाच । भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः । सीताहरणकालोऽयं तवैव समुपस्थितः ॥ ३०॥ दैवं च दुर्निवार्यं च न च दैवात्परो बली । जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना ॥ ३१॥ दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः । देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ॥ ३२॥ रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् । स्वीकारं वचसश्चक्रे हृदयेन विदूयता ॥ ३३॥ वह्निर्योगेन सीताया मायासीतां चकार ह । तत्तुल्यगुणसर्वाङ्गां ददौ रामाय नारद ॥ ३४॥ सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च । लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ ३५॥ एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् । सीता तं प्रेरयामास तदर्थे यत्नपूर्वकम् ॥ ३६॥ संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने । स्वयं जगाम तूर्णं तं विव्याध सायकेन च ॥ ३७॥ लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः । प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥ ३८॥ मृगदेहं परित्यज्य दिव्यरूपं विधाय च । रत्ननिर्माणयानेन वैकुण्ठं स जगाम ह ॥ ३९॥ वैकुण्ठलोकद्वार्यासीत्किङ्करो द्वारपालयोः । पुनर्जगाम तद्द्वारमादेशाद् द्वारपालयोः ॥ ४०॥ अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् । तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ ॥ ४१॥ गते च लक्ष्मणे रामं रावणो दुर्निवारणः । सीतां गृहीत्वा प्रययौ लङ्कामेव स्वलीलया ॥ ४२॥ विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् । तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः ॥ ४३॥ मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः । पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम् ॥ ४४॥ कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे । सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः ॥ ४५॥ लङ्कां गत्वा रघुश्रेष्ठो जघान सायकेन च । कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह ॥ ४६॥ तां च वह्निपरीक्षां च कारयामास सत्वरम् । हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ ॥ ४७॥ उवाच छाया वह्निं च रामं च विनयान्विता । करिष्यामीति किमहं तदुपायं वदस्व मे ॥ ४८॥ श्रीरामाग्नी ऊचतुः त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् । कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ ४९॥ सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः । दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह ॥ ५०॥ सा च कालेन तपसा यज्ञकुण्डसमुद्भवा । कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ॥ ५१॥ कृते युगे वेदवती कुशध्वजसुता शुभा । त्रेतायां रामपत्नी च सीतेति जनकात्मजा ॥ ५२॥ तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा । त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये ॥ ५३॥ नारद उवाच । प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्गव । इति मच्चित्तसन्देहं भञ्ज सन्देहभञ्जन ॥ ५४॥ श्रीनारायण उवाच । लङ्कायां वास्तवी सीता रामं सम्प्राप नारद । रूपयौवनसम्पन्ना छाया च बहुचिन्तया ॥ ५५॥ रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्करं परम् । कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः ॥ ५६॥ पतिं देहि पतिं देहि पतिं देहि त्रिलोचन । पतिं देहि पतिं देहि पञ्चवारं चकार सा ॥ ५७॥ शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः । प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ ॥ ५८॥ तेन सा पाण्डवानां च बभूव कामिनी प्रिया । इति ते कथितं सर्वं प्रस्तावं वास्तवं श‍ृणु ॥ ५९॥ अथ सम्प्राप्य लङ्कायां सीतां रामो मनोहराम् । विभीषणाय तां लङ्कां दत्त्वायोध्यां ययौ पुनः ॥ ६०॥ एकादशसहस्राब्दं कृत्वा राज्यं च भारते । जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च ॥ ६१॥ कमलांशा वेदवती कमलायां विवेश सा । कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥ ६२॥ सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च । सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता ॥ ६३॥ धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥ ६४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनं नाम षोडशोऽध्यायः ॥ ९.१६॥

९.१७ सप्तदशोऽध्यायः । धर्मध्वजसुतातुलस्युपाख्यानवर्णनम् ।

श्रीनारायण उवाच । धर्मध्वजस्य पत्नी माधवीति च विश्रुता । नृपेण सार्धं सारामे रेमे च गन्धमादने ॥ १॥ शय्यां रतिकरीं कृत्वा पुष्पचन्दनचर्चिताम् । चन्दनालिप्तसर्वाङ्गीं पुष्पचन्दनवायुना ॥ २॥ स्त्रीरत्नमतिचार्वङ्गी रत्नभूषणभूषिता । कामुकी रसिका सृष्टा रसिकेन च संयुता ॥ ३॥ सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । गतं देववर्षशतं न ज्ञातं च दिवानिशम् ॥ ४॥ ततो राजा मतिं प्राप्य सुरताद्विरराम च । कामुकी सुन्दरी किञ्चिन्न च तृप्तिं जगाम सा ॥ ५॥ दधार गर्भं सा सद्यो दैवादब्दशतं सती । श्रीगर्भा श्रीयुता सा च सम्बभूव दिने दिने ॥ ६॥ शुभे क्षणे शुभदिने शुभयोगे च संयुते । शुभलग्ने शुभांशे च शुभस्वामिग्रहान्विते ॥ ७॥ कार्तिकीपूर्णिमायां तु सितवारे च पाद्मज । सुषाव सा च पद्मांशां पद्मिनीं तां मनोहराम् ॥ ८॥ शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् । पक्वबिम्बाधरोष्ठीं च पश्यन्तीं सस्मितां गृहम् ॥ ९॥ हस्तपादतलारक्तां निम्ननाभिं मनोरमाम् । तदधस्त्रिवलीयुक्तां नितम्बयुगवर्तुलाम् ॥ १०॥ शीते सुखोष्णसर्वाङ्गीं ग्रीष्मे च सुखशीतलाम् । श्यामां सुकेशीं रुचिरां न्यग्रोधपरिमण्डलाम् ॥ ११॥ पीतचम्पकवर्णाभां सुन्दरीष्वेव सुन्दरीम् । नरा नार्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ॥ १२॥ तेन नाम्ना च तुलसीं तां वदन्ति मनीषिणः । सा च भूयिष्ठमानेन योग्या स्त्री प्रकृतिर्यथा ॥ १३॥ सर्वैर्निषिद्धा तपसे जगाम बदरीवनम् । तत्र देवाब्दलक्षं च चकार परमं तपः ॥ १४॥ मनसा नारायणः स्वामी भवितेति च निश्चिता । ग्रीष्मे पञ्चतपाः शीते तोयवस्त्रा च प्रावृषि ॥ १५॥ आसनस्था वृष्टिधाराः सहन्तीति दिवानिशम् । विंशत्सहस्रवर्षं च फलतोयाशना च सा ॥ १६॥ त्रिंशत्सहस्रवर्षं च पत्राहारा तपस्विनी । चत्वारिंशत्सहस्राब्दं वाय्वाहारा कृशोदरी ॥ १७॥ ततो दशसहस्राब्दं निराहारा बभूव सा । निर्लक्ष्यां चैकपादस्थां दृष्ट्वा तां कमलोद्भवः ॥ १८॥ समाययौ वरं दातुं परं बदरिकाश्रमम् । चतुर्मुखं च सा दृष्ट्वा ननाम हंसवाहनम् ॥ १९॥ तामुवाच जगत्कर्ता विधाता जगतामपि । ब्रह्मोवाच । वरं वृणीष्व तुलसि यत्ते मनसि वाच्छितम् ॥ २०॥ हरिभक्तिं हरेर्दास्यमजरामरतामपि । तुलस्युवाच । श‍ृणु तात प्रवक्ष्यामि यन्मे मनसि वाञ्छितम् ॥ २१॥ सर्वज्ञस्यापि पुरतः का लज्जा मम साम्प्रतम् । अहं तु तुलसी गोपी गोलोकेऽहं स्थिता पुरा ॥ २२॥ कृष्णप्रिया किङ्करी च तदंशा तत्सखी प्रिया । गोविन्दरतिसम्भुक्तामतृप्तां मां च मूर्च्छिताम् ॥ २३॥ रासेश्वरी समागत्य ददर्श रासमण्डले । गोविन्दं भर्त्सयामास मां शशाप रुषान्विता ॥ २४॥ याहि त्वं मानवीं योनिमित्येवं च शशाप ह । मामुवाच स गोविन्दो मदंशं च चतुर्भुजम् ॥ २५॥ लभिष्यसि तपस्तप्त्वा भारते ब्रह्मणो वरात् । इत्येवमुक्त्वा देवेशोऽप्यन्तर्धानं चकार सः ॥ २६॥ देव्या भिया तनुं त्यक्त्वा प्राप्तं जन्म गुरो भुवि । अहं नारायणं कान्तं शान्तं सुन्दरविग्रहम् ॥ २७॥ साम्प्रतं तं पतिं लब्धुं वरये त्वं च देहि मे । ब्रह्मदेव उवाच । सुदामा नाम गोपश्च श्रीकृष्णाङ्गसमुद्भवः ॥ २८॥ तदंशश्चातितेजस्वी लेभे जन्म च भारते । साम्प्रतं राधिकाशापाद्दनुवंशसमुद्भवः ॥ २९॥ शङ्खचूडेति विख्यातस्त्रैलोक्ये न च तत्समः । गोलोके त्वां पुरा दृष्ट्वा कामोन्मथितमानसः ॥ ३०॥ विलम्भितुं न शशाक राधिकायाः प्रभावतः । स च जातिस्मरस्तस्मात्सदामाभूच्च सागरे ॥ ३१॥ जातिस्मरा त्वमपि सा सर्वं जानासि सुन्दरि । अधुना तस्य पत्नी त्वं सम्भविष्यसि शोभने ॥ ३२॥ पश्चान्नारायणं शान्तं कान्तमेव वरिष्यसि । शापान्नारायणस्यैव कलया दैवयोगतः ॥ ३३॥ भविष्यसि वृक्षरूपा त्वं पूता विश्वपावनी । प्रधाना सर्वपुष्पेषु विष्णुप्राणाधिका भवेः ॥ ३४॥ त्वया विना च सर्वेषां पूजा च विफला भवेत् । वृन्दावने वृक्षरूपा नाम्ना वृन्दावनीति च ॥ ३५॥ त्वत्पत्रैर्गोपिगोपाश्च पूजयिष्यन्ति माधवम् । वृक्षाधिदेवीरूपेण सार्धं कृष्णेन सन्ततम् ॥ ३६॥ विहरिष्यसि गोपेन स्वच्छन्दं मद्वरेण च । इत्येवं वचनं श्रुत्वा सस्मिता हृष्टमानसा ॥ ३७॥ प्रणनाम च ब्रह्माणं तं च किञ्चिदुवाच सा । तुलस्युवाच । यथा मे द्विभुजे कृष्णे वाञ्छा च श्यामसुन्दरे ॥ ३८॥ सत्यं ब्रवीमि हे तात न तथा च चतुर्भुजे । अतृप्ताहं च गोविन्दे दैवाच्छृङ्गारभङ्गतः ॥ ३९॥ गोविन्दस्यैव वचनात्प्रार्थयामि चतुर्भुजम् । त्वत्प्रसादेन गोविन्दं पुनरेव सुदुर्लभम् ॥ ४०॥ ध्रुवमेव लभिष्यामि राधाभीतिं प्रमोचय । ब्रह्यदेव उवाच । गृहाण राधिकामन्त्रं ददामि षोडशाक्षरम् ॥ ४१॥ तस्याश्च प्राणतुल्या त्वं मद्वरेण भविष्यसि । श‍ृङ्गारं युवयोर्गोप्यं न ज्ञास्यति च राधिका ॥ ४२॥ राधासमा त्वं सुभगे गोविन्दस्य भविष्यसि । इत्येवमुक्त्वा दत्त्वा च देव्या वै षोडशाक्षरम् ॥ ४३॥ मन्त्रं चैव जगद्धाता स्तोत्रं च कवचं परम् । सर्वं पूजाविधानं च पुरश्चर्याविधिक्रमम् ॥ ४४॥ परां शुभाशिषं चैव पूजां चैव चकार सा । बभूव सिद्धा सा देवी तत्प्रसादाद्रमा यथा ॥ ४५॥ सिद्धं मन्त्रेण तुलसी वरं प्राप यथोदितम् । बुभुजे च महाभोगं यद्विश्वेषु च दुर्लभम् ॥ ४६॥ प्रसन्नमनसा देवी तत्याज तपसः क्लमम् । सिद्धे फले नराणां च दुःखं च सुखमुत्तमम् ॥ ४७॥ भुक्त्या पीत्वा च सन्तुष्टा शयनं च चकार सा । तल्पे मनोरमे तत्र पुष्पचन्दनचर्चिते ॥ ४८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे धर्मध्वजसुतातुलस्युपाख्यानवर्णनं नाम सप्तदशोऽध्यायः ॥ ९.१७॥

९.१८ अष्टादशोऽध्यायः । शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनम् ।

नारायण उवाच । तुलसी परितुष्टा च सुष्वाप हृष्टमानसा । नवयौवनसम्पन्ना वृषध्वजवराङ्गना ॥ १॥ चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति । पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २॥ पुलकाङ्कितसर्वाङ्गी कम्पितारक्तलोचना । क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३॥ क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् । क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ ४॥ क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् । उत्तिष्ठन्ती क्षणं तल्पाद् गच्छन्ती निकटे क्षणम् ॥ ५॥ भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः । क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ ६॥ पुष्पचन्दनतल्पं च तद् बभूवातिकण्टकम् । विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ ७॥ निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः । सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८॥ क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती । सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९॥ चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् । आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ १०॥ कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः । सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ ११॥ पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ । यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ १२॥ पुनश्च चेतनां प्राप्य विललाप पुनः पुनः । एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ १३॥ शङ्खचूडो महायोगी जैगीषव्यान्मनोहरम् । कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ १४॥ कवचं च गले बद्ध्वा सर्वमङ्गलमङ्गलम् । ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ १५॥ आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ । आगच्छन्तं शङ्खचूडं ददर्श तुलसी मुने ॥ १६॥ नवयौवनसम्पन्नं कामदेवसमप्रभम् । श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ॥ १७॥ शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् । रत्नसारविनिर्माणविमानस्थं मनोहरम् ॥ १८॥ रत्नकुण्डलयुग्मेन गण्डस्थलविराजितम् । पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ १९॥ कस्तूरीकुङ्कुमायुक्तं सुगन्धिचन्दनान्वितम् । सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ २०॥ सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः । बभूवातिनम्रमुखी नवसङ्गमलज्जिता ॥ २१॥ शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता । अमूल्यरत्ननिर्माणयावकावलिसंयुता ॥ २२॥ मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता । दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ २३॥ अमूल्यरत्ननिर्माणमकराकृतिकुण्डला । चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ २४॥ रत्नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला । रत्नकङ्कणकेयूरशङ्खभूषणभूषिता ॥ २५॥ रत्नाङ्गुलीयकैर्दिव्यैरङ्गुल्यावलिराजिता । दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ २६॥ उवास तत्समीपे तु मधुरं तामुवाच सः । शङ्खचूड उवाच । का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ २७॥ का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि । मौनीभूते किङ्करे मां सम्भाषां कुरु सुन्दरि ॥ २८॥ इत्येवं वचनं श्रुत्वा सकामा वामलोचना । सस्मिता नम्रवदना सकामं तमुवाच सा ॥ २९॥ तुलस्युवाच । धर्मध्वजसुताहं च तपस्यायां तपोवने । तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ३०॥ कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् । न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम् ॥ ३१॥ लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः । येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम् ॥ ३२॥ आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् । विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ ३३॥ हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् । स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम् ॥ ३४॥ कार्यार्थे स्वामिवशगामन्यथैवावशां सदा । स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ ३५॥ श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् । तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः ॥ ३६॥ तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् । दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा ॥ ३७॥ बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्नतः । शश्वत्कामा च रामा च कामाधारा मनोहरा ॥ ३८॥ बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा । कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता ॥ ३९॥ मानिनी मैथुनाभावे कोपना कलहाङ्कुरा । सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता ॥ ४०॥ सुमिष्टान्नाच्छीततोयादाकाङ्क्षन्ती च मानसे । सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ४१॥ सुतात्परमभिस्नेहं कुर्वती रसिकोपरि । प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ॥ ४२॥ पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् । कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना ॥ ४३॥ वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् । दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा ॥ ४४॥ ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी । तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥ ४५॥ हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका । संसारकारागारे च शश्वन्निगडरूपिणी ॥ ४६॥ इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी । बिभ्रती बाह्यसौन्दर्यमधोऽङ्गमतिकुत्सितम् ॥ ४७॥ नानाविण्मूत्रपूयानामाधारं मलसंयुतम् । दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥ ४८॥ मायारूपा मायिनां च विधिना निर्मिता पुरा । विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम् ॥ ४९॥ इत्युक्त्वा तुलसी तं तु विरराम च नारद । सस्मितः शङ्खचूडश्च प्रवक्तुमुपचक्रमे ॥ ५०॥ शङ्खचूड उवाच । त्वया यत्कथितं देवि न च सर्वमलीककम् । किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ ५१॥ निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् । कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ ५२॥ लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका । सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता ॥ ५३॥ एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् । तत्प्रशस्यं यशोरूपं सर्वमङ्गलकारकम् ॥ ५४॥ शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा । छायावती रोहिणी च वरुणानी शची तथा ॥ ५५॥ कुबेरस्य च पत्नी याप्यदितिश्च दितिस्तथा । लोपामुद्रानसूया च कोटभी तुलसी तथा ॥ ५६॥ अहल्यारुन्धती मेना तारा मन्दोदरी तथा । दमयन्ती वेदवती गङ्गा च मनसा तथा ॥ ५७॥ पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा । षष्ठी मङ्गलचण्डी च मूर्तिश्च धर्मकामिनी ॥ ५८॥ स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा । निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च ॥ ५९॥ सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा । यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे ॥ ६०॥ कलाकलांशरूपं च स्वर्वेश्यादिकमेव च । तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ६१॥ सत्त्वप्रधानं यद्रूपं तद्युक्तं च प्रभावतः । तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ ६२॥ तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः । रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥ ६३॥ मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः । सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा ॥ ६४॥ कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा । रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥ ६५॥ इदं मध्यमरूपं च प्रवदन्ति मनीषिणः । तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ ६६॥ न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् । निर्जने निर्जले वापि रहस्यपि परस्त्रियम् ॥ ६७॥ आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना । गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ ६८॥ अहमेव शङ्खचूडो देवविद्रावकारकः । दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा ॥ ६९॥ अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च । अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ७०॥ जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः । जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा ॥ ७१॥ त्वमेव राधिकाकोपाज्जातासि भारते भुवि । त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः ॥ ७२॥ इत्येवमुक्त्वा स पुमान्विरराम महामुने । सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ ७३॥ तुलस्युवाच । एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः । कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ७४॥ त्वयाहमधुना सत्यं विचारेण पराजिता । स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ७५॥ निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् । स्त्रीजितं मनसा माता पिता भ्राता च निन्दति ॥ ७६॥ शुद्धो विप्रो दशाहेन जातके मृतके यथा । भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ ७७॥ शूद्रो मासेन वेदेषु मातृवद्धीनसङ्करः । अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः ॥ ७८॥ न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् । न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम् ॥ ७९॥ किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः । किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ८०॥ विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः । कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ८१॥ वराय गुणहीनाय वृद्धायाज्ञानिने तथा । दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ८२॥ अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च । पङ्गवे चाङ्गहीनाय चान्धाय बधिराय च ॥ ८३॥ जडाय चैव मूकाय क्लीबतुल्याय पापिने । ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः ॥ ८४॥ शान्ताय गुणिने चैव यूने च विदुषेऽपि च । साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत् ॥ ८५॥ यः कन्यापालनं कृत्वा करोति यदि विक्रयम् । विक्रेता धनलोभेन कुम्भीपाकं स गच्छति ॥ ८६॥ कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी । कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ ८७॥ तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् । विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ ८८॥ इत्येवमुक्त्वा तुलसी विरराम तपोनिधे । ब्रह्मोवाच । किं करोषि शङ्खचूड संवादमनया सह ॥ ८९॥ गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु । पुरुषेष्वसि रत्नं त्वं स्त्रीषु रत्नं त्वियं सती ॥ ९०॥ विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत् । निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम् ॥ ९१॥ योऽविरोधसुखत्यागी स पशुर्नात्र संशयः । किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति ॥ ९२॥ देवानामसुराणां च दानवानां विमर्दकम् । यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥ ९३॥ यथा मयि च सावित्री भवानी च भवे यथा । यथा धरा वराहे च दक्षिणा च यथाध्वरे ॥ ९४॥ द्यथात्रेरनसूया च दमयन्ती यथा नले । रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥ ९५॥ यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी । यथाहल्या गौतमे च देवहूतिश्च कर्दमे ॥ ९६॥ यथा बृहस्पतौ तारा शतरूपा मनौ यथा । यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥ ९७॥ यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे । देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती ॥ ९८॥ सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव । अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ॥ ९९॥ स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् । पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च । चतुर्भुजं च वैकुण्ठे शङ्खचूडे मृते सति ॥ १००॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलस्याः सङ्गतिवर्णनं नामाष्टादशोऽध्यायः ॥ ९.१८॥

९.१९ एकोनविंशोऽध्यायः । शङ्खचूडेन सह तुलसीसङ्गमवर्णनम् ।

नारद उवाच । विचित्रमिदमाख्यानं भवता समुदाहृतम् । श्रुतेन येन मे तृप्तिर्न कदापि हि जायते ॥ १॥ ततः परं तु यज्जातं तत्त्वं वद महामते । श्रीनारायण उवाच । इत्येवमाशिषं दत्त्वा स्वालयं च ययौ विधिः ॥ २॥ गान्धर्वेण विवाहेन जगृहे तां च दानवः । स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ॥ ३॥ स रेमे रामया सार्धं वासगेहे मनोरमे । मूर्च्छां सा प्राप तुलसी नवसङ्गमसङ्गता ॥ ४॥ निमग्ना निर्जले साध्वी सम्भोगसुखसागरे । चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ॥ ५॥ कामशास्त्रे यन्निरुक्तं रसिकानां यथेप्सितम् । अङ्गप्रत्यङ्गसंश्लेषपूर्वकं स्त्रीमनोहरम् ॥ ६॥ तत्सर्वं रसश‍ृङ्गारं चकार रसिकेश्वरः । अतीव रम्यदेशे च सर्वजन्तुविवर्जिते ॥ ७॥ पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना । पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ॥ ८॥ गहीत्वा रसिको रासे पुष्पचन्दनचर्चिताम् । भूषितो भूषणेनैव रत्नभूषणभूषिताम् ॥ ९॥ सुरते विरतिर्नास्ति तयोः सुरतिविज्ञयोः । जहार मानसं भर्तुर्लोलया लीलया सती ॥ १०॥ चेतनां रसिकायाश्च जहार रसभाववित् । वक्षसश्चन्दनं राज्ञस्तिलकं विजहार सा ॥ ११॥ स च जहार तस्याश्च सिन्दूरं बिन्दुपत्रकम् । तद्वक्षस्युरोजे च नखरेखां ददौ मुदा ॥ १२॥ सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् । राजा तदोष्ठपुटके ददौ रदनदंशनम् ॥ १३॥ तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् । आलिङ्गनं चुम्बनं च जङ्घादिमर्दनं तथा ॥ १४॥ एवं परस्परं क्रीडां चक्रतुस्तौ विजानतौ । सुरते विरते तौ च समुत्थाय परस्परम् ॥ १५॥ सुवेषं चक्रतुस्तत्र यद्यन्मनसि वाञ्छितम् । चन्दनैः कुङ्कुमारक्तैः सा तस्य तिलकं ददौ ॥ १६॥ सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् । सुवासं चैव ताम्बूलं वह्निशुद्धे च वाससी ॥ १७॥ पारिजातस्य कुसुमं जरारोगहरं परम् । अमूल्यरत्ननिर्माणमङ्गुलीयकमुत्तमम् ॥ १८॥ सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् । दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ॥ १९॥ ननाम परया भक्त्या स्वामिनं गुणशालिनम् । सस्मिता तन्मुखाम्भोजं लोचनाभ्यां पुनः पुनः ॥ २०॥ निमेषरहिताभ्यां चाप्यपश्यत्कामसुन्दरम् । स च तां च समाकृष्य चकार वक्षसि प्रियाम् ॥ २१॥ सस्मितं वाससाच्छन्नं ददर्श मुखपङ्कजम् । चुचुम्ब कठिने गण्डे बिम्बोष्ठौ पुनरेव च ॥ २२॥ ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् । तदाहृतां रत्नमालां त्रिषु लोकेषु दुर्लभाम् ॥ २३॥ ददौ मञ्जीरयुग्मं च स्वाहाया आहृतं च यत् । केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ॥ २४॥ अङ्गुलीयकरत्नानि रत्याश्च करभूषणम् । शङ्खं च रुचिरं चित्रं यद्दत्तं विश्वकर्मणा ॥ २५॥ विचित्रपद्मकश्रेणीं शय्यां चापि सुदुर्लभाम् । भूषणानि च दत्त्वा स भूपो हासं चकार ह ॥ २६॥ निर्ममे कबरीभारे तस्या माङ्गल्यभूषणम् । सुचित्रं पत्रकं गण्डमण्डलेऽस्याः समं तथा ॥ २७॥ चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना । परीतं परितश्चित्रैः सार्धं कुङ्कुमबिन्दुभिः ॥ २८॥ ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ । तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ॥ २९॥ चित्रालक्तकरागं च नखरेषु ददौ मुदा । स्ववक्षसि मुहुर्न्यस्य सरागं चरणाम्बुजम् ॥ ३०॥ हे देवि तव दासोऽहमित्युच्चार्य पुनः पुनः । रत्नभूषितहस्तेन तां च कृत्वा स्ववक्षसि ॥ ३१॥ तपोवनं परित्यज्य राजा स्थानान्तरं ययौ । मलये देवनिलये शैले शैले तपोवने ॥ ३२॥ स्थाने स्थानेऽतिरम्ये च पुष्पोद्याने च निर्जने । कन्दरे कन्दरे सिन्धुतीरे चैवातिसुन्दरे ॥ ३३॥ पुष्पभद्रानदीतीरे नीरवातमनोहरे । पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ॥ ३४॥ मधौ मधुकराणां च मधुरध्वनिनादिते । विस्पन्दने सुरसने नन्दने गन्धमादने ॥ ३५॥ देवोद्याने नन्दने च चित्रचन्दनकानने । चम्पकानां केतकीनां माधवीनां च माधवे ॥ ३६॥ कुन्दानां मालतीनां च कुमुदाम्भोजकानने । कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ॥ ३७॥ निर्जने काञ्चने स्थाने धन्ये काञ्चनपर्वते । काञ्चीवने किञ्जलके कञ्चुके काञ्चनाकरे ॥ ३८॥ पुष्पचन्दनतल्पेषु पुंस्कोकिलरुतश्रुते । पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ॥ ३९॥ कामुक्या कामुकः कामात्स रेमे रामया सह । न हि तृप्तो दानवेन्द्रस्तृप्तिं नैव जगाम सा ॥ ४०॥ हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः । तया सह समागत्य स्वाश्रमं दानवस्ततः ॥ ४१॥ रम्यं क्रीडालयं गत्वा विजहार पुनः पुनः । एवं स बुभुजे राज्यं शङ्खचूडः प्रतापवान् ॥ ४२॥ एकमन्वन्तरं पूर्णं राजराजेश्वरो महान् । देवानामसुराणां च दानवानां च सन्ततम् ॥ ४३॥ गन्धर्वाणां किन्नराणां राक्षसानां च शान्तिदः । हृताधिकारा देवाश्च चरन्ति भिक्षुका यथा ॥ ४४॥ ते सर्वेऽतिविषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम् । वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ॥ ४५॥ तदा ब्रह्मा सुरैः सार्धं जगाम शङ्करालयम् । सर्वेशं कथयामास विधाता चन्द्रशेखरम् ॥ ४६॥ ब्रह्मा शिवश्च तैः सार्धं वैकुण्ठं च जगाम ह । दुर्लभं परमं धाम जरामृत्युहरं परम् ॥ ४७॥ सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो । ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ॥ ४८॥ शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान् । वनमालान्वितान्सर्वान् श्यामसुन्दरविग्रहान् ॥ ४९॥ शङ्खचक्रगदापद्मधरांश्चैव चतुर्भुजान् । सस्मितान्स्मेरवक्त्रास्यान्पद्मनेत्रान्मनोहरान् ॥ ५०॥ ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् । तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ॥ ५१॥ एवं षोडश द्वाराणि निरीक्ष्य कमलोद्भवः । देवैः सार्धं तानतीत्य प्रविवेश हरेः सभाम् ॥ ५२॥ देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः । नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ॥ ५३॥ नवेन्दुमण्डलाकारां चतुरस्रां मनोहराम् । मणीन्द्रहारनिर्माणां हीरासारसुशोभिताम् ॥ ५४॥ अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः । माणिक्यमालाजालाभां मुक्तापङ्क्तिविभूषिताम् ॥ ५५॥ मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः । विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम् ॥ ५६॥ पद्मरागेन्द्ररचितां रुचिरां मणिपङ्कजैः । सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः ॥ ५७॥ पट्टसूत्रग्रन्थियुक्तैश्चारुचन्दनपल्लवैः । इन्द्रनीलस्तम्भवर्यैर्वेष्टितां सुमनोहराम् ॥ ५८॥ सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् । पारिजातप्रसूनानां मालाजालैर्विराजिताम् ॥ ५९॥ कस्तूरीकुङ्कुमारक्तैः सुगन्धिचन्दनद्रुमैः । सुसंस्कृतां तु सर्वत्र वासितां गन्धवायुना ॥ ६०॥ विद्याधरीसमूहानां नृत्यजालैर्विराजिताम् । सहस्रयोजनायामां परिपूर्णां च किङ्करैः ॥ ६१॥ ददर्श श्रीहरिं ब्रह्मा शङ्करश्च सुरैः सह । वसन्तं तन्मध्यदेशे यथेन्दुं तारकावृतम् ॥ ६२॥ अमूल्यरत्ननिर्माणचित्रसिंहासने स्थितम् । किरीटिनं कुण्डलिनं वनमालाविभूषितम् ॥ ६३॥ चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् । पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ॥ ६४॥ शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् । लक्ष्म्या प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ६५॥ गङ्गया परया भक्त्या सेवितं श्वेतचामरैः । सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ॥ ६६॥ एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं प्रभुम् । ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ॥ ६७॥ पुलकाञ्चितसर्वाङ्गाः साश्रुनेत्राश्च गद्गदाः । भक्ताश्च परया भक्त्या भीता नम्रात्मकन्धराः ॥ ६८॥ कृताञ्जलिपुटो भूत्वा विधाता जगतामपि । वृत्तान्तं कथयामास विनयेन हरेः पुरः ॥ ६९॥ हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् । प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ॥ ७०॥ श्रीभगवानुवाच । शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज । मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ॥ ७१॥ श‍ृणु तत्सर्ववृत्तान्तमितिहासं पुरातनम् । गोलोकस्यैव चरितं पापघ्नं पुण्यकारकम् ॥ ७२॥ सुदामा नाम गोपश्च पार्षदप्रवरो मम । स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ॥ ७३॥ तत्रैकदाहमगमं स्वालयाद्रासमण्डलम् । विरजामपि नीत्वा च मम प्राणाधिका परा ॥ ७४॥ सा मां विरजया सार्धं विज्ञाय किङ्करीमुखात् । पश्चात्क्रुद्धा साजगाम न ददर्श च तत्र माम् ॥ ७५॥ विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् । पुनर्जगाम सा दृष्ट्वा स्वालयं सखिभिः सह ॥ ७६॥ मां दृष्ट्वा मन्दिरे देवी सुदाम्ना सहितं पुरा । भृशं सा भर्त्सयामास मौनीभूतं च सुस्थिरम् ॥ ७७॥ तच्छ्रुत्वासहमानश्च सुदामा तां चुकोप ह । स च तां भर्त्सयामास कोपेन मम सनिधौ ॥ ७८॥ तच्छ्रुत्वा कोपयुक्ता सा रक्तपङ्कजलोचना । बहिष्कर्तुं चकाराज्ञां सन्त्रस्तं मम संसदि ॥ ७९॥ सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोल्बणम् । बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ॥ ८०॥ सा च तत्ताडनं तासां श्रुत्वा रुष्टा शशाप ह । याहि रे दानवीं योनिमित्येवं दारुणं वचः ॥ ८१॥ तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च । वारयामास तुष्टा सा रुदती कृपया पुनः ॥ ८२॥ हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः । समुच्चार्य च तत्पश्चाज्जगाम सा च विक्लवम् ॥ ८३॥ गोप्यश्च रुरुदुः सर्वा गोपाश्चापि सुदुःखिताः । ते सर्वे राधिका चापि तत्पश्चाद् बोधिता मया ॥ ८४॥ आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् । सुदामंस्त्वमिहागच्छेत्युक्त्वा सा च निवारिता ॥ ८५॥ गोलोकस्य क्षणार्धेन चैकं मन्वन्तरं भवेत् । पृथिव्यां जगतां धातरित्येव वचनं ध्रुवम् ॥ ८६॥ इत्येवं शङ्खचूडश्च पुनस्तत्रैव यास्यति । महाबलिष्ठो योगेशः सर्वमायाविशारदः ॥ ८७॥ मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् । शिवः करोतु संहारं मम शूलेन रक्षसः ॥ ८८॥ ममैव कवचं कण्ठे सर्वमङ्गलकारकम् । बिभर्ति दानवः शश्वत्संसारे विजयी ततः ॥ ८९॥ तस्मिन् ब्रह्मन् स्थिते चैव न कोऽपि हिंसितुं क्षमः । तद्याचनां करिष्यामि विप्ररूपोऽहमेव च ॥ ९०॥ सतीत्वहानिस्तत्पत्न्या यत्र काले भविष्यति । तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ॥ ९१॥ तत्पत्न्याश्चोदरे वीर्यमर्पयिष्यामि निश्चितम् । तत्क्षणे चैव तन्मृत्युर्भविष्यति न संशयः ॥ ९२॥ पश्चात्सा देहमुत्सज्य भविष्यति मम प्रिया । इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ॥ ९३॥ शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरे मुदा । भारतं च ययुर्देवा ब्रह्यरुद्रपुरोगमाः ॥ ९४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडेन सह तुलसीसङ्गमवर्णनं नामैकोनविंशोऽध्यायः ॥ ९.१९॥

९.२० विंशोऽध्यायः । शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम् ।

श्रीनारायण उवाच । ब्रह्मा शिवं सन्नियोज्य संहारे दानवस्य च । जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १॥ चन्द्रभागानदीतीरे वटमूले मनोहरे । तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २॥ दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् । शीघ्रं प्रस्थापयामास शङ्खचूडान्तिकं मुदा ॥ ३॥ सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् । महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४॥ पञ्चयोजनविस्तीर्णं दैर्घ्ये तद् द्विगुणं भवेत् । स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ ५॥ सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् । ज्वलदग्निनिभैः शश्वत्कल्पितं रत्नकोटिभिः ॥ ६॥ युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः । परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ ७॥ सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः । भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ ८॥ गत्वा ददर्श तन्मध्ये शङ्खचूडालयं परम् । अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ ९॥ ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः । तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ १०॥ अत्युच्चैर्गगनस्पर्शिमणिश‍ृङ्गविराजितम् । राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ ११॥ मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः । शोभितं रत्नसोपानै रत्नस्तम्भविराजितम् ॥ १२॥ तद् दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः । द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ १३॥ तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् । कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ १४॥ अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः । न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ १५॥ गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह । रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ १६॥ स च तं कथयित्वा च दूतो गन्तुमुवाच ह । स गत्वा शङ्खचूडं तं ददर्श सुमनोहरम् ॥ १७॥ राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् । मणीन्द्ररचितं दिव्यं रत्नदण्डसमन्वितम् ॥ १८॥ रत्नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा । भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ १९॥ सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः । सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ॥ २०॥ माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने । दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ २१॥ शतकोटिभिरन्यैश्च भ्रमद्भिरस्त्रपाणिभिः । एवम्भूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ २२॥ उवाच स च वृत्तान्तं यदुक्तं शङ्करेण च । पुष्पदन्त उवाच । राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ २३॥ यदुक्तं शङ्करेणैव तद् ब्रवीमि निशामय । राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ २४॥ देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् । हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ २५॥ पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः । विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ २६॥ गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि । दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ॥ २७॥ प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह । स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ २८॥ शङ्खचूडस्य वचनं तदीयं तन्मुखोदितम् । एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ २९॥ वीरभद्रश्च नन्दी च महाकालः सुभद्रकः । विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ॥ ३०॥ विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः । कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥ ३१॥ कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः । बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥ ३२॥ अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः । वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः ॥ ३३॥ हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ । कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥ ३४॥ वायुश्च वरुणश्चैव बुधश्च मङ्गलस्तथा । धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ॥ ३५॥ उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा । स्वयं चाष्टभुजा देवी भद्रकाली भयङ्करी ॥ ३६॥ रत्नेन्द्रसारनिर्माणविमानोपरि संस्थिता । रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७॥ नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा । अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम् ॥ ३८॥ बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् । शङ्खचक्रगदापद्मखड्गचर्मधनुःशरान् ॥ ३९॥ खर्परं वर्तुलाकारं गम्भीरं योजनायतम् । त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ ४०॥ मुद्गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् । वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ॥ ४१॥ नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा । पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२॥ माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा । अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥ ४३॥ आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः । सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४४॥ भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः । वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः ॥ ४५॥ ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् । पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया ॥ ४६॥ अथ दूते गते तत्र शङ्खचूडः प्रतापवान् । उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च ॥ ४७॥ रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका । उवाच मधुरं साध्वी हृदयेन विदूयता ॥ ४८॥ तुलस्युवाच । हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् । हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ॥ ४९॥ भुङ्क्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् । पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम् ॥ ५०॥ आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् । दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि ॥ ५१॥ तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर । उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ ५२॥ शङ्खचूड उवाच । कालेन योजितं सर्वं कर्मभोगनिबन्धनम् । शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्गलम् ॥ ५३॥ काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः । क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ ५४॥ तेषां फलानि पक्वानि प्रभवन्त्येव कालतः । ते सर्वे फलिताः काले पातं यान्ति च कालतः ॥ ५५॥ काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि । कालात्स्रष्टा च सृजति पाता पाति च कालतः ॥ ५६॥ संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते । ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा ॥ ५७॥ स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः । काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः ॥ ५८॥ निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् । सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः ॥ ५९॥ जनं जनेन जनिता जनं पाति जनेन यः । जनं जनेन हरते तं देवं भज साम्प्रतम् ॥ ६०॥ यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् । यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६१॥ यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान् ॥ ६२॥ मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् । विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे ॥ ६३॥ संहर्तारं च संहर्तुस्तं देवं शरणं व्रज । को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये ॥ ६४॥ अहं को वा च त्वं का वा विधिना योजितः पुरा । त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ ६५॥ अज्ञानी कातरः शोके विपत्तौ न च पण्डितः । सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च ॥ ६६॥ नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् । तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥ ६७॥ मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च । हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि ॥ ६८॥ वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि । अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ६९॥ तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् । अगमं राधिकाशापाद्भारतं च सुदुर्लभम् ॥ ७०॥ पुनर्यास्यामि तत्रैव कः शोको मे श‍ृणु प्रिये । त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ७१॥ तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव । इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम् ॥ ७२॥ सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते । नानाप्रकारविभवं चकार रत्नमन्दिरे ॥ ७३॥ रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् । निनाय रजनीं राजा क्रीडाकौतुकमङ्गलैः ॥ ७४॥ कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् । कृशोदरीं निराहारां निमग्नां शोकसागरे ॥ ७५॥ पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् । पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ ७६॥ स च तस्यै ददौ सर्वं सर्वशोकहरं परम् । ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ७७॥ क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् । तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे ॥ ७८॥ पुलकाञ्चितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने । अङ्गप्रत्यङ्गसंयुक्तौ सुप्रीतौ सुरतोत्सुको ॥ ७९॥ एकाङ्गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा । प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८०॥ प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् । तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ ८१॥ सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ । क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात् ॥ ८२॥ कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः । क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ ॥ ८३॥ सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ । सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ८४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ ९.२०॥

९.२१ एकविंशोऽध्यायः । शङ्खचूडकृते प्रबोधवाक्यवर्णनम् ।

श्रीनारायण उवाच । श्रीकृष्णं मनसा ध्यात्वा रक्षः कृष्णपरायणः । ब्राह्मे मुहूर्ते चोत्थाय पुष्पतल्पान्मनोहरात् ॥ १॥ रात्रिवासः परित्यज्य स्नात्वा मङ्गलवारिणा । धौते च वाससी धृत्वा कृत्वा तिलकमुज्ज्वलम् ॥ २॥ चकाराह्निकमावश्यमभीष्टदेववन्दनम् । दध्याज्यमधुलाजांश्च ददर्श वस्तु मङ्गलम् ॥ ३॥ रत्नश्रेष्ठं मणिश्रेष्ठं वस्त्रश्रेष्ठं च काञ्चनम् । ब्राह्मणेभ्यो ददौ भक्त्या यथा नित्यं च नारद ॥ ४॥ अमूल्यरत्नं यत्किञ्चिन्मुक्तामाणिक्यहीरकम् । ददौ विप्राय गुरवे यात्रामङ्गलहेतवे ॥ ५॥ गजरत्नमश्वरत्नं धनरत्नं मनोहरम् । ददौ सर्वं दरिद्राय विप्राय मङ्गलाय च ॥ ६॥ भाण्डाराणां सहस्राणि नगराणां द्विलक्षकम् । ग्रामाणां शतकोटिं च ब्राह्मणाय ददौ मुदा ॥ ७॥ पुत्रं कृत्वा तु राजेन्द्रं सर्वेषु दानवेषु च । पुत्रं समर्प्य भार्यां तां राज्यं च सर्वसम्पदम् ॥ ८॥ प्रजानुचरसङ्घं च भाण्डारं वाहनादिकम् । स्वयं सन्नाहयुक्तश्च धनुष्पाणिर्बभूव ह ॥ ९॥ भृत्यद्वारा क्रमेणैव चकार सैन्यसञ्चयम् । अश्वानां च त्रिलक्षेण लक्षेण वरहस्तिनाम् ॥ १०॥ रथानामयुतेनैव धानुष्काणां त्रिकोटिभिः । त्रिकोटिभिर्वर्मिणां च शूलिनां च त्रिकोटिभिः ॥ ११॥ कृता सेनापरिमिता दानवेन्द्रेण नारद । तस्यां सेनापतिश्चैव युद्धशास्त्रविशारदः ॥ १२॥ महारथः स विज्ञेयो रथिनां प्रवरो रणे । त्रिलक्षाक्षौहिणीसेनापतिं कृत्वा नराधिपः ॥ १३॥ त्रिंशदक्षौहिणीबाधं भाण्डौघं च चकार ह । बहिर्बभूव शिविरान्मनसा श्रीहरिं स्मरन् ॥ १४॥ रत्नेन्द्रसारनिर्माणविमानमारुरोह सः । गुरुवर्गान्पुरस्कृत्य प्रययौ शङ्करान्तिकम् ॥ १५॥ पुष्पभद्रानदीतीरे यत्राक्षयवटः शुभः । सिद्धाश्रमं च सिद्धानां सिद्धिक्षेत्रं च नारद ॥ १६॥ कपिलस्य तपःस्थानं पुण्यक्षेत्रे च भारते । पश्चिमोदधिपूर्वे च मलयस्य च पश्चिमे ॥ १७॥ श्रीशैलोत्तरभागे च गन्धमादनदक्षिणे । पञ्चयोजनविस्तीर्णा दैर्घ्ये शतगुणा तथा ॥ १८॥ शुद्धस्फटिकसङ्काशा भारते च सुपुण्यदा । शाश्वती जलपूर्णा च पुष्पभद्रा नदी शुभा ॥ १९॥ लवणाब्धिप्रिया भार्या शश्वत्सौभाग्यसंयुता । शरावतीमिश्रिता च निर्गता सा हिमालयात् ॥ २०॥ गोमतीं वामतः कृत्वा प्रविष्टा पश्चिमोदधौ । तत्र गत्वा शङ्खचूडो ददर्श चन्द्रशेखरम् ॥ २१॥ वटमूले समासीनं सूर्यकोटिसमप्रभम् । कृत्वा योगासनं दृष्ट्वा मुद्रायुक्तं च सस्मितम् ॥ २२॥ शुद्धस्फटिकसङ्काशं ज्वलन्तं ब्रह्मतेजसा । त्रिशलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ॥ २३॥ भक्तमृत्युहरं शान्तं गौरीकान्तं मनोहरम् । तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ २४॥ आशुतोषं प्रसन्नास्यं भक्तानुग्रहकातरम् । विश्वनाथं विश्वबीजं विश्वरूपं च विश्वजम् ॥ २५॥ विश्वम्भरं विश्ववरं विश्वसंहारकारकम् । कारणं कारणानां च नरकार्णवतारणम् ॥ २६॥ ज्ञानप्रदं ज्ञानबीजं ज्ञानानन्दं सनातनम् । अवरुह्य विमानाच्च तं दृष्ट्वा दानवेश्वरः ॥ २७॥ सर्वैः सार्धं भक्तियुक्तः शिरसा प्रणनाम सः । वामतो भद्रकालीं च स्कन्दं च तत्पुरः स्थितम् ॥ २८॥ आशिषं च ददौ तस्मै काली स्कन्दश्च शङ्करः । उत्तस्थुरागतं दृष्ट्वा सर्वे नन्दीश्वरादयः ॥ २९॥ परस्परं च भाषन्ते चक्रुस्तत्र च साम्प्रतम् । राजा कृत्वा च सम्भाषामुवास शिवसन्निधौ ॥ ३०॥ प्रसन्नात्मा महादेवो भगवांस्तमुवाच ह । महादेव उवाच । विधाता जगतां ब्रह्मा पिता धर्मस्य धर्मवित् ॥ ३१॥ मरीचिस्तस्य पुत्रश्च वैष्णवाश्चापि धार्मिकः । कश्यपश्चापि तत्पुत्रो धर्मिष्ठश्च प्रजापतिः ॥ ३२॥ दक्षः प्रीत्या ददौ तस्मै भक्त्या कन्यास्त्रयोदश । तास्वेका च दनुः साध्वी तत्सौभाग्यविवर्धिता ॥ ३३॥ चत्वारिंशद्दनोः पुत्रा दानवास्तेजसोल्बणाः । तेष्वेको विप्रचित्तिश्च महाबलपराक्रमः ॥ ३४॥ तत्पुत्रो धार्मिको दम्भो विष्णुभक्तो जितेन्द्रियः । जजाप परमं मन्त्रं पुष्करे लक्षवत्सरम् ॥ ३५॥ शुक्राचार्यं गुरुं कृत्वा कृष्णस्य परमात्मनः । तदा त्वां तनयं प्राप परं कृष्णपरायणम् ॥ ३६॥ पुरा त्वं पार्षदो गोपो गोपेष्वपि सुधार्मिकः । अधुना राधिकाशापाद्भारते दानवेश्वरः ॥ ३७॥ आब्रह्मस्तम्बपर्यन्तं तुच्छं मेने च वैष्णवः । सालोक्यसार्ष्टिसायुज्यसामीप्यं च हरेरपि ॥ ३८॥ दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना । ब्रह्मत्वममरत्वं वा तुच्छं मेने च वैष्णवः ॥ ३९॥ इन्द्रत्वं वा मनुत्वं वा न मेने गणनासु च । कृष्णभक्तस्य ते किं वा देवानां विषये भ्रमे ॥ ४०॥ देहि राज्यं च देवानां मत्प्रीतिं रक्ष भूमिप । सुखं स्वराज्ये त्वं तिष्ठ देवास्तिष्ठन्तु वै पदे ॥ ४१॥ अलं भूतविरोधेन सर्वे कश्यपवंशजाः । यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ ४२॥ ज्ञातिद्रोहस्य पापानि कलां नार्हन्ति षोडशीम् । स्वसम्पदां च हानिं च यदि राजेन्द्र मन्यसे ॥ ४३॥ सर्वावस्था च समतां केषां याति च सर्वदा । ब्रह्मणश्च तिरोभावो लये प्राकृतिके सदा ॥ ४४॥ आविर्भावः पुनस्तस्य प्रभावादीश्वरेच्छया । ज्ञानवृद्धिश्च तपसा स्मृतिलोपश्च निश्चितम् ॥ ४५॥ करोति सृष्टिं ज्ञानेन स्रष्टा सोऽपि क्रमेण च । परिपूर्णतमो धर्मः सत्ये सत्याश्रये सदा ॥ ४६॥ त्रिभागः सोऽपि त्रेतायां द्विभागो द्वापरे स्मृतः । एकभागः कलौ पूर्वं तदंशश्च कमेण च ॥ ४७॥ कलामात्रं कलेः शेषे कुह्वां चन्द्रकला यथा । यादृक् तेजो रवेर्ग्नीष्मे न तादृक् शिशिरे पुनः ॥ ४८॥ दिनेषु यादृङ्मध्याह्ने सायं प्रातर्न तत्समम् । उदयं याति कालेन बालतां च क्रमेण च ॥ ४९॥ प्रकाण्डतां च तत्पश्चात्कालेऽस्तं पुनरेति सः । दिने प्रच्छन्नतां याति कालेन दुर्दिने घने ॥ ५०॥ राहुग्रस्ते कम्पितश्च पुनरेव प्रसन्नताम् । परिपूर्णतमश्चन्द्रः पूर्णिमायां च जायते ॥ ५१॥ तादृशो न भवेन्नित्यं क्षयं याति दिने दिने । पुनश्च पुष्टिमायाति परं कुह्वा दिने दिने ॥ ५२॥ सम्पद्युक्तः शुक्लपक्षे कृष्णे म्लानश्च यक्ष्मणा । राहुग्रस्ते दिने म्लानो दुर्दिने न विरोचते ॥ ५३॥ काले चन्द्रो भवेच्छुक्लो भ्रष्टश्रीः कालभेदतः । भविष्यति बलिश्चेन्द्रो भ्रष्टश्रीः सुतलेऽधुना ॥ ५४॥ कालेन पृथ्वी सस्याढ्या सर्वाधारा वसुन्धरा । काले जले निमग्ना सा तिरोभूताम्बुविप्लुता ॥ ५५॥ काले नश्यन्ति विश्वानि प्रभवन्त्येव कालतः । चराचराश्च कालेन नश्यन्ति प्रभवन्ति च ॥ ५६॥ ईश्वरस्यैव समता ब्रह्मणः परमात्मनः । अहं मृत्युञ्जयो यस्मादसङ्ख्यं प्राकृतं लयम् ॥ ५७॥ आदर्शं चापि द्रक्ष्यामि वारं वारं पुनः पुनः । स च प्रकृतिरूपश्च स एव पुरुषः स्मृतः ॥ ५८॥ स चात्मा स च जीवश्च नानारूपधरः परः । करोति सततं यो हि तनामगुणकीर्तनम् ॥ ५९॥ काले मृत्युं स जयति जन्मरोगभयं जराम् । स्रष्टा कृतो विधिस्तेन पाता विष्णुः कृतो भवेत् ॥ ६०॥ अहं कृतश्च संहर्ता वयं विषयिणः कृताः । कालाग्निरुद्रं संहारे नियोज्य विषये नृप ॥ ६१॥ अहं करोमि सततं तन्नामगुणकीर्तनम् । तेन मृत्युञ्जयोऽहं च ज्ञानेनानेन निर्भयः ॥ ६२॥ मृत्युर्मृत्युभयाद्याति वैनतेयादिवोरगाः । इत्युक्त्वा स च सर्वेशः सर्वभावेन तत्परः ॥ ६३॥ विरराम च शम्भुश्च सभामध्ये च नारद । राजा तद्वचनं श्रुत्वा प्रशशंस पुनः पुनः ॥ ६४॥ उवाच मधुरं देवं परं विनयपूर्वकम् । शङ्खचूड उवाच । त्वया यत्कथितं देव नान्यथा वचनं स्मृतम् ॥ ६५॥ तथापि किञ्चिद्यथार्थं श्रूयतां मन्निवेदनम् । ज्ञातिद्रोहे महत्पापं त्वयोक्तमधुना च यत् ॥ ६६॥ गृहीत्वा तस्य सर्वस्वं कुतः प्रस्थापितो बलिः । मया समुद्धृतं सर्वमूर्ध्वमैश्वर्यमीश्वर ॥ ६७॥ सुतलाच्च समुद्धर्तुं नालं तत्र गदाधरः । सभ्रातृको हिरण्याक्षः कथं देवैश्च हिंसितः ॥ ६८॥ शुम्भादयश्चासुराश्च कथं देवैर्निपातिताः । पुरा समुद्रमथने पीयूषं भक्षितं सुरैः ॥ ६९॥ क्लेशभाजो वयं तत्र ते सर्वे फलभोगिनः । क्रीडाभाण्डमिदं विश्वं प्रकृतेः परमात्मनः ॥ ७०॥ यस्मै यत्र स ददाति तस्यैश्वर्यं भवेत्तदा । देवदानवयोर्वादः शश्वन्नैमित्तिकः सदा ॥ ७१॥ पराजयो जयस्तेषां कालेऽस्माकं क्रमेण च । तदावयोर्विरोधे वाऽऽगमनं निष्कलं परम् ॥ ७२॥ समसम्बन्धिनो बन्धोरीश्वरस्य महात्मनः । इयं ते महती लज्जा युद्धेऽस्माभिः सहाधुना ॥ ७३॥ जये ततोऽधिका कीर्तिर्हानिश्चैव पराजये । इत्येतद्वचनं श्रुत्वा प्रहस्य च त्रिलोचनः ॥ ७४॥ यथोचितमुत्तरं तमुवाच दानवेश्वरम् । महादेव उवाच । युष्माभिः सह युद्धे मे ब्रह्मवंशसमुद्भवैः ॥ ७५॥ का लज्जा महती राजन्नकीर्तिर्वा पराजये । युद्धमादौ हरेरेव मधुना कैटभेन च ॥ ७६॥ हिरण्यकशिपोश्चैव सह तेनात्मना नृप । हिरण्याक्षस्य युद्धं च पुनस्तेन गदाभृता ॥ ७७॥ त्रिपुरैः सह युद्धं च मयापि च पुरा कृतम् । सर्वेश्वर्याः सर्वमातुः प्रकृत्याश्च बभूव ह ॥ ७८॥ सह शुम्भादिभिः पूर्वं समरः परमाद्भुतः । पार्षदप्रवरस्त्वं च कृष्णस्य परमात्मनः ॥ ७९॥ ये ये हताश्च दैतेया नहि केऽपि त्वया समाः । का लज्जा महती राजन् मम युद्धे त्वया सह ॥ ८०॥ सुराणां शरणस्यैव प्रेषितश्च हरेरहो । देहि राज्यं च देवानामिति मे निश्चितं वचः ॥ ८१॥ युद्धं वा कुरु मत्सार्धं वाग्व्यये किं प्रयोजनम् । इत्युक्त्वा शङ्करस्तत्र विरराम च नारद । उत्तस्थौ शङ्खचूडश्च ह्यमात्यैः सह सत्वरम् ॥ ८२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्खचूडकृते प्रबोधवाक्यवर्णनं नामेकविंशोऽध्यायः ॥ ९.२१॥

९.२२ द्वाविंशोऽध्यायः । कालीशङ्खचूडयुद्धवर्णनम् ।

श्रीनारायण उवाच । शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् । समारुरोह यानं च सहामात्यैः स सत्वरः ॥ १॥ शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरम् । दानवेन्द्रः ससैन्यश्च युद्धारम्भे बभूव ह ॥ २॥ स्वयं महेन्द्रो युयुधे सार्धं च वृषपर्वणा । भास्करो युयुधे विप्रचित्तिना सह सत्वरः ॥ ३॥ दम्भेन सह चन्द्रश्च चकार परमं रणम् । कालस्वरेण कालश्च गोकर्णेन हुताशनः ॥ ४॥ कुबेरः कालकेयेन विश्वकर्मा मयेन च । भयङ्करेण मृत्युश्च संहारेण यमस्तथा ॥ ५॥ विकङ्कणेन वरुणश्चञ्चलेन समीरणः । बुधश्च घृतपृष्ठेन रक्ताक्षेण शनैश्चरः ॥ ६॥ जयन्तो रत्नसारेण वसवो वर्चसां गणैः । अश्विनौ च दीप्तिमता धूम्रेण नलकूबरः ॥ ७॥ धुरन्धरेण धर्मश्च उषाक्षेण च मङ्गलः । शोभाकरेण वै भानुः पिठरेण च मन्मथः ॥ ८॥ गोधामुखेन चूर्णेन खड्गेन च ध्वजेन च । काञ्चीमुखेन पिण्डेन धूमेण सह नन्दिना ॥ ९॥ विश्वेन च पलाशेनादित्याद्या युयुधुः परे । एकादश च रुद्रा वै एकादशभयङ्करैः ॥ १०॥ महामारी च युयुधे चोग्रचण्डादिभिः सह । नन्दीश्वरादयः सर्वे दानवानां गणैः सह ॥ ११॥ युयुधुश्च महायुद्धे प्रलयेऽपि भयङ्करे । वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ॥ १२॥ सर्वे च युयुधुः सैन्यसमूहाः सततं मुने । रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ॥ १३॥ उवास शङ्खचूडश्च रत्नभूषणभूषितः । शङ्करस्य च ये योधा दानवैश्च पराजिताः ॥ १४॥ देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविग्रहाः । चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ॥ १५॥ बलं च स्वर्गणानां च वर्धयामास तेजसा । सोऽयमेकश्च युयुधे दानवानां गणैः सह ॥ १६॥ अक्षौहिणीनां शतकं समरे च जघान सः । असुरान्पातयामास काली कमललोचना ॥ १७॥ पपौ रक्तं दानवानामतिकुद्धा ततः परम् । दशलक्षगजेन्द्राणां शतलक्षं च कोटिशः ॥ १८॥ समादायैकहस्तेन मुखे चिक्षेप लीलया । कबन्धानां सहस्रं च ननर्त समरे मुने ॥ १९॥ स्कन्दस्य शरजालेन दानवाः क्षतविग्रहाः । भीताश्च दुद्रुवुः सर्वे महारणपराक्रमाः ॥ २०॥ वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कणः । स्कन्देन सार्धं युयुधुस्ते सर्वे विक्रमेण च ॥ २१॥ महामारी च युयुधे न बभूव पराङ्मुखी । बभूवुस्ते च सङ्क्षुब्धाः स्कन्दस्य शक्तिपीडिताः ॥ २२॥ न दुद्रुवुर्भयात्स्वर्गे पुष्पवृष्टिर्बभूव ह । स्कन्दस्य समरं दृष्ट्वा महारौद्रं समुल्बणम् ॥ २३॥ दानवानां क्षयकरं यथा प्राकृतिको लयः । राजा विमानमारुह्य चकार बाणवर्षणम् ॥ २४॥ नृपस्य शरवृष्टिश्च घनस्य वर्षणं यथा । महाघोरान्धकारश्च वह्न्युत्थानं बभूव च ॥ २५॥ देवाः प्रदुद्रुवुः सर्वेऽप्यन्ये नन्दीश्वरादयः । एक एव कार्तिकेयस्तस्थौ समरमूर्धनि ॥ २६॥ पर्वतानां च सर्पाणां शिलानां शाखिनां तथा । नृपश्चकार वृष्टिं च दुर्वारां च भयङ्करीम् ॥ २७॥ नृपस्य शरवृष्ट्या च प्रहितः शिवनन्दनः । नीहारेण च सान्द्रेण प्रहितो भास्करो यथा ॥ २८॥ धनुश्चिच्छेद स्कन्दस्य दुर्वहं च भयङ्करः । बभञ्ज च रथं दिव्यं चिच्छेद रथपीठकान् ॥ २९॥ मयूरं जर्जरीभूतं दिव्यास्त्रेण चकार सः । शक्तिं चिक्षेप सूर्याभां तस्य वक्षस्य घातिनीम् ॥ ३०॥ क्षणं मूर्च्छां च सम्प्राप बभूव चेतनः पुनः । गृहीत्वा तद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ॥ ३१॥ रत्नेन्द्रसारनिर्माणयानमारुह्य कार्तिकः । शस्त्रास्त्रं च गृहीत्वा च चकार रणमुल्बणम् ॥ ३२॥ सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा । सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ॥ ३३॥ वह्निं निर्वापयामास पार्जन्येन प्रतापवान् । रथं धनुश्च चिच्छेद शङ्खचूडस्य लीलया ॥ ३४॥ सन्नाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् । चिक्षेप शक्तिं शुक्लाभां दानवेन्द्रस्य वक्षसि ॥ ३५॥ मूर्च्छां सम्प्राप्य राजा च चेतनश्च बभूव ह । आरुरोह यानमन्यद्धनुर्जग्राह सत्वरः ॥ ३६॥ चकार शरजालं च मायया मायिनां वरः । गुहं चच्छाद समरे शरजालेन नारद ॥ ३७॥ जग्राह शक्तिमव्यग्रां शतसूर्यसमप्रभाम् । प्रलयाग्निशिखारूपां विष्णोश्च तेजसाऽऽवृताम् ॥ ३८॥ चिक्षेप तां च कोपेन महावेगेन कार्तिके । पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ॥ ३९॥ मूर्च्छां सम्प्राप शक्त्या च कार्तिकेयो महाबलः । काली गृहीत्वा तं क्रोडे निनाय शिवसनिधौ ॥ ४०॥ शिवस्तं चापि ज्ञानेन जीवयामास लीलया । ददौ बलमनन्तं च समुत्तस्थौ प्रतापवान् ॥ ४१॥ काली जगाम समरं रक्षितुं कार्तिकस्य या । वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ॥ ४२॥ सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः । वाद्यभाण्डाश्च बहुशः शतशो मधुवाहकाः ॥ ४३॥ सा च गत्वाथ सङ्ग्रामं सिंहनादं चकार च । देव्याश्च सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ॥ ४४॥ अट्टाट्टहासमशिवं चकार च पुनः पुनः । दृष्ट्वा पपौ च माध्वीकं ननर्त रणमूर्धनि ॥ ४५॥ उग्रदंष्ट्रा चोग्रदण्डा कोटवी च पपौ मधु । योगिनीडाकिनीनां च गणाः सुरगणादयः ॥ ४६॥ दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजौ समाययौ । दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ॥ ४७॥ काली चिक्षेप वह्निं च प्रलयाग्निशिखोपमम् । राजा निर्वापयामास पार्जन्येन च लीलया ॥ ४८॥ चिक्षेप वारुणं सा च तीव्रं च महदद्भुतम् । गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ॥ ४९॥ माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् । राजा जघान तं शीघ्रं वैष्णवेन च लीलया ॥ ५०॥ नारायणास्त्रं सा देवी चिक्षेप मन्त्रपूर्वकम् । राजा ननाम तद् दृष्ट्वा चावरुह्य रथादसौ ॥ ५१॥ ऊर्ध्वं जगाम तच्चास्त्रं प्रलयाग्निशिखोपमम् । पपात शङ्खचूडश्च भक्त्या तं दण्डवद्भुवि ॥ ५२॥ ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् । ब्रह्मास्त्रेण महाराजो निर्वापं च चकार सः ॥ ५३॥ तदा चिक्षेप दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् । राजा दिव्यास्त्रजालेन तन्निर्वाणं चकार च ॥ ५४॥ तदा चिक्षेप शक्तिं च यत्नतो योजनायताम् । राजा दिव्यास्त्रजालेन शतखण्डां चकार ह ॥ ५५॥ जग्राह मन्त्रपूतं च देवी पाशुपतं रुषा । निक्षेपणं निरोद्धुं च वाग्बभूवाशरीरिणी ॥ ५६॥ मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः । यावदस्ति च मन्त्रस्य कवचं च हरेरिति ॥ ५७॥ यावत्सतीत्वमस्त्येव सत्याश्च नृपयोषितः । तावदस्य जरामृत्युर्नास्तीति ब्रह्मणो वचः ॥ ५८॥ इत्याकर्ण्य भद्रकाली न तच्चिक्षेप शस्त्रकम् । शतलक्षं दानवानां जग्रास लीलया क्षुधा ॥ ५९॥ ग्रस्तुं जगाम वेगेन शङ्खचूडं भयङ्करी । दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ॥ ६०॥ खड्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं यथा । दिव्यास्त्रेण दानवेन्द्रः शतखण्डं चकार सः ॥ ६१॥ पुनर्ग्रस्तुं महादेवी वेगेन च जगाम तम् । सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ॥ ६२॥ वेगेन मुष्टिना काली कोपयुक्ता भयङ्करी । बभञ्ज च रथं तस्य जघान सारथिं सती ॥ ६३॥ सा च शूलं प्रचिक्षेप प्रलयाग्निशिखोपमम् । वामहस्तेन जग्राह शङ्खचूडः स्वलीलया ॥ ६४॥ मुष्ट्या जघान तं देवी महाकोपेन वेगतः । बभ्राम च तया दैत्यः क्षणं मूर्च्छामवाप च ॥ ६५॥ क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् । न चकार बाहुयुद्धं देव्या सह ननाम ताम् ॥ ६६॥ देव्याश्चास्त्रं स चिच्छेद जग्राह च स्वतेजसा । नास्त्रं चिक्षेप तां भक्तो मातृभक्त्या तु वैष्णवः ॥ ६७॥ गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः । ऊर्ध्वं च प्रापयामास महावेगेन कोपिता ॥ ६८॥ ऊर्ध्वात्पपात वेगेन शङ्खचूडः प्रतापवान् । निपत्य च समुत्तस्थौ प्रणम्य भद्रकालिकाम् ॥ ६९॥ रत्नेन्द्रसारनिर्माणं विमानं सुमनोहरम् । आरुरोह हर्षयुक्तो न विश्रान्तो महारणे ॥ ७०॥ दानवानां च क्षतजं सा देवी च पपौ क्षुधा । पीत्वा भुक्त्वा भद्रकाली जगाम शङ्करान्तिकम् ॥ ७१॥ उवाच रणवृत्तान्तं पौर्वापर्यं यथाक्रमम् । श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ॥ ७२॥ लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना । भुञ्जन्त्या निर्गतं वक्त्रात्तदन्यं भुक्तमीश्वर ॥ ७३॥ सङ्ग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै । अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ॥ ७४॥ राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः । न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ॥ ७५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे कालीशङ्खचूडयुद्धवर्णनं नाम द्वाविंशोऽध्यायः ॥ ९.२२॥

९.२३ त्रयोविंशोऽध्यायः । शङ्खचूडवधवर्णनम् ।

शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः । ययौ स्वयं च समरे स्वगणैः सह नारद ॥ १॥ शङ्खचूडः शिवं दृष्ट्वा विमानादवरुह्य च । ननाम परया भक्त्या शिरसा दण्डवद्भुवि ॥ २॥ तं प्रणम्य च वेगेन विमानमारुरोह सः । तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ॥ ३॥ शिवदानवयोर्युद्धं पूर्णमब्दशतं पुरा । न बभूवतुरन्योन्यं ब्रह्मञ्जयपराजयौ ॥ ४॥ न्यस्तशस्त्रश्च भगवान् न्यस्तशस्त्रश्च दानवः । रथस्थः शङ्खचूडश्च वृषस्थो वृषभध्वजः ॥ ५॥ दानवानां च शतकमुद्धृतं च बभूव ह । रणे ये ये मृताः शम्भुर्जीवयामास तान्विभुः ॥ ६॥ एतस्मिन्नन्तरे वृद्धब्राह्मणः परमातुरः । आगत्य च रणस्थानमुवाच दानवेश्वरम् ॥ ७॥ वृद्धब्राह्मण उवाच । देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् । त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ॥ ८॥ निरीहाय च वृद्धाय तृषिताय च साम्प्रतम् । पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ॥ ९॥ ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः । कवचार्थी जनश्चाहमित्युवाचातिमायया ॥ १०॥ तच्छ्रुत्वा कवचं दिव्यं जग्राह हरिरेव च । शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ॥ ११॥ गत्वा तस्यां मायया च वीर्याधानं चकार ह । अथ शम्भुर्हरेः शूलं जग्राह दानवं प्रति ॥ १२॥ ग्रीष्ममध्याह्नमार्तण्डप्रलयाग्निशिखोपमम् । दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ॥ १३॥ तेजसा चक्रतुल्यं च सर्वशस्त्रास्त्रसारकम् । शिवकेशवयोरन्यैर्दुर्वहं च भयङ्करम् ॥ १४॥ धनुःसहस्रं दैर्घ्येण प्रस्थेन शतहस्तकम् । सजीवं ब्रह्मरूपं च नित्यरूपमनिर्दिशम् ॥ १५॥ संहर्तुं सर्वब्रह्माण्डमलं यत्स्वीयलीलया । चिक्षेप तोलनं कृत्वा शङ्खचूडे च नारद ॥ १६॥ राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् । ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ॥ १७॥ शूलं च भ्रमणं कृत्वा पपात दानवोपरि । चकार भस्मसात्तं च सरथं चाथ लीलया ॥ १८॥ राजा धृत्वा दिव्यरूपं किशोरं गोपवेषकम् । द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ॥ १९॥ रत्नेन्द्रसारनिर्माणं वेष्टितं गोपकोटिभिः । गोलोकादागतं यानमारुरोह पुरं ययौ ॥ २०॥ गत्वा ननाम शिरसा स राधाकृष्णयोर्मुने । भक्त्या च चरणाम्भोजं रासे वृन्दावने वने ॥ २१॥ सुदामानं च तौ दृष्ट्वा प्रसन्नवदनेक्षणौ । क्रोडे चक्रतुरत्यन्तं प्रेम्णातिपरिसंयुतौ ॥ २२॥ अथ शलं च वेगेन प्रययौ तं च सादरम् । अस्थिभिः शङ्खचूडस्य शङ्खजातिर्बभूव ह ॥ २३॥ नानाप्रकाररूपेण शश्वत्पूता सुरार्चने । प्रशस्तं शङ्खतोयं च देवानां प्रीतिदं परम् ॥ २४॥ तीर्थतोयस्वरूपं च पवित्रं शम्भुना विना । शङ्खशब्दो भवेद्यत्र तत्र लक्ष्मीः सुसंस्थिरा ॥ २५॥ स स्नातः सर्वतीर्थेषु यः स्नातः शङ्खवारिणा । शङ्खो हरेरधिष्ठानं यत्र शङ्खस्ततो हरिः ॥ २६॥ तत्रैव वसते लक्ष्मीर्दूरीभूतममङ्गलम् । स्त्रीणां च शङ्खध्वनिभिः शूद्राणां च विशेषतः ॥ २७॥ भीता रुष्टा याति लक्ष्मीस्तत्स्थलादन्यदेशतः । शिवोऽपि दानवं हत्वा शिवलोकं जगाम ह ॥ २८॥ प्रहृष्टो वृषभारूढः स्वगणैश्च समावृतः । सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ॥ २९॥ नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः । बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् । प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ॥ ३०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्खचूडवधवर्णनं नाम त्रयोविशोऽध्यायः ॥ ९.२३॥

९.२४ चतुर्विंशोऽध्यायः । तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनम् ।

नारद उवाच । नारायणश्च भगवान्वीर्याधानं चकार ह । तुलस्यां केन रूपेण तन्मे व्याख्यातुमर्हसि ॥ १॥ श्रीनारायण उवाच । नारायणश्च भगवान्देवानां साधनेषु च । शङ्खचूडस्य कवचं गहीत्वा विष्णुमायया ॥ २॥ पुनर्विधाय तद्रूपं जगाम तत्सतीगृहम् । पातिव्रतस्य नाशेन शङ्खचूडजिघांसया ॥ ३॥ दुन्दुभिं वादयामास तुलसीद्वारसन्निधौ । जयशब्दं च तद्द्वारे बोधयामास सुन्दरीम् ॥ ४॥ तच्छ्रुत्वा च रवं साध्वी परमानन्दसंयुता । राजमार्गे गवाक्षेण ददर्श परमादरात् ॥ ५॥ ब्राह्मणेभ्यो धनं दत्त्वा कारयामास मङ्गलम् । वन्दिभ्यो भिक्षुकेभ्यश्च वाचिभ्यश्च धनं ददौ ॥ ६॥ अवरुह्य रथाद्देवो देव्याश्च भवनं ययौ । अमूल्यरत्ननिर्माणं सुन्दरं सुमनोहरम् ॥ ७॥ दृष्ट्वा च पुरतः कान्तं सा तं कान्तं मुदान्विता । तत्पादं क्षालयामास ननाम च रुरोद च ॥ ८॥ रत्नसिंहासने रम्ये वासयामास कामुकी । ताम्बूलं च ददौ तस्मै कर्पूरादिसुवासितम् ॥ ९॥ अद्य मे सफलं जन्म जीवनं च बभूव ह । रणे गतं च प्राणेशं पश्यन्त्याश्च पुनर्गृहे ॥ १०॥ सस्मिता सकटाक्षं च सकामा पुलकाङ्किता । पप्रच्छ रणवृत्तान्तं कान्तं मधुरया गिरा ॥ ११॥ तुलस्युवाच । असङ्ख्यविश्वसंहर्त्रा सार्धमाजौ तव प्रभो । कथं बभूव विजयस्तन्मे ब्रूहि कृपानिधे ॥ १२॥ तुलसीवचनं श्रुत्वा प्रहस्य कमलापतिः । शङ्खचूडस्य रूपेण तामुवाचामृतं वचः ॥ १३॥ श्रीभगवानुवाच । आवयोः समरः कान्ते पूर्णमब्दं बभूव ह । नाशो बभूव सर्वेषां दानवानां च कामिनि ॥ १४॥ प्रीतिञ्च कारयामास ब्रह्मा च स्वयमावयोः । देवानामधिकारश्च प्रदत्तस्तस्य चाज्ञया ॥ १५॥ मयागतं स्वभवनं शिवलोकं शिवो गतः । इत्युक्त्वा जगतां नाथः शयनं च चकार ह ॥ १६॥ रेमे रमापतिस्तत्र रामया सह नारद । सा साध्वी सुखसम्भोगादाकर्षणव्यतिक्रमात् ॥ १७॥ सर्वं वितर्कयामास कस्त्वमेवेत्युवाच सा । तुलस्युवाच । को वा त्वं वद मायेश भुक्ताहं मायया त्वया ॥ १८॥ दूरीकृतं मत्सतीत्वं यदतस्त्वां शपामि हे । तुलसीवचनं श्रुत्वा हरिः शापभयेन च ॥ १९॥ दधार लीलया ब्रह्मन् सुमूर्तिं सुमनोहराम् । ददर्श पुरतो देवी देवदेवं सनातनम् ॥ २०॥ नवीननीरदश्यामं शरत्पङ्कजलोचनम् । कोटिकन्दर्पलीलाभं रत्नभूषणभूषितम् ॥ २१॥ ईषद्धास्यं प्रसन्नास्यं शोभितं पीतवाससम् । तं दृष्ट्वा कामिनी कामं मूर्च्छां सम्प्राप लीलया ॥ २२॥ पुनश्च चेतनां प्राप्य पुनः सा तमुवाच ह । तुलस्युवाच । हे नाथ ते दया नास्ति पाषाणसदृशस्य च ॥ २३॥ छलेन धर्मभङ्गेन मम स्वामी त्वया हतः । पाषाणहृदयस्त्वं हि दयाहीनो यतः प्रभो ॥ २४॥ तस्मात्पाषाणरूपस्त्वं भवे देव भवाधुना । ये वदन्ति च साधुं त्वां ते भ्रान्ता हि न संशयः ॥ २५॥ भक्तो विनापराधेन परार्थे च कथं हतः । भृशं रुरोद शोकार्ता विललाप मुहुर्मुहुः ॥ २६॥ ततश्च करुणां दृष्ट्वा करुणारससागरः । नयेन तां बोधयितुमुवाच कमलापतिः ॥ २७॥ श्रीभगवानुवाच । तपस्त्वया कृतं भद्रे मदर्थे भारते चिरम् । त्वदर्थे शङ्खचूडश्च चकार सुचिरं तपः ॥ २८॥ कृत्वा त्वां कामिनीं सोऽपि विजहार च तत्क्षणात् । अधुना दातुमुचितं तवैव तपसः फलम् ॥ २९॥ इदं शरीरं त्यक्त्वा च दिव्यदेहं विधाय च । रामे रम मया सार्धं त्वं रमासदृशी भव ॥ ३०॥ इयं तनुर्नदीरूपा गण्डकीति च विश्रुता । पूता सुपुण्यदा नॄणां पुण्ये भवतु भारते ॥ ३१॥ तव केशसमूहश्च पुण्यवृक्षो भविष्यति । तुलसीकेशसम्भूता तुलसीति च विश्रुता ॥ ३२॥ त्रिषु लोकेषु पुष्पाणां पत्राणां देवपूजने । प्रधानरूपा तुलसी भविष्यति वरानने ॥ ३३॥ स्वर्गे मर्त्ये च पाताले गोलोके मम सन्निधौ । भव त्वं तुलसी वृक्षवरा पुष्पेषु सुन्दरी ॥ ३४॥ गोलोके विरजातीरे रासे वृन्दावने वने । भाण्डीरे चम्पकवने रम्ये चन्दनकानने ॥ ३५॥ माधवीकेतकीकुन्दमालिकामालतीवने । वासस्तेऽत्रैव भवतु पुण्यस्थानेषु पुण्यदः ॥ ३६॥ तुलसीतरुमूलेषु पुण्यदेशेषु पुण्यदम् । अधिष्ठानं च तीर्थानां सर्वेषां च भविष्यति ॥ ३७॥ तत्रैव सर्वदेवानां ममाधिष्ठानमेव च । तुलसीपत्रपतनप्राप्तये च वरानने ॥ ३८॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । तुलसीपत्रतोयेन योऽभिषेकं समाचरेत् ॥ ३९॥ सुधाघटसहस्राणां या तुष्टिस्तु भवेद्धरेः । सा च तुष्टिर्भवेन्नूनं तुलसीपत्रदानतः ॥ ४०॥ गवामयुतदानेन यत्फलं तत्फलं भवेत् । तुलसीपत्रदानेन तत्फलं कार्तिके सति ॥ ४१॥ तुलसीपत्रतोयं च मृत्युकाले च यो लभेत् । मुच्यते सर्वपापेभ्यो विष्णुलोके महीयते ॥ ४२॥ नित्यं यस्तुलसीतोयं भुङ्क्ते भक्त्या च मानवः । लक्षाश्वमेधजं पुण्यं सम्प्राप्नोति स मानवः ॥ ४३॥ तुलसीं स्वकरे कृत्वा धृत्वा देहे च मानवः । प्राणांस्त्यजति तीर्थेषु विष्णुलोकं स गच्छति ॥ ४४॥ तुलसीकाष्ठनिर्माणमालां गृह्णाति यो नरः । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ४५॥ तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति । स याति कालसूत्रं च यावच्चन्द्रदिवाकरौ ॥ ४६॥ करोति मिथ्याशपथं तुलस्या योऽत्र मानवः । स याति कुम्भीपाकं च यावदिन्द्राश्चतुर्दश ॥ ४७॥ तुलसीतोयकणिकां मृत्युकाले च यो लभेत् । रत्नयानं समारुह्य वैकुण्ठे प्राप्यते ध्रुवम् ॥ ४८॥ पूर्णिमायाममायां च द्वादश्यां रविसङ्क्रमे । तैलाभ्यङ्गं च कृत्वा च मध्याह्ने निशि सन्ध्ययोः ॥ ४९॥ अशौचेऽशुचिकाले ये रात्रिवासोऽन्विता नराः । तुलसीं ये विचिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥ ५०॥ त्रिरात्रं तुलसीपत्रं शुद्धं पर्युषितं सति । श्राद्धे व्रते च दाने च प्रतिष्ठायां सुरार्चने ॥ ५१॥ भूगतं तोयपतितं यद्दत्तं विष्णवे सति । शुद्धं च तुलसीपत्रं क्षालनादन्यकर्मणि ॥ ५२॥ वृक्षाधिष्ठातृदेवी या गोलोके च निरामये । कृष्णेन सार्धं नित्यं च नित्यक्रीडां करिष्यसि ॥ ५३॥ नद्यधिष्ठातृदेवी या भारते च सुपुण्यदा । लवणोदस्य सा पत्नी मदंशस्य भविष्यति ॥ ५४॥ त्वं च स्वयं महासाध्वी वैकुण्ठे मम सन्निधौ । रमासमा च रामा च भविष्यसि न संशयः ॥ ५५॥ अहं च शैलरूपेण गण्डकीतीरसन्निधौ । अधिष्ठानं करिष्यामि भारते तव शापतः ॥ ५६॥ कोटिसङ्ख्यास्तत्र कीटास्तीक्ष्णदंष्ट्रावरायुधैः । तच्छिलाकुहरे चक्रं करिष्यन्ति मदीयकम् ॥ ५७॥ एकद्वारं चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥ ५८॥ एकद्वारं चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्दनो ज्ञेयो रहितो वनमालया ॥ ५९॥ द्वारद्वये चतुश्चक्रं गोष्पदेन विराजितम् । रघुनाथाभिधं ज्ञेयं रहितं वनमालया ॥ ६०॥ अतिक्षुद्रं द्विचक्रं च नवीनजलदप्रभम् । तद्वामनाभिधं ज्ञेयं रहितं वनमालया ॥ ६१॥ अतिक्षुद्रं द्विचक्रं च वनमालाविभूषितम् । विज्ञेयं श्रीधरं रूपं श्रीप्रदं गृहिणा सदा ॥ ६२॥ स्थूलं च वर्तुलाकारं रहितं वनमालया । द्विचक्रं स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम् ॥ ६३॥ मध्यमं वर्तुलाकारं द्विचक्रं बाणविक्षतम् । रणरामाभिधं ज्ञेयं शरतूणसमन्वितम् ॥ ६४॥ मध्यमं सप्तचक्रञ्च छत्रभूषणभूषितम् । राजराजेश्वरं ज्ञेयं राजसम्पत्प्रदं नृणाम् ॥ ६५॥ द्विसप्तचक्रं स्थूलं च नवनीरदसुप्रभम् । अनन्ताख्यं च विज्ञेयं चतुर्वर्गफलप्रदम् ॥ ६६॥ चक्राकारं द्विचक्रं च सश्रीकं जलदप्रभम् । सगोष्पदं मध्यमं च विज्ञेयं मधुसूदनम् ॥ ६७॥ सुदर्शनं चैकचक्रं गुप्तचक्रं गदाधरम् । द्विचक्रं हयवक्त्राभं हयग्रीवं प्रकीर्तितम् ॥ ६८॥ अतीव विस्तृतास्यं च द्विचक्रं विकटं सति । नरसिंहं सुविज्ञेयं सद्यो वैराग्यदं नृणाम् ॥ ६९॥ द्विचक्रं विस्तृतास्यं च वनमालासमन्वितम् । लक्ष्मीनृसिंहं विज्ञेयं गृहिणां च सुखप्रदम् ॥ ७०॥ द्वारदेशे द्विचक्रं च सश्रीकं च समं स्फुटम् । वासुदेवं तु विज्ञेयं सर्वकामफलप्रदम् ॥ ७१॥ प्रद्युम्नं सूक्ष्मचक्रं च नवीननीरदप्रभम् । सुषिरच्छिद्रबहुलं गृहिणा च सुखप्रदम् ॥ ७२॥ द्वे चक्रे चैकलग्ने च पृष्ठं यत्र तु पुष्कलम् । सङ्कर्षणं सुविज्ञेयं सुखदं गृहिणां सदा ॥ ७३॥ अनिरुद्धं तु पीताभं वर्तुलं चातिशोभनम् । सुखप्रदं गृहस्थानां प्रवदन्ति मनीषिणः ॥ ७४॥ शालग्रामशिला यत्र तत्र सन्निहितो हरिः । तत्रैव लक्ष्मीर्वसति सर्वतीर्थसमन्विता ॥ ७५॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । तानि सर्वाणि नश्यन्ति शालग्रामशिलार्चनात् ॥ ७६॥ छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः । दुःखञ्च शकटाकारे शूलाग्रे मरणं ध्रुवम् ॥ ७७॥ विकृतास्ये च दारिद्र्यं पिङ्गले हानिरेव च । भग्नचक्रे भवेद्व्याधिर्विदीर्णे मरणं ध्रुवम् ॥ ७८॥ व्रतं दानं प्रतिष्ठा च श्राद्धं च देवपूजनम् । शालग्रामस्य सान्निध्यात्प्रशस्तं तद्भवेदिति ॥ ७९॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । सर्वयज्ञेषु तीर्थेषु व्रतेषु च तपःसु च ॥ ८०॥ पाठे चतुर्णां वेदानां तपसां करणे सति । तत्पुण्यं लभते नूनं शालग्रामशिलार्चनात् ॥ ८१॥ (शालग्रामशिलातोयैर्योऽभिषेकं सदा चरेत् । सर्वदानेषु यत्पुण्यं प्रदक्षिणं भुवो यथा ॥)॥ शालग्रामशिलातोयं नित्यं भुङ्क्ते च यो नरः । सुरेप्सितं प्रसादं च लभते नात्र संशयः ॥ ८२॥ तस्य स्पर्शं च वाञ्छन्ति तीर्थानि निखिलानि च । जीवन्मुक्तो महापूतोऽप्यन्ते याति हरेः पदम् ॥ ८३॥ तत्रैव हरिणा सार्धमसङ्ख्यं प्राकृतं लयम् । यास्यत्येव हि दास्ये च नियुक्तो दास्यकर्मणि ॥ ८४॥ यानि कानि च पापानि ब्रह्महत्यासमानि च । तं दृष्ट्वा च पलायन्ते वैनतेयादिवोरगाः ॥ ८५॥ तत्पादरजसा देवी सद्यःपूता वसुन्धरा । पुंसां लक्षं तत्पितॄणां निस्तरेत्तस्य जन्मतः ॥ ८६॥ शालग्रामशिलातोयं मृत्युकाले च यो लभेत् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ८७॥ निर्वाणमुक्तिं लभते कर्मभोगात्प्रमुच्यते । विष्णोः पदे प्रलीनश्च भविष्यति न संशयः ॥ ८८॥ शालग्रामशिलां धृत्वा मिथ्यावाक्यं वदेत्तु यः । स याति कुम्भीपाके च यावद्वै ब्रह्मणो वयः ॥ ८९॥ शालग्रामशिलां धृत्वा स्वीकारं यो न पालयेत् । स प्रयात्यसिपत्रं च लक्षमन्वन्तरावधि ॥ ९०॥ तुलसीपत्रविच्छेदं शालग्रामे करोति यः । तस्य जन्मान्तरे कान्ते स्त्रीविच्छेदो भविष्यति ॥ ९१॥ तुलसीपत्रविच्छेदं शङ्खे यो हि करोति च । भार्याहीनो भवेत्सोऽपि रोगी च सप्तजन्मसु ॥ ९२॥ शालग्रामं च तुलसीं शङ्खं चैकत्र एव च । यो रक्षति महाज्ञानी स भवेच्छ्रीहरेः प्रियः ॥ ९३॥ सकृदेव हि यो यस्यां वीर्याधानं करोति च । तद्विच्छेदे तस्य दुःखं भवेदेव परस्परम् ॥ ९४॥ त्वं प्रिया शङ्खचूडस्य चैकमन्वन्तरावधि । शङ्खेन सार्धं त्वद्भेदः केवलं दुःखदस्तथा ॥ ९५॥ इत्युक्त्वा श्रीहरिस्तां च विरराम च नारद । सा च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ९६॥ यथा श्रीश्च तथा सा चाप्युवास हरिवक्षसि । स जगाम तया सार्धं वैकुण्ठं कमलापतिः ॥ ९७॥ लक्ष्मीः सरस्वती गङ्गा तुलसी चापि नारद । हरेः प्रियाश्चतस्रश्च बभूवुरीश्वरस्य च ॥ ९८॥ सद्यस्तद्देहजाता च बभूव गण्डकी नदी । ईश्वरः सोऽपि शैलश्च तत्तीरे पुण्यदो नृणाम् ॥ ९९॥ कुर्वन्ति तत्र कीटाश्च शिलां बहुविधां मुने । जले पतन्ति या याश्च फलदास्ताश्च निश्चितम् ॥ १००॥ स्थलस्थाः पिङ्गला ज्ञेयाश्चोपतापाद्रवेरिति । इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १०१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे तुलसीमाहात्म्येन सह शालग्राममहत्त्ववर्णनं नाम चतुर्विंशोऽध्यायः ॥ ९.२४॥

९.२५ पञ्चविंशोऽध्यायः । तुलसीपूजाविधिवर्णनम् ।

नारद उवाच । तुलसी च यदा पूज्या कृता नारायणप्रिया । अस्याः पूजाविधानं च स्तोत्रं च वद साम्प्रतम् ॥ १॥ केन पूजा कृता केन स्तुता प्रथमतो मुने । तत्र पूज्या सा बभूव केन वा वद मामहो ॥ २॥ सूत उवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । कथां कथितुमारेभे पुण्यां पापहरां पराम् ॥ ३॥ श्रीनारायण उवाच । हरिः सम्पूज्य तुलसीं रेमे च रमया सह । रमासमानसौभाग्यां चकार गौरवेण च ॥ ४॥ सेहे च लक्ष्मीर्गङ्गा च तस्याश्च नवसङ्गमम् । सौभाग्यगौरवं कोपात्ते न सेहे सरस्वती ॥ ५॥ सा तां जघान कलहे मानिनी हरिसन्निधौ । व्रीडया चापमानेन सान्तर्धानं चकार ह ॥ ६॥ सर्वसिद्धेश्वरी देवी ज्ञानिनां सिद्धियोगिनी । जगामादर्शनं कोपात्सर्वत्र च हरेरहो ॥ ७॥ हरिर्न दृष्ट्वा तुलसीं बोधयित्वा सरस्वतीम् । तदनुज्ञां गहीत्वा च जगाम तुलसीवनम् ॥ ८॥ तत्र गत्वा च सुस्नातो हरिः स तुलसीं सतीम् । पूजयामास तां ध्यात्वा स्तोत्रं भक्त्या चकार ह ॥ ९॥ लक्ष्मीमायाकामवाणीबीजपूर्वं दशाक्षरम् । वृन्दावनीति ङेऽन्तं च वह्निजायान्तमेव च ॥ १०॥ अनेन कल्पतरुणा मन्त्रराजेन नारद । पूजयेद्यो विधानेन सर्वसिद्धिं लभेद् ध्रुवम् ॥ ११॥ घृतदीपेन धूपेन सिन्दूरचन्दनेन च । नैवेद्येन च पुष्पेण चोपचारेण नारद ॥ १२॥ हरिस्तोत्रेण तुष्टा सा चाविर्भूता महीरुहात् । प्रसन्ना चरणाम्भोजे जगाम शरणं शुभा ॥ १३॥ वरं तस्यै ददौ विष्णुः सर्वपूज्या भवेरिति । अहं त्वां धारयिष्यामि सुरूपां मूर्ध्नि वक्षसि ॥ १४॥ सर्वे त्वां धारयिष्यन्ति स्वमूर्ध्नि च सुरादयः । इत्युक्त्वा तां गृहीत्वा च प्रययौ स्वालयं विभुः ॥ १५॥ नारद उवाच । किं ध्यानं स्तवनं किं वा किं वा पूजाविधानकम् । तुलस्याश्च महाभाग तन्मे व्याख्यातुमर्हसि ॥ १६॥ श्रीनारायण उवाच । अन्तर्हितायां तस्यां च हरिर्वृन्दावने तदा । तस्याश्चक्रे स्तुतिं गत्वा तुलसीं विरहातुरः ॥ १७॥ श्रीभगवानुवाच । वृन्दरूपाश्च वृक्षाश्च यदैकत्र भवन्ति च । विदुर्बुधास्तेन वृन्दां मत्प्रियां तां भजाम्यहम् ॥ १८॥ पुरा बभूव या देवी त्वादौ वृन्दावने वने । तेन वृन्दावनी ख्याता सौभाग्या तां भजाम्यहम् ॥ १९॥ असङ्ख्येषु च विश्वेषु पूजिता या निरन्तरम् । तेन विश्वपूजिताऽऽख्यां पूजितां च भजाम्यहम् ॥ २०॥ असङ्ख्यानि च विश्वानि पवित्राणि त्वया सदा । तां विश्वपावनीं देवीं विरहेण स्मराम्यहम् ॥ २१॥ देवा न तुष्टाः पुष्पाणां समूहेन यया विना । तां पुष्पसारां शुद्धां च द्रष्टुमिच्छामि शोकतः ॥ २२॥ विश्वे यत्प्राप्तिमात्रेण भक्तानन्दो भवेद् ध्रुवम् । नन्दिनी तेन विख्याता सा प्रीता भवतादिह ॥ २३॥ यस्या देव्यास्तुला नास्ति विश्वेषु निखिलेषु च । तुलसी तेन विख्याता तां यामि शरणं प्रियाम् ॥ २४॥ कृष्णजीवनरूपा सा शश्वत्प्रियतमा सती । तेन कृष्णजीवनी सा सा मे रक्षतु जीवनम् ॥ २५॥ इत्येवं स्तवनं कृत्वा तस्थौ तत्र रमापतिः । ददर्श तुलसीं साक्षात्पादपद्मनतां सतीम् ॥ २६॥ रुदतीमवमानेन मानिनीं मानपूजिताम् । प्रियां दृष्ट्वा प्रियः शीघ्रं वासयामास वक्षसि ॥ २७॥ भारत्याज्ञां गहीत्वा च स्वालयं च ययौ हरिः । भारत्या सह तत्प्रीतिं कारयामास सत्वरम् ॥ २८॥ वरं विष्णुर्ददौ तस्यै सर्वपूज्या भवेरिति । शिरोधार्या च सर्वेषां वन्द्या मान्या ममेति च ॥ २९॥ विष्णोर्वरेण सा देवी परितुष्टा बभूव च । सरस्वती तामाकृष्य वासयामास सन्निधौ ॥ ३०॥ लक्ष्मीर्गङ्गा सस्मिता च तां समाकृष्य नारद । गृहं प्रवेशयामास विनयेन सतीं तदा ॥ ३१॥ वृन्दा वृन्दावनी विश्वपूजिता विश्वपावनी । पुष्पसारा नन्दनी च तुलसी कृष्णजीवनी ॥ ३२॥ एतन्नामाष्टकञ्चैव स्तोत्रं नामार्थसंयुतम् । यः पठेत्तां च सम्पूज्य सोऽश्वमेधफलं लभेत् ॥ ३३॥ कार्तिक्यां पूर्णिमायां च तुलस्या जन्म मङ्गलम् । तत्र तस्याश्च पूजा च विहिता हरिणा पुरा ॥ ३४॥ तस्यां यः पूजयेत्तां च भक्त्या वै विश्वपावनीम् । सर्वपापाद्विनिर्मुक्तो विष्णुलोकं स गच्छति ॥ ३५॥ कार्तिके तुलसीपत्रं यो ददाति च विष्णुवे । गवामयुतदानस्य फलं प्राप्नोति निश्चितम् ॥ ३६॥ अपुत्रो लभते पुत्रं प्रियाहीनो लभेत्प्रियाम् । बन्धुहीनो लभेद् बन्धून् स्तोत्रश्रवणमात्रतः ॥ ३७॥ रोगी प्रमुच्यते रोगाद् बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतस्तु पापान्मुच्येत पातकी ॥ ३८॥ इत्येवं कथितं स्तोत्रं ध्यानं पूजाविधिं श‍ृणु । त्वमेव वेदे जानासि कण्वशाखोक्तमेव च ॥ ३९॥ तद्वृक्षे पूजयेत्तां च भक्त्या चावाहनं विना । तां ध्यात्वा चोपचारेण ध्यानं पातकनाशनम् ॥ ४०॥ तुलसीं पुष्पसारां च सतीं पूतां मनोहराम् । कृतपापेध्मदाहाय ज्वलदग्निशिखोपमाम् ॥ ४१॥ पुष्पेषु तुलना यस्या नास्ति वेदेषु भाषितम् । पवित्ररूपा सर्वासु तुलसी सा च कीर्तिता ॥ ४२॥ शिरोधार्या च सर्वेषामीप्सिता विश्वपावनी । जीवन्मुक्तां मुक्तिदां च भजे तां हरिभक्तिदाम् ॥ ४३॥ इति ध्यात्वा च सम्पूज्य स्तुत्वा च प्रणमेत्सुधीः । उक्तं तुलस्युपाख्यानं किं भूयः श्रोतुमिच्छसि ॥ ४४॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे तुलसीपूजाविधिवर्णनं नाम पञ्चविशोऽध्यायः ॥ ९.२५॥

९.२६ षड्विंशोऽध्यायः । सावित्रीपूजाविधिकथनम् ।

नारद उवाच । तुलस्युपाख्यानमिदं श्रुतं चातिसुधोपमम् । ततः सावित्र्युपाख्यानं तन्मे व्याख्यातुमर्हसि ॥ १॥ पुरा केन समुद्भूता सा श्रुता च श्रुतेः प्रसूः । केन वा पूजिता लोके प्रथमे कैश्च वा परे ॥ २॥ श्रीनारायण उवाच । ब्रह्मणा वेदजननी प्रथमे पूजिता मुने । द्वितीये च वेदगणैस्तत्पश्चाद्विदुषां गणैः ॥ ३॥ तदा चाश्वपतिर्भूपः पूजयामास भारते । तत्पश्चात्पूजयामासुर्वर्णाश्चत्वार एव च ॥ ४॥ नारद उवाच । को वा सोऽश्वपतिर्ब्रह्मन् केन वा तेन पूजिता । सर्वपूज्या च सा देवी प्रथमे कैश्च वा परे ॥ ५॥ श्रीनारायण उवाच । मद्रदेशे महाराजो बभूवाश्वपतिर्मुने । वैरिणां बलहर्ता च मित्राणां दुःखनाशनः ॥ ६॥ आसीत्तस्य महाराज्ञी महिषी धर्मचारिणी । मालतीति समाख्याता यथा लक्ष्मीर्गदाभृतः ॥ ७॥ सा च राज्ञी च वन्ध्या च वसिष्ठस्योपदेशतः । चकाराराधनं भक्त्या सावित्र्याश्चैव नारद ॥ ८॥ प्रत्यादेशं न सा प्राप्ता महिषी न ददर्श ताम् । गृहं जगाम दुःखार्ता हृदयेन विदूयता ॥ ९॥ राजा तां दुःखितां दृष्ट्वा बोधयित्वा नयेन वै । सावित्र्यास्तपसे भक्त्या जगाम पुष्करं तदा ॥ १०॥ तपश्चकार तत्रैव संयतः शतवत्सरम् । न ददर्श च सावित्र्या प्रत्यादेशो बभूव च ॥ ११॥ शुश्रावाकाशवाणीं च नृपेन्द्रश्चाशरीरिणीम् । गायत्र्या दशलक्षं च जपं त्वं कुरु नारद ॥ १२॥ एतस्मिन्नन्तरे तत्र आजगाम पराशरः । प्रणनाम ततस्तं च मुनिर्नृपमुवाच च ॥ १३॥ मुनिरुवाच । सकृज्जपश्च गायत्र्याः पापं दिनभवं हरेत् । दशवारं जपेनैव नश्येत्पापं दिवानिशम् ॥ १४॥ शतवारं जपश्चैव पापं मासार्जितं हरेत् । सहस्रधा जपश्चैव कल्मषं वत्सरार्जितम् ॥ १५॥ लक्षो जन्मकृतं पापं दशलक्षोऽन्यजन्मजम् । सर्वजन्मकृतं पापं शतलक्षाद्विनश्यति ॥ १६॥ करोति मुक्तिं विप्राणां जपो दशगुणस्ततः । करं सर्पफणाकारं कृत्वा तद्रन्धमुद्रितम् ॥ १७॥ आनम्रमूर्धमचलं प्रजपेत्प्राङ्मुखो द्विजः । अनामिकामध्यदेशादधोऽवामक्रमेण च ॥ १८॥ तर्जनीमूलपर्यन्तं जपस्यैवं क्रमः करे । श्वेतपङ्कजबीजानां स्फटिकानां च संस्कृताम् ॥ १९॥ कृत्वा वै मालिकां राजन् जपेत्तीर्थे सुरालये । संस्थाप्य मालामश्वत्थपत्रे पद्मे च संयतः ॥ २०॥ कृत्वा गोरोचनाक्तां च गायत्र्या स्नापयेत्सुधीः । गायत्रीशतकं तस्यां जपेच्च विधिपूर्वकम् ॥ २१॥ अथवा पञ्चगव्येन स्नात्वा मालां सुसंस्कृताम् । अथ गङ्गोदकेनैव स्नात्वा वातिसुसंस्कृताम् ॥ २२॥ एवं क्रमेण राजर्षे दशलक्षं जपं कुरु । साक्षाद्द्रक्ष्यसि सावित्रीं त्रिजन्मपातकक्षयात् ॥ २३॥ नित्यं सन्ध्यां च हे राजन् करिष्यसि दिने दिने । मध्याह्ने चापि सायाह्ने प्रातरेव शुचिः सदा ॥ २४॥ सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत् ॥ २५॥ नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २६॥ यावज्जीवनपर्यन्तं त्रिःसन्ध्यां यः करोति च । स च सूर्यसमो विप्रस्तेजसा तपसा सदा ॥ २७॥ तत्पादपद्मरजसा सद्यःपूता वसुन्धरा । जीवन्मुक्तः स तेजस्वी सन्ध्यापूतो हि यो द्विजः ॥ २८॥ तीर्थानि च पवित्राणि तस्य संस्पर्शमात्रतः । ततः पापानि यान्त्येव वैनतेयादिवोरगाः ॥ २९॥ न गृह्णन्ति सुराः पूजां पितरः पिण्डतर्पणम् । स्वेच्छया च द्विजातेश्च त्रिसन्ध्यारहितस्य च ॥ ३०॥ मूलप्रकृत्यभक्तो यस्तन्मन्त्रस्याप्यनर्चकः । तदुत्सवविहीनश्च विषहीनो यथोरगः ॥ ३१॥ विष्णुमन्त्रविहीनश्च त्रिसन्ध्यारहितो द्विजः । एकादशीविहीनश्च विषहीनो यथोरगः ॥ ३२॥ हरेरनैवेद्यभोजी धावको वृषवाहकः । शूद्रान्नभोजी यो विप्रो विषहीनो यथोरगः ॥ ३३॥ शूद्राणां शवदाही यः स विप्रो वृषलीपतिः । शूद्राणां सूपकारश्च विषहीनो यथोरगः ॥ ३४॥ शूद्राणां च प्रतिग्राही शूद्रयाजी च यो द्विजः । मसिजीवी असिजीवी विषहीनो यथोरगः ॥ ३५॥ यः कन्याविक्रयी विप्रो यो हरेर्नामविक्रयी । यो विप्रोऽवीरान्नभोजी ऋतुस्नातान्नभोजकः ॥ ३६॥ भगजीवी बार्धुषिको विषहीनो यथोरगः । यो विद्याविकयी विप्रो विषहीनो यथोरगः ॥ ३७॥ सूर्योदये स्वपेद्यो हि मत्स्यभोजी च यो द्विजः । शिवापूजादिरहितो विषहीनो यथोरगः ॥ ३८॥ इत्युक्त्वा च मुनिश्रेष्ठः सर्वपूजाविधिक्रमम् । तमुवाच च सावित्र्या ध्यानादिकमभीप्सितम् ॥ ३९॥ दत्त्वा सर्वं नृपेन्द्राय ययौ च स्वाश्रमे मुने । राजा सम्पूज्य सावित्रीं ददर्श वरमाप च ॥ ४०॥ नारद उवाच । किं वा ध्यानं च सावित्र्याः किं वा पूजाविधानकम् । स्तोत्रं मन्त्रं च किं दत्त्वा प्रययौ स पराशरः ॥ ४१॥ नृपः केन विधानेन सम्पूज्य श्रुतिमातरम् । वरं च कं वा सम्प्राप सम्पूज्य तु विधानतः ॥ ४२॥ तत्सर्वं श्रोतुमिच्छामि सावित्र्याः परमं महत् । रहस्यातिरहस्यं च श्रुतिसिद्धं समासतः ॥ ४३॥ श्रीनारायण उवाच । ज्येष्ठकृष्णत्रयोदश्यां शुद्धकाले च यत्नतः । व्रतमेव चतुर्दश्यां व्रती भक्त्या समाचरेत् ॥ ४४॥ व्रतं चतुर्दशाब्दं च द्विसप्तफलसंयुतम् । दत्त्वा द्विसप्तनैवेद्यं पुष्पधूपादिकं चरेत् ॥ ४५॥ वस्त्रं यज्ञोपवीतं च भोजनं विधिपूर्वकम् । संस्थाप्य मङ्गलघटं फलशाखासमन्वितम् ॥ ४६॥ गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । सम्पूज्य पूजयेदिष्टं घटे आवाहिते द्विजः ॥ ४७॥ श‍ृणु ध्यानं च सावित्र्याश्चोक्तं माध्यन्दिने च यत् । स्तोत्रं पूजाविधानं च मन्त्रं च सर्वकामदम् ॥ ४८॥ तप्तकाञ्चनवर्णाभां ज्वलन्तीं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रसम्मितप्रभाम् ॥ ४९॥ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां भक्तानुग्रहविग्रहाम् ॥ ५०॥ सुखदां मुक्तिदां शान्तां कान्तां च जगतां विधेः । सर्वसम्पत्स्वरूपां च प्रदात्रीं सर्वसम्पदाम् ॥ ५१॥ वेदाधिष्ठातृदेवीं च वेदशास्त्रस्वरूपिणीम् । वेदबीजस्वरूपां च भजे तां वेदमातरम् ॥ ५२॥ ध्यात्वा ध्यानेन नैवेद्यं दत्त्वा पाणिं स्वमूर्धनि । पुनर्ध्यात्वा घटे भक्त्या देवीमावाहयेद् व्रती ॥ ५३॥ दत्त्वा षोडशोपचारं वेदोक्तं मन्त्रपूर्वकम् । सम्पूज्य स्तुत्वा प्रणमेद्देवदेवीं विधानतः ॥ ५४॥ आसनं पाद्यमर्घ्यं च स्नानीयं चानुलेपनम् । धूपं दीपं च नैवेद्यं ताम्बूलं शीतलं जलम् ॥ ५५॥ वसनं भूषणं माल्यं गन्धमाचमनीयकम् । मनोहरं सुतल्पं च देयान्येतानि षोडश ॥ ५६॥ दारुसारविकारं च हेमादिनिर्मितं च वा । देवाधारं पुण्यदं च मया तुभ्यं निवेदितम् ॥ ५७॥ तीर्थोदकं च पाद्यं च पुण्यदं प्रीतिदं महत् । पूजाङ्गभूतं शुद्धं च मया तुभ्यं निवेदितम् ॥ ५८॥ पवित्ररूपमर्घ्यं च दूर्वापुष्पदलान्वितम् । पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ ५९॥ सुगन्धं गन्धतोयं च स्नेहं सौगन्धकारकम् । मया निवेदितं भक्त्या स्नानीयं प्रतिगृह्यताम् ॥ ६०॥ गन्धद्रव्योद्भवं पुण्यं प्रीतिदं दिव्यगन्धदम् । मया निवेदितं भक्त्या गन्धतोयं तवाम्बिके ॥ ६१॥ सर्वमङ्गलरूपं च सर्वं च मङ्गलप्रदम् । पुण्यदं च सुधूपं तं गृहाण परमेश्वरि ॥ ६२॥ सुगन्धयुक्तं सुखदं मया तुभ्यं निवेदितम् । जगतां दर्शनार्थाय प्रदीपं दीप्तिकारकम् ॥ ६३॥ अन्धकारध्वंसबीजं मया तुभ्यं निवेदितम् । तुष्टिदं पुष्टिदं चैव प्रीतिदं क्षुद्विनाशनम् ॥ ६४॥ पुण्यदं स्वादुरूपं च नैवेद्यं प्रतिगृह्यताम् । ताम्बूलप्रवरं रम्यं कर्पूरादिसुवासितम् ॥ ६५॥ तुष्टिदं पुष्टिदं चैव मया तुभ्यं निवेदितम् । सुशीतलं वारि शीतं पिपासानाशकारणम् ॥ ६६॥ जगतां जीवनरूपं च जीवनं प्रतिगृह्यताम् । देहशोभास्वरूपं च सभाशोभाविवर्धनम् ॥ ६७॥ कार्पासजं च कृमिजं वसनं प्रतिगृह्यताम् । काञ्चनादिविनिर्माणं श्रीकरं श्रीयुतं सदा ॥ ६८॥ सुखदं पुण्यदं रत्नभूषणं प्रतिगृह्यताम् । नानावृक्षसमुद्भूतं नानारूपसमन्वितम् ॥ ६९॥ फलस्वरूपं फलदं फलं च प्रतिगृह्यताम् । सर्वमङ्गलरूपं च सर्वमङ्गलमङ्गलम् ॥ ७०॥ नानापुष्पविनिर्माणं बहुशोभासमन्वितम् । प्रीतिदं पुण्यदं चैव माल्यं च प्रतिगृह्यताम् ॥ ७१॥ पुण्यदं च सुगन्धाढ्यं गन्धं च देवि गृह्यताम् । सिन्दूरं च वरं रम्यं भालशोभाविवर्धनम् ॥ ७२॥ भूषणानां च प्रवरं सिन्दूरं प्रतिगृह्यताम् । विशुद्धं ग्रन्थिसंयुक्तं पुण्यसूत्रविनिर्मितम् ॥ ७३॥ पवित्रं वेदमन्त्रेण यज्ञसूत्रं च गृह्यताम् । द्रव्याण्येतानि मूलेन दत्त्वा स्तोत्रं पठेत्सुधीः ॥ ७४॥ ततो विप्राय भक्त्या च व्रती दद्याच्च दक्षिणाम् । सावित्रीति चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ७५॥ लक्ष्मीमायाकामपूर्वं मन्त्रमष्टाक्षरं विदुः । माध्यन्दिनोक्तं स्तोत्रं च सर्वकामफलप्रदम् ॥ ७६॥ विप्रजीवनरूपं च निबोध कथयामि ते । कृष्णेन दत्तां सावित्रीं गोलोके ब्रह्मणे पुरा ॥ ७७॥ नायाति सा तेन सार्धं ब्रह्मलोके च नारद । ब्रह्मा कृष्णाज्ञया भक्त्या तुष्टाव वेदमातरम् ॥ ७८॥ तदा सा परितुष्टा च ब्रह्माणं चकमे पतिम् । ब्रह्मोवाव सच्चिदानन्दरूपे त्वं मूलप्रकृतिरूपिणि ॥ ७९॥ हिरण्यगर्भरूपे त्वं प्रसन्ना भव सुन्दरि । तेजःस्वरूपे परमे परमानन्दरूपिणि ॥ ८०॥ द्विजातीनां जातिरूपे प्रसन्ना भव सुन्दरि । नित्ये नित्यप्रिये देवि नित्यानन्दस्वरूपिणि ॥ ८१॥ सर्वमङ्गलरूपे च प्रसन्ना भव सुन्दरि । सर्वस्वरूपे विप्राणां मन्त्रसारे परात्परे ॥ ८२॥ सुखदे मोक्षदे देवि प्रसन्ना भव सुन्दरि । विप्रपापेध्मदाहाय ज्वलदग्निशिखोपमे ॥ ८३॥ बह्मतेजःप्रदे देवि प्रसन्ना भव सुन्दरि । कायेन मनसा वाचा यत्पापं कुरुते नरः ॥ ८४॥ तत्त्वत्स्मरणमात्रेण भस्मीभूतं भविष्यति । इत्युक्त्वा जगतां धाता तस्थौ तत्रैव संसदि ॥ ८५॥ सावित्री ब्रह्मणा सार्धं ब्रह्मलोकं जगाम सा । अनेन स्तवराजेन संस्तूयाश्वपतिर्नृपः ॥ ८६॥ ददर्श तां च सावित्रीं वरं प्राप मनोगतम् । स्तवराजमिमं पुण्यं सन्ध्यां कृत्वा च यः पठेत् । पाठे चतुर्णां वेदानां यत्फलं लभते च तत् ॥ ८७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्रीपूजाविधिकथनं नाम षड्विंशोऽध्यायः ॥ ९.२६॥

९.२७ सप्तविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।

श्रीनारायण उवाव स्तुत्वानेन सोऽश्वपतिः सम्पूज्य विधिपूर्वकम् । ददर्श तत्र तां देवीं सहस्रार्कसमप्रभाम् ॥ १॥ उवाच सा च राजानं प्रसन्ना सस्मिता सती । यथा माता स्वपुत्रं च द्योतयन्ती दिशस्त्विषा ॥ २॥ सावित्र्युवाच । जानाम्यहं महाराज यत्ते मनसि वाञ्छितम् । वाञ्छितं तव पत्न्याश्च सर्वं दास्यामि निश्चितम् ॥ ३॥ साध्वी कन्याभिलाषं च करोति तव कामिनी । त्वं प्रार्थयसि पुत्रं च भविष्यति क्रमेण च ॥ ४॥ इत्युक्त्वा सा तदा देवी ब्रह्मलोकं जगाम ह । राजा जगाम स्वगृहं तत्कन्याऽऽदौ बभूव ह ॥ ५॥ आराधनाच्च सावित्र्या बभूव कमला परा । सावित्रीति च तन्नाम चकाराश्वपतिर्नृपः ॥ ६॥ कालेन सा वर्धमाना बभूव च दिने दिने । रूपयौवनसम्पन्ना शुक्ले चन्द्रकला यथा ॥ ७॥ सा वरं वरयामास द्युमत्सेनात्मजं तदा । सत्यवन्तं सत्यशीलं नानागुणसमन्वितम् ॥ ८॥ राजा तस्मै ददौ तां च रत्नभूषणभूषिताम् । सोऽपि सार्धं कौतुकेन तां गृहीत्वा गृहं ययौ ॥ ९॥ स च संवत्सरेऽतीते सत्यवान् सत्यविक्रमः । जगाम फलकाष्ठार्थं प्रहर्षं पितुराज्ञया ॥ १०॥ जगाम साध्वी तत्पश्चात्सावित्री दैवयोगतः । निपत्य वृक्षाद्दैवेन प्राणांस्तत्याज सत्यवान् ॥ ११॥ यमस्तं पुरुषं दृष्ट्वा बद्ध्वाङ्गुष्ठसमं मुने । गृहीत्वा गमनं चक्रे तत्पश्चात्प्रययौ सती ॥ १२॥ पश्चात्तां सुदतीं दृष्ट्वा यमः संयमनीपतिः । उवाच मधुरं साध्वीं साधूनां प्रवरो महान् ॥ १३॥ धर्मराज उवाच । अहो क्व यासि सावित्रि गृहीत्वा मानुषीं तनुम् । यदि यास्यसि कान्तेन सार्धं देहं तदा त्यज ॥ १४॥ गन्तुं मर्त्यो न शक्नोति गृहीत्वा पाञ्चभौतिकम् । देहं च मम लोकं च नश्वरं नश्वरः सदा ॥ १५॥ भर्तुस्ते पूर्णकालो वै बभूव भारते सति । स्वकर्मफलभोगार्थं सत्यवान् याति मद्गृहम् ॥ १६॥ कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकः कर्मणैव प्रणीयते ॥ १७॥ कर्मणेन्द्रो भवेज्जीवो ब्रह्मपुत्रः स्वकर्मणा । स्वकर्मणा हरेर्दासो जन्मादिरहितो भवेत् ॥ १८॥ स्वकर्मणा सर्वसिद्धिममरत्वं लभेद् ध्रुवम् । लभेत्स्वकर्मणा विष्णोः सालोक्यादिचतुष्टयम् ॥ १९॥ सुरत्वं च मनुत्वं च राजेन्द्रत्वं लभेन्नरः । कर्मणा च शिवत्वं च गणेशत्वं तथैव च ॥ २०॥ कर्मणा च मुनीन्द्रत्वं तपस्वित्वं स्वकर्मणा । स्वकर्मणा क्षत्रियत्वं वैश्यत्वं च स्वकर्मणा ॥ २१॥ कर्मणैव च म्लेच्छत्वं लभते नात्र संशयः । स्वकर्मणा जङ्गमत्वं शैलत्वं च स्वकर्मणा ॥ २२॥ कर्मणा राक्षसत्वं च किन्नरत्वं स्वकर्मणा । कर्मणैवाधिपत्यं च वृक्षत्वं च स्वकर्मणा ॥ २३॥ कर्मणैव पशुत्वं च वनजीवी स्वकर्मणा । कर्मणा क्षुद्रजन्तुत्वं कृमित्वं च स्वकर्मणा ॥ २४॥ दैतेयत्वं दानवत्वमसुरत्वं स्वकर्मणा । इत्येतदुक्त्वा सावित्रीं विरराम स वै यमः ॥ २५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नाम सप्तविंशोऽध्यायः ॥ ९.२७॥

९.२८ अष्टाविंशोऽध्यायः । सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम् ।

श्रीनारायण उवाच । यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता । तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ १॥ सावित्र्युवाच । किं कर्म तद्भवेत्केन को वा तद्धेतुरेव च । को वा देही च देहः कः को वात्र कर्मकारकः ॥ २॥ किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् । कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः ॥ ३॥ भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः । को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥ ४॥ धर्म उवाच । वेदप्रणिहितो धर्मः कर्म यन्मङ्गलं परम् । अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥ ५॥ अहैतुकी देवसेवा सङ्कल्परहिता सती । कर्मनिर्मूलरूपा च सा एव परभक्तिदा ॥ ६॥ को वा कर्मफलं भुङ्क्ते को वा निर्लिप्त एव च । ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ ॥ ७॥ जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः । भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ॥ ८॥ निर्वाणपददात्री च हरिरूपप्रदा नृणाम् । हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः ॥ ९॥ अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः । कर्मणो बीजरूपश्च सततं तत्फलप्रदः ॥ १०॥ कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा । सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च ॥ ११॥ पृथिवी वायुराकाशो जलं तेजस्तथैव च । एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः ॥ १२॥ कर्मकर्ता च देही च आत्मा भोजयिता सदा । भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च ॥ १३॥ सदसद्भेदबीजं च ज्ञानं नानाविधं भवेत् । विषयाणां विभागानां भेदि बीजं च कीर्तितम् ॥ १४॥ बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् । वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम् ॥ १५॥ इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् । प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ १६॥ अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् । लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम् ॥ १७॥ अङ्गिनामङ्गरूपं च प्रेरकं सर्वकर्मणाम् । रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम् ॥ १८॥ सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः । प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥ १९॥ परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः । कारणं कारणानां च परमात्मा स उच्यते ॥ २०॥ इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् । ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ २१॥ सावित्र्युवाच । त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् । यद्यत्करोमि प्रश्नं च तद्भवान्वक्तुमर्हति ॥ २२॥ कां कां योनिं याति जीवः कर्मणा केन वा पुनः । केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ २३॥ केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद् गुरौ । केन वा कर्मणा योगी रोगी वा केन कर्मणा ॥ २४॥ केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा । केन वा कर्मणा दुःखी सुखी वा केन कर्मणा ॥ २५॥ अङ्गहीनश्च काणश्च बधिरः केन कर्मणा । अन्धो वा पङ्गुरपि वा प्रमत्तः केन कर्मणा ॥ २६॥ क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् । केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥ २७॥ केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा । स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥ २८॥ गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् । नरको वा कतिविधः किंसङ्ख्यो नाम किं च वा ॥ २९॥ को वा कं नरकं याति कियन्तं तेषु तिष्ठति । पापिनां कर्मणा केन को वा व्याधिः प्रजायते । यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ ३०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नामाष्टाविंशोऽध्यायः ॥ ९.२८॥

९.२९ एकोनत्रिंशोऽध्यायः । सावित्र्युपाख्याने कर्मविपाकवर्णनम् ।

श्रीनारायण उवाच । सावित्रीवचनं श्रुत्वा जगाम विस्मयं यमः । प्रहस्य वक्तुमारेभे कर्मपाकं तु जीविनाम् ॥ १॥ धर्म उवाच । कन्या द्वादशवर्षीया वत्से त्वं वयसाधुना । ज्ञानं ते पूर्वविदुषां ज्ञानिनां योगिनां परम् ॥ २॥ सावित्रीवरदानेन त्वं सावित्री कला सती । प्राप्ता पुरा भूभृता च तपसा तत्समा सुते ॥ ३॥ यथा श्रीः श्रीपतेः क्रोडे भवानी च भवोरसि । यथादितिः कश्यपे च यथाहल्या च गौतमे ॥ ४॥ यथा शची महेन्द्रे च यथा चन्द्रे च रोहिणी । यथा रतिः कामदेवे यथा स्वाहा हुताशने ॥ ५॥ यथा स्वधा च पितृषु यथा सन्ध्या दिवाकरे । वरुणानी च वरुणे यज्ञे च दक्षिणा यथा ॥ ६॥ यथा वराहे पृथिवी देवसेना च कार्तिके । सौभाग्या सुप्रिया त्वं च तथा सत्यवतः प्रिये ॥ ७॥ अयं तुभ्यं वरो दत्तोऽप्यपरं च यथेप्सितम् । श‍ृणु देवि महाभागे ददामि सकलेप्सितम् ॥ ८॥ सावित्र्युवाच । सत्यवत औरसानां पुत्राणां शतकं मम । भविष्यति महाभाग वरमेतन्मदीप्सितम् ॥ ९॥ मत्पितुः पुत्रशतकं श्वशुरस्य च चक्षुषी । राज्यलाभो भवत्वेवं वरमेतन्मदीप्सितम् ॥ १०॥ अन्ते सत्यवता सार्धं यास्यामि हरिमन्दिरम् । समतीते लक्षवर्षे देहीदं मे जगत्प्रभो ॥ ११॥ जीवकर्मविपाकं च श्रोतुं कौतूहलं मम । विश्वनिस्तारबीजं च तन्मे व्याख्यातुमर्हसि ॥ १२॥ धर्मराज उवाच । भविष्यति महासाध्वि सर्वं मानसिकं तव । जीवकर्मविपाकं च कथयामि निशामय ॥ १३॥ शुभानामशुभानां च कर्मणां जन्म भारते । पुण्यक्षेत्रे च नान्यत्र सर्वं च भुञ्जते जनाः ॥ १४॥ सुरा दैत्या दानवाश्च गन्धर्वा राक्षसादयः । नराश्च कर्मजनका न सर्वे जीविनः सति ॥ १५॥ विशिष्टजीविनः कर्म भुञ्जते सर्वयोनिषु । शुभाशुभं च सर्वत्र स्वर्गेषु नरकेषु च ॥ १६॥ विशेषतो जीविनश्च भ्रमन्ते सर्वयोनिषु । शुभाशुभं भुञ्जते च कर्म पूर्वार्जितं परम् ॥ १७॥ शुभेन कर्मणा याति स्वर्लोकादिकमेव च । कर्मणा चाशुभेनैव भ्रमन्ति नरकेषु च ॥ १८॥ कर्मनिर्मूलने भक्तिः सा चोक्ता द्विविधा सति । निर्वाणरूपा भक्तिश्च ब्रह्मणः प्रकृतेरिह ॥ १९॥ रोगी कुकर्मणा जीवश्चारोगी शुभकर्मणा । दीर्घजीवी च क्षीणायुः सुखी दुःखी च कर्मणा ॥ २०॥ अन्धादयश्चाङ्गहीनाः कर्मणा कुत्सितेन च । सिद्ध्यादिकमवाप्नोति सर्वोत्कृष्टेन कर्मणा ॥ २१॥ सामान्यं कथितं देवि विशेषं श‍ृणु सुन्दरि । सुदुर्लभं सुगोप्यं च पुराणेषु स्मृतिष्वपि ॥ २२॥ दुर्लभा मानुषी जातिः सर्वजातिषु भारते । सर्वेभ्यो ब्राह्मणः श्रेष्ठः प्रशस्तः सर्वकर्मसु ॥ २३॥ ब्रह्मनिष्ठो द्विजश्चैव गरीयान् भारते सति । निष्कामश्च सकामश्च ब्राह्मणो द्विविधः सति ॥ २४॥ सकामाज्ज प्रधानश्च निष्कामो भक्त एव च । कर्मभोगी सकामश्च निष्कामो निरुपद्रवः ॥ २५॥ स याति देहं त्यक्त्वा च पदं यत्तन्निरामयम् । पुनरागमनं नास्ति तेषां निष्कामिनां सति ॥ २६॥ सेवन्ते द्विभुजं कृष्णं परमात्मानमीश्वरम् । गोलोकं प्रति ते भक्ता दिव्यरूपविधारिणः ॥ २७॥ सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च । भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥ २८॥ काले गते च निष्कामा भवन्त्येव क्रमेण च । भक्तिं च निर्मलां तेभ्यो दास्यामि निश्चितं पुनः ॥ २९॥ ब्राह्मणा वैष्णवाश्चैव सकामाः सर्वजन्मसु । न तेषां निर्मला बुद्धिर्विष्णुभक्तिविवर्जिताः ॥ ३०॥ तीर्थाश्रिता द्विजा ये च तपस्यानिरताः सति । ते यान्ति ब्रह्मलोकं च पुनरायान्ति भारते ॥ ३१॥ स्वधर्मनिरता ये च तीर्थान्यत्रनिवासिनः । व्रजन्ति ते सत्यलोकं पुनरायान्ति भारते ॥ ३२॥ स्वधर्मनिरता विप्राः सूर्यभक्ताश्च भारते । व्रजन्ति ते सूर्यलोकं पुनरायान्ति भारते ॥ ३३॥ मूलप्रकृतिभक्ता ये निष्कामा धर्मचारिणः । मणिद्वीपं प्रयान्त्येव पुनरावृत्तिवर्जितम् ॥ ३४॥ स्वधर्मे निरता भक्ताः शैवाः शाक्ताश्च गाणपाः । ते यान्ति शिवलोकं च पुनरायान्ति भारते ॥ ३५॥ ये विप्रा अन्यदेवेज्याः स्वधर्मनिरताः सति । ते यान्ति सर्वलोकं च पुनरायान्ति भारते ॥ ३६॥ हरिभक्ताश्च निष्कामाः स्वधर्मनिरता द्विजाः । ते च यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥ ३७॥ स्वधर्मरहिता विप्रा देवान्यसेवनाः सदा । भ्रष्टाचाराश्च कामाश्च ते यान्ति नरकं ध्रुवम् ॥ ३८॥ स्वधर्मनिरता एव वर्णाश्चत्वार एव च । भवन्त्येव शुभस्यैव कर्मणः फलभोगिनः ॥ ३९॥ स्वकर्मरहिता ये च नरकं यान्ति ते ध्रुवम् । भारते न भवन्त्येव कर्मणः फलभोगिनः ॥ ४०॥ स्वधर्मनिरता एव वर्णाश्चत्वार एव च । स्वधर्मनिरता विप्राः स्वधर्मनिरताय च ॥ ४१॥ कन्यां ददति विप्राय चन्द्रलोकं प्रयान्ति ते । वसन्ति तत्र ते साध्वि यावदिन्द्राश्चतुर्दश ॥ ४२॥ सालङ्कृताया दानेन द्विगुणं फलमुच्यते । सकामा यान्ति तल्लोकं न निष्कामाश्च साधवः ॥ ४३॥ ते प्रयान्ति विष्णुलोकं फलसङ्घातवर्जिताः । गव्यं च रजतं स्वर्णं वस्त्रं सर्पिः फलं जलम् ॥ ४४॥ ये ददत्येव विप्रेभ्यश्चन्द्रलोकं प्रयान्ति ते । वसन्ति ते च तल्लोके यावन्मन्वन्तरं सति ॥ ४५॥ सुचिरात्सुचिरं वासं कुर्वन्ति तेन ते जनाः । ये ददति सुवर्णांश्च गाश्च ताम्रादिकं सति ॥ ४६॥ ते यान्ति सूर्यलोकं च शुचये ब्राह्मणाय च । वसन्ति ते तत्र लोके वर्षाणामयुतं सति ॥ ४७॥ विपुले सुचिरं वासं कुर्वन्ति च निरामयाः । ददाति भूमिं विप्रेभ्यो धनानि विपुलानि च ॥ ४८॥ स याति विष्णुलोकं च श्वेतद्वीपं मनोहरम् । तत्रैव निवसत्येव यावच्चन्द्रदिवाकरौ ॥ ४९॥ विपुले विपुलं वासं करोति पुण्यवान्मुने । गृहं ददति विप्राय ये जना भक्तिपूर्वकम् ॥ ५०॥ ते यान्ति विष्णुलोकं च सुचिरं सुखदायकम् । गृहरेणुप्रमाणं च विष्णुलोके महत्तमे ॥ ५१॥ विपुले विपुलं वासं कुर्वन्ति मानवाः सति । यस्मै यस्मै च देवाय यो ददाति गृहं नरः ॥ ५२॥ स याति तस्य लोकं च रेणुमानाब्दमेव च । सौधे चतुर्गुणं पुण्यं देशे शतगुणं फलम् ॥ ५३॥ प्रकृष्टे द्विगुणं तस्मादित्याह कमलोद्भवः । यो ददाति तडागं च सर्वपापापनुत्तये ॥ ५४॥ स याति जनलोकं च रेणुमानाब्दमेव च । वाप्यां फलं दशगुणं प्राप्नोति मानवः सदा ॥ ५५॥ स तु वापीप्रदानेन तडागस्य फलं लभेत् । धनुश्चतुःसहस्रेण दर्श्यमानेन निश्चितम् ॥ ५६॥ न्यूना वा तावती प्रस्थे सा वापी परिकीर्तिता । दशवापीसमा कन्या यदि पात्रे प्रदीयते ॥ ५७॥ फलं ददाति द्विगुणं यदि सालङ्कृता भवेत् । यत्फलं च तडागे च तदुद्धारे च तत्कलम् ॥ ५८॥ वाप्याश्च पङ्कोद्धरणे वापीतुल्यफलं लभेत् । अश्वत्थवृक्षमारोप्य प्रतिष्ठां यः करोति च ॥ ५९॥ स प्रयाति तपोलोकं वर्षाणामयुतं सति । पुष्पोद्यानं यो ददाति सावित्रि सर्वभूतये ॥ ६०॥ स वसेद् ध्रुवलोके च वर्षाणामयुतं धुवम् । यो ददाति विमानं च विष्णवे भारते सति ॥ ६१॥ विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं परम् । चित्रयुक्ते च विपुले फलं तस्य चतुर्गुणम् ॥ ६२॥ तस्यार्धं शिबिकादाने फलमेव लभेद् ध्रुवम् । यो ददाति भक्तियुक्तो हरये दोलमन्दिरम् ॥ ६३॥ विष्णुलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । राजमार्गं सौधयुक्तं यः करोति पतिव्रते ॥ ६४॥ वर्षाणामयुतं सोऽपि शक्रलोके महीयते । ब्राह्मणेभ्योऽथ देवेभ्यो दाने समफलं लभेत् ॥ ६५॥ यद्धि दत्तं च तद्भुङ्क्ते न दत्तं नोपतिष्ठते । भुक्त्वा स्वर्गादिजं सौख्यं पुण्यवाञ्जन्म भारते ॥ ६६॥ लभेद्विप्रकुलेष्वेव क्रमेणैवोत्तमादिषु । भारते पुण्यवान्विप्रो भुक्त्वा स्वर्गादिकं फलम् ॥ ६७॥ पुनः सोऽपि भवेद्विप्रश्चैवं च क्षत्रियादयः । क्षत्रियो वाथ वैश्यो वा कल्पकोटिशतेन च ॥ ६८॥ तपसा ब्राह्मणत्वं च न प्राप्नोति श्रुतौ श्रुतम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ६९॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । देवतीर्थसहायेन कायव्यूहेन शुध्यति । एतत्ते कथितं किञ्चित् किं भूयः श्रोतुमिच्छसि ॥ ७०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कर्मविपाकवर्णनं नामैकोनत्रिशोऽध्यायः ॥ ९.२९॥

९.३० त्रिंशोऽध्यायः । यमेन कर्मविपाककथनम् ।

सावित्र्युवाच । प्रयान्ति स्वर्गमन्यं च येनैव कर्मणा यम । मानवाः पुण्यवन्तश्च तन्मे व्याख्यातुमर्हसि ॥ १॥ धर्मराज उवाच । अन्नदानं च विप्राय यः करोति च भारते । अन्नप्रमाणवर्षं च शिवलोके महीयते ॥ २॥ अन्नदानं महादानमन्येभ्योऽपि करोति यः । अन्नदानप्रमाणं च शिवलोके महीयते ॥ ३॥ अन्नदानात्परं दानं न भूतं न भविष्यति । नात्र पात्रपरीक्षा स्यान्न कालनियमः क्वचित् ॥ ४॥ देवेभ्यो ब्राह्मणेभ्यो वा ददाति चासनं यदि । महीयते विष्णुलोके वर्षाणामयुतं सति ॥ ५॥ यो ददाति च विप्राय दिव्यां धेनुं पयस्विनीम् । तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ६॥ चतुर्गुणं पुण्यदिने तीर्थे शतगुणं फलम् । दानं नारायणक्षेत्रं फलं कोटिगुणं भवेत् ॥ ७॥ गां यो ददाति विप्राय भारते भक्तिपूर्वकम् । वर्षाणामयुतं चैव चन्द्रलोके महीयते ॥ ८॥ यश्चोभयमुखीदानं करोति ब्राह्मणाय च । तल्लोममानवर्षं च विष्णुलोके महीयते ॥ ९॥ यो ददाति ब्राह्मणाय श्वेतच्छत्रं मनोहरम् । वर्षाणामयुतं सोऽपि मोदते वरुणालये ॥ १०॥ विप्राय पीडिताङ्गाय वस्त्रयुग्मं ददाति च । महीयते वायुलोके वर्षाणामयुतं सति ॥ ११॥ यो ददाति ब्राह्मणाय शालग्रामं सवस्त्रकम् । महीयते स वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ १२॥ यो ददाति ब्राह्मणाय दिव्यां शय्यां मनोहराम् । महीयते चन्द्रलोके यावच्चन्द्रदिवाकरौ ॥ १३॥ यो ददाति प्रदीपं च देवेभ्यो ब्राह्मणाय च । यावन्मन्वन्तरं सोऽपि वह्निलोके महीयते ॥ १४॥ करोति गजदानं च यदि विप्राय भारते । यावदिन्द्रो नरस्तावदिन्द्रस्यार्धासने वसेत् ॥ १५॥ भारते योऽश्वदानं च करोति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १६॥ प्रकृष्टां शिबिकां यो हि ददाति ब्राह्मणाय च । मोदते वारुणे लोके यावदिन्द्राश्चतुर्दश ॥ १७॥ प्रकृष्टां वाटिका यो हि ददाति ब्राह्मणाय च । महीयते वायुलोके यावन्मन्वन्तरं सति ॥ १८॥ यो ददाति च विप्राय व्यजनं श्वेतचामरम् । महीयते वायुलोके वर्षाणामयुतं ध्रुवम् ॥ १९॥ धान्यं रत्नं यो ददाति चिरञ्जीवी भवेत्सुधीः । दाता ग्रहीता तौ द्वौ च ध्रुवं वैकुण्ठगामिनौ ॥ २०॥ सततं श्रीहरेर्नाम भारते यो जपेन्नरः । स एव चिरजीवी च ततो मृत्युः पलायते ॥ २१॥ यो नरो भारते वर्षे दोलनं कारयेत्सुधीः । पूर्णिमारजनीशेषे जीवन्मुक्तो भवेन्नरः ॥ २२॥ इहलोके सुखं भुक्त्वा यात्यन्ते विष्णुमन्दिरम् । निश्चितं निवसेत्तत्र शतमन्वन्तरावधि ॥ २३॥ फलमुत्तरफल्गुन्यां ततोऽपि द्विगुणं भवेत् । कल्पान्तजीवी स भवेदित्याह कमलोद्भवः ॥ २४॥ तिलदानं ब्राह्मणाय यः करोति च भारते । तिलप्रमाणवर्षं च मोदते शिवमन्दिरे ॥ २५॥ ततः सुयोनिं सम्प्राप्य चिरञ्जीवी भवेत्सुखी । ताम्रपात्रस्य दानेन द्विगुणं च फलं लभेत् ॥ २६॥ सालङ्कृतां च भोग्यां च सवस्त्रां सुन्दरीं प्रियाम् । यो ददाति ब्राह्मणाय भारते च पतिव्रताम् ॥ २७॥ महीयते चन्द्रलोके यावदिन्द्राश्चतुर्दश । तत्र स्वर्वेश्यया सार्धं मोदते च दिवानिशम् ॥ २८॥ ततो गन्धर्वलोके च वर्षाणामयुतं ध्रुवम् । दिवानिशं कौतुकेन चोर्वश्या सह मोदते ॥ २९॥ ततो जन्मसहस्रं च प्राप्नोति सुन्दरीं प्रियाम् । सतीं सौभाग्ययुक्तां च कोमलां प्रियवादिनीम् ॥ ३०॥ प्रददाति फलं चारु ब्राह्मणाय च यो नरः । फलप्रमाणवर्षं च शक्रलोके महीयते ॥ ३१॥ पुनः सुयोनिं सम्प्राप्य लभते सुतमुत्तमम् । सफलानां च वृक्षाणां सहस्रं च प्रशंसितम् ॥ ३२॥ केवलं फलदानं वा ब्राह्मणाय ददाति च । सुचिरं स्वर्गवासं च कृत्वा याति च भारते ॥ ३३॥ नानाद्रव्यसमायुक्तं नानासस्यसमन्वितम् । ददाति यश्च विप्राय भारते विपुलं गृहम् ॥ ३४॥ सुरलोके वसेत्सोऽपि यावन्मन्वन्तरं शतम् । ततः सुयोनिं सम्प्राप्य स महाधनवान्भवेत् ॥ ३५॥ यो नरः सस्यसंयुक्तां भूमिं च रुचिरां सति । ददाति भक्त्या विप्राय पुण्यक्षेत्रे च भारते ॥ ३६॥ महीयते च वैकुण्ठे मन्वन्तरशतं ध्रुवम् । पुनः सुयोनिं सम्प्राप्य महांश्च भूमिपो भवेत् ॥ ३७॥ तं न त्यजति भूमिश्च जन्मनां शतकं परम् । श्रीमांश्च धनवांश्चैव पुत्रवांश्च प्रजेश्वरः ॥ ३८॥ यो व्रजं च प्रकृष्टं च ग्रामं दद्याद् द्विजाय च । लक्षमन्वन्तरं चैव वैकुण्ठे स महीयते ॥ ३९॥ पुनः सुयोनिं सम्प्राप्य ग्रामलक्षसमन्वितम् । न जहाति च तं पृथ्वी जन्मनां लक्षमेव च ॥ ४०॥ सुप्रजं च प्रकृष्टं च पक्वसस्यसमन्वितम् । नानापुष्करिणीवृक्षफलवल्लीसमन्वितम् ॥ ४१॥ नगरं यश्च विप्राय ददाति भारते भुवि । महीयते स कैलासे दशलक्षेन्द्रकालकम् ॥ ४२॥ पुनः सुयोनिं सम्प्राप्य राजेन्द्रो भारते भवेत् । नगराणां च नियुतं स लभेन्नात्र संशयः ॥ ४३॥ धरा तं न जहात्येव जन्मनामयुतं ध्रुवम् । परमैश्वर्यनियुतो भवेदेव महीतले ॥ ४४॥ नगराणां च शतकं देशं यो हि द्विजातये । सुप्रकृष्टं मध्यकृष्टं प्रजायुक्तं ददाति च ॥ ४५॥ वापीतडागसंयुक्तं नानावृक्षसमन्वितम् । महीयते स वैकुण्ठे कोटिमन्वन्तरावधि ॥ ४६॥ पुनः सुयोनिं सम्प्राप्य जम्बुद्वीपपतिर्भवेत् । परमैश्वर्यसंयुक्तो यथा शक्रस्तथा भुवि ॥ ४७॥ मही तं न जहात्येव जन्मनां कोटिमेव च । कल्पान्तजीवी स भवेद्राजराजेश्वरो महान् ॥ ४८॥ स्वाधिकारं समग्रं च यो ददाति द्विजातये । चतुर्गुणं फलं चान्ते भवेत्तस्य न संशयः ॥ ४९॥ जम्बुद्वीपं यो ददाति ब्राह्मणाय तपस्विने । फलं शतगुणं चान्ते भवेत्तस्य न संशयः ॥ ५०॥ जम्बुद्वीपमहीदातुः सर्वतीर्थानि सेवितुः । सर्वेषां तपसां कर्तुः सर्वेषां वासकारिणः ॥ ५१॥ सर्वदानप्रदातुश्च सर्वसिद्धेश्वरस्य च । अस्त्येव पुनरावृत्तिर्न भक्तस्य महेशितुः ॥ ५२॥ असङ्ख्यब्रह्मणां पातं पश्यन्ति भुवनेशितुः । निवसन्ति मणिद्वीपे श्रीदेव्याः परमे पदे ॥ ५३॥ देवीमन्त्रोपासकाश्च विहाय मानवीं तनुम् । विभूतिं दिव्यरूपं च जन्ममृत्युजराहरम् ॥ ५४॥ लब्ध्वा देव्याश्च सारूप्यं देवीसेवां च कुर्वते । पश्यन्ति ते मणिद्वीपे सखण्डं लोकसङ्क्षयम् ॥ ५५॥ नश्यन्ति देवाः सिद्धाश्च विश्वानि निखिलानि च । देवीभक्ता न नश्यन्ति जन्ममृत्युजराहराः ॥ ५६॥ कार्तिके तुलसीदानं करोति हरये च यः । युगत्रयप्रमाणं च मोदते हरिमन्दिरे ॥ ५७॥ पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जितेन्द्रियाणां प्रवरः स भवेद्भारते भुवि ॥ ५८॥ मध्ये यः स्नाति गङ्गायामरुणोदयकालतः । युगषष्टिसहस्राणि मोदते हरिमन्दिरे ॥ ५९॥ पुनः सुयोनिं सम्प्राप्य विष्णुमन्त्रं लभेद् ध्रुवम् । त्यक्त्वा च मानुषं देहं पुनर्याति हरेः पदम् ॥ ६०॥ नास्ति तत्पुनरावृत्तिर्वैकुण्ठाच्च महीतले । करोति हरिदास्यं च तथा सारूप्यमेव च ॥ ६१॥ नित्यस्नायी च गङ्गायां स पूतः सूर्यवद्भुवि । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम् ॥ ६२॥ तस्यैव पादरजसा सद्यःपूता वसुन्धरा । मोदते स च वैकुण्ठे यावच्चन्द्रदिवाकरौ ॥ ६३॥ पुनः सुयोनिं सम्प्राप्य हरिभक्तिं लभेद् ध्रुवम् । जीवन्मुक्तोऽतितेजस्वी तपस्विप्रवरो भवेत् ॥ ६४॥ स्वधर्मनिरतः शुद्धो विद्वांश्च स जितेन्द्रियः । मीनकर्कटयोर्मध्ये गाढं तपति भास्करः ॥ ६५॥ भारते यो ददात्येव जलमेव सुवासितम् । स मोदते च कैलासे यावदिन्द्राश्चतुर्दश ॥ ६६॥ पुनः सुयोनिं सम्प्राप्य रूपवांश्च सुखी भवेत् । शिवभक्तश्च तेजस्वी वेदवेदाङ्गपारगः ॥ ६७॥ वैशाखे सक्तुदानं च यः करोति द्विजातये । सक्तुरेणुप्रमाणाब्दं मोदते शिवमन्दिरे ॥ ६८॥ करोति भारते यो हि कृष्णजन्माष्टमीव्रतम् । शतजन्मकृतं पापं मुच्यते नात्र संशयः ॥ ६९॥ वैकुण्ठे मोदते सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य कृष्णे भक्तिंलभेद् ध्रुवम् ॥ ७०॥ इहैव भारते वर्षे शिवरात्रिं करोति यः । मोदते शिवलोके स सप्तमन्वन्तरावधि ॥ ७१॥ शिवाय शिवरात्रौ च बिल्वपत्रं ददाति यः । पत्रमानयुगं तत्र मोदते शिवमन्दिरे ॥ ७२॥ पुनः सुयोनिं सम्प्राप्य शिवभक्तिं लभेद्ध्रुवम् । विद्यावान्पुत्रवाञ्छ्रीमान् प्रजावान्भूमिमान्भवेत् ॥ ७३॥ चैत्रमासेऽथवा माघे शङ्करं योऽर्चयेद्व्रती । करोति नर्तनं भक्त्या वेत्रपाणिर्दिवानिशम् ॥ ७४॥ मासं वाप्यर्धमासं वा दश सप्त दिनानि च । दिनमानयुगं सोऽपि शिवलोके महीयते ॥ ७५॥ श्रीरामनवमीं यो हि करोति भारते पुमान् । सप्तमन्वन्तरं यावन्मोदते विष्णुमन्दिरे ॥ ७६॥ पुनः सुयोनिं सम्प्राप्य रामभक्तिं लभेद्ध्रुवम् । जितेन्द्रियाणां प्रवरो महांश्च धनवान्भवेत् ॥ ७७॥ शारदीयां महापूजां प्रकृतेर्यः करोति च । महिषैश्छागलैर्मेषैः खड्गैर्भेकादिभिः सति ॥ ७८॥ नैवेद्यैरुपहारैश्च धूपदीपादिभिस्तथा । नृत्यगीतादिभिर्वाद्यैर्नानाकौतुकमङ्गलम् ॥ ७९॥ शिवलोके वसेत्सोऽपि सप्तमन्वन्तरावधि । पुनः सुयोनिं सम्प्राप्य नरो बुद्धिं च निर्मलाम् ॥ ८०॥ अतुलां श्रियमाप्नोति पुत्रपौत्रविवर्धनीम् । महाप्रभावयुक्तश्च गजवाजिसमन्वितः ॥ ८१॥ राजराजेश्वरः सोऽपि भवेदेव न संशयः । ततः शुक्लाष्टमीं प्राप्य महालक्ष्मीं च योऽर्चयेत् ॥ ८२॥ नित्यं भक्त्या पक्षमेकं पुण्यक्षेत्रे च भारते । दत्त्वा तस्यै प्रकृष्टानि चोपचाराणि षोडश ॥ ८३॥ गोलोके च वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । पुनः सुयोनिं सम्प्राप्य राजराजेश्वरो भवेत् ॥ ८४॥ कार्तिकीपूर्णिमायां च कृत्वा तु रासमण्डलम् । गोपानां शतकं कृत्वा गोपीनां शतकं तथा ॥ ८५॥ शिलायां प्रतिमायां च श्रीकृष्णं राधया सह । भारते पूजयेद्भक्त्या चोपचाराणि षोडश ॥ ८६॥ गोलोके वसते सोऽपि यावद्वै ब्रह्मणो वयः । भारतं पुनरागत्य कृष्णे भक्तिं लभेद्दृढाम् ॥ ८७॥ क्रमेण सुदृढां भक्तिं लब्ध्वा मन्त्रं हरेरहो । देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः ॥ ८८॥ ततः कृष्णस्य सारूप्यं पार्षदप्रवरो भवेत् । पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् ॥ ८९॥ शुक्लां वाप्यथवा कृष्णां करोत्येकादशीं च यः । वैकुण्ठे मोदते सोऽपि यावद्वै ब्रह्मणो वयः ॥ ९०॥ भारते पुनरागत्य कृष्णभक्तिं लभेद्ध्रुवम् । क्रमेण भक्तिं सुदृढां करोत्येकां हरेरहो ॥ ९१॥ देहं त्यक्त्वा च गोलोकं पुनरेव प्रयाति सः । ततः कृष्णस्य सारूप्यं सम्प्राप्य पार्षदो भवेत् ॥ ९२॥ पुनस्तत्पतनं नास्ति जरामृत्युहरो भवेत् । भाद्रे च शुक्लद्वादश्यां यः शक्रं पूजयेन्नरः ॥ ९३॥ षष्टिवर्षसहस्राणि शक्रलोके महीयते । रविवारे च सङ्क्रान्त्यां सप्तम्यां शुक्लपक्षके ॥ ९४॥ सम्पूज्यार्कं हविष्यान्नं यः करोति च भारते । महीयते सोऽर्कलोके यावदिन्द्राश्चतुर्दश ॥ ९५॥ भारतं पुनरागत्य चारोगी श्रीयुतो भवेत् । ज्येष्ठकृष्णचतुर्दश्यां सावित्रीं यो हि पूजयेत् ॥ ९६॥ महीयते ब्रह्मलोके सप्तमन्वन्तरावधि । पुनर्महीं समागत्य श्रीमानतुलविक्रमः ॥ ९७॥ चिरजीवी भवेत्सोऽपि ज्ञानवान्सम्पदा युतः । माघस्य शुक्लपञ्चम्यां पूजयेद्यः सरस्वतीम् ॥ ९८॥ संयतो भक्तितो दत्त्वा चोपचाराणि षोडश । महीयते मणिद्वीपे यावद्ब्रह्म दिवानिशम् ॥ ९९॥ सम्प्राप्य च पुनर्जन्म स भवेत्कविपण्डितः । गां सुवर्णादिकं यो हि ब्राह्मणाय ददाति च ॥ १००॥ नित्यं जीवनपर्यन्तं भक्तियुक्तश्च भारते । गवां लोमप्रमाणाब्दं द्विगुणं विष्णुमन्दिरे ॥ १०१॥ मोदते हरिणा सार्धं क्रीडाकौतुकमङ्गलैः । तदन्ते पुनरागत्य राजराजेश्वरो भवेत् ॥ १०२॥ श्रीमांश्च पुत्रवान्विद्वांज्ञानवान्सर्वतः सुखी । भोजयेद्योऽपि मिष्टान्नं ब्राह्मणेभ्यश्च भारते ॥ १०३॥ विप्रलोमप्रमाणाब्दं मोदते विष्णुमन्दिरे । ततः पुनरिहागत्य सुखी च धनवान्भवेत् ॥ १०४॥ विद्वान्सुचिरजीवी च श्रीमानतुलविक्रमः । यो वक्ति वा ददात्येव हरेर्नामानि भारते ॥ १०५॥ युगं नाम प्रमाणं च विष्णुलोके महीयते । ततः पुनरिहागत्य स सुखी धनवान्भवेत् ॥ १०६॥ यदि नारायणक्षेत्रे फलं कोटिगुणं भवेत् । नाम्ना कोटिं हरेर्यो हि क्षेत्रे नारायणे जपेत् ॥ १०७॥ सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्ध्रुवम् । न लभेत्स पुनर्जन्म वैकुण्ठे स महीयते ॥ १०८॥ लभेद्विष्णोश्च सारूप्यं न तस्य पतनं भवेत् । विष्णुभक्तिं लभेत्सोऽपि विष्णुसारूप्यमाप्नुयात् ॥ १०९॥ शिवं यः पूजयेन्नित्यं कृत्वा लिङ्गं च पार्थिवम् । यावज्जीवनपर्यन्तं स याति शिवमन्दिरम् ॥ ११०॥ मृदो रेणुप्रमाणाब्दं शिवलोके महीयते । ततः पुनरिहागत्य राजेन्द्रो भारते भवेत् ॥ १११॥ शिलां च पूजयेन्नित्यं शिलातोयं च भक्षति । महीयते च वैकुण्ठे यावद्वै ब्रह्मणः शतम् ॥ ११२॥ ततो लब्ध्वा पुनर्जन्म हरिभक्तिं च दुर्लभाम् । महीयते विष्णुलोके न तस्य पतनं भवेत् ॥ ११३॥ तपांसि चैव सर्वाणि व्रतानि निखिलानि च । कृत्वा तिष्ठति वैकुण्ठे यावदिन्द्राश्चतुर्दश ॥ ११४॥ ततो लब्ध्वा पुनर्जन्म राजेन्द्रो भारते भवेत् । ततो मुक्तो भवेत्पश्चात्पुनर्जन्म न विद्यते ॥ ११५॥ यः स्नात्वा सर्वतीर्थेषु भुवः कृत्वा प्रदक्षिणाम् । स तु निर्वाणतां याति न च जन्म भवेद्भुवि ॥ ११६॥ पुण्यक्षेत्रे भारते च योऽश्वमेधं करोति च । अश्वलोममिताब्दं च शक्रस्यार्धासनं भजेत् ॥ ११७॥ चतुर्गुणं राजसूये फलमाप्नोति मानवः । सर्वेभ्योऽपि मखेभ्यो हि परो देवीमखः स्मृतः ॥ ११८॥ विष्णुना च कृतः पूर्वं ब्रह्मणा च वरानने । शङ्करेण महेशेन त्रिपुरासुरनाशने ॥ ११९॥ शक्तियज्ञः प्रधानश्च सर्वयज्ञेषु सुन्दरि । नानेन सदृशो यज्ञस्त्रिषु लोकेषु विद्यते ॥ १२०॥ दक्षेण च कृतः पूर्वं महान्संवादसंयुतः । बभूव कलहो यत्र दक्षशङ्करयोः सति ॥ १२१॥ शेपुश्च नन्दिनं विप्रा नन्दी विप्रांश्च कोपतः । यद्धेतोर्दक्षयज्ञं च बभञ्ज चन्द्रशेखरः ॥ १२२॥ चकार देवीयज्ञं स पुरा दक्षः प्रजापतिः । धर्मश्च कश्यपश्चैव शेषश्चापि च कर्दमः ॥ १२३॥ स्वायम्भुवो मनुश्चैव तत्पुत्रश्च प्रियव्रतः । शिवः सनत्कुमारश्च कपिलश्च ध्रुवस्तथा ॥ १२४॥ राजसूयसहस्राणां फलमाप्नोति निश्चितम् । देवीयज्ञात्परो यज्ञो नास्ति वेदे फलप्रदः ॥ १२५॥ वर्षाणां शतजीवी च जीवन्मुक्तो भवेद्ध्रुवम् । ज्ञानेन तेजसा चैव विष्णुतुल्यो भवेदिह ॥ १२६॥ देवानां च यथा विष्णुर्वैष्णवानां च नारद । शास्त्राणां च यथा वेदा वर्णानां ब्राह्मणो यथा ॥ १२७॥ तीर्थानां च यथा गङ्गा पवित्राणां शिवो यथा । एकादशी व्रतानां च पुष्पाणां तुलसी यथा ॥ १२८॥ नक्षत्राणां यथा चन्द्रः पक्षिणां गरुडो यथा । यथा स्त्रीणां च प्रकृती राधा वाणी वसुन्धरा ॥ १२९॥ शीघ्राणां चेन्द्रियाणां च चञ्चलानां मनो यथा । प्रजापतीनां ब्रह्मा च प्रजानां च प्रजापतिः ॥ १३०॥ वृन्दावनं वनानां च वर्षाणां भारतं यथा । श्रीमतां च यथा श्रीश्च विदुषां च सरस्वती ॥ १३१॥ पतिव्रतानां दुर्गा च सौभाग्यानां च राधिका । देवीयज्ञस्तथा वत्से सर्वयज्ञेषु भामिनि ॥ १३२॥ अश्वमेधशतेनैव शक्रत्वं च लभेद्ध्रुवम् । सहस्रेण विष्णुपदं सम्प्राप्तः पृथुरेव च ॥ १३३॥ स्नानं च सर्वतीर्थानां सर्वयज्ञेषु दीक्षणम् । सर्वेषां च व्रतानां च तपसां फलमेव च ॥ १३४॥ पाठे चतुर्णां वेदानां प्रादक्षिण्यं भुवस्तथा । फलभूतमिदं सर्वं मुक्तिदं शक्तिसेवनम् ॥ १३५॥ पुराणेषु च वेदेषु चेतिहासेषु सर्वतः । निरूपितं सारभूतं देवीपादाम्बुजार्चनम् ॥ १३६॥ तद्वर्णनं च तद्ध्यानं तन्नामगुणकीर्तनम् । तत्स्तोत्रस्मरणं चैव वन्दनं जपमेव च ॥ १३७॥ तत्पादोदकनैवेद्यं भक्षणं नित्यमेव च । सर्वसम्मतमित्येवं सर्वेप्सितमिदं सति ॥ १३८॥ भज नित्यं परं ब्रह्म निर्गुणं प्रकृतिं पराम् । गृहाण स्वामिनं वत्से सुखं वस च मन्दिरे ॥ १३९॥ अयं ते कथितः कर्मविपाको मङ्गलो नृणाम् । सर्वेप्सितः सर्वमतस्तत्त्वज्ञानप्रदः परः ॥ १४०॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमेन कर्मविपाककथनं नाम त्रिंशोऽध्यायः ॥ ९.३०॥

९.३१ एकत्रिंशोऽध्यायः । यमाष्टकवर्णनम् ।

श्रीनारायण उवाच । शक्तेरुत्कीर्तनं श्रुत्वा सावित्री यमवक्त्रतः । साश्रुनेत्रा सपुलका यमं पुनरुवाच सा ॥ १॥ सावित्र्युवाच । शक्तेरुत्कीर्तनं धर्म सकलोद्धारकारणम् । श्रोतॄणां चैव वक्तॄणां जन्ममृत्युजराहरम् ॥ २॥ दानवानां च सिद्धानां तपसां च परं पदम् । योगानां चैव वेदानां कीर्तनं सेवनं विभो ॥ ३॥ मुक्तित्वममरत्वं च सर्वसिद्धित्वमेव च । श्रीशक्तिसेवकस्यैव कलां नार्हन्ति षोडशीम् ॥ ४॥ भजामि केन विधिना वद वेदविदांवर । शुभकर्मविपाकं च श्रुतं नॄणां मनोहरम् ॥ ५॥ कर्माशुभविपाकं च तन्मे व्याख्यातुमर्हसि । इत्युक्त्वा च सती ब्रह्मन् भक्तिनम्रात्मकन्धरा ॥ ६॥ तुष्टाव धर्मराजं च वेदोक्तेन स्तवेन च । सावित्र्युवाच । तपसा धर्ममाराध्य पुष्करे भास्करः पुरा ॥ ७॥ धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् । समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ॥ ८॥ अतो यन्नाम शमनमिति तं प्रणमाम्यहम् । येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ॥ ९॥ कामानुरूपं कालेन तं कृतान्तं नमाम्यहम् । बिभर्ति दण्डं दण्डाय पापिनां शुद्धिहेतवे ॥ १०॥ नमामि तं दण्डधरं यः शास्ता सर्वजीविनाम् । विश्वं च कलयत्येव यः सर्वेषु च सन्ततम् ॥ ११॥ अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् । तपस्वी ब्रह्मनिष्ठो यः संयमी सञ्जितेन्द्रियः ॥ १२॥ जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् । स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् ॥ १३॥ पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् । यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ॥ १४॥ यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् । इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने ॥ १५॥ यमस्तां शक्तिभजनं कर्मपाकमुवाच ह । इदं यमाष्टकं नित्यं प्रातरुत्थाय यः पठेत् ॥ १६॥ यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते । महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ १७॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे यमाष्टकवर्णनं नामेकत्रिशोऽध्यायः ॥ ९.३१॥

९.३२ द्वात्रिंशोऽध्यायः । सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणम् ।

श्रीनारायण उवाच । मायाबीजं महामन्त्रं प्रदत्त्वा विधिपूर्वकम् । कर्माशुभविपाकं च तामुवाच रवेः सुतः ॥ १॥ धर्मराज उवाच । शुभकर्मविपाकान्न नरकं याति मानवः । कर्माशुभविपाकं च कथयामि निशामय ॥ २॥ नानापुराणभेदेन नामभेदेन भामिनि । नानाप्रकारं स्वर्गं च याति जीवः स्वकर्मभिः ॥ ३॥ शुभकर्मविपाकान्न नरकं याति कर्मभिः । कुकर्मणा च नरकं याति नानाविधं नरः ॥ ४॥ नरकाणां च कुण्डानि सन्ति नानाविधानि च । नानाशास्त्रप्रमाणेन कर्मभेदेन यानि च ॥ ५॥ विस्तृतानि च गर्तानि क्लेशदानि च दुःखिनाम् । भयङ्कराणि घोराणि हे वत्से कुत्सितानि च ॥ ६॥ षडशीति च कुण्डानि एवमन्यानि सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौ सति ॥ ७॥ वह्निकुण्डं तप्तकुण्डं क्षारकुण्डं भयानकम् । विट्कुण्डं मूत्रकुण्डं च श्लेष्मकुण्डं च दुःसहम् ॥ ८॥ गरकुण्डं दूषिकुण्डं वसाकुण्डं तथैव च । शुक्रकुण्डमसुक्कुण्डमश्रुकुण्डं च कुत्सितम् ॥ ९॥ कुण्डं गात्रमलानां च कर्णविट्कुण्डमेव च । मज्जाकुण्डं मांसकुण्डं नक्रकुण्डं च दुस्तरम् ॥ १०॥ लोमकुण्डं केशकुण्डमस्थिकुण्डं च दुस्तरम् । ताम्रकुण्डं लोहकुण्डं प्रतप्तं क्लेशदं महत् ॥ ११॥ चर्मकुण्डं तप्तसुराकुण्डं च परिकीर्तितम् । तीक्ष्णकण्टककुण्डं च विषोदं विषकुण्डकम् ॥ १२॥ प्रतप्तकुण्डं तैलस्य कुन्तकुण्डं च दुर्वहम् । कृमिकुण्डं पूयकुण्डं सर्पकुण्डं दुरन्तकम् ॥ १३॥ मशकुण्डं दंशकुण्डं भीमं गरलकुण्डकम् । कुण्डं च वज्रदंष्ट्राणां वृश्चिकानां च सुव्रते ॥ १४॥ शरकुण्डं शूलकुण्डं खड्गकुण्डं च भीषणम् । गोलकुण्डं नक्रकुण्डं काककुण्डं शुचास्पदम् ॥ १५॥ मन्थानकुण्डं बीजकुण्डं वज्रकुण्डं च दुःसहम् । तप्तपाषाणकुण्डं च तीक्ष्णपाषाणकुण्डकम् ॥ १६॥ लालाकुण्डं मसीकुण्डं चूर्णकुण्डं तथैव च । चक्रकुण्डं वक्रकुण्डं कूर्मकुण्डं महोल्बणम् ॥ १७॥ ज्वालाकुण्डं भस्मकुण्डं दग्धकुण्डं शुचिस्मिते । तप्तसूचीमसिपत्रं क्षुरधारं सूचीमुखम् ॥ १८॥ गोकामुख नक्रमुखं गजदंशं च गोमुखम् । कुम्भीपाकं कालसूत्रं मत्स्योदं कृमितन्तुकम् ॥ १९॥ पांसुभोज्यं पाशवेष्टं शूलप्रोतं प्रकम्पनम् । उल्कामुखमन्धकूपं वेधनं ताडनं तथा ॥ २०॥ जालरन्ध्रं देहचूर्णं दलनं शोषणं कषम् । शूर्पं ज्वालामुखं चैव धूमान्धं नागवेष्टनम् ॥ २१॥ कुण्डान्येतानि सावित्रि पापिनां क्लेशदानि च । नियुतैः किङ्करगणै रक्षितानि च सन्ततम् ॥ २२॥ दण्डहस्तैः पाशहस्तैर्मदमत्तैर्भयङ्करैः । शक्तिहस्तैर्गदाहस्तैरसिहस्तैः सुदारुणैः ॥ २३॥ तमोयुक्तैर्दयाहीनैर्निवार्यैश्च न सर्वतः । तेजस्विभिश्च निःशङ्कैराताम्रपिङ्गलोचनैः ॥ २४॥ योगयुक्तैः सिद्धियुक्तैर्नानारूपधरैर्भटैः । आसन्नमृत्युभिर्दृष्टैः पापिभिः सर्वजीविभिः ॥ २५॥ स्वकर्मनिरतैः सर्वैः शाक्तैः सौरैश्च गाणपैः । अदृश्यैः पुण्यकृद्भिश्च सिद्धैर्योगिभिरेव च ॥ २६॥ स्वधर्मनिरतैर्वापि विततैर्वा स्वतन्त्रकैः । बलवद्भिश्च निःशङ्कैः स्वप्नदृष्टैश्च वैष्णवैः ॥ २७॥ एतत्ते कथितं साध्वि कुण्डसङ्ख्यानिरूपणम् । येषां निवासो यत्कुण्डे निबोध कथयामि ते ॥ २८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने कुण्डसङ्ख्यानिरूपणं नाम द्वात्रिंशोऽध्यायः ॥ ९.३२॥

९.३३ त्रयस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।

धर्मराज उवाच । हरिसेवारतः शुद्धो योगसिद्धो व्रती सति । तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ १॥ कटुवाचा बान्धवांश्च बललेपेन यो नरः । दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ २॥ स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने । पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३॥ ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् । न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४॥ तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे । तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ ५॥ रविवारे च सङ्क्रान्त्याममायां श्राद्धवासरे । वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६॥ स याति क्षारकुण्डं च सूत्रमानाब्दमेव च । स व्रजेद्रजकीं योनिं सप्तजन्मसु भारते ॥ ७॥ मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः । वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ ८॥ ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः । गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ ९॥ ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके । नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ १०॥ तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः । देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ ११॥ स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः । षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ १२॥ तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति । षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ १३॥ परकीयतडागे च तडागं यः करोति च । उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १४॥ तद्रेणुमानवर्षं च तद्भोजी तत्र तिष्ठति । पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ १५॥ एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च । पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति ॥ १६॥ ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् । श्लेष्ममूत्रपरं चैव पूयं भुङ्क्ते ततः शुचिः ॥ १७॥ पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् । यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १८॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ १९॥ दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः । पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ २०॥ यानि कानि च पापानि ब्रह्महत्यादिकानि च । इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ २१॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । ततो व्रजेद्भूतयोनिं शतवर्षं ततः शुचिः ॥ २२॥ दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि । स तिष्ठति वसाकुण्डे तद्भोजी शतवत्सरम् ॥ २३॥ कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु । ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ २४॥ पुमांसं कामिनी वापि कामिनीं वा पुमानथ । यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २५॥ पूर्णमब्दशतं चैव तद्भोजी तत्र तिष्ठति । कृमियोनिं शताब्दं च व्रजेद्भूत्वा ततः शुचिः ॥ २६॥ सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् । स च तिष्ठत्यसृक्कुण्डे तद्भोजी शतवत्सरम् ॥ २७॥ ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते । ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ २८॥ योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्गदम् । श्रीकृष्णगुणसङ्गीते हसत्येव हि यो नरः ॥ २९॥ स वसेदश्रुकुण्डे च तद्भोजी शतवर्षकम् । ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ ३०॥ करोति शठता तद्वन्नित्यं सुहृदि यो नरः । कुण्डं गात्रमलानां च स प्रयाति शताब्दकम् ॥ ३१॥ ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि । त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद् ध्रुवम् ॥ ३२॥ बधिरं यो हसत्येव निन्दत्येवाभिमानतः । स वसेत्कर्णविट्कुण्डे तद्भोजी शतवत्सरम् ॥ ३३॥ ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु । सप्तजन्मन्यङ्गहीनस्ततः शुद्धिं लभेद् ध्रुवम् ॥ ३४॥ लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः । मज्जाकुण्डे वसेत्सोऽपि तद्भोजी लक्षवत्सरम् ॥ ३५॥ ततो भवेच्च शशको मीनश्च सप्तजन्मसु । त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ॥ ३६॥ एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद् ध्रुवम् । स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः ॥ ३७॥ अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः । कन्यालोमप्रमाणाब्दं तद्भोजी तत्र तिष्ठति ॥ ३८॥ तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्कराः । मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा ॥ ३९॥ ततो हि भारते पापी कन्याविट्कृमिगो भवेत् । षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥ ४०॥ त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु । मण्डूको हि जलौकाश्च सप्तजन्मसु भारते ॥ ४१॥ सप्तजन्मसु काकश्च ततः शुद्धिं लभेद् ध्रुवम् । व्रतानामुपवासानां श्राद्धादीनां च सङ्गमे ॥ ४२॥ करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु । स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि ॥ ४३॥ तद्दैवदिनमानाब्दं तद्भोजी दण्डताडितः । सकेशं पार्थिवं लिङ्गं यो वार्चयति भारते ॥ ४४॥ स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् । तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥ ४५॥ शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद् ध्रुवम् । पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥ ४६॥ स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे । ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु ॥ ४७॥ भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः । यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥ ४८॥ प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति । अवीरान्नं च यो भुङ्क्ते ऋतुस्नातान्नमेव च ॥ ४९॥ लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके । स व्रजेद्रजकीं योनिं काकानां सप्तजन्मसु ॥ ५०॥ महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः । यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत् ॥ ५१॥ शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥ ५२॥ स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः । ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ॥ ५३॥ शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्ध रुवम् । वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥ ५४॥ तीक्ष्णकण्टककुण्डे स तद्भोजी तत्र तिष्ठति । ताडितो यमदूतेन दण्डेन च चतुर्गुणम् ॥ ५५॥ ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि । विषेण जीवनं हन्ति निर्दयो यो हि मानवः ॥ ५६॥ विषकुण्डे च तद्भोजी सहस्राब्दं च तिष्ठति । ततो भवेन्नृघाती च व्रणी च शतजन्मसु ॥ ५७॥ सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद् धुवम् । दण्डेन ताडयेद् गां हि वृषञ्च वृषवाहकः ॥ ५८॥ भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते । प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम् ॥ ५९॥ गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् । कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया ॥ ६०॥ कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति । ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः ॥ ६१॥ जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः । यो भुङ्क्ते च वृथा मांसं मांसलोभी द्विजाधमः ॥ ६२॥ हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः । स्वलोममानवर्षं च तद्भोजी तत्र तिष्ठति ॥ ६३॥ ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः । ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः ॥ ६४॥ शूद्राणां शवदाही च पूयकुण्डे वसेद् ध्रुवम् । यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥ ६५॥ ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥ ६६॥ महारोगी दरिद्रश्च बधिरो मूक एव च । कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः ॥ ६७॥ स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः । सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः ॥ ६८॥ वसेच्च सर्पविड्भोजी ततः सर्पो भवेद् ध्रुवम् । ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः ॥ ६९॥ महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद् ध्रुवम् । विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥ ७०॥ स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च । दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान् ॥ ७१॥ हस्तपादादिबद्धश्च यमदूतेन ताडितः । ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ॥ ७२॥ ततो भवेन्मानवश्च सोऽङ्गहीनस्ततः शुचिः । यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः ॥ ७३॥ स एव गारले कुण्डे जीवमानाब्दकं वसेत् । भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥ ७४॥ ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः । दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥ ७५॥ स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् । स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम् ॥ ७६॥ शब्दकृद्भक्षितस्तैस्तु यमदूतेन ताडितः । करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे ॥ ७७॥ पुनः सूकरयोनौ च जायते सप्तजन्मसु । त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः ॥ ७८॥ अर्थलोभेन यो मूढः प्रजादण्डं करोति सः । वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद् ध्रुवम् ॥ ७९॥ ततो वृश्चिकजातिश्च सप्तजन्मसु भारते । ततो नरश्चाङ्गहीनो व्याधिशुद्धो भवेद् ध्रुवम् ॥ ८०॥ ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् । सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः ॥ ८१॥ स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु । विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ८२॥ कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः । प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः ॥ ८३॥ स पङ्कतप्ततोयाक्तं सान्धकारं भयङ्करम् । तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ ८४॥ कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च । ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ॥ ८५॥ सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः । नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ ८६॥ ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् । ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः ॥ ८७॥ वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः । कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ ८८॥ स वसेत्काककुण्डे च काकैः सञ्चूर्णलोचनः । ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि ॥ ८९॥ स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः । स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९०॥ ताडितो यमदूतेन मन्थानैश्छन्नलोचनः । तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ ९१॥ सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी । भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः ॥ ९२॥ यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि । स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः ॥ ९३॥ तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः । ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ९४॥ भारते देवचौरश्च देवद्रव्यापहारकः । स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९५॥ देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् । ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः ॥ ९६॥ रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः । तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद् ध्रुवम् ॥ ९७॥ त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि । जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः ॥ ९८॥ ततो रक्तविकारी च शूली वै मानवो भवेत् । सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९९॥ रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः । तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः ॥ १००॥ स भवेदश्वजातिश्च भारते सप्तजन्मसु । ततोऽधिकाङ्गजातिश्च पादरोगी ततः शुचिः ॥ १०१॥ पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः । स्वलोममानवर्षं च लालाकुण्डे वसेद् ध्रुवम् ॥ १०२॥ ताडितो यमदूतेन तद्भोजी तत्र दुःखितः । ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥ १०३॥ म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि । वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक् ॥ १०४॥ ताडितो यमदूतेन तद्भोजी तत्र तिष्ठति । ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ १०५॥ त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि । ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ १०६॥ धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः । आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः ॥ १०७॥ शताब्दं तत्र निवसेद्यमदूतेन ताडितः । ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ १०८॥ ततो भवेद्वानरश्च कासव्याधियुतो भुवि । वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः ॥ १०९॥ करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः । स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ ११०॥ ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि । व्याधियुक्तो भवेद्रोगी वंशहीनस्ततः शुचिः ॥ १११॥ गोधनेषु च विप्रेषु करोति वक्रतां पुमान् । प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥ ११२॥ ततो भवेत्स वक्राङ्गो हीनाङ्गः सप्तजन्मनि । दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ ११३॥ ततो भवेद् गृध्रजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ ११४॥ निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति । कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ ११५॥ ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः । त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः ॥ ११६॥ घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः । स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी ॥ ११७॥ तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः । सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः ॥ ११८॥ सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा । भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ ११९॥ स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् । स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ १२०॥ दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि । सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत् ॥ १२१॥ बलेनैव छलेनैव हिंसारूपेण वा सति । बलिष्ठश्च हरेद्भूमिं भारते परपैतृकीम् ॥ १२२॥ स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् । तप्ततैले यथा जीवो दग्धो भवति सन्ततम् ॥ १२३॥ भस्मसान्न भवत्येव भोगे देही न नश्यति । सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ १२४॥ शब्दं करोत्यनाहारो यमदूतेन ताडितः । षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः ॥ १२५॥ ततो भवेद्भूमिहीनो दरिद्रश्च ततः शुचिः । ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः ॥ १२६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्म- विपाकफलकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ९.३३॥

९.३४ चतुस्त्रिंशोऽध्यायः । नानाकर्मविपाकफलवर्णनम् ।

यम उवाच । छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः । नरघाती हन्ति नरमर्थलोभेन भारते ॥ १॥ असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश । तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत् ॥ २॥ छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् । अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः ॥ ३॥ मन्थानः शतजन्मानि शतजन्मानि सूकरः । कुक्कुटः सप्त जन्मानि श‍ृगालः सप्तजन्मसु ॥ ४॥ व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु । सप्तजन्मसु मण्डूको यमदूतेन ताडितः ॥ ५॥ स भवेद्भारते वर्षे महिषश्च ततः शुचिः । ग्रामाणां नगराणां वा दहनं यः करोति च ॥ ६॥ क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति । ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम् ॥ ७॥ सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु । ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥ ८॥ सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः । परकर्णे मुखं दत्त्वा परनिन्दां करोति यः ॥ ९॥ परदोषे महाश्लाघी देवब्राह्मणनिन्दकः । सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम् ॥ १०॥ ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु । वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥ ११॥ ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः । गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः ॥ १२॥ गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः । ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ॥ १३॥ ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः । त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥ १४॥ ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः । भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ १५॥ सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः । ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम् ॥ १६॥ ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः । ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ १७॥ हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा । स याति गजदंशं च महापापी युगत्रयम् ॥ १८॥ ताडितो यमदूतेन नागदन्तेन सन्ततम् । स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥ १९॥ गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः । जलं पिबन्तीं तृषितां गां वारयति यः पुमान् ॥ २०॥ नरकं गोमुखाकारं कृमितप्तोदकान्वितम् । तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ २१॥ ततो नरोऽपि गोहीनो महारोगी दरिद्रकः । सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः ॥ २२॥ गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् । यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च ॥ २३॥ भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते । कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ २४॥ ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् । क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥ २५॥ क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् । क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥ २६॥ गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः । काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥ २७॥ षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः । नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥ २८॥ सावित्र्युवाच । विप्रहत्या च गोहत्या किंविधा चातिदैशिकी । का वा नृणामगम्या च को वा सन्ध्याविहीनकः ॥ २९॥ अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही । द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः ॥ ३०॥ शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः । एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ ३१॥ धर्मराज उवाच । श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति । शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा ॥ ३२॥ गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि । यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ ३३॥ स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३४॥ वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३५॥ विप्रपादोदके चैव शालग्रामोदके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३६॥ शिवनैवेद्यके चैव हरिनैवेद्यके तथा । करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३७॥ सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे । सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ ३८॥ माययानेकरूपे वाप्येक एव हि निर्गुणे । करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः ॥ ३९॥ शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च । द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥ ४०॥ पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् । यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः ॥ ४१॥ यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा । पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ ४२॥ प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् । ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ ४३॥ ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् । सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ ४४॥ सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा । सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ ४५॥ कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् । शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा ॥ ४६॥ पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः । लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ ४७॥ अम्बुवाच्यां भूखननं जलशौचादिकं च ये । कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ ४८॥ गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् । अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ ४९॥ विवाहो यस्य न भवेन्न पश्यति सुतं तु यः । हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ ५०॥ हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् । पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः ॥ ५१॥ गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् । याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः ॥ ५२॥ दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः । दिने दिने गोवधं च लभते नात्र संशयः ॥ ५३॥ ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् । भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥ ५४॥ वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ ५५॥ पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् । गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ ५६॥ यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च । सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम् ॥ ५७॥ अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः । यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः ॥ ५८॥ स्वभर्तरि च देवे वा भेदबुद्धिं करोति या । कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥ ५९॥ गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा । तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम् ॥ ६०॥ प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् । पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम् ॥ ६१॥ राजके दैवके यत्नाद् गोस्वामी गां न रक्षति । दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम् ॥ ६२॥ प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् । नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम् ॥ ६३॥ शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥ ६४॥ देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति । सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम् ॥ ६५॥ न ददात्याशिषं कोपात्प्रणताय च यो द्विजः । विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम् ॥ ६६॥ गोहत्या विप्रहत्या च कथिता चातिदेशिकी । गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥ ६७॥ स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् । अगम्या च तदन्या या चेति वेदविदो विदुः ॥ ६८॥ सामान्यं कथितं सर्वं विशेषं श‍ृणु सुन्दरि । अत्यगम्या हि या याश्च निबोध कथयामि ताः ॥ ६९॥ शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥ ७०॥ शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् । तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम् ॥ ७१॥ शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी । यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः ॥ ७२॥ स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः । विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ॥ ७३॥ न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति । कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम् ॥ ७४॥ द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः । ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः ॥ ७५॥ तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा । हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः ॥ ७६॥ गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् । सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥ ७७॥ सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् । मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥ ७८॥ शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् । भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः ॥ ७९॥ एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः । स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत् ॥ ८०॥ अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः । स याति कुम्भीपाके च महापापी सुदुष्करे ॥ ८१॥ करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च । त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ ८२॥ वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् । योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ ८३॥ प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत् ॥ ८४॥ तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् । वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे ॥ ८५॥ पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले । हरिद्वारे च केदारे तथा मातृपुरेऽपि च ॥ ८६॥ सरस्वतीनदीतीरे पुण्ये वृन्दावने वने । गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले ॥ ८७॥ एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः । स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः ॥ ८८॥ शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः । तथा देवोपजीवी च देवलः परिकीर्तितः ॥ ८९॥ शूद्रपाकोपजीवी यः सूपकार इति स्मृतः । सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥ ९०॥ उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः । एते महापातकिनः कुम्भीपाकं प्रयान्ति ते । कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ ९१॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ९.३४॥

९.३५ पञ्चत्रिंशोऽध्यायः । नानाकर्मविपाकफलकथनम् ।

धर्मराज उवाच । देवसेवां विना साध्वि न भवेत्कर्मकृन्तनम् । शुद्धकर्म शुद्धबीजं नरकश्च कुकर्मणा ॥ १॥ पुंश्चल्यन्नं च यो भुङ्क्ते योऽस्यां गच्छेत्पतिव्रते । स द्विजः कालसूत्रं च मृतो याति सुदुर्गमम् ॥ २॥ शतवर्षं कालसूत्रे स्थिरीभूतो भवेद् ध्रुवम् । तत्र जन्मनि रोगी च ततः शुद्धो भवेद् द्विजः ॥ ३॥ पतिव्रता चैकपतौ द्वितीये कुलटा स्मृता । तृतीये धर्षिणी ज्ञेया चतुर्थे पुंश्चलीत्यपि ॥ ४॥ वेश्या च पञ्चमे षष्ठे पुङ्गी च सप्तमेऽष्टमे । तत ऊर्ध्वं महावेश्या सास्पृश्या सर्वजातिषु ॥ ५॥ यो द्विजः कुलटां गच्छेद्धर्षिणीं पुंश्चलीमपि । पुङ्गीं वेश्यां महावेश्यां मत्स्योदे याति निश्चितम् ॥ ६॥ शताब्दं कुलटागामी धृष्टागामी चतुर्गुणम् । षड्गुणं पुंश्चलीगामी वेश्यागामी गुणाष्टकम् ॥ ७॥ पुङ्गीगामी दशगुणं वसेत्तत्र न संशयः । महावेश्याकामुकश्च ततो दशगुणं वसेत् ॥ ८॥ तत्रैव यातनां भुङ्क्ते यमदूतेन ताडितः । तित्तिरिः कुलटागामी धृष्टागामी च वायसः ॥ ९॥ कोकिलः पुंश्चलीगामी वेश्यागामी वृकः स्मृतः । पुङ्गीगामी सूकरश्च सप्तजन्मनि भारते ॥ १०॥ महावेश्याप्रगामी च जायते शाल्मलीतरुः । यो भुङ्क्ते ज्ञानहीनश्च ग्रहणे चन्द्रसूर्ययोः ॥ ११॥ अरुन्तुदं स यात्येवाप्यन्नमानाब्दमेव च । ततो भवेन्मानवश्चाप्युदरे रोगपीडितः ॥ १२॥ गुल्मयुक्तश्च काणश्च दन्तहीनस्ततः शुचिः । वाक्प्रदत्तां स्वकन्यां च योऽन्यस्मै प्रददाति च ॥ १३॥ स वसेत्पांसुकुण्डे च तद्भोजी शतवत्सरम् । तद्द्रव्यहारी यः साध्वि पांसुवेष्टे शताब्दकम् ॥ १४॥ निवसेच्छरशय्यायां मम दूतेन ताडितः । भक्त्या न पूजयेद्विप्रः शिवलिङ्गं च पार्थिवम् ॥ १५॥ स याति शूलिनः पापाच्छूलप्रोतं सुदारुणम् । स्थित्वा शताब्दं तत्रैव श्वापदः सप्तजन्मसु ॥ १६॥ ततो भवेद्देवलश्च सप्तजन्म ततः शुचिः । करोति कुण्ठितं विप्रं यद्भिया कम्पते द्विजः ॥ १७॥ प्रकम्पने वसेत्सोऽपि विप्रलोमाब्दमेव च । प्रकोपवदना कोपात् स्वामिनं या च पश्यति ॥ १८॥ कटूक्तिं तं प्रवदति सोल्मुकं सम्प्रयाति हि । उल्कां ददाति तद्वक्त्रे सततं मम किङ्करः ॥ १९॥ दण्डेन ताडयेन्मूर्ध्नि तल्लोमाब्दप्रमाणकम् । ततो भवेन्मानवी च विधवा सप्तजन्मसु ॥ २०॥ सा भुक्त्वा चैव वैधव्यं व्याधियुक्ता ततः शुचिः । या ब्राह्मणी शूद्रभोग्या चान्धकूपे प्रयाति सा ॥ २१॥ तप्तशौचोदके ध्वान्ते तदाहारी दिवानिशम् । निवसेदतिसन्तप्ता मम दूतेन ताडिता ॥ २२॥ शौचोदके निमग्ना सा यावदिन्द्राश्चतुर्दश । काकी जन्मसहस्राणि शतजन्मानि सूकरी ॥ २३॥ श‍ृगाली शतजन्मानि शतजन्मानि कुक्कुटी । पारावती सप्तजन्म वानरी सप्तजन्मसु ॥ २४॥ ततो भवेत्सा चाण्डाली सर्वभोग्या च भारते । ततो भवेच्च रजकी यक्ष्मग्रस्ता च पुंश्चली ॥ २५॥ ततः कुष्ठयुता तैलकारी शुद्धा भवेत्ततः । निवसेद्वेधने वेश्या पुङ्गी च दण्डताडने ॥ २६॥ जलरन्ध्रे वसेद्वेश्या कुलटा देहचूर्णके । स्वैरिणी दलने चैव धृष्टा च शोषणे तथा ॥ २७॥ निवसेद्यातनायुक्ता मम दूतेन ताडिता । विण्मूत्रभक्षा सततं यावन्मन्वन्तरं सति ॥ २८॥ ततो भवेद्विट्कृमिश्च लक्षवर्षं ततः शुचिः । ब्राह्मणो ब्राह्मणीं गच्छेत्क्षत्रियां वापि क्षत्रियः ॥ २९॥ वैश्यो वैश्यां च शूद्रा वा शूद्रश्चापि व्रजेद्यदि । सवर्णपरदारैश्च कषायं यान्ति ते जनाः ॥ ३०॥ भुक्त्वा कषायतप्तोदं निवसेद्वा शताब्दकम् । ततो विप्रो भवेच्छुद्धस्ततो वै क्षत्रियादयः ॥ ३१॥ योषितश्चापि शुद्ध्यन्तीत्येवमाह पितामहः । क्षत्रियो ब्राह्मणीं गच्छेद्वैश्यो वापि पतिव्रते ॥ ३२॥ मातृगामी भवेत्सोऽपि शूर्पे च नरके वसेत् । शूर्पाकारैश्च कृमिभिर्ब्राह्मण्या सह भक्षितः ॥ ३३॥ प्रतप्तमूत्रभोजी च मम दूतेन ताडितः । तत्रैव यातनां भुङ्क्ते यावदिन्द्राश्चतुर्दश ॥ ३४॥ सप्तजन्म वराहश्च छागलश्च ततः शुचिः । करे धृत्वा तु तुलसीं प्रतिज्ञां यो न पालयेत् ॥ ३५॥ मिथ्या वा शपथं कुर्यात्स च ज्वालामुखं व्रजेत् । गङ्गातोयं करे कृत्वा प्रतिज्ञां यो न पालयेत् ॥ ३६॥ शिलां वा देवप्रतिमां स च ज्वालामुखं व्रजेत् । दत्त्वा दक्षिणहस्तं च प्रतिज्ञां यो न पालयेत् ॥ ३७॥ स्थित्वा देवगृहे वापि स च ज्वालामुखं व्रजेत् । आस्पृश्य ब्राह्मणं गां च ज्वालावह्निं व्रजेद् द्विजः ॥ ३८॥ न पालयेत्प्रतिज्ञां च स च ज्वालामुखं व्रजेत् । मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः ॥ ३९॥ मिथ्यासाक्ष्यप्रदश्चैव स च ज्वालामुखं व्रजेत् । एते तत्र वसन्त्येव यावदिन्द्राश्चतुर्दश ॥ ४०॥ तथाङ्गारप्रदग्धाश्च मम दूतेन ताडिताः । चाण्डालस्तुलसीं स्पृष्ट्वा सप्तजन्म ततः शुचिः ॥ ४१॥ म्लेच्छो गङ्गाजलस्पर्शी पञ्चजन्म ततः शुचिः । शिलास्पर्शी विट्कृमिश्च सप्तजन्मसु सुन्दरि ॥ ४२॥ अर्चास्पर्शी ब्रह्मकृमिः सप्तजन्म ततः शुचि । दक्षहस्तप्रदाता च सर्पश्च सप्तजन्मसु ॥ ४३॥ ततो भवेद् ब्रह्महीनो मानवश्च ततः शुचिः । मिथ्यावादी देवगृहे देवलः सप्तजन्मसु ॥ ४४॥ विप्रादिस्पर्शकारी च व्याघ्रजातिर्भवेद् ध्रुवम् । ततो भवेच्च मूकः स बधिरश्च त्रिजन्मनि ॥ ४५॥ भार्याहीनो बन्धुहीनो वंशहीनस्ततः शुचिः । मित्रद्रोही च नकुलः कृतघ्नश्चापि गण्डकः ॥ ४६॥ विश्वासघाती व्याघ्रश्च सप्तजन्मसु भारते । मिथ्यासाक्षी च वक्तव्ये मण्डूकः सप्तजन्मसु ॥ ४७॥ पूर्वान्सप्तापरान्सप्त पुरुषान्हन्ति चात्मनः । नित्यक्रियाविहीनश्च जडत्वेन युतो द्विजः ॥ ४८॥ यस्यानास्था वेदवाक्ये मन्दं हसति सन्ततम् । व्रतोपवासहीनश्च सद्वाक्यपरनिन्दकः ॥ ४९॥ धूम्रान्धे च वसेत्सोऽपि शताब्दं धूम्रभक्षकः । जलजन्तुर्भवेत्सोऽपि शतजन्मक्रमेण च ॥ ५०॥ ततो नानाप्रकारश्च मत्स्यजातिस्ततः शुचिः । यः करोत्युपहासं च देवब्राह्मणयोर्धने ॥ ५१॥ पातयित्वा स पुरुषान्दशपूर्वान्दशापरान् । सोऽयं याति च धूम्रान्धं धूम्रध्वान्तसमन्वितम् ॥ ५२॥ धूम्रक्लिष्टो धूम्रभोजी वसेत्तत्र चतुर्गुणम् । ततो मूषकजातिश्च सप्तजन्मसु भारते ॥ ५३॥ ततो नानाविधाः पक्षिजातयः कृमिजातिभिः । ततो नानाविधा वृक्षा पशवश्च ततो नरः ॥ ५४॥ विप्रो दैवज्ञजीवी च वैद्यजीवी चिकित्सकः । लाक्षालोहादिव्यापारी रसादिविक्रयी च यः ॥ ५५॥ स याति नागवेष्टं च नागैर्वेष्टितमेव च । वसेत्स लोममानाब्दं तत्रैव नागपाशितः ॥ ५६॥ ततो नानाविधाः पक्षिजातयश्च ततो नरः । ततो भवेत्स गणको वैद्यश्च सप्तजन्मसु ॥ ५७॥ गोपश्च कर्मकारश्च रङ्गकारस्ततः शुचिः । प्रसिद्धानि च कुण्डानि कथितानि पतिव्रते ॥ ५८॥ अन्यानि चाप्रसिद्धानि क्षुद्राणि सन्ति तत्र वै । सन्ति पातकिनस्तेषु स्वकर्मफलभोगिनः । भ्रमन्ति नानायोनिं च किं भूयः श्रोतुमिच्छसि ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्मविपाकफलकथनं नाम पञ्चत्रिंशोऽध्यायः ॥ ९.३५॥

९.३६ षट्त्रिंशोऽध्यायः । देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम् ।

सावित्र्युवाच । धर्मराज महाभाग वेदवेदाङ्गपारग । नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ १॥ सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् । कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥ २॥ सर्वप्रदं च सर्वेषां सर्वमङ्गलकारणम् । भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः ॥ ३॥ कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च । न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम् ॥ ४॥ किमाकाराणि कुण्डानि तानि वा निर्मितानि च । के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः ॥ ५॥ स्वदेहे भस्मसाद्भूते याति लोकान्तरं नरः । केन देहेन वा भोगं करोति च शुभाशुभम् ॥ ६॥ सुचिरं क्लेशभोगेन कथं देहो न नश्यति । देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ ७॥ श्रीनारायण उवाच । सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् । कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम् ॥ ८॥ धर्मराज उवाच । वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च । पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ ९॥ अन्येषु धर्मशास्त्रेषु वेदाङ्गेषु च सुव्रते । सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥ १०॥ जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् । सर्वमङ्गलरूपं च परमानन्दकारणम् ॥ ११॥ कारणं सर्वसिद्धीनां नरकार्णवतारणम् । भक्तिवृक्षाङ्कुरकरं कर्मवृक्षनिकृन्तनम् ॥ १२॥ विमोक्षसोपानमिदमविनाशपदं स्मृतम् । सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम् ॥ १३॥ कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे । न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः ॥ १४॥ देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् । यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम् ॥ १५॥ प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च । न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम् ॥ १६॥ त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः । निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः ॥ १७॥ स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा । गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्कराः ॥ १८॥ भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः । स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम् ॥ १९॥ यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना । कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः ॥ २०॥ देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् । करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ॥ २१॥ मधुपर्कादिकं तेषां कुरुते च पुनः पुनः । विलङ्घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति ॥ २२॥ दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः । ते महाभाग्यवन्तो हि सहस्रकुलपावनाः ॥ २३॥ यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च । प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत् ॥ २४॥ कामश्च कामिनं याति लोभक्रोधौ ततः सति । मृत्युः प्रलीयते रोगो जरा शोको भयं तथा ॥ २५॥ कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च । ये ये न यान्ति तां पीडां कथितास्ते मया सति ॥ २६॥ श‍ृणु देहविवरणं कथयामि यथागमम् । पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ २७॥ देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् । पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत् ॥ २८॥ स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह । बद्धोऽङ्गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः ॥ २९॥ बिभर्ति सूक्ष्मं देहं तं तद्रूपं भोगहेतवे । स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ॥ ३०॥ जलेन नष्टो देही वा प्रहारे सुचिरं कृते । न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा ॥ ३१॥ तप्तद्रवे तप्तलोहे तप्तपाषाण एव च । प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च ॥ ३२॥ न दग्धो न च भग्नः स भुङ्क्ते सन्तापमेव च । कथितो देहवृत्तान्तः कारणं च यथागमम् । कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥ ९.३६॥

९.३७ सप्तत्रिंशोऽध्यायः । नानानरककुण्डवर्णनम् ।

धर्मराज उवाच । पूर्णेन्दुमण्डलाकारं सर्वं कुण्डं च वर्तुलम् । निम्नं पाषाणभेदैश्च पाचितं बहुभिः सति ॥ १॥ न नश्वरं चाप्रलयं निर्मितं चेश्वरेच्छया । क्लेशदं पातकानां च नानारूपं तदालयम् ॥ २॥ ज्वलदङ्गाररूपं च शतहस्तशिखान्वितम् । परितः क्रोशमानं च वह्निकुण्डं प्रकीर्तितम् ॥ ३॥ महाशब्दं प्रकुर्वद्भिः पापिभिः परिपूरितम् । रक्षितं मम दूतैश्च ताडितैश्चापि सन्ततम् ॥ ४॥ प्रतप्तोदकपूर्णं च हिंस्रजन्तुसमन्वितम् । महाघोरं काकुशब्दं प्रहारेण दृढेन च ॥ ५॥ क्रोशार्धमानं तद्दूतैस्ताडितैर्मम पार्षदैः । तप्तक्षारोदकैः पूर्णं पुनः काकैश्च सङ्कुलम् ॥ ६॥ सङ्कुलं पापिभिश्चैव क्रोशमानं भयानकम् । त्राहीति शब्दं कुर्वद्भिर्मम दूतैश्च ताडितैः ॥ ७॥ प्रचलद्भिरनाहारैः शुष्ककण्ठोष्ठतालुकैः । विड्भिरेव कृतं पूर्णं क्रोशमानं च कुत्सितम् ॥ ८॥ अतिदुर्गन्धिसंसक्तं व्याप्तं पापिभिरन्वहम् । ताडितैर्मम दूतैश्च तदाहारैः सुदारुणैः ॥ ९॥ रक्षेति शब्दं कुर्वद्भिस्तत्कीटैरेव भक्षितैः । तप्तमूत्रद्रवैः पूर्णं मूत्रकीटैश्च सङ्कुलम् ॥ १०॥ युक्तं महापातकिभिस्तत्कीटैर्भक्षितैः सदा । गव्यूतिमानं ध्वान्ताक्तं शब्दकृद्भिश्च सन्ततम् ॥ ११॥ मद्दूतैस्ताडितैर्घोरैः शुष्ककण्ठोष्ठतालुकैः । श्लेष्मपूर्णं प्रशमितं तत्कीटैः पूरितं सदा ॥ १२॥ तद्भोजिभिः पापिभिश्च वेष्टितं वेष्टितैः सदा । क्रोशार्धं गरकुण्डं च गरभोजिभिरन्वितम् ॥ १३॥ गरकीटैर्भक्षितैश्च पापिभिः पूर्णमेव च । ताडितैर्मम दूतैश्च शब्दकृद्भिश्च कम्पितैः ॥ १४॥ सर्पाकारेर्वज्रदंष्ट्रै शुष्ककण्ठैः सुदारुणैः । नेत्रयोर्मलपूर्णं च क्रोशार्धं कीटसंयुतम् ॥ १५॥ पापिभिः सङ्कुलं शश्वद्भ्रमद्भिः कीटभक्षितैः । वसारसेन सम्पूर्णं क्रोशतुर्यं सुदुःसहम् ॥ १६॥ तद्भोजिभिः पातकिभिर्मम दूतैश्च ताडितैः । शुक्रकुण्डं क्रोशमितं शुक्रकीटैश्च संयुतम् ॥ १७॥ पापिभिः सङ्कुलं शश्वद् द्रवद्भिः कीटभक्षितैः । दुर्गन्धिरक्तपूर्णं च वापीमानं गभीरकम् ॥ १८॥ तद्भोजिभिः पापिभिश्च सङ्कुलं कीटभक्षितम् । पूर्णं नेत्राश्रुभिस्तप्तं बहुपापिभिरन्वितम् ॥ १९॥ वापीतुर्यप्रमाणं च रुदद्भिः कीटभक्षितैः । नृणां गात्रमलैर्युक्तं तद्भक्षैः पापिभिर्युतम् ॥ २०॥ ताडितैर्मम दूतैश्च व्यग्रैश्च कीटभक्षितैः । कर्णविट्परिपूर्णं च तद्भक्षैः पापिभिर्वृतम् ॥ २१॥ वापीतुर्यप्रमाणं च ब्रुवद्भिः कीटभक्षितैः । मज्जापूर्णं नराणां च महादुर्गन्धिसंयुतम् ॥ २२॥ महापातकिभिर्युक्तं वापीतुर्यप्रमाणकम् । परिपूर्णं सिग्धमांसैर्मम दूतैश्च ताडितैः ॥ २३॥ पापिभिः सङ्कुलं चैव वापीमानं भयानकम् । कन्याविक्रयिभिश्चैव तद्भक्ष्यैः कीटभक्षितैः ॥ २४॥ पाहीति शब्दं कुर्वद्भिस्त्रासितैश्च भयानकैः । वापीतुर्यप्रमाणं च नखादिकचतुष्टयम् ॥ २५॥ पापिभिः संयुतं शश्वन्मम दूतैश्च ताडितैः । प्रतप्तताम्रकुण्डं च ताम्रोपर्युल्मुकान्वितम् ॥ २६॥ ताम्राणां प्रतिमालक्षैः प्रतप्तैर्व्यापृतं सदा । प्रत्येकं प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् ॥ २७॥ गव्यूतिमानं विस्तीर्णं मम दूतैश्च ताडितैः । प्रतप्तलोहधारं च ज्ववलदङ्गारसंयुतम् ॥ २८॥ लोहानां प्रतिमाश्लिष्टैः रुदद्भिः पापिभिर्युतम् । प्रत्येकं प्रतिमाश्लिष्टैः शश्वत्प्रज्वलितैर्भिया ॥ २९॥ रक्ष रक्षेति शब्दं च कुर्वद्भिर्दूतताडितैः । महापातकिभिर्युक्तं द्विगव्यूतिप्रमाणकम् ॥ ३०॥ भयानकं ध्वान्तयुक्तं लोहकुण्डं प्रकीर्तितम् । चर्मकुण्डं तप्तसुराकुण्डं वाप्यर्धमेव च ॥ ३१॥ तद्भोजिपापिभिर्व्याप्तं मम दूतैश्च ताडितैः । अतः शाल्मलिकुण्डं च वृक्षकण्टकशोभितम् ॥ ३२॥ लक्षपौरुषमानं च क्रोशमानं च दुःखदम् । धनुर्मानैः कण्टकैश्च सुतीक्ष्णैः परिवेष्टितम् ॥ ३३॥ प्रत्येकं विद्धगात्रैश्च महापातकिभिर्युतम् । वृक्षाग्रान्निपतद्भिश्च मम दूतैश्च पातितैः ॥ ३४॥ जलं देहीति शब्दं च कुर्वद्भिः शुष्कतालुकैः । महाभियातिव्यग्रैश्च दण्डैः सम्भग्नमस्तकैः ॥ ३५॥ प्रचलद्भिर्यथा तप्ततैलजीविभिरेव च । विषोदैस्तक्षकाणां च पूर्वं च क्रोशमानकम् ॥ ३६॥ तद्भक्षैः पापिभिर्युक्तं मम दूतैश्च ताडिते । प्रतप्ततैलपूर्णं च कीटादिपरिवर्जितम् ॥ ३७॥ महापातकिभिर्युक्तं दग्धाङ्गारैश्च वेष्टितम् । काकुशब्दं प्रकुर्वद्भिश्चलद्भिर्दूतपीडितैः ॥ ३८॥ ध्वान्तयुक्तं क्रोशमानं क्लेशदं च भयानकम् । शूलाकारैः सुतीक्ष्णाग्रैर्लोहशस्त्रैश्च वेष्टितम् ॥ ३९॥ शस्त्रतल्पस्वरूपञ्च कोशतुर्यप्रमाणकम् । वेष्टितं तत्पातकिभिः कुन्तविद्धैश्च वेष्टितैः ॥ ४०॥ ताडितैर्मम दूतैश्च शुष्ककण्ठोष्ठतालुकैः । कीटैश्च शङ्कुप्रमितैः सर्पमानैर्भयङ्करैः ॥ ४१॥ तीक्ष्णदन्तैश्च विकृतैर्व्याप्तं ध्वान्तयुतं सति । महापातकिभिर्युक्तं मम दूतैश्च ताडिते ॥ ४२॥ द्विगव्यूतिप्रमाणं च पूयकुण्डं प्रचक्षते । तद्भक्ष्यैः प्राणिभिर्युक्तं मम दूतैश्च ताडितैः ॥ ४३॥ तालवृक्षप्रमाणैश्च सर्पकोटिभिरावृतम् । सर्पवेष्टितगात्रैश्च पापिभिः सर्पभक्षितैः ॥ ४४॥ सङ्कुलं शब्दकृद्भिश्च मम दूतैश्च ताडितैः । कुण्डत्रयं मशादीनां पूर्णं च मशकादिभिः ॥ ४५॥ सर्वं कोशार्धमानं च महापातकिभिर्युतम् । हस्तपादादिबद्धैश्च क्षतजौघेन लोहितैः ॥ ४६॥ हाहेति शब्दं कुर्वद्भिस्ताडितैर्मम पार्षदैः । वज्रवृश्चिकयोः कुण्डं ताभ्यां च परिपूरितम् ॥ ४७॥ वाप्यर्धं पापिभिर्युक्तं वज्रवृश्चिकदंशितैः । कुण्डत्रयं शरादीनां तैरेव परिपूरितम् ॥ ४८॥ तैर्विद्धैः पापिभिर्युक्तं वाप्यर्धं रक्तलोहितैः । तप्ततोयोदकैः पूर्णं सध्वान्तं गोलकुण्डकम् ॥ ४९॥ कीटैः शङ्कुसमानैश्च भक्षितैः पापिभिर्युतम् । वाप्यर्थमानं भीतैश्च पापिभिः कीटभक्षितैः ॥ ५०॥ रुदद्भिः क्रोशमानैश्च मम दूतैश्च ताडितैः । अतिदुर्गन्धिसंयुक्तं दुःखदं पापिनां सदा ॥ ५१॥ दारुणैर्विकृताकारैर्भक्षितं पापिभिर्युतम् । वाप्यर्धं परिपूर्णं च जलस्थैर्नक्रकोटिभिः ॥ ५२॥ विण्मूत्रश्लेष्मभक्षैश्च संयुतं शतकोटिभिः । काकैश्च विकृताकारैर्भक्षितैः पापिभिर्युतम् ॥ ५३॥ मन्थानकुण्डं बीजकुण्डं ताभ्यां पूर्णं धनुःशतम् । भक्षितैः पापिभिर्युक्तं शब्दकृद्भिश्च सन्ततम् ॥ ५४॥ धनुःशतं जीवयुक्तं पापिभिः सङ्कुलं सदा । शब्दकृद्भिर्वज्रदंष्ट्रैः सान्द्रध्वान्तमयं परम् ॥ ५५॥ वापीद्विगुणमानं च तप्तप्रस्तरनिर्मितम् । ज्वलदङ्गारसदृशं चलद्भिः पापिभिर्युतम् ॥ ५६॥ क्षुरधारोपमैस्तीक्ष्णैः पाषाणैर्निर्मितं परम् । महापातकिभिर्युक्तं लालाकुण्डं च लोहितैः ॥ ५७॥ क्रोशमात्रं च गम्भीरं मम दूतैश्च ताडितैः । तप्ताञ्जनाचलाकारैः परिपूर्णं धनुःशतम् ॥ ५८॥ चलद्भिः पापिभिर्युक्तं मम दूतैश्च ताडितैः । पूर्णं चूर्णद्रवैः क्रोशमानं पापिभिरन्वितम् ॥ ५९॥ तद्भोजिभिः प्रदग्धैश्च मम दूतैश्च ताडितैः । कुण्डं कुलालचक्रं च घूर्णमानञ्च सन्ततम् ॥ ६०॥ सुतीक्ष्णं षोडशारं च चूर्णितैः पापिभिर्युतम् । अतीव वक्रं निम्नं च द्विगव्यूतिप्रमाणकम् ॥ ६१॥ कन्दराकारनिर्माणं तप्तोदैश्च समन्वितम् । महापातकिभिर्युक्तं भक्षितैर्जलजन्तुभिः ॥ ६२॥ ज्वलद्भिः शब्दकृद्भिश्च ध्वान्तयुक्तं भयानकम् । कोटिभिर्विकृताकारैः कच्छपैश्च सुदारुणैः ॥ ६३॥ जलस्थैः संयुतं तैश्च भक्षितैः पापिभिर्युतम् । ज्वालाकलापैस्तेजोभिर्निर्मितैः क्रोशमानकम् ॥ ६४॥ शब्दकृद्भिः पातकिभिः संयुतं क्लेशदं सदा । क्रोशमानञ्च गम्भीरं तप्तभस्मभिरन्वितम् ॥ ६५॥ शश्वज्ज्वलद्भिः संयुक्तं पापिभिर्भस्मभक्षितैः । तप्तपाषाणलोहानां समूहैः परिपूरितैः ॥ ६६॥ पापिभिर्दग्धगात्रैश्च युक्तञ्च शुष्कतालुकैः । क्रोशमानं ध्वान्तयुक्तं गम्भीरमतिदारुणम् ॥ ६७॥ ताडितैश्च प्रदग्धैश्च दग्धकुण्डं प्रकीर्तितम् । अतीवोर्मियुतं तोयं प्रतप्तक्षारसंयुतम् ॥ ६८॥ नानाप्रकारैर्विरुतैर्जलजन्तुभिरन्वितम् । द्विगव्यूतिप्रमाणं च गम्भीरं ध्वान्तसंयुतम् ॥ ६९॥ तद्भक्ष्यैः पापिभिर्युक्तं दंशितैर्जलजन्तुभिः । ज्वलद्भिः शब्दकृद्भिश्च न पश्यद्भिः परस्परम् ॥ ७०॥ प्रतप्तसूचीकुण्डञ्च कीर्तितं च भयानकम् । असीव धारापत्रस्याऽप्युच्चैस्तालतरोरधः ॥ ७१॥ क्रोशार्धमानं कुण्डं च पतत्पत्रसमन्वितम् । पापिनां रक्तपूर्णं च वृक्षाग्रात्पततां ध्रुवं । ७२ परित्राहीति शब्दं च कुर्वतामसतामपि । गम्भीरं ध्वान्तयुक्तं च रक्तकीटसमन्वितम् ॥ ७३॥ तदसीपत्रकुण्डं च कीर्तितं च भयानकम् । धनुःशतप्रमाणं च क्षुरधारास्त्रसंयुतम् ॥ ७४॥ पापिनां रक्तपूर्णं च क्षुरधारं भयानकम् । सूचीमुखास्त्रसंयुक्तं पापिरक्तौघपूरतम् ॥ ७५॥ पञ्चाशद्धनुरायामं क्लेशदं सूचिकामुखम् । कस्यचिज्जन्तुभेदस्य गोकाख्यस्य मुखाकृति ॥ ७६॥ कूपरूपं गभीरं च धनुर्विंशत्प्रमाणकम् । महापातकिनां चैव महत्क्लेशप्रदं परम् ॥ ७७॥ तत्कीटभक्षितानां च नम्रास्यानां च सन्ततम् । कुण्डं नक्रमुखाकारं धनुःषोडशमानकम् ॥ ७८॥ गम्भीरं कूपरूपं च पापिनां सङ्कुलं सदा । धनुःशतप्रमाणं च कीर्तितं गजदंशनम् ॥ ७९॥ धनुस्त्रिंशत्प्रमाणं च कुण्डं च गोमुखाकृति । पापिनां क्लेशदं शश्वद् गोमुखं परिकीर्तितम् ॥ ८०॥ कालचक्रेण संयुक्तं भ्रममाणं भयानकम् । कुम्भाकारं ध्वान्तयुक्तं द्विगव्यूतिप्रमाणकम् ॥ ८१॥ लक्षपौरुषमानं च गम्भीरं विस्मृतं सति । कुत्रचित्तप्ततैलं च ताम्रादिकुण्डमेव च ॥ ८२॥ पापिनां च प्रधानैश्च मूर्च्छितैः कृमिभिर्युतम् । परस्परं च नश्यद्भिः शब्दकृद्भिश्च सन्ततम् ॥ ८३॥ ताडितैर्यमदूतैश्च मुसलैर्मुद्गरैस्तथा । घूर्णमानैः पतद्भिश्च मूर्च्छितैश्च क्षणं क्षणम् ॥ ८४॥ पातितैर्यमदूतैश्च रुदन्त्यस्मात्क्षणं पुनः । यावन्तः पापिनः सन्ति सर्वकुण्डेषु सुन्दरि ॥ ८५॥ ततश्चतुर्गुणाः सन्ति कुम्भीपाके च दुःखदे । सुचिरं वध्यमानास्ते भोगदेहा न नश्वराः ॥ ८६॥ सर्वकुण्डप्रधानं च कुम्भीपाकं प्रकीर्तितम् । कालनिर्मितसूत्रेण निबद्धा यत्र पापिनः ॥ ८७॥ उत्थापिताश्च दूतैश्च क्षणमेव निमज्जिताः । निःश्वासबद्धाः सुचिरं तथा मोहं गताः पुनः ॥ ८८॥ अतीव क्लेशसंयुक्ता देहभोगेन सुन्दरि । प्रतप्ततोययुक्तं च कालसूत्रं प्रकीर्तितम् ॥ ८९॥ अवटः कूपभेदश्च मत्स्योदः स उदाहृतः । प्रतप्ततोयपूर्णं च चतुर्विंशत्प्रमाणकम् ॥ ९०॥ व्याप्तं महापातकिभिर्व्यादग्धाङ्गैश्च सन्ततम् । मद्दूतैस्ताडितैः शश्वदवटोदं प्रकीर्तितम् ॥ ९१॥ यत्रोदस्पर्शमात्रेण सर्वव्याधिश्च पापिनाम् । भवेदकस्मात्पततां यस्मिन्कुण्डे धनुःशते ॥ ९२॥ अरुन्तुदैर्भक्षितैस्तु प्राणिभिर्यच्च सङ्कुलम् । हाहेति शब्दं कुर्वद्भिस्तदेवारुन्तुदं विदुः ॥ ९३॥ तप्तपांसुभिराकीर्णं ज्वलद्भिस्तुषदग्धकैः । तद्भक्षैः पापिभिर्युक्तं पांसुभोजैर्धनुःशतम् ॥ ९४॥ पातमात्रेण पापी च पाशेन वेष्टितो भवेत् । क्रोशमात्रेण कुण्डं च तत्पाशवेष्टनं विदुः ॥ ९५॥ पातमात्रेण पापी च शूलेन वेष्टितो भवेत् । धनुर्विंशत्प्रमाणं च शूलप्रोतं प्रकीर्तितम् ॥ ९६॥ पततां पापिनां यत्र भवेदेव प्रकम्पनम् । अतीव हिमतोयाक्तं क्रोशार्धं च प्रकम्पनम् ॥ ९७॥ ददत्येव हि मे दूता यत्रोल्काः पापिनां मुखे । धनुर्विंशत्प्रमाणं तदुल्काभिश्च सुसङ्कुलम् ॥ ९८॥ लक्षपौरुषमानं च गम्भीरं च धनुःशतम् । नानाप्रकारकृमिभिः संयुक्तं च भयानकम् ॥ ९९॥ अत्यन्धकारव्याप्तं च कूपाकारं च वर्तुलम् । तद्भक्ष्यैः पापिभिर्युक्तं प्रणश्यद्भिः परस्परम् ॥ १००॥ तप्ततोयप्रदग्धैश्च ज्वलद्भिः कीटभक्षितैः । ध्वान्तेन चक्षुषा चान्धैरन्धकूपः प्रकीर्तितः ॥ १०१॥ नानाप्रकारशस्त्रौघैर्यत्र विद्धाश्च पापिनः । धनुर्विंशत्प्रमाणं च वेधनं तत्प्रकीर्तितम् ॥ १०२॥ दण्डेन ताडिता यत्र मम दूतैश्च पापिनः । धनुःषोडशमानं च तत्कुण्डं दण्डताडनम् ॥ १०३॥ निरुद्धाश्च महाजालैर्यथा मीनाश्च पापिनः । धनुर्विंशत्प्रमाणं च जालरन्ध्रं प्रकीर्तितम् ॥ १०४॥ पततां पापिनां कुण्डे देहश्चूर्णो भवेदिह । लोहबन्दीनिबद्धानां कोटिपौरुषमानकम् ॥ १०५॥ गम्भीरं ध्वान्तसंयुक्तं धनुर्विंशत्प्रमाणकम् । मूर्च्छितानां जडानां च देहचूर्णं प्रकीर्तितम् ॥ १०६॥ दलिताः पापिनो यत्र मम दूतैश्च ताडिताः । धनुःषोडशमानं च तत्कुण्डं दलनं स्मृतम् ॥ १०७॥ पतनेनैव पापी च शुष्ककण्ठोष्ठतालुकः । बालुकासु च तप्तासु धनुस्त्रिंशत्प्रमाणकम् ॥ १०८॥ शतपौरुषमानं च गम्भीरं ध्वान्तसंयुतम् । शोषणं कुण्डमेतद्धि पापिनां परदुःखदम् ॥ १०९॥ नानाचर्मकषायोदपरिपूर्णं धनुःशतम् । दुर्गन्धियुक्ततद्भक्ष्यैः प्राणिभिः सङ्कुलं कषम् ॥ ११०॥ शूर्पाकारमुखं कुण्डं धनुर्द्वादशमानकम् । तप्तलोहबालुकाभिः पूर्णं पातकिसंयुतम् ॥ १११॥ दुर्गन्धियुक्तं तद्भक्ष्यैः पापिभिः सङ्कुलं सति । शूर्पाकारमुखं कुण्डं धनुर्द्वादशमात्रकम् ॥ ११२॥ प्रतप्तबालुकापूर्णं महापातकिभिर्युतम् । अन्तरग्निशिखानां च ज्वालाव्याप्तमुखं सदा ॥ ११३॥ धनुर्विंशतिमात्रं च प्रमाणं यस्य सुन्दरि । ज्वालाभिर्दग्धगात्रैश्च पापिभिर्व्याप्तमेव च ॥ ११४॥ तन्महाक्लेशदं शश्वत्कुण्डं ज्वालामुखं स्मृतम् । पातमात्राद्यत्र पापी मूर्च्छितो वै नरो भवेत् ॥ ११५॥ तप्तेष्टकाभ्यन्तरितं वाप्यर्धं जिह्मकुण्डकम् । धूमान्धकारसंयुक्तं धूम्रान्धैः पापिभिर्युतम् ॥ ११६॥ धनुःशतं श्वासरन्ध्रैर्धूम्रान्धं परिकीर्तितम् । पातमात्राद्यत्र पापी नागैश्च वेष्टितो भवेत् ॥ ११७॥ धनुःशतं नागपूर्णं तन्नागैर्वेष्टितं भवेत् । षडशीति च कुण्डानि मयोक्तानि निशामय । लक्षणं चापि तेषां च किं भूयः श्रोतुमिच्छसि ॥ ११८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे नानानरककुण्डवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ९.३७॥

९.३८ अष्टत्रिंशोऽध्यायः । सावित्र्युपाख्यानवर्णनम् ।

सावित्र्युवाच । देवीभक्तिं देहि मह्यं साराणां चैव सारकम् । पुंसां मुक्तिद्वारबीजं नरकार्णवतारकम् ॥ १॥ कारणं मुक्तिसाराणां सर्वाशुभविनाशनम् । दारकं कर्मवृक्षाणां कृतपापौघहारणम् ॥ २॥ मुक्तिश्च कतिथाप्यस्ति किं वा तासां च लक्षणम् । देवीभक्तिं भक्तिभेदं निषेकस्यापि खण्डनम् ॥ ३॥ तत्त्वज्ञानविहीना च स्त्रीजातिर्विधिनिर्मिता । किञ्चिंज्ञानं सारभूतं वद वेदविदां वर ॥ ४॥ सर्वं दानं च यज्ञश्च तीर्थस्नानं व्रतं तपः । अज्ञानिज्ञानदानस्य कलां नार्हन्ति षोडशीम् ॥ ५॥ पितुः शतगुणा माता गौरवे चेति निश्चितम् । मातुः शतगुणः पूज्यो ज्ञानदाता गुरुः प्रभो ॥ ६॥ धर्मराज उवाच । पूर्वं सर्वो वरो दत्तो यस्ते मनसि वाञ्छितः । अधुना शक्तिभक्तिस्ते वत्से भवतु मद्वरात् ॥ ७॥ श्रोतुमिच्छसि कल्याणि श्रीदेवीगुणकीर्तनम् । वक्तॄणां पृच्छकानां च श्रोतॄणां कुलतारणम् ॥ ८॥ शेषो वक्त्रसहस्रेण नहि यद्वक्तुमीश्वरः । मृत्युञ्जयो न क्षमश्च वक्तुं पञ्चमुखेन च ॥ ९॥ धाता चतुर्णां वेदानां विधाता जगतामपि । ब्रह्मा चतुर्मुखेनैव नालं विष्णुश्च सर्ववित् ॥ १०॥ कार्तिकेयः षण्मुखेन नापि वक्तुमलं ध्रुवम् । न गणेशः समर्थश्च योगीन्द्राणां गुरोर्गुरुः ॥ ११॥ सारभूताश्च शास्त्राणां वेदाश्चत्वार एव च । कलामात्रं यद्गुणानां न विदन्ति बुधाश्च ये ॥ १२॥ सरस्वती जडीभूता नालं तद्गुणवर्णने । सनत्कुमारो धर्मश्च सनन्दनः सनातनः ॥ १३॥ सनकः कपिलः सूर्यो येऽन्ये च ब्रह्मणः सुताः । विचक्षणा न यद्वक्तुं किञ्चान्ये जडबुद्धयः ॥ १४॥ न यद्वक्तुं क्षमाः सिद्धा मुनीन्द्रा योगिनस्तथा । के चान्ये च वयं के वा श्रीदेव्या गुणवर्णने ॥ १५॥ ध्यायन्ते यत्पदाम्भोजं ब्रह्मविष्णुशिवादयः । अतिसाध्यं स्वभक्तानां तदन्येषां सुदुर्लभम् ॥ १६॥ कश्चित्किञ्चिद्विजानाति तद्गुणोत्कीर्तनं शुभम् । अतिरिक्तं विजानाति ब्रह्मा ब्रह्मविशारदः ॥ १७॥ ततोऽतिरिक्तं जानाति गणेशो ज्ञानिनां गुरुः । सर्वातिरिक्तं जानाति सर्वज्ञः शम्भुरेव सः ॥ १८॥ तस्मै दत्तं पुरा ज्ञानं कृष्णेन परमात्मना । अतीव निर्जनेऽरण्ये गोलोके रासमण्डले ॥ १९॥ तत्रैव कथितं किञ्चित्तद्गुणोत्कीर्तनं शुभम् । धर्मं च कथयामास शिवलोके शिवः स्वयम् ॥ २०॥ धर्मस्तु कथयामास भास्वते पृच्छते तथा । यामाराध्य मत्पितापि सम्प्राप तपसा सति ॥ २१॥ पूर्वं स्वं विषयं चाहं न गृह्णामि प्रयत्नतः । वैराग्ययुक्तस्तपसे गन्तुमिच्छामि सुव्रते ॥ २२॥ तदा मां कथयामास पिता तद्गुणकीर्तनम् । यथागमं तद्वदामि निबोधातीव दुर्गमम् ॥ २३॥ तद्गुणं सा न जानाति तदन्यस्य च का कथा । यथाकाशो न जानाति स्वान्तमेव वरानने ॥ २४॥ सर्वात्मा सर्वभगवान् सर्वकारणकारणः । सर्वेश्वरश्च सर्वाद्यः सर्ववित्परिपालकः । २५ नित्यरूपी नित्यदेही नित्यानन्दो निराकृतिः । निरङ्कुशो निराशङ्को निर्गुणश्च निरामयः ॥ २६॥ निर्लिप्तः सर्वसाक्षी च सर्वाधारः परात्परः । मायाविशिष्टः प्रकृतिस्तद्विकाराश्च प्राकृताः ॥ २७॥ स्वयं पुमांश्च प्रकृतिस्तावभिन्नौ परस्परम् । यथा वह्नेस्तस्य शक्तिर्न भिन्नास्त्येव कुत्रचित् ॥ २८॥ सेयं शक्तिर्महामाया सच्चिदानन्दरूपिणी । रूपं बिभर्त्यरूपा च भक्तानुग्रहहेतवे ॥ २९॥ गोपालसुन्दरीरूपं प्रथमं सा ससर्ज ह । अतीव कमनीयं च सुन्दरं सुमनोहरम् ॥ ३०॥ नवीननीरदश्यामं किशोरं गोपवेषकम् । कन्दर्पकोटिलावण्यं लीलाधाममनोहरम् ॥ ३१॥ शरन्मध्याह्नपद्मानां शोभामोचनलोचनम् । शरत्पार्वणकोटीन्दुशोभाप्रच्छादनाननम् ॥ ३२॥ अमूल्यरत्ननिर्माणनानाभूषणभूषितम् । सस्मितं शोभितं शश्वदमूल्यपीतवाससा ॥ ३३॥ परब्रह्मस्वरूपं च ज्वलन्तं ब्रह्मतेजसा । सुखदृश्यं च शान्तं च राधाकान्तमनन्तकम् ॥ ३४॥ गोपीभिर्वीक्ष्यमाणं च सस्मिताभिश्च सन्ततम् । रासमण्डलमध्यस्थं रत्नसिंहासनस्थितम् ॥ ३५॥ वंशीं क्वणन्तं द्विभुजं वनमालाविभूषितम् । कौस्तुभेन्द्रमणीन्द्रेण शश्वद्वक्षःस्थलोज्ज्वलम् ॥ ३६॥ कुङ्कुमागुरुकस्तुरीचन्दनार्चितविग्रहम् । चारुचम्पकमालाक्तं मालतीमाल्यमण्डितम् ॥ ३७॥ चारुचन्द्रकशोभाढ्यं चूडावङ्क्रिमराजितम् । एवम्भूतं च ध्यायन्ति भक्ता भक्तिपरिप्लुताः ॥ ३८॥ यद्भयाज्जगता धाता विधत्ते सृष्टिमेव च । कर्मानुसाराल्लिखितं करोति सर्वकर्मणाम् ॥ ३९॥ तपसां फलदाता च कर्मणां च यदाज्ञया । विष्णुः पाता च सर्वेषां यद्भयात्पाति सन्ततम् ॥ ४०॥ कालाग्निरुद्रः संहर्ता सर्वविश्वेषु यद्भयात् । शिवो मृत्युञ्जयश्चैव ज्ञानिनां च गुरोर्गुरुः ॥ ४१॥ यज्ज्ञानाज्ज्ञानवानस्ति योगीशो ज्ञानवित्प्रभुः । परमानन्दयुक्तश्च भक्तिवैराग्यसंयुतः ॥ ४२॥ यद्भयाद्वाति पवनः प्रवरः शीघ्रगामिनाम् । तपनश्च प्रतपति यद्भयात्सन्ततं सति ॥ ४३॥ यदाज्ञया वर्षतीन्द्रो मृत्युश्चरति जन्तुषु । यदाज्ञया दहेद्वह्निर्जलमेवं सुशीतलम् ॥ ४४॥ दिशो रक्षन्ति दिक्पाला महाभीता यदाज्ञया । भ्रमन्ति राशिचक्राणि ग्रहाश्च यद्भयेन च ॥ ४५॥ भयात्फलन्ति वृक्षाश्च पुष्यन्त्यपि च यद्भयात् । यदाज्ञां तु पुरस्कृत्य कालः काले हरेद्भयात् ॥ ४६॥ तथा जलस्थलस्थाश्च न जीवन्ति यदाज्ञया । अकाले नाहरेद्विद्धं रणेषु विषमेषु च ॥ ४७॥ धत्ते वायुस्तोयराशिं तोयं कूर्मं तदाज्ञया । कूर्मोऽनन्तं स च क्षोणीं समुद्रान् सा च पर्वतान् ॥ ४८॥ सर्वा चैव क्षमारूपा नानारत्नं बिभर्ति या । यतः सर्वाणि भूतानि स्थीयन्ते हन्ति तत्र हि ॥ ४९॥ इन्द्रायुश्चैव दिव्यानां युगानामेकसप्ततिः । अष्टाविंशे शक्रपाते ब्रह्मणश्च दिवानिशम् ॥ ५०॥ एवं त्रिंशद्दिनैर्मासो द्वाभ्यामाभ्यामृतुः स्मृतः । ऋतुभिः षड्भिरेवाब्दं ब्रह्मणो वै वयः स्मृतम् ॥ ५१॥ ब्रह्मणश्च निपाते च चक्षुरुन्मीलनं हरेः । चक्षुरुन्मीलने तस्य लयं प्राकृतिकं विदुः ॥ ५२॥ प्रलये प्राकृते सर्वे देवाद्याश्च चराचराः । लीना धाता विधाता च श्रीकृष्णनाभिपङ्कजे ॥ ५३॥ विष्णुः क्षीरोदशायी च वैकुण्ठे यश्चतुर्भुजः । विलीना वामपार्श्वे च कृष्णस्य परमात्मनः ॥ ५४॥ यस्य ज्ञाने शिवो लीनो ज्ञानाधीशः सनातनः । दुर्गायां विष्णुमायायां विलीनाः सर्वशक्तयः ॥ ५५॥ सा च कृष्णस्य बुद्धौ च बुद्ध्यधिष्ठातृदेवता । नारायणांशः स्कन्दश्च लीनो वक्षसि तस्य च ॥ ५६॥ श्रीकृष्णांशश्च तद्बाहौ देवाधीशो गणेश्वरः । पद्मांशाश्चैव पद्मायां सा राधायां च सुव्रते ॥ ५७॥ गोप्यश्चापि च तस्यां च सर्वाश्च देवयोषितः । कृष्णप्राणाधिदेवी सा तस्य प्राणेषु संस्थिता ॥ ५८॥ सावित्री च सरस्वत्यां वेदाः शास्त्राणि यानि च । स्थिता वाणी च जिह्वायां यस्य च परमात्मनः ॥ ५९॥ गोलोकस्य च गोपाश्च विलीनास्तस्य लोमसु । तत्प्राणेषु च सर्वेषां प्राणा वाता हुताशनाः ॥ ६०॥ जठराग्नौ विलीनाश्च जलं तद्रसनाग्रतः । वैष्णवाश्चरणाम्भोजे परमानन्दसंयुताः ॥ ६१॥ सारात्सारतरा भक्तिरसपीयूषपायिनः । विराडंशाश्च महति लीनाः कृष्णे महाविराट् ॥ ६२॥ यस्यैव लोमकूपेषु विश्वानि निखिलानि च । यस्य चक्षुष उन्मेषे प्राकृतः प्रलयो भवेत् ॥ ६३॥ चक्षुरुन्मीलने सृष्टिर्यस्यैव पुनरेव सः । यावत्कालो निमेषेण तावदुन्मीलनेन च ॥ ६४॥ ब्रह्मणश्च शताब्दे च सृष्टेः सूत्रलयः पुनः । ब्रह्मसृष्टिलयानां च सङ्ख्या नास्त्येव सुव्रते ॥ ६५॥ यथा भूरजसां चैव सङ्ख्यानं नैव विद्यते । चक्षुर्निमेषे प्रलयो यस्य सर्वान्तरात्मनः ॥ ६६॥ उन्मीलने पुनः सृष्टिर्भवेदेवेश्वरेच्छया । स कृष्णः प्रलये तस्यां प्रकृतौ लीन एव हि ॥ ६७॥ एकैव च परा शक्तिर्निर्गुणः परमः पुमान् । सदेवेदमग्र आसीदिति वेदविदो विदुः ॥ ६८॥ मूलप्रकृतिरव्यक्ताप्यव्याकृतपदाभिधा । चिदभिन्नत्वमापन्ना प्रलये सैव तिष्ठति ॥ ६९॥ तद्गुणोत्कीर्तनं वक्तुं ब्रह्माण्डेषु च कः क्षमः । मुक्तयश्च चतुर्वेदैर्निरुक्ताश्च चतुर्विधाः ॥ ७०॥ तत्प्रधाना देवभक्तिर्मुक्तेरपि गरीयसी । सालोक्यदा भवेदेका तथा सारूप्यदा परा ॥ ७१॥ सामीप्यदाथ निर्वाणप्रदा मुक्तिश्चतुर्विधा । भक्तास्ता न हि वाञ्छन्ति विना तत्सेवनं विभोः ॥ ७२॥ शिवत्वममरत्वं च ब्रह्मत्वं चावहेलया । जन्ममृत्युजराव्याधिभयशोकादिकं धनम् ॥ ७३॥ दिव्यरूपधारणं च निर्वाणं मोक्षणं विदुः । मुक्तिश्च सेवारहिता भक्तिः सेवाविवर्धिनी ॥ ७४॥ भक्तिमुक्त्योरयं भेदो निषेकखण्डनं श‍ृणु । विदुर्बुधा निषेकं च भोगं च कृतकर्मणाम् ॥ ७५॥ तत्खण्डनं च शुभदं श्रीविभोः सेवनं परम् । तत्त्वज्ञानमिदं साध्वि स्थिरं च लोकवेदयोः ॥ ७६॥ निर्विघ्नं शुभदं चोक्तं गच्छ वत्से यथासुखम् । इत्युक्त्वा सूर्यपुत्रश्च जीवयित्वा च तत्पतिम् ॥ ७७॥ तस्यै शुभाशिषं दत्त्वा गमनं कर्तुमुद्यतः । दृष्ट्वा यमं च गच्छन्तं सा सावित्री प्रणम्य च ॥ ७८॥ रुरोद चरणौ धृत्वा साधुच्छेदेन दुःखिता । सावित्रीरोदनं श्रुत्वा यमश्चैव कृपानिधिः ॥ ७९॥ तामित्युवाच सन्तुष्टः स्वयं चैव रुरोद ह । धर्मराज उवाव लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते ॥ ८०॥ अन्ते यास्यसि तल्लोकं यत्र देवी विराजते । गत्वा च स्वगृहं भद्रे सावित्र्याश्च व्रतं कुरु ॥ ८१॥ द्विसप्तवर्षपर्यन्तं नारीणां मोक्षकारणम् । ज्येष्ठशुक्लचतुर्दश्यां सावित्र्याश्च व्रतं शुभम् ॥ ८२॥ शुक्लाष्टम्यां भाद्रपदे महालक्ष्या यथा व्रतम् । द्व्यष्टवर्षं व्रतं चैव प्रत्यादेयं शुचिस्मिते ॥ ८३॥ करोति भक्त्या या नारी सा याति च विभोः पदम् । प्रतिमङ्गलवारे च देवीं मङ्गलदायिनीम् ॥ ८४॥ प्रतिमासं शुक्लषष्ठ्यां षष्ठीं मङ्गलदायिनीम् । तथा चाषाढसङ्क्रान्त्यां मनसां सर्वसिद्धिदाम् ॥ ८५॥ राधां रासे च कार्तिक्यां कृष्णप्राणाधिकप्रियाम् । उपोष्य शुक्लाष्टम्यां च प्रतिमासं वरप्रदाम् ॥ ८६॥ विष्णुमायां भगवतीं दुर्गां दुर्गतिनाशिनीम् । प्रकृतिं जगदम्बां च पतिपुत्रवतीषु च ॥ ८७॥ पतिव्रतासु शुद्धासु यन्त्रेषु प्रतिमासु च । या नारी पूजयेद्भक्त्या धनसन्तानहेतवे ॥ ८८॥ इहलोके सुखं भुक्त्वा यात्यन्ते श्रीविभोः पदम् । एवं देव्या विभूतीश्च पूजयेत्साधकोऽनिशम् ॥ ८९॥ सर्वकालं सर्वरूपा संसेव्या परमेश्वरी । नातः परतरं किञ्चित्कृतकृत्यत्वदायकम् ॥ ९०॥ इत्युक्त्वा तां धर्मराजो जगाम निजमन्दिरम् । गृहीत्वा स्वामिनं सा च सावित्री च निजालयम् ॥ ९१॥ सावित्री सत्यवांश्चैव प्रययौ च यथागमम् । अन्यांश्च कथयामास स्ववृत्तान्तं हि नारद ॥ ९२॥ सावित्रीजनकः पुत्रान् सम्प्राप्तः प्रक्रमेण च । श्वशुरश्चक्षुषी राज्यं सा च पुत्रान् वरेण च ॥ ९३॥ लक्षवर्षं सुखं भुक्त्वा पुण्यक्षेत्रे च भारते । जगाम स्वामिना सार्धं देवीलोकं पतिव्रता ॥ ९४॥ सवितुश्चाधिदेवी या मन्त्राधिष्ठातृदेवता । सावित्री ह्यपि वेदानां सावित्री तेन कीर्तिता ॥ ९५॥ इत्येवं कथितं वत्स सावित्र्याख्यानमुत्तमम् । जीवकर्मविपाकं च किं पुनः श्रोतुमिच्छसि ॥ ९६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्यानवर्णनं नामाष्टत्रिलोऽध्यायः ॥ ९.३८॥

९.३९ एकोनचत्वारिंशोऽध्यायः । लक्ष्म्युपाख्यानवर्णनम् ।

नारद उवाच । श्रीमूलप्रकृतेर्देव्या गायत्र्यास्तु निराकृतेः । सावित्रीयमसंवादे श्रुतं वै निर्मलं यशः ॥ १॥ तद्गुणोत्कीर्तनं सत्यं मङ्गलानां च मङ्गलम् । अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमीश्वर ॥ २॥ केनादौ पूजिता सापि किम्भूता केन वा पुरा । तद्गुणोत्कीर्तनं मह्यं वद वेदविदांवर ॥ ३॥ श्रीनारायण उवाच । सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः । देवी वामांससम्भूता बभूव रासमण्डले ॥ ४॥ अतीव सुन्दरी श्यामा न्यग्रोधपरिमण्डिता । यथा द्वादशवर्षीया शश्वत्सुस्थिरयौवना ॥ ५॥ श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा । शरत्पार्वणकोटीन्दुप्रभाप्रच्छादनानना ॥ ६॥ शरन्मध्याह्नपद्मानां शोभामोचनलोचना । सा देवी द्विविधा भूता सह सर्वेश्वरेच्छया ॥ ७॥ स्वीयरूपेण वर्णेन तेजसा वयसा त्विषा । यशसा वाससा कृत्या भूषणेन गुणेन च ॥ ८॥ स्मितेन वीक्षणेनैव प्रेम्णा वानुनयेन च । तद्वामांसान्महालक्ष्मीर्दक्षिणासाञ्च्च राधिका ॥ ९॥ राधाऽऽदौ वरयामास द्विभुजञ्च परात्परम् । महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् ॥ १०॥ कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह । दक्षिणांसश्च द्विभुजो वामांसश्च चतुर्भुजः ॥ ११॥ चतुर्भुजाय द्विभुजो महालक्ष्मीं ददौ पुरा । लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् ॥ १२॥ देवीभूता च महती महालक्ष्मीश्च सा स्मृता । राधाकान्तश्च द्विभुजो लक्ष्मीकान्तश्चतुर्भुजः ॥ १३॥ शुद्धसत्त्वस्वरूपा च गोपैर्गोपीभिरावृता । चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह ॥ १४॥ सर्वांशेन समौ तौ द्वौ कृष्णनारायणौ परौ । महालक्ष्मीश्च योगेन नानारूपा बभूव सा ॥ १५॥ वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा । शुद्धसत्त्वस्वरूपा च सर्वसौभाग्यसंयुता ॥ १६॥ प्रेम्णा सा च प्रधाना च सर्वासु रमणीषु च । स्वर्गेषु स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी ॥ १७॥ पाताले नागलक्ष्मीश्च राजलक्ष्मीश्च राजसु । गृहलक्ष्मीर्गृहेष्वेव गृहिणां च कलांशतः ॥ १८॥ सम्पत्स्वरूपा गृहिणां सर्वमङ्गलमङ्गला । गवां प्रसूतिः सुरभिर्दक्षिणा यज्ञकामिनी ॥ १९॥ क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च । शोभास्वरूपा चन्द्रे च सूर्यमण्डलमण्डिता ॥ २०॥ विभूषणेषु रत्नेषु फलेषु च जलेषु च । नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च ॥ २१॥ सर्वसस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च । प्रतिमासु च देवानां मङ्गलेषु घटेषु च ॥ २२॥ माणिक्येषु च मुक्तासु माल्येषु च मनोहरा । मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च ॥ २३॥ वृक्षशाखासु रम्यासु नवमेघेषु वस्तुषु । वैकुण्ठे पूजिता साऽऽदौ देवी नारायणेन च ॥ २४॥ द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च । विष्णुना पूजिता सा च क्षीरोदे भारते मुने ॥ २५॥ स्वायम्भुवेन मनुना मानवेन्द्रेश्च सर्वतः । ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे ॥ २६॥ गन्धर्वैश्चैव नागाद्यैः पातालेषु च पूजिता । शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा ॥ २७॥ भक्त्या च पक्षपर्यन्तं त्रिषु लोकेषु नारद । चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे ॥ २८॥ विष्णुना पूजिता सा च त्रिषु लोकेषु भक्तितः । वर्षान्ते पौषसङ्क्रान्त्यां माध्यामावाह्य मङ्गले ॥ २९॥ मनुस्तां पूजयामास सा भूता भुवनत्रये । पूजिता सा महेन्द्रेण मङ्गलेनैव मङ्गला ॥ ३०॥ केदारेणैव नीलेन सुबलेन नलेन च । ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा ॥ ३१॥ कश्यपेन च दक्षेण कर्दमेन विवस्वता । प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना ॥ ३२॥ यमेन वह्निना चैव वरुणेनैव पूजिता । एवं सर्वत्र सर्वेषु पूजिता वन्दिता सदा । सर्वेश्वर्याधिदेवी सा सर्वसम्पत्स्वरूपिणी ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युपाख्यानवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ९.३९॥

९.४० चत्वारिंशोऽध्यायः । लक्ष्म्युत्पत्तिवर्णनम् ।

नारद उवाच । नारायणप्रिया सा च परा वैकुण्ठवासिनी । वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ १॥ कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका । पुरा केन स्तुताऽऽदौ सा तन्मे व्याख्यातुमर्हसि ॥ २॥ श्रीनारायण उवाच । पुरा दुर्वाससः शापाद् भ्रष्टश्रीश्च पुरन्दरः । बभूव देवसङ्घश्च मर्त्यलोके हि नारद ॥ ३॥ लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता । गत्वा लीना तु वैकुण्ठे महालक्ष्मीश्च नारद ॥ ४॥ तदा शोकाद्ययुः सर्वे दुःखिता ब्रह्मणः सभाम् । ब्रह्माणं च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ ५॥ वैकुण्ठे शरणापन्ना देवा नारायणे परे । अतीव दैन्ययुक्ताश्च शुष्ककण्ठोष्ठतालुकाः ॥ ६॥ तदा लक्ष्मीश्च कलया पुराणपुरुषाज्ञया । बभूव सिन्धुकन्या सा सर्वसम्पत्स्वरूपिणी ॥ ७॥ तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह । सम्प्राप्ताश्च महालक्ष्मीं विष्णुस्तां च ददर्श ह ॥ ८॥ सुरादिभ्यो वरं दत्त्वा वनमालां च विष्णवे । ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ ९॥ देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च नारद । तां सम्पूज्य च सम्भूय सर्वत्र च निरापदः ॥ १०॥ नारद उवाच । कथं शशाप दुर्वासा मुनिश्रेष्ठः कदाचन । केन दोषेण वा ब्रह्मन् ब्रह्मिष्ठस्तत्त्ववित्पुरा ॥ ११॥ ममन्थुः केनरूपेण जलधिं ते सुरादयः । केन स्तोत्रेण वा देवी शक्रं साक्षाद्बभूव सा ॥ १२॥ को वा तयोश्च संवादो बभूव तद्वद प्रभो । श्रीनारायण उवाच । मधुपानप्रमत्तश्च त्रैलोक्याधिपतिः पुरा ॥ १३॥ क्रीडां चकार रहसि रम्भया सह कामुकः । कृत्वा क्रीडां तया सार्धं कामुक्या हृतमानसः ॥ १४॥ तस्थौ तत्र महारण्ये कामोन्मथितमानसः । कैलासशिखरे यान्तं वैकुण्ठादृषिसत्तमम् ॥ १५॥ दुर्वाससं ददर्शेन्द्रो ज्वलन्तं ब्रह्मतेजसा । ग्रीष्ममध्याह्नमार्तण्डसहस्रप्रभमीश्वरम् ॥ १६॥ प्रतप्तकाञ्चनाकारं जटाभारमहोज्ज्वलम् । शुक्लयज्ञोपवीतं च चीरदण्डौ कमण्डलुम् ॥ १७॥ महोज्ज्वलं च तिलकं बिभ्रन्तं चेन्दुसन्निभम् । समन्वितं शिष्यलक्षैर्वेदवेदाङ्गपारगैः ॥ १८॥ दृष्ट्वा ननाम शिरसा सम्प्रमत्तः पुरन्दरः । शिष्यवर्गं तदा भक्त्या तुष्टाव च मुदान्वितम् ॥ १९॥ मुनिना च सशिष्येण दत्तास्तस्मै शुभाशिषः । विष्णुदत्तं पारिजातपुष्पं च सुमनोहरम् ॥ २०॥ तज्जरारोगमृत्युघ्नं शोकजं मोक्षकारकम् । शक्रः पुष्पं गहीत्वा च प्रमत्तो राज्यसम्पदा ॥ २१॥ पुष्पं स न्यस्तयामास तदैव करिमस्तके । हस्ती तत्स्पर्शमात्रेण रूपेण च गुणेन च ॥ २२॥ तेजसा वयसाकस्माद्विष्णुतुल्यो बभूव ह । त्यक्त्वा शक्रं गजेन्द्रश्च जगाम घोरकाननम् ॥ २३॥ न शशाक महेन्द्रस्तं रक्षितुं तेजसा मुने । तत्पुण्यं त्यक्तवन्तं च दृष्ट्वा शक्रं मुनीश्वरः ॥ २४॥ तमुवाच महारुष्टः शशाप च रुषान्वितः । मुनिरुवाच । अरे श्रिया प्रमत्तस्त्वं कथं मामवमन्यसे ॥ २५॥ मद्दत्तपुष्पं दत्तं च गर्वेण करिमस्तके । विष्णोर्निवेदितं चैव नैवेद्यं वा फलं जलम् ॥ २६॥ प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा भवेत् । भ्रष्टश्रीर्भ्रष्टबुद्धिश्च पुरभ्रष्टो भवेत्तु सः ॥ २७॥ यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् । प्राप्तिमात्रेण यो भुङ्क्ते भक्तो विष्णुनिवेदितम् ॥ २८॥ पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् । नैवेद्यं भोजनं कृत्वा नित्यं यः प्रणमेद्धरिम् ॥ २९॥ पूजयेत्स्तौति वा भक्त्या स विष्णुसदृशो भवेत् । तत्स्पर्शवायुना सद्यस्तीर्थौघश्च विशुध्यति ॥ ३०॥ तत्पादरजसा मूढ सद्यः पूता वसुन्धरा । पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्तमेव च ॥ ३१॥ यद्धरेरनिवेद्यं च वृथा मांसस्य भक्षणम् । शिवलिङ्गप्रदानं च यद्दत्तं शूद्रयाजिना ॥ ३२॥ चिकित्सकद्विजान्नं च देवलान्नं तथैव च । कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ॥ ३३॥ उच्छिष्टान्नं पर्युषितं सर्वभक्षावशेषितम् । शूद्रापतिद्विजानां च भूषवाहद्विजान्नकम् ॥ ३४॥ अदीक्षितद्विजानां च यदन्नं शवदाहिनाम् । अगम्यागामिनां चैव द्विजानामन्नमेव च ॥ ३५॥ मित्रद्रुहां कृतज्जानामन्नं विश्वासघातिनाम् । मिथ्यासाक्ष्यप्रदान्नं च ब्राह्मणान्नं तथैव च ॥ ३६॥ एते सर्वे विशुध्यन्ति विष्णोनैवेद्यभक्षणात् । श्वपचश्चेद्विष्णुसेवी वंशानां कोटिमुद्धरेत् ॥ ३७॥ हरेरभक्तो मनुजः स्वं च रक्षितुमक्षमः । अज्ञानाद्यदि गृह्णाति विष्णोर्निर्माल्यमेव च ॥ ३८॥ सप्तजन्मार्जितात्पापान्मुच्यते नात्र संशयः । ज्ञात्वा भक्त्या च गृह्णाति विष्णोनैवेद्यमेव च ॥ ३९॥ कोटिजन्मार्जितात्पापान्मुच्यते निश्चितं हरे । यस्मात्संस्थापितं पुष्पं गर्वेण करिमस्तके ॥ ४०॥ तस्माद्युष्मान्परित्यज्य यातु लक्ष्मीर्हरेः पदम् । नारायणस्य भक्तोऽहं न बिभेमि सुराद्विधेः ॥ ४१॥ कालान्मृत्योर्जरातश्च कानन्यान् गणयामि च । किं करिष्यति ते तातः कश्यपश्च प्रजापतिः ॥ ४२॥ बृहस्पतिर्गुरुश्चैव निःशङ्कस्य च मे हरे । इदं पुष्पं यस्य मूर्ध्नि तस्यैव पूजनं परम् ॥ ४३॥ इति श्रुत्वा महेन्द्रश्च धृत्वा स चरणं मुनेः । उच्चै रुरोद शोकार्तस्तमुवाच भयाकुलः ॥ ४४॥ महेन्द्र उवाच । दत्तः समुचितः शापो मह्यं मायापहः प्रभो । हृतां न याचे सम्पत्तिं किञ्चिज्ज्ञानं च देहि मे ॥ ४५॥ ऐश्वर्यं विपदां बीजं ज्ञानप्रच्छन्नकारणम् । मुक्तिमार्गकुठारश्च भक्तेश्च व्यवधायकम् ॥ ४६॥ मुनिरुवाच । जन्ममृत्युजराशोकरोगबीजाङ्कुरं परम् । सम्पत्तितिमिरान्धश्च मुक्तिमार्गं न पश्यति ॥ ४७॥ सम्पन्मत्तो विमूढश्च सुरामत्तः स एव च । बान्धवैर्वेष्टितः सोऽपि बन्धुत्वेनैव हे हरे ॥ ४८॥ सम्पत्तिमदमत्तश्च विषयान्धश्च विह्वलः । महाकामी राजसिकः सत्त्वमार्गं न पश्यति ॥ ४९॥ द्विविधो विषयान्धश्च राजसस्तामसः स्मृतः । अशास्त्रज्ञस्तामसश्च शास्त्रज्ञो राजसः स्मृतः ॥ ५०॥ शास्त्रं च द्विविधं मार्गं दर्शयेत्सुरपुङ्गव । प्रवृत्तिबीजमेकं च निवृत्तेः कारणं परम् ॥ ५१॥ चरन्ति जीविनश्चादौ प्रवृत्तेर्दुःखवर्त्मनि । स्वच्छन्दं च प्रसन्नं च निर्विरोधं च सन्ततम् ॥ ५२॥ आयाति मधुनो लोभात्क्लेशेन सुखमानितः । परिणामे नाशबीजे जन्ममृत्युजराकरे ॥ ५३॥ अनेकजन्मपर्यन्तं कृत्वा च भ्रमणं मुदा । स्वकर्मविहितायां च नानायोन्यां क्रमेण च ॥ ५४॥ ततश्चेशानुगहाग्रच्च सत्सङ्गं लभते च सः । सहस्रेषु शतेष्वेको भवाब्धिपारकारणम् ॥ ५५॥ साधुस्तत्त्वप्रदीपेन मुक्तिमार्गं प्रदर्शयेत् । तदा करोति यत्नं च जीवो बन्धनखण्डने ॥ ५६॥ अनेकजन्मयोगेन तपसानशनेन च । तदा लभेन्मुक्तिमार्गं निर्विघ्नं सुखदं परम् ॥ ५७॥ इदं श्रुतं गुरोर्वक्याद्यत् पृच्छसि पुरन्दर । मुनेस्तद्वचनं श्रुत्वा वीतरागो बभूव सः ॥ ५८॥ वैराग्यं वर्धयामास तस्य ब्रह्मन् दिने दिने । मुनेः स्थानाद् गृहं गत्वा स ददर्शामरावतीम् ॥ ५९॥ दैत्यैरसुरसङ्घैश्च समाकीर्णां भयाकुलाम् । विषमोपप्लवां पुत्रबन्धुहीनां च कुत्रचित् ॥ ६०॥ पितृमातृकलत्रादिविहीनामतिचञ्चलाम् । शत्रुग्रस्तां च तां दृष्ट्वा जगाम वाक्पतिं प्रति ॥ ६१॥ शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् । ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ॥ ६२॥ सूर्याभिसम्मुखं पूर्वमुखं च विश्वतोमुखम् । साश्रुनेत्रं पुलकिनं परमानन्दसंयुतम् ॥ ६३॥ वरिष्ठं च गरिष्ठं च धर्मिष्ठं श्रेष्ठसेवितम् । प्रेष्ठं च बन्धुवर्गाणामतिश्रेष्ठं च ज्ञानिनाम् ॥ ६४॥ ज्येष्ठं च भ्रातृवर्गाणामनिष्टं सुरवैरिणाम् । दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ॥ ६५॥ प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः । प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुहुः ॥ ६६॥ वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा । पुनर्वरोपलब्धिं च ज्ञानप्राप्तिं सुदुर्लभाम् ॥ ६७॥ वैरिग्रस्तां च स्वपुरीं क्रमेणैव सुरेश्वरः । शिष्यस्य वचनं श्रुत्वा सुबुद्धिर्वदतां वरः ॥ ६८॥ बृहस्पतिरुवाचेदं कोपसंरक्तलोचनः । गुरुरुवाच । श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं श‍ृणु ॥ ६९॥ न कातरो हि नीतिज्ञो विपत्तौ च कदाचन । सम्पत्तिर्वा विपत्तिर्वा नश्वरा श्रमरूपिणी ॥ ७०॥ पूर्वस्य कर्मायत्ता च स्वयं कर्ता तयोरपि । सर्वेषां च भवत्येव शश्वज्जन्मनि जन्मनि ॥ ७१॥ चक्रनेमिक्रमेणैव तत्र का परिदेवना । उक्तं हि स्वकृतं कर्म भुज्यतेऽखिलभारते ॥ ७२॥ शुभाशुभं च यत्किञ्चित्स्वकर्मफलभुक् पुमान् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ ७३॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ॥ ७४॥ सामवेदोक्तशाखायां सम्बोध्य कमलोद्भवम् । जन्मभोगावशेषे च सर्वेषां कृतकर्मणाम् ॥ ७५॥ अनुरूपं हि तेषां च भारतेऽन्यत्र चैव हि । कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ॥ ७६॥ कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा । कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ॥ ७७॥ न हि त्यजेद्विना भोगं तच्छायेव पुरन्दर । कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ॥ ७८॥ न्यूनताधिकभावोऽपि भवेदेव हि कर्मणा । वस्तुदानेन वस्तूनां समं पुण्यं दिने दिने ॥ ७९॥ दिनभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् । समे देशे च वस्तूनां दाने पुण्यं समं सुर ॥ ८०॥ देशभेदे कोटिगुणमसङ्ख्यं वा ततोऽधिकम् । समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ॥ ८१॥ पात्रभेदे शतगुणमसङ्ख्यं वा ततोऽधिकम् । यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ॥ ८२॥ कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा । सामान्यदिवसे विप्रदानं समफलं भवेत् ॥ ८३॥ अमायां रविसङ्क्रान्त्यां फलं शतगुणं भवेत् । चातुर्मास्यां पौर्णमास्यामनन्तं फलमेव च ॥ ८४॥ ग्रहणे शशिनः कोटिगुणं च फलमेव च । सूर्यस्य ग्रहणे वापि ततो दशगुणं भवेत् ॥ ८५॥ अक्षयायामक्षयं तदसङ्ख्यं फलमुच्यते । एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिति ॥ ८६॥ यथा दाने तथा स्नाने जपेऽन्यपुण्यकर्मसु । एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ॥ ८७॥ यथा दण्डेन चक्रेण शरावेण भ्रमेण च । कुम्भं निर्माति निर्माता कुम्भकारो मृदा भुवि ॥ ८८॥ तथैव कर्मसूत्रेण फलं धाता ददाति च । यस्याज्ञया सृष्टमिदं तं च नारायणं भज ॥ ८९॥ स विधाता विधातुश्च पातुः पाता जगत्त्रये । स्रष्टुः स्रष्टा च संहर्तुः संहर्ता कालकालकः ॥ ९०॥ महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् । विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ॥ ९१॥ इत्येवमुक्त्वा तत्त्वज्ञः समालिङ्ग्य सुरेश्वरम् । दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ॥ ९२॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे लक्ष्म्युत्पत्तिवर्णनं नाम चत्वारिंशोऽध्यायः ॥ ९.४०॥

९.४१ एकचत्वारिंशोऽध्यायः । श्रीलक्ष्म्युपाख्यानवर्णनम् ।

श्रीनारायण उवाच । हरिं ध्यात्वा हरिर्ब्रह्मन् जगाम ब्रह्मणः सभाम् । बृहस्पतिं पुरस्कृत्य सर्वैः सुरगणैः सह ॥ १॥ शीघ्रं गत्वा ब्रह्मलोकं दृष्ट्वा च कमलोद्भवम् । प्रणेमुर्देवताः सर्वाः सहेन्द्रा गुरुणा सह ॥ २॥ वृत्तान्तं कथयामास सुराचार्यो विधिं प्रति । प्रहस्योवाच तच्छ्रुत्वा महेन्द्रं कमलासनः ॥ ३॥ ब्रह्मोवाच । वत्स मद्वंशजातोऽसि प्रपौत्रो मे विचक्षणः । बृहस्पतेश्च शिष्यस्त्वं सुराणामधिपः स्वयम् ॥ ४॥ मातामहश्च दक्षस्ते विष्णुभक्तः प्रतापवान् । कुलत्रयं यस्य शुद्धं कथं सोऽहङ्कृतो भवेत् ॥ ५॥ माता पतिव्रता यस्य पिता शुद्धो जितेन्द्रियः । मातामहो मातुलश्च कथं सोऽहङ्कृतो भवेत् ॥ ६॥ जनः पैतृकदोषेण दोषान्मातामहस्य च । गुरुदोषात्त्रिभिर्दोषैर्हरिदोषी भवेद् ध्रुवम् ॥ ७॥ सर्वान्तरात्मा भगवान् सर्वदेहेष्ववस्थितः । यस्य देहात्स प्रयाति स शवस्तत्क्षणं भवेत् ॥ ८॥ मनोऽहमिन्द्रियेशं च ज्ञानरूपो हि शङ्करः । विष्णुप्राणा च प्रकृतिर्बुद्धिर्भगवती सती ॥ ९॥ निद्रादयः शक्तयश्च ताः सर्वाः प्रकृतेः कलाः । आत्मनः प्रतिबिम्बश्च जीवो भोगशरीरभृत् ॥ १०॥ आत्मनीशे गते देहात्सर्वे यान्ति ससम्भ्रमाः । यथा वर्त्मनि गच्छन्तं नरदेवमिवानुगाः ॥ ११॥ अहं शिवश्च शेषश्च विष्णुर्धर्मो महाविराट् । यूयं यदंशा भक्ताश्च तत्पुष्पं न्यक्कृतं त्वया ॥ १२॥ शिवेन पूजितं पादपद्मं पुष्पेण येन च । तत्र दुर्वाससा दत्तं दैवेन न्यक्कृतं त्वया ॥ १३॥ तत्पुण्यं मस्तके यस्य कृष्णपादाब्जप्रच्युतम् । सर्वेषां च सुराणां च तत्पूजापुरतो भवेत् ॥ १४॥ दैवेन वञ्चितस्त्वं हि दैवं च बलवत्तरम् । भाग्यहीनं जनं मूढं को वा रक्षितुमीश्वरः ॥ १५॥ सा श्रीर्गताधुना कोपात्कृष्णनिर्माल्यवर्जनात् । अधुना गच्छ वैकुण्ठं मया च गुरुणा सह ॥ १६॥ निषेव्य तत्र श्रीनाथं श्रियं प्राप्स्यति मद्वरात् । एवमुक्त्वा च स ब्रह्मा सर्वैः सुरगणैः सह ॥ १७॥ तत्र गत्वा परब्रह्म भगवन्तं सनातनम् । दृष्ट्वा तेजःस्वरूपं तं प्रज्वलन्तं स्वतेजसा ॥ १८॥ ग्रीष्ममध्याह्नमार्तण्डशतकोटिसमप्रभम् । शान्तमनादिमध्यान्तं लक्ष्यीकान्तमनन्तकम् ॥ १९॥ चतुर्भुजैः पार्षदैश्च सरस्वत्या युतं प्रभुम् । भक्त्या चतुर्भिर्वेदैश्च गङ्गया परिवेष्टितम् ॥ २०॥ तं प्रणेमुः सुराः सर्वे मूर्ध्ना ब्रह्मपुरोगमाः । भक्तिनम्राः साश्रुनेत्रास्तुष्टुवुः परमेश्वरम् ॥ २१॥ वृत्तान्तं कथयामास स्वयं ब्रह्मा कृताञ्जलिः । रुरुदुर्देवताः सर्वाः स्वाधिकाराच्चुताश्च ताः ॥ २२॥ स ददर्श सुरगणं विपद्ग्रस्तं भयाकुलम् । रत्नभूषणशून्यं च वाहनादिविवर्जितम् ॥ २३॥ शोभाशून्यं हतश्रीकं निष्प्रभं सभयं परम् । उवाच कातरं दृष्ट्वा भयभीतिविभञ्जनः ॥ २४॥ श्रीभगवानुवाच । मा भैर्ब्रह्मन् हे सुराश्च भयं किं वो मयि स्थिते । दास्यामि लक्ष्मीमचलां परमैश्वर्यवर्धिनीम् ॥ २५॥ किञ्च मद्वचनं किञ्चिच्छ्रूयतां समयोचितम् । हितं सत्यं सारभूतं परिणामसुखावहम् ॥ २६॥ जनाश्चासङ्ख्यविश्वस्था मदधीनाश्च सन्ततम् । यथा तथाहं मद्भक्तपराधीनोऽस्वतन्त्रकः ॥ २७॥ यं यं रुष्टो हि मद्भक्तो मत्परो हि निरङ्कुशः । तद्गृहेऽहं न तिष्ठामि पद्मया सह निश्चितम् ॥ २८॥ दुर्वासाः शङ्करांशश्च वैष्णवो मत्परायणः । तच्छापादागतोऽहं च सलक्ष्मीको हि वो गृहात् ॥ २९॥ यत्र शङ्खध्वनिर्नास्ति तुलसी न शिवार्चनम् । न भोजनं च विप्राणां न पद्मा तत्र तिष्ठति ॥ ३०॥ मद्भक्तानां च मे निन्दा यत्र ब्रह्मन् भवेत्सुराः । महारुष्टा महालक्ष्मीस्ततो याति पराभवम् ॥ ३१॥ मद्भक्तिहीनो यो मूढो भुङ्क्ते यो हरिवासरे । मम जन्मदिने वापि याति श्रीस्तद्गृहादपि ॥ ३२॥ मन्नामविक्रयी यश्च विक्रीणाति स्वकन्यकाम् । यत्रातिथिर्न भुङ्क्ते च मत्प्रिया याति तद्गृहात् ॥ ३३॥ यो विप्रः पुंश्चलीपुत्रो महापापी च तत्पतिः । पापिनो यो गृहं याति शूद्रश्राद्धान्नभोजकः ॥ ३४॥ महारुष्टा ततो याति मन्दिरात्कमलालया । शूद्राणां शवदाही च भाग्यहीनो द्विजाधमः ॥ ३५॥ याति रुष्टा तद्गृहाच्च देवाः कमलवासिनी । शूद्राणां सूपकारी यो ब्राह्मणो वृषवाहकः ॥ ३६॥ तत्तोयपानभीता च कमला याति तद्गृहात् । अशुद्धहृदयः क्रूरो हिंसको निन्दको द्विजः ॥ ३७॥ ब्राह्मणः शूद्रयाजी च याति देवी च तद्गृहात् । अवीरान्नं च यो भुङ्क्ते तस्माद्याति जगत्प्रसूः ॥ ३८॥ तृणं छिनत्ति नखरैस्तैर्वा यो विलिखेन्महीम् । निराशो ब्राह्मणो यत्र तद्गृहाद्याति मत्प्रिया ॥ ३९॥ सूर्योदये द्विजो भुङ्क्ते दिवास्वापी च ब्राह्मणः । दिवा मैथुनकारी च यस्तस्माद्याति मत्प्रिया ॥ ४०॥ आचारहीनो विप्रो यो यश्च शूद्रप्रतिग्रही । अदीक्षितो हि यो मूढस्तस्माद्वै याति मत्प्रिया ॥ ४१॥ स्निग्धपादश्च नग्नो हि यः शेते ज्ञानदुर्बलः । शश्वद्वदति वाचालो याति सा तद्गृहात्सती ॥ ४२॥ शिरस्नातस्तु तैलेन योऽन्याङ्गं समुपस्पृशेत् । स्वाङ्गं च वादयेद्वाद्यं रुष्टा सा याति तद्गृहात् ॥ ४३॥ व्रतोपवासहीनो यः सन्ध्याहीनोऽशुचिर्द्विजः । विष्णुभक्तिविहीनस्तु तस्माद्याति च मत्प्रिया ॥ ४४॥ ब्राह्मणं निन्दयेद्यो हि तं च यो द्वेष्टि सन्ततम् । जीवहिंस्रो दयाहीनो याति सर्वप्रसूस्ततः ॥ ४५॥ यत्र यत्र हरेरर्चा हरेरुत्कीर्तनं तथा । तत्र तिष्ठति सा देवी सर्वमङ्गलमङ्गला ॥ ४६॥ यत्र प्रशंसा कृष्णस्य तद्भक्तस्य पितामह । सा च कृष्णप्रिया देवी तत्र तिष्ठति सन्ततम् ॥ ४७॥ यत्र शङ्खध्वनिः शङ्खः शिला च तुलसीदलम् । तत्सेवा वन्दनं ध्यानं तत्र सा परितिष्ठति ॥ ४८॥ शिवलिङ्गार्चनं यत्र तस्य चोत्कीर्तनं शुभम् । दुर्गार्चनं तद्गुणाश्च तत्र पद्मनिवासिनी ॥ ४९॥ विप्राणां सेवनं यत्र तेषां च भोजनं शुभम् । अर्चनं सर्वदेवानां तत्र पद्ममुखी सती ॥ ५०॥ इत्युक्त्वा च सुरान्सर्वान् रमामाह रमापतिः । क्षीरोदसागरे जन्म कलयाकलयेति च ॥ ५१॥ इत्युक्त्वा तां जगन्नाथो ब्रह्माणं पुनराह च । मथित्वा सागरं लक्ष्मीं देवेभ्यो देहि पद्मज ॥ ५२॥ इत्युक्त्वा कमलाकान्तो जगामान्तःपुरं मुने । देवाश्चिरेण कालेन ययुः क्षीरोदसागरम् ॥ ५३॥ मन्थानं मन्दरं कृत्वा कूर्मं कृत्वा च भाजनम् । कृत्वा शेषं मन्थपाशं ममन्थुरसुराः सुराः ॥ ५४॥ धन्वन्तरिं च पीयूषमुच्चैःश्रवसमीप्सितम् । नानारत्नं हस्तिरत्नं प्रापुर्लक्ष्मीं सुदर्शनम् ॥ ५५॥ वनमालां ददौ सा च क्षीरोदशायिने मुने । सर्वेश्वराय रम्याय विष्णवे वैष्णवी सती ॥ ५६॥ देवैः स्तुता पूजिता च ब्रह्मणा शङ्करेण च । ददौ दृष्टिं सुरगृहे ब्रह्मशापविमोचनात् ॥ ५७॥ प्रापुर्देवाः स्वविषयं दैत्यग्रस्तं भयङ्करम् । महालक्ष्मीप्रसादेन वरदानेन नारद ॥ ५८॥ इत्येवं कथितं सर्वं लक्ष्म्युपाख्यानमुत्तमम् । सुखदं सारभूतं च किं भूयः श्रोतुमिच्छसि ॥ ५९॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे श्रीलक्ष्म्युपाख्यानवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ९.४१॥

९.४२ द्विचत्वारिंशोऽध्यायः । महालक्ष्म्याः ध्यानस्तोत्रवर्णनम् ।

नारद उवाच । हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् । ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १॥ श्रीनारायण उवाच । स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी । घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २॥ गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् । एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३॥ आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् । पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४॥ पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ । देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५॥ पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् । ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६॥ ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा । हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७॥ सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् । शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८॥ स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् । प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९॥ रत्नभूषणभूषाढ्यां शोभितां पीतवाससा । ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १०॥ सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् । ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११॥ सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश । ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२॥ प्रशस्तानि प्रकृष्टानि वराणि विविधानि च । अमूल्यरत्नसारं च निर्मितं विश्वकर्मणा ॥ १३॥ आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् । शुद्धं गङ्गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४॥ पापेध्मवह्निरूपं च गृह्यतां कमलालये । पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५॥ शङ्खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि । सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६॥ देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये । कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७॥ रत्नस्वर्णविकारं च देहभूषाविवर्धनम् । शोभायै श्रीकरं रत्नं भूषणं देवि गृह्यताम् ॥ १८॥ सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् । वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९॥ श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् । सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २०॥ जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् । प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१॥ नानोपहाररूपं च नानारससमन्वितम् । अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२॥ अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् । तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३॥ शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् । स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४॥ शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् । स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५॥ नानाविधानि रम्याणि पक्वान्नानि फलानि च । सुरभिस्तनसन्त्यक्तं सुस्वादु सुमनोहरम् ॥ २६॥ मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये । सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्भवम् ॥ २७॥ अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् । यवगोधूमसस्यानां चूर्णरेणुसमुद्भवम् ॥ २८॥ सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् । सस्यचूर्णोद्भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९॥ मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् । शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३०॥ कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् । ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ३१॥ जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् । सुवासितं सुशीतं च पिपासानाशकारणम् ॥ ३२॥ जगज्जीवनरूपं च जीवनं देवि गृह्यताम् । देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ ३३॥ कार्पासजं च कृमिजं वसनं देवि गृह्यताम् । रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ ३४॥ शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् । नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ ३५॥ सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् । शुद्धिदं शुद्धरूपं च सर्वमङ्गलमङ्गलम् ॥ ३६॥ गन्धवस्तूद्भवं रम्यं गन्धं देवि प्रगृह्यताम् । पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ ३७॥ गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् । रत्नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ ३८॥ रत्नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् । यद्यद् द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ ३९॥ देवभूषार्हभोग्यं च तद् द्रव्यं देवि गृह्यताम् । द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्गवः ॥ ४०॥ मूलं जजाप भक्त्या च दशलक्षं विधानतः । जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ ४१॥ मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः । लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ ४२॥ वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः । कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ ४३॥ राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च । मङ्गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ ४४॥ प्रियव्रतोत्तानपादौ केदारो नृप एव च । एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ ४५॥ सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ । रत्नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ ४६॥ सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा । श्वेतचम्पकवर्णाभा रत्नभूषणभूषिता ॥ ४७॥ ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । बिभ्रती रत्नमालां च कोटिचन्द्रसमप्रभाम् ॥ ४८॥ दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः । पुलकाञ्चितसर्वाङ्गः साश्रुनेत्रः कृताञ्जलिः ॥ ४९॥ ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः । सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५०॥ पुरन्दर उवाच । नमः कमलवासिन्यै नारायण्यै नमो नमः । कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ ५१॥ पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः । पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५२॥ सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः । हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ५३॥ कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः । चन्द्रशोभास्वरूपायै रत्नपद्मे च शोभने ॥ ५४॥ सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः । नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५५॥ वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे । स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५६॥ गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता । सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ ५७॥ अदितिर्देवमाता त्वं कमला कमलालया । स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ५८॥ त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा । शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ५९॥ क्रोधहिंसावर्जिता च वरदा शारदा शुभा । परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६०॥ यया विना जगत्सर्वं भस्मीभूतमसारकम् । जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ६१॥ सर्वेषां च परा माता सर्वबान्धवरूपिणी । धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६२॥ यथा माता स्तनान्धानां शिशूनां शैशवे सदा । तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ ६३॥ मातृहीनः स्तनान्धस्तु स च जीवति दैवतः । त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६४॥ सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके । वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६५॥ अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः । सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ ६६॥ ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् । प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ ६७॥ जयं पराक्रमं युद्धे परमैश्वर्यमेव च । इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ ६८॥ प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः । ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥ ६९॥ सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः । देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ ७०॥ केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि । ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ ७१॥ देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः । ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ ७२॥ दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् । इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७३॥ कुबेरतुल्यः स भवेद्राजराजेश्वरो महान् । पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७४॥ सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् । महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ७५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्ष्म्याः ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिम्प्तोऽध्यायः ॥ ९.४२॥

९.४३ त्रिचत्वारिंशोऽध्यायः । स्वाहोपाख्यानवर्णनम् ।

नारद उवाच । नारायण महाभाग नारायण महाप्रभो । रूपेणैव गुणेनैव यशसा तेजसा त्विषा ॥ १॥ त्वमेव ज्ञानिनां श्रेष्ठः सिद्धानां योगिनां मुने । तपस्विनां मुनीनां च परो वेदविदांवर ॥ २॥ महालक्ष्म्या उपाख्यानं विज्ञातं महदद्भुतम् । अन्यत्किञ्चिदुपाख्यानं निगूढं वद साम्प्रतम् ॥ ३॥ अतीव गोपनीयं यदुपयुक्तं च सर्वतः । अप्रकाश्यं पुराणेषु वेदोक्तं धर्मसंयुतम् ॥ ४॥ श्रीनारायण उवाच । नानाप्रकारमाख्यानमप्रकाश्यं पुराणतः । श्रुतं कतिविधं गूढमास्ते ब्रह्मन् सुदुर्लभम् ॥ ५॥ तेषु यत्सारभूतं च श्रोतुं किं वा त्वमिच्छसि । तन्मे ब्रूहि महाभाग पश्चाद्वक्ष्यामि तत्पुनः ॥ ६॥ नारद उवाच । स्वाहा देवी हविर्दाने प्रशस्ता सर्वकर्मसु । पितृदाने स्वधा शस्ता दक्षिणा सर्वतो वरा ॥ ७॥ एतासां चरितं जन्मफलं प्राधान्यमेव च । श्रोतुमिच्छामि त्वद्वक्त्राद्वद वेदविदांवर ॥ ८॥ सूत उवाच । नारदस्य वचः श्रुत्वा प्रहस्य मुनिसत्तमः । कथां कथितुमारेभे पुराणोक्तां पुरातनीम् ॥ ९॥ श्रीनारायण उवाच । सृष्टेः प्रथमतो देवाः स्वाहारार्थं ययुः पुरा । ब्रह्मलोकं ब्रह्मसभामाजग्मुः सुमनोहराम् ॥ १०॥ गत्वा निवेदनं चक्रुराहारहेतुकं मुने । ब्रह्मा श्रुत्वा प्रतिज्ञाय निषेवे श्रीहरिं परम् ॥ ११॥ नारद उवाच । यज्ञरूपो हि भगवान् कलया च बभूव ह । यज्ञे यद्यद्धविर्दानं दत्तं तेभ्यश्च ब्राह्मणैः ॥ १२॥ श्रीनारायण उवाच । हविर्ददति विप्राश्च भक्त्या च क्षत्रियादयः । सुरा नैव प्राप्नुवन्ति तद्दानं मुनिपुङ्गव ॥ १३॥ देवा विषण्णास्ते सर्वे तत्सभां च ययुः पुनः । गत्वा निवेदनं चक्रुराहाराभावहेतुकम् ॥ १४॥ ब्रह्मा श्रुत्वा तु ध्यानेन श्रीकृष्णं शरणं ययौ । पूजाञ्चकार प्रकृतेध्यानेनैव तदाज्ञया ॥ १५॥ प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी । अतीव सुन्दरी श्यामा रमणीया मनोहरा ॥ १६॥ ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा । उवाचेति विधेरग्रे पद्मयोने वरं वृणु ॥ १७॥ विधिस्तद्वचनं श्रुत्वा सम्भ्रमात्समुवाच ताम् । प्रजापतिरुवाच । त्वमग्नेर्दाहिका शक्तिर्भव यातीव सुन्दरी ॥ १८॥ दग्धुं न शक्तः प्रकृतीर्हुताशश्च त्वया विना । त्वन्नामोच्चार्य मन्त्रान्ते यो दास्यति हविर्नरः ॥ १९॥ सुरेभ्यस्तत्प्राप्नुवन्ति सुराः सानन्दपूर्वकम् । अग्नेः सम्पत्स्वरूपा च श्रीरूपा सा गृहेश्वरी ॥ २०॥ देवानां पूजिता शश्वन्नरादीनां भवाम्बिके । ब्रह्मणश्च वचः श्रुत्वा सा विषण्णा बभूव ह ॥ २१॥ तमुवाच ततो देवी स्वाभिप्रायं स्वयम्भुवम् । स्वाहोवाच । अहं कृष्णं भजिष्यामि तपसा सुचिरेण च ॥ २२॥ ब्रह्मंस्तदन्यं यत्किञ्चित्स्वप्नवद् भ्रममेव च । विधाता जगतस्त्वं च शम्भुर्मृत्युञ्जयो विभुः ॥ २३॥ बिभर्ति शेषो विश्वं च धर्मः साक्षी च धर्मिणाम् । सर्वाद्यपूज्यो देवानां गणेषु च गणेश्वरः ॥ २४॥ प्रकृतिः सर्वसम्पूज्या यत्प्रसादात्पुराभवत् । ऋषयो मुनयश्चैव पूजिता यन्निषेवया ॥ २५॥ तत्पादपद्मं नियतं भावेन चिन्तयाम्यहम् । पद्मास्या पाद्यमित्युक्त्वा पद्मनाभानुसारतः ॥ २६॥ जगाम तपसे देवी ध्यात्वा कृष्णं निरामयम् । तपस्तेपे वर्षलक्षमेकपादेन पद्मजा ॥ २७॥ तदा ददर्श श्रीकृष्णं निर्गुणं प्रकृतेः परम् । अतीव कमनीयं च रूपं दृष्ट्वा च रूपिणी ॥ २८॥ मूर्च्छां सम्प्राप कालेन कामेशस्य च कामुकी । विज्ञाय तदभिप्रायं सर्वज्ञस्तामुवाच ह ॥ २९॥ समुत्थाप्य च तां क्रोडे क्षीणाङ्गीं तपसा चिरम् । श्रीभगवानुवाच । वाराहे वै त्वमंशेन मम पत्नी भविष्यसि ॥ ३०॥ नाम्ना नाग्नजिती कन्या कान्ते नग्नजितस्य च । अधुनाग्नेर्दाहिका त्वं भव पत्नी च भामिनी ॥ ३१॥ मन्त्राङ्गरूपा पूज्या च मत्प्रसादाद् भविष्यसि । वह्निस्त्वां भक्तिभावेन सम्पूज्य च गृहेश्वरीम् ॥ ३२॥ रमिष्यति त्वया सार्धं रामया रमणीयया । इत्युक्त्वान्तर्दधे देवो देवीं सम्भाष्य नारद ॥ ३३॥ तत्राजगाम सन्त्रस्तो वह्निर्ब्रह्मनिदेशतः । सामवेदोक्तध्यानेन ध्यात्वा तां जगदम्बिकाम् ॥ ३४॥ सम्पूज्य परितुष्टाव पाणिं जग्राह मन्त्रतः । तदा दिव्यं वर्षशतं स रेमे रामया सह ॥ ३५॥ अतीव निर्जने देशे सम्भोगसुखदे सदा । बभूव गर्भस्तस्यां च हुताशस्य च तेजसा ॥ ३६॥ तं दधार च सा देवी दिव्यं द्वादशवत्सरम् । ततः सुषाव पुत्रांश्च रमणीयान्मनोहरान् ॥ ३७॥ दक्षिणाग्निगार्हपत्याहवनीयान् क्रमेण च । ऋषयो मुनयश्चैव ब्राह्मणाः क्षत्रियादयः ॥ ३८॥ स्वाहान्तं मन्त्रमुच्चार्य हविर्दानं च चक्रिरे । स्वाहायुक्तं च मन्त्रं च यो गृह्णाति प्रशस्तकम् ॥ ३९॥ सर्वसिद्धिर्भवेत्तस्य मन्त्रग्रहणमात्रतः । विषहीनो यथा सर्पो वेदहीनो यथा द्विजः ॥ ४०॥ पतिसेवाविहीना स्त्री विद्याहीनो यथा पुमान् । फलशाखाविहीनश्च यथा वृक्षो हि निन्दितः ॥ ४१॥ स्वाहाहीनस्तथा मन्त्रो न हुतः फलदायकः । परितुष्टा द्विजाः सर्वे देवाः सम्प्रापुराहुतीः ॥ ४२॥ स्वाहान्तेनैव मन्त्रेण सफलं सर्वमेव च । इत्येवं कथितं सर्वं स्वाहोपाख्यानमुत्तमम् ॥ ४३॥ सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि । नारद उवाच । स्वाहापूजाविधानं च ध्यानं स्तोत्रं मुनीश्वर ॥ ४४॥ सम्पूज्य वह्निस्तुष्टाव येन तद्वद मे प्रभो । श्रीनारायण उवाच । ध्यानं च सामवेदोक्तं स्तोत्रपूजाविधानकम् ॥ ४५॥ वदामि श्रूयतां ब्रह्मन् सावधानो मुनीश्वर । सर्वयज्ञारम्भकाले शालग्रामे घटेऽथवा ॥ ४६॥ स्वाहां सम्पूज्य यत्नेन यज्ञं कुर्यात्कलाप्तये । स्वाहां मन्त्राङ्गयुक्तां च मन्त्रसिद्धिस्वरूपिणीम् ॥ ४७॥ सिद्धां च सिद्धिदां नॄणां कर्मणां फलदां शुभाम् । इति ध्यात्वा च मूलेन दत्त्वा पाद्यादिकं नरः ॥ ४८॥ सर्वसिद्धिं लभेत्स्तुत्वा मूलमन्त्रं मुने श‍ृणु । ॐ ह्रीं श्रीं वह्निजायायै देव्यै स्वाहेत्यनेन च ॥ ४९॥ यः पूजयेच्च तां भक्त्या सर्वेष्टं सम्भवेद् ध्रुवम् । वह्निरुवाच । स्वाहा वह्निप्रिया वह्निजाया सन्तोषकारिणी ॥ ५०॥ शक्तिः क्रिया कालदात्री परिपाककरी ध्रुवा । गतिः सदा नराणां च दाहिका दहनक्षमा ॥ ५१॥ संसारसाररूपा च घोरसंसारतारिणी । देवजीवनरूपा च देवपोषणकारिणी ॥ ५२॥ षोडशैतानि नामानि यः पठेद्भक्तिसंयुतः । सर्वसिद्धिर्भवेत्तस्य इह लोके परत्र च ॥ ५३॥ नाङ्गहीनं भवेत्तस्य सर्वं कर्म सुशोभनम् । अपुत्रो लभते पुत्रं भार्याहीनो लभेत्प्रियाम् ॥ ५४॥ रम्भोपमां स्वकान्तां च सम्प्राप्य सुखमाप्नुयात् ॥ ५५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वाहोपाख्यानवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ९.४३॥

९.४४ चतुश्चत्वारिंशोऽध्यायः । स्वधोपाख्यानवर्णनम् ।

श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि स्वधोपाख्यानमुत्तमम् । पितॄणां च तृप्तिकरं श्राद्धान्तफलवर्धनम् ॥ १॥ सृष्टेरादौ पितृगणान्ससर्ज जगतां विधिः । चतुरश्च मूर्तिमतस्त्रींश्च तेजःस्वरूपिणः ॥ २॥ दृष्ट्वा सप्तपितृगणान् सुखरूपान्मनोहरान् । आहारं ससृजे तेषां श्राद्धं तर्पणपूर्वकम् ॥ ३॥ स्नानं तर्पणपर्यन्तं श्राद्धं तु देवपूजनम् । आह्निकं च त्रिसन्ध्यान्तं विप्राणां च श्रुतौ श्रुतम् ॥ ४॥ नित्यं न कुर्याद्यो विप्रस्त्रिसन्ध्यं श्राद्धतर्पणम् । बलिं वेदध्वनिं सोऽपि विषहीनो यथोरगः ॥ ५॥ देवीसेवाविहीनश्च श्रीहरेरनिवेद्यभुक् । भस्मान्तं सूतकं तस्य न कर्मार्हश्च नारद ॥ ६॥ ब्रह्मा श्राद्धादिकं सृष्ट्वा जगाम पितृहेतवे । न प्राप्नुवन्ति पितरो ददति ब्राह्मणादयः ॥ ७॥ सर्वे च जग्मुः क्षुधिताः खिन्नास्तु ब्रह्मणः सभाम् । सर्वं निवेदनं चक्रुस्तमेव जगतां विधिम् ॥ ८॥ ब्रह्मा च मानसीं कन्यां ससृजे च मनोहराम् । रूपयौवनसम्पन्नां शतचन्द्रनिभाननाम् ॥ ९॥ विद्यावतीं गुणवतीमतिरूपवतीं सतीम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ १०॥ विशुद्धां प्रकृतेरंशां सस्मितां वरदां शुभाम् । स्वधाभिधां च सुदतीं लक्ष्मीलक्षणसंयुताम् ॥ ११॥ शतपद्मपदन्यस्तपादपद्मं च बिभ्रतीम् । पत्नीं पितॄणां पद्मास्यां पद्मजां पद्मलोचनाम् ॥ १२॥ पितृभ्यश्च ददौ ब्रह्मा तुष्टेभ्यस्तुष्टिरूपिणीम् । ब्राह्मणानां चोपदेशं चकार गोपनीयकम् ॥ १३॥ स्वधान्तं मन्त्रमुच्चार्य पितृभ्यो देयमित्यपि । क्रमेण तेन विप्राश्च पित्रे दानं ददुः पुरा ॥ १४॥ स्वाहा शस्ता देवदाने पितृदाने स्वधा स्मृता । सर्वत्र दक्षिणा शस्ता हतं यज्ञमदक्षिणम् ॥ १५॥ पितरो देवता विप्रा मुनयो मनवस्तथा । पूजां चक्रुः स्वधां शान्तां तुष्टुवुः परमादरात् ॥ १६॥ देवादयश्च सन्तुष्टाः परिपूर्णमनोरथाः । विप्रादयश्च पितरः स्वधादेवीवरेण च ॥ १७॥ इत्येवं कथितं सर्वं स्वधोपाख्यानमेव च । सर्वेषां च तुष्टिकरं किं भूयः श्रोतुमिच्छसि ॥ १८॥ नारद उवाच । स्वधापूजाविधानं च ध्यानं स्तोत्रं महामुने । श्रोतुमिच्छामि यत्नेन वद वेदविदांवर ॥ १९॥ श्रीनारायण उवाच । ध्यानं च स्तवनं ब्रह्मन् वेदोक्तं सर्वमङ्गलम् । सर्वं जानासि च कथं ज्ञातुमिच्छसि वृद्धये ॥ २०॥ शरत्कृष्णत्रयोदश्यां मघायां श्राद्धवासरे । स्वधां सम्पूज्य यत्नेन ततः श्राद्धं समाचरेत् ॥ २१॥ स्वधां नाभ्यर्च्य यो विप्रः श्राद्धं कुर्यादहम्मतिः । न भवेत्फलभाक्सत्यं श्राद्धस्य तर्पणस्य च ॥ २२॥ ब्रह्मणो मानसीं कन्यां शश्वत्सुस्थिरयौवनाम् । पूज्यां वै पितृदेवानां श्राद्धानां फलदां भजे ॥ २३॥ इति ध्यात्वा शिलायां वा ह्यथवा मङ्गले घटे । दद्यात्पाद्यादिकं तस्यै मूलेनेति श्रुतौ श्रुतम् ॥ २४॥ ॐ ह्रीं श्रीं क्लीं स्वधादेव्यै स्वाहेति च महामुने । समुच्चार्य तु सम्पूज्य स्तुत्वा तां प्रणमेद् द्विजः ॥ २५॥ स्तोत्रं श‍ृणु मुनिश्रेष्ठ ब्रह्मपुत्र विशारद । सर्ववाञ्छाप्रदं नॄणां ब्रह्मणा यत्कृतं पुरा ॥ २६॥ श्रीनारायण उवाच । स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ २७॥ स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति बलेश्च तर्पणस्य च ॥ २८॥ श्राद्धकाले स्वधास्तोत्रं यः श‍ृणोति समाहितः । स लभेच्छ्राद्धसम्भूतं फलमेव न संशयः ॥ २९॥ स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रगुणान्विताम् ॥ ३०॥ पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ ३१॥ नित्या त्वं सत्यरूपासि पुण्यरूपासि सुव्रते । आविर्भावतिरोभावौ सृष्टौ च प्रलये तव ॥ ३२॥ ॐ स्वस्तिश्च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदैः प्रशस्ताः कर्मिणां पुनः ॥ ३३॥ कर्मपूर्त्यर्थमेवैता ईश्वरेण विनिर्मिताः । इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके स्वसंसदि ॥ ३४॥ तस्थौ च सहसा सद्यः स्वधा साऽऽविर्बभूव ह । तदा पितृभ्यः प्रददौ तामेव कमलाननाम् ॥ ३५॥ तां सम्प्राप्य ययुस्ते च पितरश्च प्रहर्षिताः । स्वधास्तोत्रमिदं पुण्यं यः श‍ृणोति समाहितः । स स्नातः सर्वतीर्थेषु वाञ्छितं फलमाप्नुयात् ॥ ३६॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे स्वधोपाख्यानवर्णनं नाम चतुश्चत्वारिशोऽध्यायः ॥ ९.४४॥

९.४५ पञ्चचत्वारिंशोऽध्यायः । दक्षिणोपाख्यानवर्णनम् ।

श्रीनारायण उवाच । उक्तं स्वाहास्वधाख्यानं प्रशस्तं मधुरं परम् । वक्ष्यामि दक्षिणाख्यानं सावधानो निशामय ॥ १॥ गोपी सुशीला गोलोके पुराऽऽसीत्प्रेयसी हरेः । राधा प्रधाना सध्रीची धन्या मान्या मनोहरा ॥ २॥ अतीव सुन्दरी रामा सुभगा सुदती सती । विद्यावती गुणवती चातिरूपवती सती ॥ ३॥ कलावती कोमलाङ्गी कान्ता कमललोचना । सुश्रोणी सुस्तनी श्यामा न्यग्रोधपरिमण्डिता ॥ ४॥ ईषद्धास्यप्रसन्नास्या रत्नालङ्कारभूषिता । श्वेतचम्पकवर्णाभा बिम्बोष्ठी मृगलोचना ॥ ५॥ कामशास्त्रेषु निपुणा कामिनी हंसगामिनी । भावानुरक्ता भावज्ञा कृष्णस्य प्रियभामिनी ॥ ६॥ रसज्ञा रसिका रासे रासेशस्य रसोत्सुका । उवासादक्षिणे क्रोडे राधायाः पुरतः पुरा ॥ ७॥ सम्बभूवानम्रमुखो भयेन मधुसूदनः । दृष्ट्वा राधां च पुरतो गोपीनां प्रवरोत्तमाम् ॥ ८॥ कामिनीं रक्तवदनां रक्तपङ्कजलोचनाम् । कोपेन कम्पिताङ्गीं च कोपेन स्फुरिताधराम् ॥ ९॥ वेगेन तां तु गच्छन्तीं विज्ञाय तदनन्तरम् । विरोधभीतो भगवानन्तर्धानं चकार सः ॥ १०॥ पलायन्तं च कान्तं च शान्तं सत्त्वं सुविग्रहम् । विलोक्य कम्पिता गोप्यः सुशीलाद्यास्ततो भिया ॥ ११॥ विलोक्य लम्पटं तत्र गोपीनां लक्षकोटयः । पुटाञ्जलियुता भीता भक्तिनम्रात्मकन्धराः ॥ १२॥ रक्ष रक्षेत्युक्तवन्त्यो देवीमिति पुनः पुनः । ययुर्भयेन शरणं यस्याश्चरणपङ्कजे ॥ १३॥ त्रिलक्षकोटयो गोपाः सुदामादय एव च । ययुर्भयेन शरणं तत्पादाब्जे च नारद ॥ १४॥ पलायन्तं च कान्तं च विज्ञाय परमेश्वरी । पलायन्तीं सहचरीं सुशीलां च शशाप सा ॥ १५॥ अद्यप्रभृति गोलोकं सा चेदायाति गोपिका । सद्यो गमनमात्रेण भस्मसाच्च भविष्यति ॥ १६॥ इत्येवमुक्त्वा तत्रैव देवदेवेश्वरी रुषा । रासेश्वरी रासमध्ये रासेशमाजुहाव ह ॥ १७॥ नालोक्य पुरतः कृष्णं राधा विरहकातरा । युगकोटिसमं मेने क्षणभेदेन सुव्रता ॥ १८॥ हे कृष्ण प्राणनाथेशागच्छ प्राणाधिकप्रिय । प्राणाधिष्ठातृदेवेश प्राणा यान्ति त्वया विना ॥ १९॥ स्त्रीगर्वः पतिसौभाग्याद्वर्धते च दिने दिने । सुखं च विपुलं यस्मात्तं सेवेद्धर्मतः सदा ॥ २०॥ पतिर्बन्धुः कुलस्त्रीणामधिदेवः सदागतिः । परसम्पत्स्वरूपश्च मूर्तिमान् भोगदः सदा ॥ २१॥ धर्मदः सुखदः शश्वत्प्रीतिदः शान्तिदः सदा । सम्मानैर्दीप्यमानश्च मानदो मानखण्डनः ॥ २२॥ सारात्सारतरः स्वामी बन्धूनां बन्धुवर्धनः । न च भर्तुः समो बन्धुर्बन्धोर्बन्धुषु दृश्यते ॥ २३॥ भरणादेव भर्ता च पालनात्पतिरुच्यते । शरीरेशाच्च स स्वामी कामदः कान्त उच्यते ॥ २४॥ बन्धुश्च सुखवृद्ध्या च प्रीतिदानात्प्रियः स्मृतः । ऐश्वर्यदानादीशश्च प्राणेशात्प्राणनायकः ॥ २५॥ रतिदानाच्च रमणः प्रियो नास्ति प्रियात्परः । पुत्रस्तु स्वामिनः शुक्राज्जायते तेन स प्रियः ॥ २६॥ शतपुत्रात्परः स्वामी कुलजानां प्रियः सदा । असत्कुलप्रसूता या कान्तं विज्ञातुमक्षमा ॥ २७॥ स्नानं च सर्वतीर्थेषु सर्वयज्ञेषु दक्षिणा । प्रादक्षिण्यं पृथिव्याश्च सर्वाणि च तपांसि च ॥ २८॥ सर्वाण्येव व्रतादीनि महादानानि यानि च । उपोषणानि पुण्यानि यानि यानि श्रुतानि च ॥ २९॥ गुरुसेवा विप्रसेवा देवसेवादिकं च यत् । स्वामिनः पादसेवायाः कलां नार्हन्ति षोडशीम् ॥ ३०॥ गुरुविप्रेन्द्रदेवेषु सर्वेभ्यश्च पतिर्गुरुः । विद्यादाता यथा पुंसां कुलजानां तथा प्रियः ॥ ३१॥ गोपीनां लक्षकोटीनां गोपानां च तथैव च । ब्रह्माण्डानामसङ्ख्यानां तत्रस्थानां तथैव च ॥ ३२॥ विश्वादिगोलकान्तानामीश्वरी यत्प्रसादतः । अहं न जाने तं कान्तं स्त्रीस्वभावो दुरत्ययः ॥ ३३॥ इत्युक्त्वा राधिका कृष्णं तत्र दध्यौ स्वभक्तितः । रुरोद प्रेम्णा सा राधा नाथ नाथेति चाब्रवीत् ॥ ३४॥ दर्शनं देहि रमण दीना विरहदुःखिता । अथ सा दक्षिणा देवी ध्वस्ता गोलोकतो मुने ॥ ३५॥ सुचिरं च तपस्तप्त्वा विवेश कमलातनौ । अथ देवादयः सर्वे यज्ञं कृत्वा सुदुष्करम् ॥ ३६॥ नालभंस्ते फलं तेषां विषण्णाः प्रययुर्विधिम् । विधिर्निवेदनं श्रुत्वा देवादीनां जगत्पतिम् ॥ ३७॥ दध्यौ च सुचिरं भक्त्या प्रत्यादेशमवाप सः । नारायणश्च भगवान् महालक्ष्याश्च देहतः ॥ ३८॥ विनिष्कृष्य मर्त्यलक्ष्मीं ब्रह्मणे दक्षिणां ददौ । ब्रह्मा ददौ तां यज्ञाय पूरणार्थं च कर्मणाम् ॥ ३९॥ यज्ञः सम्पूज्य विधिवत्तां तुष्टाव तदा मुदा । तप्तकाञ्चनवर्णाभां चन्द्रकोटिसमप्रभाम् ॥ ४०॥ अतीव कमनीयां च सुन्दरीं सुमनोहराम् । कमलास्यां कोमलाङ्गीं कमलायतलोचनाम् ॥ ४१॥ कमलासनपूज्यां च कमलाङ्गसमुद्भवाम् । वह्निशुद्धांशुकाधानां बिम्बोष्ठीं सुदतीं सतीम् ॥ ४२॥ बिभ्रतीं कबरीभारं मालतीमाल्यसंयुतम् । ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥ ४३॥ सुवेषाढ्यां च सुस्नातां मुनिमानसमोहिनीम् । कस्तूरीबिन्दुभिः सार्धं सुगन्धिचन्दनेन्दुभिः ॥ ४४॥ सिन्दूरबिन्दुनाल्पेनाप्यलकाधःस्थलोज्ज्वलाम् । सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम् ॥ ४५॥ कामदेवाधाररूपां कामबाणप्रपीडिताम् । तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह ॥ ४६॥ पत्नीं तामेव जग्राह विधिबोधितपूर्वकम् । दिव्यं वर्षशतं चैव तां गृहीत्वा तु निर्जने ॥ ४७॥ यज्ञो रेमे मुदा युक्तो रामेशो रमया सह । गर्भं दधार सा देवी दिव्यं द्वादशवर्षकम् ॥ ४८॥ ततः सुषाव पुत्रं च फलं वै सर्वकर्मणाम् । परिपूर्णे कर्मणि च तत्पुत्रः फलदायकः ॥ ४९॥ यज्ञो दक्षिणया सार्धं पुत्रेण च फलेन च । कर्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥ ५०॥ यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम् । फलं ददौ च सर्वेभ्यः कर्मणां चैव नारद ॥ ५१॥ तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः । स्वस्थाने ते ययुः सर्वे धर्मवक्त्रादिदं श्रुतम् ॥ ५२॥ कृत्वा कर्म च कर्ता च तूर्णं दद्याच्च दक्षिणाम् । तत्क्षणं फलमाप्नोति वेदैरुक्तमिदं मुने ॥ ५३॥ कर्मी कर्मणि पूर्णे च तत्क्षणे यदि दक्षिणाम् । न दद्याद् ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथवा ॥ ५४॥ मुहूर्ते समतीते तु द्विगुणा सा भवेद् ध्रुवम् । एकरात्रे व्यतीते तु भवेच्छतगुणा च सा ॥ ५५॥ त्रिरात्रे तच्छतगुणा सप्ताहे द्विगुणा ततः । मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्धते ॥ ५६॥ संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवेत् । कर्म तद्यजमानानां सर्वं वै निष्फलं भवेत् ॥ ५७॥ स च ब्रह्मस्वहारी च न कर्मार्होऽशुचिर्नरः । दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ॥ ५८॥ तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् । पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ॥ ५९॥ एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् । दत्तं न दीयते दानं ग्रहीता नैव याचते ॥ ६०॥ उभौ तौ नरके यातश्छिन्नरज्जौ यथा घटः । नार्पयेद्यजमानश्चेद्याचितश्चापि दक्षिणाम् ॥ ६१॥ भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद् ध्रुवम् । वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ॥ ६२॥ ततो भवेत्स चाण्डालो व्याधियुक्तो दरिद्रकः । पातयेत्पुरुषान्सप्त पूर्वांश्च सप्त जन्मतः ॥ ६३॥ इत्येवं कथितं विप्र किं भूयः श्रोतुमिच्छसि । नारद उवाच । यत्कर्म दक्षिणाहीनं को भुङ्क्ते तत्फलं मुने ॥ ६४॥ पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद । श्रीनारायण उवाच । कर्मणोऽदक्षिणस्यैव कुत एव फलं मुने ॥ ६५॥ सदक्षिणे कर्मणि च फलमेव प्रवर्तते । अदक्षिणं च यत्कर्म तद्भुङ्क्ते च बलिर्मुने ॥ ६६॥ बलये तत्प्रदत्तं च वामनेन पुरा मुने । अश्रोत्रियः श्राद्धद्रव्यमश्रद्धादानमेव च ॥ ६७॥ वृषलीपतिविप्राणां पूजाद्रव्यादिकं च यत् । असद्द्विजैः कृतं यज्ञमशुचेः पूजनं च यत् ॥ ६८॥ गुरावभक्तस्य कर्म बलिर्भुङ्क्ते न संशयः । दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् ॥ ६९॥ तत्सर्वं कण्वशाखोक्तं प्रवक्ष्यामि निशामय । पुरा सम्प्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम् ॥ ७०॥ मुमोहास्याः स्वरूपेण तुष्टाव कामकातरः । यज्ञ उवाच । पुरा गोलोकगोपी त्वं गोपीनां प्रवरा वरा ॥ ७१॥ राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिया । कार्तिकीपूर्णिमायां तु रासे राधामहोत्सवे ॥ ७२॥ आविर्भूता दक्षिणांसाल्लक्ष्म्याश्च तेन दक्षिणा । पुरा त्वं च सुशीलाख्या ख्याता शीलेन शोभने ॥ ७३॥ लक्ष्मीदक्षांसभागात्त्वं राधाशापाच्च दक्षिणा । गोलोकात्त्वं परिभ्रष्टा मम भाग्यादुपस्थिता ॥ ७४॥ कृपां कुरु महाभागे मामेव स्वामिनं कुरु । कर्मिणां कर्मणां देवी त्वमेव फलदा सदा ॥ ७५॥ त्वया विना च सर्वेषां सर्वं कर्म च निष्फलम् । त्वया विना तथा कर्म कर्मिणां च न शोभते ॥ ७६॥ ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च । कर्मणश्च फलं दातुं न शक्ताश्च त्वया विना ॥ ७७॥ कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः । यज्ञरूपी विष्णुरहं त्वमेषां साररूपिणी ॥ ७८॥ फलदातृपरं ब्रह्म निर्गुणा प्रकृतिः परा । स्वयं कृष्णश्च भगवान् स च शक्तस्त्वया सह ॥ ७९॥ त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि । सर्वकर्मणि शक्तोऽहं त्वया सह वरानने ॥ ८०॥ इत्युक्त्वा च पुरस्तस्थौ यज्ञाधिष्ठातृदेवता । तुष्टा बभूव सा देवी भेजे तं कमलाकला ॥ ८१॥ इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत् । फलं च सर्वयज्ञानां प्राप्नोति नात्र संशयः ॥ ८२॥ राजसूये वाजपेये गोमेधे नरमेधके । अश्वमेधे लाङ्गले च विष्णुयज्ञे यशस्करे ॥ ८३॥ धनदे भूमिदे पूर्ते फलदे गजमेधके । लोहयज्ञे स्वर्णयज्ञे रत्नयज्ञेऽथ ताम्रके ॥ ८४॥ शिवयज्ञे रुद्रयज्ञे शक्रयज्ञे च बन्धुके । वृष्टौ वरुणयागे च कण्डके वैरिमर्दने ॥ ८५॥ शुचियज्ञे धर्मयज्ञेऽध्वरे च पापमोचने । ब्रह्माणीकर्मयागे च योनियागे च भद्रके ॥ ८६॥ एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत् । निर्विघ्नेन च तत्कर्म सर्वं भवति निश्चितम् ॥ ८७॥ इदं स्तोत्रं च कथितं ध्यानं पूजाविधिं श‍ृणु । शालग्रामे घटे वापि दक्षिणां पूजयेत्सुधीः ॥ ८८॥ लक्ष्मीदक्षांससम्भूतां दक्षिणां कमलाकलाम् । सर्वकर्मसुदक्षां च फलदां सर्वकर्मणाम् ॥ ८९॥ विष्णोः शक्तिस्वरूपां च पूजितां वन्दितां शुभाम् । शुद्धिदां शुद्धिरूपां च सुशीलां शुभदां भजे ॥ ९०॥ ध्यात्वानेनैव वरदां मूलेन पूजयेत्सुधीः । दत्त्वा पाद्यादिकं देव्यै वेदोक्तेनैव नारद ॥ ९१॥ ॐ श्रीं क्लीं ह्रीं दक्षिणायै स्वाहेति च विचक्षणः । पूजयेद्विधिवद् भक्त्या दक्षिणां सर्वपूजिताम् ॥ ९२॥ इत्येवं कथितं ब्रह्मन् दक्षिणाख्यानमेव च । सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम् ॥ ९३॥ इदं च दक्षिणाख्यानं यः श‍ृणोति समाहितः । अङ्गहीनं च तत्कर्म न भवेद्भारते भुवि ॥ ९४॥ अपुत्रो लभते पुत्रं निश्चितं च गुणान्वितम् । भार्याहीनो लभेद्भार्यां सुशीलां सुन्दरीं पराम् ॥ ९५॥ वरारोहां पुत्रवतीं विनीतां प्रियवादिनीम् । पतिव्रतां च शुद्धां च कुलजां च वधूं वराम् ॥ ९६॥ विद्याहीनो लभेद्विद्यां धनहीनो लभेद्धनम् । भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाम् ॥ ९७॥ सङ्कटे बन्धुविच्छेदे विपत्तौ बन्धने तथा । मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः ॥ ९८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे दक्षिणोपाख्यानवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ९.४५॥

९.४६ षट्चत्वारिंशोऽध्यायः । षष्ठ्युपाख्यानवर्णनम् ।

नारद उवाच । अनेकानां च देवीनां श्रुतमाख्यानमुत्तमम् । अन्यासां चरितं ब्रह्मन् वद वेदविदांवर ॥ १॥ श्रीनारायण उवाच । सर्वासां चरितं विप्र वेदेषु च पृथक्पृथक् । पूर्वोक्तानां च देवीनां कासां श्रोतुमिहेच्छसि ॥ २॥ नारद उवाच । षष्ठी मङ्गलचण्डी च मनसा प्रकृतेः कला । उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः ॥ ३॥ श्रीनारायण उवाच । षष्ठांशा प्रकृतेर्या च सा च षष्ठी प्रकीर्तिता । बालकानामधिष्ठात्री विष्णुमाया च बालदा ॥ ४॥ मातृकासु च विख्याता देवसेनाभिधा च या । प्राणाधिकप्रिया साध्वी स्कन्दभार्या च सुव्रता ॥ ५॥ आयुःप्रदा च बालानां धात्री रक्षणकारिणी । सततं शिशुपार्श्वस्था योगेन सिद्धियोगिनी ॥ ६॥ तस्याः पूजाविधिं ब्रह्मनितिहासमिदं श‍ृणु । यच्छ्रुतं धर्मवक्येण सुखदं पुत्रदं परम् ॥ ७॥ राजा प्रियव्रतश्चासीत्स्वायम्भुवमनोः सुतः । योगीन्द्रो नोद्वहद्भार्यां तपस्यासु रतः सदा ॥ ८॥ ब्रह्माज्ञया च यत्नेन कृतदारो बभूव ह । सुचिरं कृतदारश्च न लेभे तनयं मुने ॥ ९॥ पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः । मालिन्यं तस्य कान्तायै मुनिर्यज्ञचरुं ददौ ॥ १०॥ भुक्त्वा च तं चरुं तस्याः सद्यो गर्भो बभूव ह । दधार तं च सा देवी दैवं द्वादशवत्सरम् ॥ ११॥ ततः सुषाव सा ब्रह्मन् कुमारं कनकप्रभम् । सर्वावयवसम्पन्नं मृतमुत्तारलोचनम् ॥ १२॥ तं दृष्ट्वा रुरुदुः सर्वा नार्यश्च बान्धवस्त्रियः । मूर्च्छामवाप तन्माता पुत्रशोकेन भूयसा ॥ १३॥ श्मशानं च ययौ राजा गहीत्वा बालकं मुने । रुरोद तत्र कान्तारे पुत्रं कृत्वा स्ववक्षसि ॥ १४॥ नोत्सृजद् बालकं राजा प्राणांस्त्यक्तुं समुद्यतः । ज्ञानयोगं विसस्मार पुत्रशोकात्सुदारुणात् ॥ १५॥ एतस्मिन्नन्तरे तत्र विमानं च ददर्श सः । शुद्धस्फटिकसङ्काशं मणिराजविनिर्मितम् ॥ १६॥ तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा । नानाचित्रविचित्राढ्यं पुष्पमालाविराजितम् ॥ १७॥ ददर्श तत्र देवीं च कमनीयां मनोहराम् । श्वेतचम्पकवर्णाभां शश्वत्सुस्थिरयौवनाम् ॥ १८॥ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् । कृपामयीं योगसिद्धां भक्तानुग्रहकातराम् ॥ १९॥ दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् । चकार पूजनं तस्या विहाय बालकं भुवि ॥ २०॥ पप्रच्छ राजा तां तुष्टां ग्रीष्मसूर्यसमप्रभाम् । तेजसा ज्वलितां शान्तां कान्तां स्कन्दस्य नारद ॥ २१॥ राजोवाच । का त्वं सुशोभने कान्ते कस्य कान्तासि सुव्रते । कस्य कन्या वरारोहे धन्या मान्या च योषिताम् ॥ २२॥ नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलचण्डिका । उवाच देवसेना सा देवानां रणकारिणी ॥ २३॥ देवानां दैत्यग्रस्तानां पुरा सेना बभूव सा । जयं ददौ सा तेभ्यश्च देवसेना च तेन सा ॥ २४॥ श्रीदेवसेनोवाच । ब्रह्मणो मानसी कन्या देवसेनाहमीश्वरी । सृष्ट्वा तां मनसा धाता ददौ स्कन्दाय भूमिप ॥ २५॥ मातृकासु च विख्याता स्कन्दभार्या च सुव्रता । विश्वे षष्ठीति विख्याता षष्ठांशा प्रकृतेः परा ॥ २६॥ अपुत्राय पुत्रदाहं प्रियादात्री प्रियाय च । धनदाहं दरिद्रेभ्यः कर्मिभ्यश्च स्वकर्मदा ॥ २७॥ सुखं दुःखं भयं शोको हर्षो मङ्गलमेव च । सम्पत्तिश्च विपत्तिश्च सर्वं भवति कर्मणा ॥ २८॥ कर्मणा बहुपुत्रश्च वंशहीनः स्वकर्मणा । कर्मणा मृतपुत्रश्च कर्मणा चिरजीवनः ॥ २९॥ कर्मणा गुणवांश्चैव कर्मणा चाङ्गहीनकः । कर्मणा बहुभार्यश्च भार्याहीनश्च कर्मणा ॥ ३०॥ कर्मणा रूपवान्धर्मी रोगी शश्वत्स्वकर्मणा । कर्मणा च भवेद्व्याधिः कर्मणाऽऽरोग्यमेव च ॥ ३१॥ तस्मात्कर्म परं राजन् सर्वेभ्यश्च श्रुतौ श्रुतम् । इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने ॥ ३२॥ महाज्ञानेन सा देवी जीवयामास लीलया । राजा ददर्श तं बालं सस्मितं कनकप्रभम् ॥ ३३॥ देवसेना च पश्यन्तं नृपमापृच्छ्य सा तदा । गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता ॥ ३४॥ पुनस्तुष्टाव तां राजा शुष्ककण्ठोष्ठतालुकः । नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह ॥ ३५॥ उवाच तं नृपं ब्रह्मन् वेदोक्तं कर्मनिर्मितम् । देव्युवाच । त्रिषु लोकेषु त्वं राजा स्वायम्भुवमनोः सुतः ॥ ३६॥ मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु । तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम् ॥ ३७॥ सुव्रतं नाम विख्यातं गुणवन्तं सुपण्डितम् । जातिस्मरं च योगीन्द्रं नारायणकलात्मकम् ॥ ३८॥ शतक्रतुकरं श्रेष्ठं क्षत्रियाणां च वन्दितम् । मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम् ॥ ३९॥ धनिनं गुणिनं शुद्धं विदुषां प्रियमेव च । योगिनां ज्ञानिनां चैव सिद्धिरूपं तपस्विनाम् ॥ ४०॥ यशस्विनं च लोकेषु दातारं सर्वसम्पदाम् । इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ ॥ ४१॥ राजा चकार स्वीकारं पूजार्थं च प्रियव्रतः । जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् ॥ ४२॥ आजगाम सहामात्यः स्वगृहं हृष्टमानसः । आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम् ॥ ४३॥ श्रुत्वा बभूवुः सन्तुष्टा नरा नार्यश्च नारद । मङ्गलं कारयामास सर्वत्र पुत्रहेतुकम् ॥ ४४॥ देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ । राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम् ॥ ४५॥ षष्ट्या देव्याश्च यत्नेन कारयामास सर्वतः । बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम् ॥ ४६॥ तत्पूजां कारयामास चैकविंशतिवासरे । बालानां शुभकार्ये च शुभान्नप्राशने तथा ॥ ४७॥ सर्वत्र वर्धयामास स्वयमेव चकार ह । ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय ॥ ४८॥ यच्छ्रुतं धर्मवक्त्रेण कौथुमोक्तं च सुव्रत । शालग्रामे घटे वाथ वटमूलेऽथवा मुने ॥ ४९॥ भित्त्यां पुत्तलिकां कृत्वा पूजयेद्वा विचक्षणः । षष्ठांशां प्रकृतेः शुद्धां प्रतिष्ठाप्य च सुप्रभाम् ॥ ५०॥ सुपुत्रदां च शुभदा दयारूपां जगत्प्रसूम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् ॥ ५१॥ पवित्ररूपां परमां देवसेनां परां भजे । इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ॥ ५२॥ पुनर्ध्यात्वा च मूलेन पूजयेत्सुव्रतां सतीम् । पाद्यार्घ्याचमनीयैश्च गन्धपुष्पप्रदीपकैः ॥ ५३॥ नैवेद्यैर्विविधैश्चापि फलेन शोभनेन च । ॐ ह्रीं षष्ठीदेव्यै स्वाहेति विधिपूर्वकम् ॥ ५४॥ अष्टाक्षरं महामन्त्रं यथाशक्ति जपेन्नरः । ततः स्तुत्वा च प्रणमेद्भक्तियुक्तः समाहितः ॥ ५५॥ स्तोत्रं च सामवेदोक्तं वरं पुत्रफलप्रदम् । अष्टाक्षरं महामन्त्रं लक्षधा यो जपेत्ततः ॥ ५६॥ सुपुत्रं स लभेन्नूनमित्याह कमलोद्भवः । स्तोत्रं श‍ृणु मुनिश्रेष्ठ सर्वकामशुभावहम् ॥ ५७॥ वाञ्छाप्रदं च सर्वेषां गूढं वेदेषु नारद । नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै नमो नमः ॥ ५८॥ शुभायै देवसेनायै षष्ठ्यै देव्यै नमो नमः । वरदायै पुत्रदायै धनदायै नमो नमः ॥ ५९॥ सुखदायै मोक्षदायै षष्ठ्यै देव्यै नमो नमः । सृष्ट्यै षष्ठांशरूपायै सिद्धायै च नमो नमः ॥ ६०॥ मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः । सारायै शारदायै च परादेव्यै नमो नमः ॥ ६१॥ बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः । कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् ॥ ६२॥ प्रत्यक्षायै स्वभक्तानां षष्ठ्यै देव्यै नमो नमः । पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु ॥ ६३॥ देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः । शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा ॥ ६४॥ हिंसाक्रोधवर्जितायै षष्ठीदेव्यै नमो नमः । धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि ॥ ६५॥ मानं देहि जयं देहि द्विषो जहि महेश्वरि । धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥ ६६॥ देहि भूमिं प्रजां देहि विद्यां देहि सुपूजिते । कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥ ६७॥ इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः । यशस्विनं च राजेन्द्रः षष्ठीदेव्याः प्रसादतः ॥ ६८॥ षष्ठीस्तोत्रमिदं ब्रह्मन् यः श‍ृणोति तु वत्सरम् । अपुत्रो लभते पुत्रं वरं सुचिरजीविनम् ॥ ६९॥ वर्षमेकं च यो भक्त्या सम्पूज्येदं श‍ृणोति च । सर्वपापाद्विनिर्मुक्तो महावन्ध्या प्रसूयते ॥ ७०॥ वीरं पुत्रं च गुणिनं विद्यावन्तं यशस्विनम् । सुचिरायुष्यवन्तं च सूते देवीप्रसादतः ॥ ७१॥ काकवन्ध्या च या नारी मृतवत्सा च या भवेत् । वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥ ७२॥ रोगयुक्ते च बाले च पिता माता श‍ृणोति चेत् । मासेन मुच्यते बालः षष्ठीदेवीप्रसादतः ॥ ७३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे षष्ठ्युपाख्यानवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥ ९.४६॥

९.४७ सप्तचत्वारिंशोऽध्यायः । मङ्गलचण्डीमनसयोरुपाख्यानवर्णनम् ।

श्रीनारायण उवाच । कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्र यथाऽऽगमम् । देवी मङ्गलचण्डी च तदाख्यानं निशामय ॥ १॥ तस्याः पूजादिकं सर्वं धर्मवक्त्रेण यच्छ्रुतम् । श्रुतिसम्मतमेवेष्टं सर्वेषां विदुषामपि ॥ २॥ दक्षा या वर्तते चण्डी कल्याणेषु च मङ्गला । मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥ ३॥ पूज्या या वर्तते चण्डी मङ्गलोऽपि महीसुतः । मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥ ४॥ मङ्गलो मनुवंश्यश्च सप्तद्वीपधरापतिः । तस्य पूज्याभीष्टदेवी तेन मङ्गलचण्डिका ॥ ५॥ मूर्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी । कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥ ६॥ प्रथमे पूजिता सा च शङ्करेण परात्परा । त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥ ७॥ ब्रह्मन् ब्रह्मोपदेशेन दुर्गतेन च सङ्कटे । आकाशात्पतिते याने दैत्येन पातिते रुषा ॥ ८॥ ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः । सा च मङ्गलचण्डी या बभूव रूपभेदतः ॥ ९॥ उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो । भगवान्वृषरूपश्च सर्वेशस्ते भविष्यति ॥ १०॥ युद्धशक्तिस्वरूपाहं भविष्यामि न संशयः । मायात्मना च हरिणा सहायेन वृषध्वज ॥ ११॥ जहि दैत्यं स्वशत्रुं च सुराणां पदघातकम् । इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥ १२॥ विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः । मुनीन्द्र पतिते दैत्ये सर्वे देवा महर्षयः ॥ १३॥ तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः । सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव ह ॥ १४॥ ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् । ब्रह्मविष्णूपदिष्टश्च सुस्नातः शङ्करस्तथा ॥ १५॥ पूजयामास तां भक्त्या देवीं मङ्गलचण्डिकाम् । पाद्यार्घ्याचमनीयैश्च वस्त्रैश्च विविधैरपि ॥ १६॥ पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने । छागैर्मेषैश्च महिषैर्गवयैः पक्षिभिस्तथा ॥ १७॥ वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि । मधुभिश्च सुधाभिश्च फलैर्नानाविधैरपि ॥ १८॥ सङ्गीतैर्नर्तकैर्वाद्यैरुत्सवैर्नामकीर्तनैः । ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्वकम् ॥ १९॥ ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद । ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ॥ २०॥ हूँ हूँ फट् स्वाहाप्येकविंशाक्षरो मनुः । पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ॥ २१॥ दशलक्षजपेनैव मन्त्रसिद्धिर्भवेद् ध्रुवम् । ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्वसम्मतम् ॥ २२॥ देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ २३॥ श्वेतचम्पकवर्णाभां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ २४॥ संसारसागरे घोरे ज्योतीरूपां सदा भजे । देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ॥ २५॥ महादेव उवाच । रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके । हारिके विपदां राशेर्हर्षमङ्गलकारिके ॥ २६॥ हर्षमङ्गलदक्षे च हर्षमङ्गलदायिके । शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ॥ २७॥ मङ्गले मङ्गलार्हे च सर्वमङ्गलमङ्गले । सतां मङ्गदे देवि सर्वेषां मङ्गलालये ॥ २८॥ पूज्ये मङ्गलवारे च मङ्गलाभीष्टदेवते । पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥ २९॥ मङ्गलाधिष्ठातृदेवि मङ्गलानां च मङ्गले । संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ॥ ३०॥ सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् । प्रतिमङ्गलवारे च पूज्ये मङ्गसुखप्रदे ॥ ३१॥ स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् । प्रतिमङ्गलवारे च पूजां दत्त्वा गतः शिवः ॥ ३२॥ प्रथमे पूजिता देवी शिवेन सर्वमङ्गला । द्वितीये पूजिता सा च मङ्गलेन ग्रहेण च ॥ ३३॥ तृतीते पूजिता भद्रा मङ्गलेन नृपेण च । चतुर्थे मङ्गले वारे सुन्दरीभिः प्रपूजिता ॥ ३४॥ पञ्चमे मङ्गलाकाङ्क्षिनरैर्मङ्गलचण्डिका । पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥ ३५॥ ततः सर्वत्र सम्पूज्या बभूव परमेश्वरी । देवैश्च मुनिभिश्चैव मानवैर्मनुभिर्मुने ॥ ३६॥ देव्याश्च मङ्गस्तोत्रं यः श‍ृणोति समाहितः । तन्मङ्गलं भवेत्तस्य न भवेत्तदमङ्गलम् । वर्धते पुत्रपौत्रैश्च मङ्गलं च दिने दिने ॥ ३७॥ श्रीनारायण उवाच । उक्तं द्वयोरुपाख्यानं ब्रह्मपुत्र यथागमम् । श्रूयतां मनसाऽऽख्यानं यच्छ्रुतं धर्मवक्त्रतः ॥ ३८॥ सा च कन्या भगवती कश्यपस्य च मानसी । तेनैव मनसा देवी मनसा या च दीव्यति ॥ ३९॥ मनसा ध्यायते या च परमात्मानमीश्वरम् । तेन सा मनसा देवी तेन योगेन दीव्यति ॥ ४०॥ आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ ४१॥ जरत्कारुशरीरं च दृष्ट्वा यत्क्षीणमीश्वरः । गोपीपतिर्नाम चक्रे जरत्कारुरिति प्रभुः ॥ ४२॥ वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः । पूजां च कारयामास चकार च स्वयं प्रभुः ॥ ४३॥ स्वर्गे च नागलोके च पृथिव्यां ब्रह्मलोकतः । भृशं जगत्सु गौरी सा सुन्दरी च मनोहरा । ४४ जगद्गौरीति विख्याता तेन सा पूजिता सती । शिवशिष्या च सा देवी तेन शैवी प्रकीर्तिता ॥ ४५॥ विष्णुभक्तातीव शश्वद्वैष्णवी तेन कीर्तिता । नागानां प्राणरक्षित्री यज्ञे पारीक्षितस्य च ॥ ४६॥ नागेश्वरीति विख्याता सा नागभगिनीति च । विषं संहर्तुमीशा या तेन विषहरी स्मृता ॥ ४७॥ सिद्धयोगं हरात्प्राप तेन सा सिद्धयोगिनी । महाज्ञानं च योगं च मृतसज्जीवनीं पराम् ॥ ४८॥ महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः । आस्तीकस्य मुनीन्द्रस्य माता सापि तपस्विनी ॥ ४९॥ आस्तीकमाता विज्ञाता जगत्यां सुप्रतिष्ठिता । प्रिया मुनेर्जरत्कारोर्मुनीन्द्रस्य महात्मनः ॥ ५०॥ योगिनो विश्वपूज्यस्य जरत्कारुप्रिया ततः । जरत्कारुर्जगद्गौरी मनसा सिद्धयोगिनी ॥ ५१॥ वैष्णवी नागभगिनी शैवी नागेश्वरी तथा । जरत्कारुप्रियास्तीकमाता विषहरेति च ॥ ५२॥ महाज्ञानयुता चैव सा देवी विश्वपूजिता । द्वादशैतानि नामानि पूजाकाले तु यः पठेत् ॥ ५३॥ तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । नागभीते च शयने नागग्रस्ते च मन्दिरे ॥ ५४॥ नागशोभे महादुर्गे नागवेष्टितविग्रहे । इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः ॥ ५५॥ नित्यं पठेद्यस्तं दृष्ट्वा नागवर्गः पलायते । दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ५६॥ स्तोत्रसिद्धिर्भवेद्यस्य स विषं भोक्तुमीश्वरः । नागैश्च भूषणं कृत्वा स भवेन्नागवाहनः ॥ ५७॥ नागासनो नागतल्पो महासिद्धो भवेन्नरः । अन्ते च विष्णुना सार्धं क्रीडत्येव दिवानिशम् ॥ ५८॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे मङ्गलचण्डीमनसयोरुपाख्यानवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ९.४७॥

९.४८ अष्टचत्वारिंशोऽध्यायः । मनसोपाख्यानवर्णनम् ।

श्रीनारायण उवाच । मत्तः पूजाविधानं च श्रूयतां मुनिपुङ्गव । ध्यानं च सामवेदोक्तं प्रोक्तं देवीविधानकम् ॥ १॥ श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ २॥ महाज्ञानयुतां तां च प्रवरज्ञानिनां वराम् । सिद्धाधिष्ठातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ ३॥ इति ध्यात्वा च तां देवीं मूलेनैव प्रपूजयेत् । नैवेद्यैर्विविधैर्धूपैः पुष्पगन्धानुलेपनैः ॥ ४॥ मूलमन्त्रैश्च वेदोक्तैर्भक्तानां वाच्छितप्रदः । मुने कल्पतरुर्नाम सुसिद्धो द्वादशाक्षरः ॥ ५॥ ॐ ह्रीं श्रीं क्लीं ऐं मनसादेव्यै स्वाहेति कीर्तितः । पञ्चलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ॥ ६॥ मन्त्रसिद्धिर्भवेद्यस्य स सिद्धो जगतीतले । सुधासमं विषं तस्य धन्वन्तरिसमो भवेत् ॥ ७॥ ब्रह्मन्स्नात्वा तु सङ्क्रान्त्यां गूढशालासु यत्नतः । आवाह्य देवीमीशानां पूजयेद्योऽतिभक्तितः ॥ ८॥ पञ्चम्यां मनसा ध्यायन् देव्यै दद्याच्च यो बलिम् । धनवान्पुत्रवांश्चैव कीर्तिमान्स भवेद् ध्रुवम् ॥ ९॥ पूजाविधानं कथितं तदाख्यानं निशामय । कथयामि महाभाग यच्छ्रुतं धर्मवक्त्रतः ॥ १०॥ पुरा नागभयाक्रान्ता बभूवुर्मानवा भुवि । गतास्ते शरणं सर्वे कश्यपं मुनिपुङ्गवम् ॥ ११॥ मन्त्रांश्च ससृजे भीतः कश्यपो ब्रह्मणान्वितः । वेदबीजानुसारेण चोपदेशेन ब्रह्मणः ॥ १२॥ मन्त्राधिष्ठातृदेवीं तां मनसा ससृजे तथा । तपसा मनसा तेन बभूव मनसा च सा ॥ १३॥ कुमारी सा च सम्भूता जगाम शङ्करालयम् । भक्त्या सम्पूज्य कैलासे तुष्टाव चन्द्रशेखरम् ॥ १४॥ दिव्यवर्षसहस्रं तं सिषेवे च मुनेः सुता । आशुतोषो महेशश्च तां च तुष्टो बभूव ह ॥ १५॥ महाज्ञानं ददौ तस्यै पाठयामास साम च । कृष्णमन्त्रं कल्पतरुं ददावष्टाक्षरं मुने ॥ १६॥ लक्ष्मीमायाकामबीजं ङेऽन्तं कृष्णपदं ततः । त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम् ॥ १७॥ पुरश्चर्याक्रमं चापि वेदोक्तं सर्वसम्मतम् । प्राप्य मृत्युञ्जयान्मन्त्रं सा सती च मुनेः सुता ॥ १८॥ जगाम तपसे साध्वी पुष्करं शङ्कराज्ञया । त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः ॥ १९॥ सिद्धा बभूव सा देवी ददर्श पुरतः प्रभुम् । दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः ॥ २०॥ पूजां च कारयामास चकार च स्वयं हरिः । वरं च प्रददौ तस्यै पूजिता त्वं भवे भव ॥ २१॥ वरं दत्त्वा तु कल्याण्यै ततश्चान्तर्दधे हरिः । प्रथमे पूजिता सा च कृष्णेन परमात्मना ॥ २२॥ द्वितीये शङ्करेणैव कश्यपेन सुरेण च । मुनिना मनुना चैव नागेन मानवादिभिः ॥ २३॥ बभूव पूजिता सा च त्रिषु लोकेषु सुव्रता । जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा ॥ २४॥ अयाचितो मुनिश्रेष्ठो जग्राह ब्राह्मणाज्ञया । कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम् ॥ २५॥ सुष्वाप देव्या जघने वटमूले च पुष्करे । निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम् ॥ २६॥ जगामास्तं दिनकरः सायङ्काल उपस्थिते । सञ्चिन्त्य मनसा साध्वी मनसा सा पतिव्रता ॥ २७॥ धर्मलोपभयेनैव चकारालोचनं सती । अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम् ॥ २८॥ ब्रह्महत्यादिकं पापं लभिष्यति पतिर्मम । नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् ॥ २९॥ स सर्वत्राशुचिर्नित्यं ब्रह्महत्यादिकं लभेत् । वेदोक्तमिति सञ्चिन्त्य बोधयामास सुन्दरी ॥ ३०॥ स च बुद्धो मुनिश्रेष्ठस्तां चुकोप भृशं मुने । मुनिरुवाच । कथं मे सुखिनः साध्वि निद्राभङ्गः कृतस्त्वया ॥ ३१॥ व्यर्थं व्रतादिकं तस्या या भर्तुश्चापकारिणी । तपश्चानशनं चैव व्रतं दानादिकं च यत् ॥ ३२॥ भर्तुरप्रियकारिण्याः सर्वं भवति निष्कलम् । यया प्रियः पूजितश्च श्रीकृष्णः पूजितस्तया ॥ ३३॥ पतिव्रताव्रतार्थञ्च पतिरूपो हरिः स्वयम् । सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम् ॥ ३४॥ सर्वं व्रतं तपः सर्वमुपवासादिकं च यत् । सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम् ॥ ३५॥ तत्सर्वं स्वामिसेवायाः कलां नार्हति षोडशीम् । पुण्ये च भारते वर्षे पतिसेवा करोति या ॥ ३६॥ वैकुण्ठे स्वामिना सार्धं सा याति ब्रह्मणः पदम् । विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम् ॥ ३७॥ असत्कुले प्रसूता हि तत्फलं श्रूयतां सति । कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ ॥ ३८॥ ततो भवति चाण्डाली पतिपुत्रविवर्जिता । इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः ॥ ३९॥ चकम्पे तेन सा साध्वी भयेनोवाच तं पतिम् । साध्व्युवाच । सन्ध्यालोपभयेनैव निद्राभङ्गः कृतस्तव ॥ ४०॥ कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत । श‍ृङ्गाराहारनिद्राणां यश्च भङ्गं करोति वै ॥ ४१॥ स व्रजेत्कालसूत्रं वै यावच्चन्द्रदिवाकरौ । इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे ॥ ४२॥ पपात भक्त्या भीता च रुरोद च पुनः पुनः । कुपितं च मुनिं दृष्ट्वा श्रीसूर्यं शप्तुमुद्यतम् ॥ ४३॥ तत्राजगाम भगवान्सन्ध्यया सह नारद । तत्रागत्य मुनिं सम्यगुवाच भास्करः स्वयम् ॥ ४४॥ विनयेन च भीतश्च तया सह यथोचितम् । भास्कर उवाच । सूर्यास्तसमयं दृष्ट्वा साध्वी धर्मभयेन च ॥ ४५॥ बोधयामास त्वां विप्र शरणं त्वामहं गतः । क्षमस्व भगवन्ब्रह्मन् मां शप्तुं नोचितं मुने ॥ ४६॥ ब्राह्मणानां च हृदयं नवनीतसमं सदा । तेषां क्षणार्धं क्रोधश्च ततो भस्म भवेज्जगत् ॥ ४७॥ पुनः स्रष्टुं द्विजः शक्तो न तेजस्वी द्विजात्परः । ब्राह्मणो ब्रह्मणो वंशः प्रज्वलन्ब्रह्मतेजसा ॥ ४८॥ श्रीकृष्णं भावयेन्नित्यं ब्रह्मज्योतिः सनातनम् । सूर्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह ॥ ४९॥ सूर्यो जगाम स्वस्थानं गृहीत्वा ब्राह्मणाशिषम् । तत्याज मनसां विप्रः प्रतिज्ञापालनाय च ॥ ५०॥ रुदतीं शोकसंयुक्तां हृदयेन विदूयता । सा सस्मार गुरुं शम्भुमिष्टदेवं विधिं हरिम् ॥ ५१॥ कश्यपं जन्मदातारं विपत्तौ भयकर्शिता । तत्राजगाम गोपीशो भगवाच्छम्भुरेव च ॥ ५२॥ विधिश्च कश्यपश्चैव मनसा परिचिन्तितः । दृष्ट्वा विप्रोऽभीष्टदेवं निर्गुणं प्रकृतेः परम् ॥ ५३॥ तुष्टाव परया भक्त्या प्रणनाम मुहुर्मुहुः । नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा ॥ ५४॥ कथमागमनं देवा इति प्रश्नं चकार सः । ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम् ॥ ५५॥ प्रत्युवाच नमस्कृत्य हृषीकेशपदाम्बुजम् । यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती ॥ ५६॥ कुरुष्वास्यां सुतोत्पत्तिं स्वधर्मपालनाय वै । जायायां च सुतोत्पत्तिं कृत्वा पश्चात्त्यजेन्मुने ॥ ५७॥ अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम् । स्रवते तस्य पुण्यं च चालन्यां च यथा जलम् ॥ ५८॥ ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः । चकार नाभिसंस्पर्शं योगेन मन्त्रपूर्वकम् ॥ ५९॥ मनसाया मुनिश्रेष्ठ मुनिश्रेष्ठ उवाच ताम् । जरत्कारुरुवाच । गर्भेणानेन मनसे तव पुत्रो भविष्यति ॥ ६०॥ जितेन्द्रियाणां प्रवरो धार्मिको ब्राह्मणाग्रणीः । तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः ॥ ६१॥ वरो वेदविदां चैव ज्ञानिनां योगिनां तथा । स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत् ॥ ६२॥ नृत्यन्ति पितरः सर्वे जन्ममात्रेण वै मुदा । पतिव्रता सुशीला या सा प्रिया प्रियवादिनी ॥ ६३॥ धर्मिष्ठा पुत्रमाता च कुलस्त्री कुलपालिका । हरिभक्तिप्रदो बन्धुर्न चाभीष्टसुखप्रदः ॥ ६४॥ यो बन्धुश्चेत्स च पिता हरिवर्त्मप्रदर्शकः । सा गर्भधारिणी या च गर्भावासविमोचनी ॥ ६५॥ दयारूपा च भगिनी यमभीतिविमोचनी । विष्णुमन्त्रप्रदाता च स गुरुर्विष्णुभक्तिदः ॥ ६६॥ गुरुश्च ज्ञानदो यो हि यज्ज्ञानं कृष्णभावनम् । आब्रह्मस्तम्बपर्यन्तं ततो विश्वं चराचरम् ॥ ६७॥ आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः । वेदजं यज्ञजं यद्यत्तत्सारं हरिसेवनम् ॥ ६८॥ तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम् । दत्तं ज्ञानं मया तुभ्यं स स्वामी ज्ञानदो हि यः ॥ ६९॥ ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः । विष्णुभक्तियुतं ज्ञानं नो ददाति च यो गुरुः ॥ ७०॥ स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत् । जननीं गर्भजक्लेशाद्यमयातनया तथा ॥ ७१॥ न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः । परमानन्दरूपं च कृष्णमार्गमनश्वरम् ॥ ७२॥ न दर्शयेद्यः सततं कीदृशो बान्धवो नृणाम् । भज साध्वि परं ब्रह्माच्युतं कृष्णं च निर्गुणम् ॥ ७३॥ निर्मूलं च भवेत्पुंसां कर्म वै तस्य सेवया । मया छलेन त्वं त्यक्ता क्षमस्वैतन्मम प्रिये ॥ ७४॥ क्षमायुतानां साध्वीनां सत्त्वात्क्रोधो न विद्यते । पुष्करे तपसे यामि गच्छ देवि यथासुखम् ॥ ७५॥ श्रीकृष्णचरणाम्भोजे निःस्पृहाणां मनोरथाः । जरत्कारुवचः श्रुत्वा मनसा शोककातरा ॥ ७६॥ साश्रुनेत्रा च विनयादुवाच प्राणवल्लभम् । मनसोवाच । दोषो नास्त्येव मे त्यक्तुं निद्राभङ्गेन ते प्रभो ॥ ७७॥ यत्र स्मरामि त्वां नित्यं तत्र मामागमिष्यसि । बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परम् ॥ ७८॥ प्राणेशभेदः प्राणानां विच्छेदात्सर्वतः परः । पतिः पतिव्रतानां तु शतपुत्राधिकं प्रियः ॥ ७९॥ सर्वस्मात्तु प्रियः स्त्रीणां प्रियस्तेनोच्यते बुधैः । पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ ॥ ८०॥ नेत्रे यथैकनेत्राणां तृषितानां यथा जले । क्षुधितानां यथान्ने च कामुकानां च मैथुने ॥ ८१॥ यथा परस्वे चौराणां यथा जारे कुयोषिताम् । विदुषां च यथा शास्त्रे वाणिज्ये वणिजां यथा ॥ ८२॥ तथा शश्वन्मनः कान्ते साध्वीनां योषितां प्रभो । इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे ॥ ८३॥ क्षणं चकार क्रोडे तां कृपया च कृपानिधिः । नेत्रोदकेन मनसां स्नापयामास तां मुनिः ॥ ८४॥ साश्रु नेत्रा मुनेः क्रोडं सिषेच भेदकातरा । तदा ज्ञानेन तौ द्वौ च विशोकौ सम्बभूवतुः ॥ ८५॥ स्मारं स्मारं पदाम्भोजं कृष्णस्य परमात्मनः । जगाम तपसे विप्रः स्वकान्तां सम्प्रबोध्य च ॥ ८६॥ जगाम मनसा शम्भोः कैलासं मन्दिरं गुरोः । पार्वती बोधयामास मनसां शोककर्शिताम् ॥ ८७॥ शिवश्चातीव ज्ञानेन शिवेन च शिवालयः । सुप्रशस्ते दिने साध्वी सुषुवे मङ्गलक्षणे ॥ ८८॥ नारायणांशं पुत्रं तं योगिनां ज्ञानिनां गुरुम् । गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः ॥ ८९॥ सम्बभूव च योगीन्द्रो योगिनां ज्ञानिनां गुरुः । जातकं कारयामास वाचयामास मङ्गलम् ॥ ९०॥ वेदांश्च पाठयामास शिवाय च शिवः शिशोः । मणिरत्नकिरीटांश्च ब्राह्मणेभ्यो ददौ शिवः ॥ ९१॥ पार्वती च गवां लक्षं रत्नानि विविधानि च । शम्भुश्च चतुरो वेदान्वेदाङ्गानितरांस्तथा ॥ ९२॥ बालकं पाठयामास ज्ञानं मृत्युञ्जयं परम् । भक्तिरस्त्यधिका कान्तेऽभीष्टदेवे गुरौ तथा ॥ ९३॥ यस्यास्तेन च तत्पुत्रो बभूवास्तीक एव च । जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया ॥ ९४॥ सम्प्राप्य च महामन्त्रं ततश्च परमात्मनः । दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः ॥ ९५॥ आजगाम महायोगी नमस्कर्तुं शिवं प्रभुम् । शङ्करं च नमस्कृत्य स्थित्वा तत्रैव बालकः ॥ ९६॥ सा चाजगाम मनसा कश्यपस्याश्रमं पितुः । तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः ॥ ९७॥ शतलक्षं च रत्नानां बाह्मणेभ्यो ददौ मुने । ब्राह्मणान्भोजयामास सोऽसङ्ख्यान् श्रेयसे शिशोः ॥ ९८॥ अदितिश्च दितिश्चान्या मुदं प्राप परन्तप । सा सपुत्रा च सुचिरं तस्थौ तातालये सदा ॥ ९९॥ तदीयं पुनराख्यानं वक्ष्यामि तन्निशामय । अथाभिमन्युतनये ब्रह्मशापः परीक्षिते ॥ १००॥ बभूव सहसा ब्रह्मन् दैवदोषेण कर्मणा । सप्ताहे समतीते तु तक्षकस्त्वां च धक्ष्यति ॥ १०१॥ शशाप श‍ृङ्गी तत्रैव कौशिक्याश्च जलेन वै । राजा श्रुत्वा तत्प्रवृत्तिं निर्वातस्थानमागतः ॥ १०२॥ तत्र तस्थौ च सप्ताहं देहरक्षणतत्परः । सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि ॥ १०३॥ धन्वन्तरिर्नृपं भोक्तुं ददर्श गामुकः पथि । तयोर्बभूव संवादः सुप्रीतिश्च परस्परम् ॥ १०४॥ धन्वन्तरिर्मणिं प्राप तक्षकः स्वेच्छया ददौ । स ययौ तं गृहीत्वा तु सन्तुष्टो हृष्टमानसः ॥ १०५॥ तक्षको भक्षयामास नृपं तं मञ्चके स्थितम् । राजा जगाम तरसा देहं त्यक्त्वा परत्र च ॥ १०६॥ संस्कारं कारयामास पितुर्वै जनमेजयः । राजा चकार यज्ञं च सर्पसत्रं ततो मुने ॥ १०७॥ प्राणांस्तत्याज सर्पाणां समूहो ब्रह्मतेजसा । स तक्षको वै भीतस्तु महेन्द्रं शरणं ययौ ॥ १०८॥ सेन्द्रं च तक्षकं हन्तुं विप्रवर्गः समुद्यतः । अथ देवाश्च सेन्द्राश्च सञ्जग्मुर्मनसान्तिकम् ॥ १०९॥ तां तुष्टाव महेन्द्रश्च भयकातरविह्वलः । तत आस्तीक आगत्य यज्ञं च मातुराज्ञया ॥ ११०॥ महेन्द्रतक्षकप्राणान्ययाचे भूमिपं परम् । ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया ॥ १११॥ यज्ञं समाप्य विप्रेभ्यो दक्षिणां च ददौ मुदा । विप्राश्च मुनयो देवा गत्वा च मनसान्तिकम् ॥ ११२॥ मनसां पूजयामासुस्तुष्टुवुश्च पृथक् पृथक् । शक्रः सम्भृतसम्भारो भक्तियुक्तः सदा शुचिः ॥ ११३॥ मनसां पूजयामास तुष्टाव परमादरात् । नत्वा षोडशोपचारं बलिं च तत्प्रियं तदा ॥ ११४॥ प्रददौ परितुष्टश्च ब्रह्मविष्णुशिवाज्ञया । सम्पूज्य मनसां देवीं प्रययुः स्वालयं च ते ॥ ११५॥ इत्येवं कथितं सर्वं किं भूयः श्रोतुमिच्छसि । नारद उवाच । केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ ११६॥ पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः । श्रीनारायण उवाच । सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ ११७॥ रत्नसिंहासने देवीं वासयामास भक्तितः । स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च ॥ ११८॥ स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः । वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ ११९॥ सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ १२०॥ सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् । ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ १२१॥ दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् । दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ १२२॥ पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा । वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ १२३॥ बभूव पुष्पवृष्टिश्च नभसो मनसोपरि । देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ १२४॥ तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः । पुरन्दर उवाच । देवि त्वां स्तोतुमिच्छामि साध्वीनां प्रवरां वराम् ॥ १२५॥ परात्परां च परमां न हि स्तोतुं क्षमोऽधुना । स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतत्परम् ॥ १२६॥ न क्षमः प्रकृते वक्तुं गुणानां गणनां तव । शुद्धसत्त्वस्वरूपा त्वं कोपहिंसादिवर्जिता ॥ १२७॥ न च शक्तो मुनिस्तेन त्यक्तुं याञ्चा कृता यतः । त्वं मया पूजिता साध्वी जननी मे यथादितिः ॥ १२८॥ दयारूपा च भगिनी क्षमारूपा यथा प्रसूः । त्वया मे रक्षिताः प्राणाः पुत्रदाराः सुरेश्वरि ॥ १२९॥ अहं करोमि त्वत्पूजां प्रीतिश्च वर्धतां सदा । नित्या यद्यपि पूज्या त्वं सर्वत्र जगदम्बिके ॥ १३०॥ तथापि तव पूजां च वर्धयामि सुरेश्वरि । ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ॥ १३१॥ पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने । पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि वै ॥ १३२॥ यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः । ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ॥ १३३॥ लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा । त्वं स्वयं सर्वलक्ष्मीश्च वैकुण्ठे कमलालया ॥ १३४॥ नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः । तपसा तेजसा त्वां च मनसा ससृजे पिता ॥ १३५॥ अस्माकं रक्षणायैव तेन त्वं मनसाभिधा । मनसादेवि शक्त्या त्वं स्वात्मना सिद्धयोगिनी ॥ १३६॥ तेन त्वं मनसादेवी पूजिता वन्दिता भव । ये भक्त्या मनसां देवाः पूजयन्त्यनिशं भृशम् ॥ १३७॥ तेन त्वां मनसां देवीं प्रवदन्ति मनीषिणः । सत्यस्वरूपा देवि त्वं शश्वत्सत्यनिषेवणात् ॥ १३८॥ यो हि त्वां भावयेन्नित्यं स त्वां प्राप्नोति तत्परः । इन्द्रश्च मनसां स्तुत्वा गृहीत्वा भगिनीवरम् ॥ १३९॥ प्रजगाम स्वभवनं भूषया सपरिच्छदम् । पुत्रेण सार्धं सा देवी चिरं तस्थौ पितुर्गृहे ॥ १४०॥ भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः । गोलोकात्सुरभिर्ब्रह्मन् तत्रागत्य सुपूजिताम् ॥ १४१॥ तां स्नापयित्वा क्षीरेण पूजयामास सादरम् । ज्ञानं च कथयामास गोप्यं सर्वं सुदुर्लभम् ॥ १४२॥ तया देवैः पूजिता सा स्वर्लोकं च पुनर्ययौ । इन्द्रस्तोत्रं पुण्यबीजं मनसां पूजयेत्पठेत् ॥ १४३॥ तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । विषं भवेत्सुधातुल्यं सिद्धस्तोत्रो यदा भवेत् ॥ १४४॥ पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः । सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः ॥ १४५॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे मनसोपाख्यानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ९.४८॥

९.४९ एकोनपञ्चाशत्तमोऽध्यायः । सुरभ्युपाख्यानवर्णनम् ।

नारद उवाच । का वा सा सुरभिर्देवी गोलोकादागता च या । तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि यत्नतः ॥ १॥ श्रीनारायणाय उवाच । गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः । गवां प्रधाना सुरभिर्गोलोके सा समुद्भवा ॥ २॥ सर्वादिसृष्टेश्चरितं कथयामि निशामय । बभूव तेन तज्जन्म पुरा वृन्दावने वने ॥ ३॥ एकदा राधिकानाथो राधया सह कौतुकी । गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ ४॥ सहसा तत्र रहसि विजहार स कौतुकात् । बभूव क्षीरपानेच्छा तस्य स्वेच्छामयस्य च ॥ ५॥ ससृजे सुरभिं देवीं लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम मनोरथः ॥ ६॥ दृष्ट्वा सवत्सां श्रीदामा नवभाण्डे दुदोह च । क्षीरं सुधातिरिक्तं च जन्ममृत्युजराहरम् ॥ ७॥ तदुत्थं च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयसां भाण्डविस्रंसनेन च ॥ ८॥ दीर्घं च विस्तृतं चैव परितः शतयोजनम् । गोलोकेऽयं प्रसिद्धश्च सोऽपि क्षीरसरोवरः ॥ ९॥ गोपिकानां च राधायाः क्रीडावापी बभूव सा । रत्नेन्द्ररचिता पूर्णं भूता चापीश्वरेच्छया ॥ १०॥ बभूव कामधेनूनां सहसा लक्षकोटयः । यावन्तस्तत्र गोपाश्च सुरभ्या लोमकूपतः ॥ ११॥ तासां पुत्राश्च बहवः सम्बभूवुरसङ्ख्यकाः । कथिता च गवां सृष्टिस्तया च पूरितं जगत् ॥ १२॥ पूजां चकार भगवान् सुरभ्याश्च पुरा मुने । ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ॥ १३॥ दीपान्वितापरदिने श्रीकृष्णस्याज्ञया हरेः । बभूव सुरभिः पूज्या धर्मवक्त्रादिदं श्रुतम् ॥ १४॥ ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्यूजाविधिक्रमम् । वेदोक्तं च महाभाग निबोध कथयामि ते ॥ १५॥ ॐ सुरभ्यै नम इति मन्त्रस्तस्याः षडक्षरः । सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ॥ १६॥ ध्यानं यजुर्वेदगीतं तस्याः पूजा च सर्वतः । ऋद्धिदा वृद्धिदा चैव मुक्तिदा सर्वकामदा ॥ १७॥ लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् । गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ॥ १८॥ पवित्ररूपां पूतां च भक्तानां सर्वकामदाम् । यया पूतं सर्वविश्वं तां देवीं सुरभिं भजे ॥ १९॥ घटे वा धेनुशिरसि बन्धस्तम्भे गवामपि । शालग्रामे जलाग्नौ वा सुरभिं पूजयेद् द्विजः ॥ २०॥ दीपान्वितापरदिने पूर्वाह्ने भक्तिसंयुतः । यः पूजयेच्च सुरभिं स च पूज्यो भवेद्भुवि ॥ २१॥ एकदा त्रिषु लोकेषु वाराहे विष्णुमायया । क्षीरं जहार सुरभिश्चिन्तिताश्च सुरादयः ॥ २२॥ ते गत्वा ब्रह्मलोके च ब्रह्माणं तुष्टुवुस्तदा । तदाज्ञया च सुरभिं तुष्टाव पाकशासनः ॥ २३॥ पुरन्दर उवाच । नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ २४॥ नमो राधाप्रियायै च पद्मांशायै नमो नमः । नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ २५॥ कल्पवृक्षस्वरूपायै सर्वेषां सततं परे । क्षीरदायै धनदायै बुद्धिदायै नमो नमः ॥ २६॥ शुभायै च सुभद्रायै गोप्रदायै नमो नमः । यशोदायै कीर्तिदायै धर्मदायै नमो नमः ॥ २७॥ स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ २८॥ महेन्द्राय वरं दत्त्वा वाञ्छितं चापि दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ २९॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धं घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ३०॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिमान्पुत्रवांस्तथा ॥ ३१॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरे ॥ ३२॥ सुचिरं निवसेत्तत्र करोति कृष्णसेवनम् । न पुनर्भवनं तत्र ब्रह्मपुत्रो भवेत्ततः ॥ ३३॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सुरभ्युपाख्यानवर्णनं नामेकोनपञ्चाशत्तमोऽध्यायः ॥ ९.४९॥

९.५० पञ्चाशत्तमोऽध्यायः । देव्या आवरणपूजाविधिवर्णनम् ।

नारद उवाच । श्रुतं सर्वमुपाख्यानं प्रकृतीनां यथातथम् । यच्छ्रुत्वा मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ १॥ अधुना श्रोतुमिच्छामि रहस्यं वेदगोपितम् । राधायाश्चैव दुर्गाया विधानं श्रुतिचोदितम् ॥ २॥ महिमा वर्णितोऽतीव भवता परयोर्द्वयोः । श्रुत्वा तं तद्गतं चेतो न कस्य स्यान्मुनीश्वर ॥ ३॥ ययोरंशो जगत्सर्वं यन्नियम्यं चराचरम् । ययोर्भक्त्या भवेन्मुक्तिस्तद्विधानं वदाधुना ॥ ४॥ श्रीनारायण उवाच । श‍ृणु नारद वक्ष्यामि रहस्यं श्रुतिचोदितम् । यन्न कस्यापि चाख्यातं सारात्सारं परात्परम् ॥ ५॥ श्रुत्वा परस्मै नो वाच्यं यतोऽतीव रहस्यकम् । मूलप्रकृतिरूपिण्याः संविदो जगदुद्भवे ॥ ६॥ प्रादुर्भूतं शक्तियुग्मं प्राणबुद्ध्यधिदैवतम् । जीवानां चैव सर्वेषां नियन्तृप्रेरकं सदा ॥ ७॥ तदधीनं जगत्सर्वं विराडादिचराचरम् । यावत्तयोः प्रसादो न तावन्मोक्षो हि दुर्लभः ॥ ८॥ ततस्तयोः प्रसादार्थं नित्यं सेवेत तद्द्वयम् । तत्रादौ राधिकामन्त्रं श‍ृणु नारद भक्तितः ॥ ९॥ ब्रह्मविष्ण्वादिभिर्नित्यं सेवितो यः परात्परः । श्रीराधेति चतुर्थ्यन्तं वह्नेर्जाया ततः परम् ॥ १०॥ षडक्षरो महामन्त्रो धर्माद्यर्थप्रकाशकः । मायाबीजादिकश्चायं वाञ्छाचिन्तामणिः स्मृतः ॥ ११॥ वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । एतन्मन्त्रस्य माहात्म्यं वर्णितुं नैव शक्यते ॥ १२॥ जग्राह प्रथमं मन्त्रं श्रीकृष्णो भक्तितत्परः । उपदेशान्मूलदेव्या गोलोके रासमण्डले ॥ १३॥ विष्णुस्तेनोपदिष्टस्तु तेन ब्रह्मा विराट् तथा । तेन धर्मस्तेन चाहमित्येषा हि परम्परा ॥ १४॥ अहं जपामि तं मन्त्रं तेनाहमृषिरीडितः । ब्रह्माद्याः सकला देवा नित्यं ध्यायन्ति तां मुदा ॥ १५॥ कृष्णार्चायां नाधिकारो यतो राधार्चनं विना । वैष्णवैः सकलैस्तस्मात्कर्तव्यं राधिकार्चनम् ॥ १६॥ कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः । रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति ॥ १७॥ राध्नोति सकलान्कामांस्तस्माद्राधेति कीर्तिता । अत्रोक्तानां मनूनां च ऋषिरस्म्यहमेव च ॥ १८॥ छन्दश्च देवी गायत्री देवतात्र च राधिका । तारो बीजं शक्तिबीजं शक्तिस्तु परिकीर्तिता ॥ १९॥ मूलावृत्त्या षडङ्गानि कर्तव्यानीतरत्र च । अथ ध्यायेन्महादेवीं राधिकां रासनायिकाम् ॥ २०॥ पूर्वोक्तरीत्या तु मुने सामवेदे विगीतया । श्वेतचम्पकवर्णाभां शरदिन्दुसमाननाम् ॥ २१॥ कोटिचन्द्रप्रतीकाशां शरदम्भोजलोचनाम् । बिम्बाधरां पृथुश्रोणीं काञ्चीयुतनितम्बिनीम् ॥ २२॥ कुन्दपङ्क्तिसमानाभदन्तपङ्क्तिविराजिताम् । क्षौमाम्बरपरीधानां वह्निशुद्धांशुकान्विताम् ॥ २३॥ ईषद्धास्यप्रसन्नास्यां करिकुम्भयुगस्तनीम् । सदा द्वादशवर्षीयां रत्नभूषणभूषिताम् ॥ २४॥ श‍ृङ्गारसिन्धुलहरीं भक्तानुग्रहकातराम् । मल्लिकामालतीमालाकेशपाशविराजिताम् ॥ २५॥ सुकुमाराङ्गलतिकां रासमण्डलमध्यगाम् । वराभयकरां शान्तां शश्वत्सुस्थिरयौवनाम् ॥ २६॥ रत्नसिंहासनासीनां गोपीमण्डलनायिकाम् । कृष्णप्राणाधिकां वेदबोधितां परमेश्वरीम् ॥ २७॥ एवं ध्यात्वा ततो बाह्ये शालग्रामे घटेऽथवा । यन्त्रे वाष्टदले देवीं पूजयेत्तु विधानतः ॥ २८॥ आवाह्य देवीं तत्पश्चादासनादि प्रदीयताम् । मूलमन्त्रं समुच्चार्य चासनादीनि कल्पयेत् ॥ २९॥ पाद्यं तु पादयोर्दद्यान्मस्तकेऽर्घ्यं समीरितम् । मुखे त्वाचमनीयं स्यात्त्रिवारं मूलविद्यया ॥ ३०॥ मधुपर्कं ततो दद्यादेकां गां च पयस्विनीम् । ततो नयेत्स्नानशालां तां च तत्रैव भावयेत् ॥ ३१॥ अभ्यङ्गादिस्नानविधिं कल्पयित्वाथ वाससी । ततश्च चन्दनं दद्यान्नानालङ्कारपूर्वकम् ॥ ३२॥ पुष्पमाला बहुविधास्तुलसीमञ्जरीयुताः । पारिजातप्रसूनानि शतपत्रादिकानि च ॥ ३३॥ ततः कुर्यात्पवित्रं तत्परिवारार्चनं विभोः । अग्नीशासुरवायव्यमध्ये दिक्ष्वङ्गपूजनम् ॥ ३४॥ कृत्वा पश्चादष्टदले दक्षिणावर्ततोऽग्रतः । मालावतीमग्रदले वह्निकोणे च माधवीम् ॥ ३५॥ रत्नमालां दक्षिणे च नैरृत्ये तु सुशीलकाम् । पश्चाद्दले शशिकलां पूजयेन्मतिमान्नरः ॥ ३६॥ मारुते पारिजातां चाप्युत्तरे च परावतीम् । ईशानकोणे सम्पूज्या सुन्दरी प्रियकारिणी ॥ ३७॥ ब्राह्म्यादयस्तु तद्बाह्येऽप्याशापालांस्तु भूपुरे । वज्रादिकान्यायुधानि देवीमित्थं प्रपूजयेत् ॥ ३८॥ ततो देवीं सावरणां गन्धाद्यैरुपचारकैः । राजोपचारसहितैः पूजयेन्मतिमान्नरः ॥ ३९॥ ततः स्तुवीत देवेशीं स्तोत्रैर्नामसहस्रकैः । सहस्रसङ्ख्यं च जपं नित्यं कुर्यात्प्रयत्नतः ॥ ४०॥ य एवं पूजयेद्देवीं राधां रासेश्वरीं पराम् । स भवेद्विष्णुतुल्यस्तु गोलोकं याति सन्ततम् ॥ ४१॥ यः कार्तिक्यां पौर्णमास्यां राधाजन्मोत्सव बुधः । कुरुते तस्य सान्निध्यं दद्याद्रासेश्वरी परा ॥ ४२॥ केनचित्कारणेनैव राधा वृन्दावने वने । वृषभानुसुता जाता गोलोकस्थायिनी सदा ॥ ४३॥ अत्रोक्तानां तु मन्त्राणां वर्णसङ्ख्याविधानतः । पुरश्चरणकर्मोक्तं दशांशं होममाचरेत् ॥ ४४॥ तिलैस्त्रिस्वादुसंयुक्तैर्जुहुयाद्भक्तिभावतः । नारद उवाच । स्तोत्रं वद मुने सम्यग्येन देवी प्रसीदति ॥ ४५॥ श्रीनारायण उवाच । नमस्ते परमेशानि रासमण्डलवासिनि । रासेश्वरि नमस्तेऽस्तु कृष्णप्राणाधिकप्रिये ॥ ४६॥ नमस्त्रैलोक्यजननि प्रसीद करुणार्णवे । ब्रह्मविष्ण्वादिभिर्देवैर्वन्द्यमानपदाम्बुजे ॥ ४७॥ नमः सरस्वतीरूपे नमः सावित्रि शङ्करि । गङ्गापद्मावतीरूपे षष्ठि मङ्गलचण्डिके ॥ ४८॥ नमस्ते तुलसीरूपे नमो लक्ष्मीस्वरूपिणि । नमो दुर्गे भगवति नमस्ते सर्वरूपिणि ॥ ४९॥ मूलप्रकृतिरूपां त्वां भजामः करुणार्णवाम् । संसारसागरादस्मानुद्धराम्ब दयां कुरु ॥ ५०॥ इदं स्तोत्रं त्रिसन्ध्यं यः पठेद्राधां स्मरन्नरः । न तस्य दुर्लभं किञ्चित्कदाचिच्च भविष्यति ॥ ५१॥ देहान्ते च वसेन्नित्यं गोलोके रासमण्डले । इदं रहस्यं परमं न चाख्येयं तु कस्यचित् ॥ ५२॥ अधुना श‍ृणु विप्रेन्द्र दुर्गादेव्या विधानकम् । यस्याः स्मरणमात्रेण पलायन्ते महापदः ॥ ५३॥ एनां न भजते यो हि तादृङ्नास्त्येव कुत्रचित् । सर्वोपास्या सर्वमाता शैवी शक्तिर्महाद्भुता ॥ ५४॥ सर्वबुद्ध्याधिदेवीयमन्तर्यामिस्वरूपिणी । दुर्गसङ्कटहन्त्रीति दुर्गेति प्रथिता भुवि ॥ ५५॥ वैष्णवानां च शैवानामुपास्येयं च नित्यशः । मूलप्रकृतिरूपा सा सृष्टिस्थित्यन्तकारिणी ॥ ५६॥ तस्या नवाक्षरं मन्त्रं वक्ष्ये मन्त्रोत्तमोत्तमम् । वाग्भवं शम्भुवनिता कामबीजं ततः परम् ॥ ५७॥ चामुण्डायै पदं पश्चाद्विच्चे इत्यक्षरद्वयम् । नवाक्षरो मनुः प्रोक्तो भजतां कल्पपादपः ॥ ५८॥ ब्रह्मविष्णुमहेशाना ऋषयोऽस्य प्रकीर्तिताः । छन्दांस्युक्तानि सततं गायत्र्युष्णिगनुष्टुभः ॥ ५९॥ महाकाली महालक्ष्मीः सरस्वत्यपि देवताः । स्याद्रक्तदन्तिकाबीजं दुर्गा च भ्रामरी तथा ॥ ६०॥ नन्दाशाकम्भरीदेव्यौ भीमा च शक्तयः स्मृताः । धर्मार्थकाममोक्षेषु विनियोग उदाहृतः ॥ ६१॥ ऋषिच्छन्दो दैवतानि मौलौ वक्त्रे हृदि न्यसेत् । स्तनयोः शक्तिबीजानि न्यसेत्सर्वार्थसिद्धये ॥ ६२॥ बीजत्रयैश्चतुर्भिश्च द्वाभ्यां सर्वेण चैव हि । षडङ्गानि मनोः कुर्याज्जातियुक्तानि देशिकः ॥ ६३॥ शिखायां लोचनद्वन्द्वे श्रुतिनासाननेषु च । गुदे न्यसेन्मन्त्रवर्णान्सर्वेण व्यापकं चरेत् ॥ ६४॥ खड्गचक्रगदाबाणचापानि परिघं तथा । शूलं भुशुण्डीं च शिरः शङ्खं सन्दधतीं करैः ॥ ६५॥ महाकालीं त्रिनयनां नानाभूषणभूषिताम् । नीलाञ्जनसमप्रख्यां दशपादाननां भजे ॥ ६६॥ मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः । एवं ध्यायेन्महाकालीं कामबीजस्वरूपिणीम् ॥ ६७॥ अक्षमालां च परशुं गदेषुकुलिशानि च । पद्मं धनुष्कुण्डिकां च दण्डं शक्तिमसिं तथा ॥ ६८॥ चर्माम्बुजं तथा घण्टां सुरापात्रं च शूलकम् । पाशं सुदर्शनं चैव दधतीमरुणप्रभाम् ॥ ६९॥ रक्ताम्बुजासनगतां मायाबीजस्वरूपिणीम् । महालक्ष्मीं भजेदेवं महिषासुरमर्दिनीम् ॥ ७०॥ घण्टाशूले हलं शङ्खं मुसलं च सुदर्शनम् । धनुर्बाणान् हस्तपद्मैर्दधानां कुन्दसन्निभाम् ॥ ७१॥ शुम्भादिदैत्यसंहर्त्रीं वाणीबीजस्वरूपिणीम् । महासरस्वतीं ध्यायेत्सच्चिदानन्दविग्रहाम् ॥ ७२॥ यन्त्रमस्याः श‍ृणु प्राज्ञ त्र्यस्रं षट्कोणसंयुतम् । ततोऽष्टदलपद्मं च चतुर्विंशतिपत्रकम् ॥ ७३॥ भूगृहेण समायुक्तं यन्त्रमेवं विचिन्तयेत् । शालग्रामे घटे वापि यन्त्रे वा प्रतिमासु वा ॥ ७४॥ बाणलिङ्गेऽथवा सूर्ये यजेद्देवीमनन्यधीः । जयादिशक्तिसंयुक्ते पीठे देवीं प्रपूजयेत् ॥ ७५॥ पूर्वकोणे सरस्वत्या सहितं पद्मजं यजेत् । श्रिया सह हरिं तत्र नैरृते कोणके यजेत् ॥ ७६॥ पार्वत्या सहितं शम्भुं वायुकोणे समर्चयेत् । देव्या उत्तरतः पूज्यः सिंहो वामे महासुरम् ॥ ७७॥ महिषं पूजयेदन्ते षट्कोणेषु यजेत्क्रमात् । नन्दजां रक्तदन्तां च तथा शाकम्भरीं शिवाम् ॥ ७८॥ दुर्गां भीमां भ्रामरीं च ततो वसुदलेषु च । ब्राह्मीं माहेश्वरीं चैव कौमारीं वैष्णवीं तथा ॥ ७९॥ वाराहीं नारसिंहीं च ऐन्द्रीं चामुण्डकां तथा । पूजयेच्च ततः पश्चात्तत्त्वपत्रेषु पूर्वतः ॥ ८०॥ विष्णुमायां चेतनां च बुद्धिं निद्रां क्षुधां तथा । छायां शक्तिं परां तृष्णां शान्तिं जातिं च लज्जया ॥ ८१॥ क्षान्तिं श्रद्धां कीर्तिलक्ष्म्यौ धृतिं वृत्तिं श्रुतिं स्मृतिम् । दयां तुष्टिं ततः पुष्टिं मातृभ्रान्ती इति क्रमात् ॥ ८२॥ ततो भूपुरकोणेषु गणेशं क्षेत्रपालकम् । वटुकं योगिनीश्चापि पूजयेन्मतिमान्नरः ॥ ८३॥ इन्द्राद्यानपि तद्बाह्ये वज्राद्यायुधसंयुतान् । पूजयेदनया रीत्या देवीं सावरणां ततः ॥ ८४॥ राजोपचारान्विविधान्दद्यादम्बाप्रतुष्टये । ततो जपेन्नवार्णं च मन्त्रं मन्त्रार्थपूर्वकम् ॥ ८५॥ ततः सप्तशतीस्तोत्रं देव्या अग्रे तु सम्पठेत् । नानेन सदृशं स्तोत्रं विद्यते भुवनत्रये ॥ ८६॥ ततश्चानेन देवेशीं तोषयेत् प्रत्यहं नरः । धर्मार्थकाममोक्षाणामालयं जायते नरः ॥ ८७॥ इति ते कथितं विप्र श्रीदुर्गाया विधानकम् । कृतार्थता येन भवेत्तदेतत्कथितं तव ॥ ८८॥ सर्वे देवा हरिब्रह्मप्रमुखा मनवस्तथा । मुनयो ज्ञाननिष्ठाश्च योगिनश्चाश्रमास्तथा ॥ ८९॥ लक्ष्म्यादयस्तथा देव्यः सर्वे ध्यायन्ति तां शिवाम् । तदैव जन्मसाफल्यं दुर्गास्मरणमस्ति चेत् ॥ ९०॥ चतुर्दशापि मनवो ध्यात्वा चरणपङ्कजम् । मनुत्वं प्राप्तवन्तश्च देवाः स्वं स्वं पदं तथा ॥ ९१॥ तदेतत्सर्वमाख्यातं रहस्यातिरहस्यकम् । प्रकृतीनां पञ्चकस्य तदंशानां च वर्णनम् ॥ ९२॥ श्रुत्वैतन्मनुजो नित्यं पुरुषार्थचतुष्टयम् । लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ ९३॥ अपुत्रो लभते पुत्रं विद्यार्थी प्राप्नुयाच्च ताम् । यं यं कामं स्मरेद्वापि तं तं श्रुत्वा समाप्नुयात् ॥ ९४॥ नवरात्रे पठेदेतद्देव्यग्रे तु समाहितः । परितुष्टा जगद्धात्री भवत्येव हि निश्चितम् ॥ ९५॥ नित्यमेकैकमध्यायं पठेद्यः प्रत्यहं नरः । तस्य वश्या भवेद्देवी देवीप्रियकरो हि सः ॥ ९६॥ शकुनांश्च परीक्षेत नित्यमस्मिन्यथाविधि । कुमारीदिव्यहस्तेन यद्वा बटुकराम्बुजात् ॥ ९७॥ मनोरथं तु सङ्कल्प्य पुस्तकं पूजयेत्ततः । देवीं च जगदीशानीं प्रणमेच्च पुनः पुनः ॥ ९८॥ सुस्नातां कन्यकां तत्रानीयाभ्यर्च्य यथाविधि । शलाकां रोपयेन्मध्ये तथा स्वर्णेन निर्मिताम् ॥ ९९॥ शुभं वाप्यशुभं तत्र यदायाति च तद्भवेत् । उदासीनेऽप्युदासीनं कार्यं भवति निश्चितम् ॥ १००॥ इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे देव्या आवरणपूजाविधिवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥ ९.५०॥ ॥ इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धः समाप्तः ॥ Encoded and proofread by Vishwas Bhide
% Text title            : Devi Bhagavata Mahapurana Skandha 09
% File name             : devIbhAgavatam09.itx
% itxtitle              : devIbhAgavatamahApurANam skandhaH 09
% engtitle              : devIbhAgavatamahApurANam skandhaH 09
% Category              : purana, devI, devii, devibhagavatam
% Location              : doc_purana
% Sublocation           : purana
% SubDeity              : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide, satsangdhara.net
% Proofread by          : Vishwas Bhide, satsangdhara.net
% Indexextra            : (Scans 1, 2, 3, vyAkhyA 1, 2, 3, Hindi 1, 2, 3, 4, 4, Marathi, Marathi audio, English 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, Tamil, Telugu 1, Bengali, Audio, Info)
% Latest update         : March 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org