५ श्रीमद्देवीभागवतमहापुराणे पञ्चमः स्कन्धः
५.१ प्रथमोऽध्यायः । योगमायाप्रभाववर्णनम् ।
ऋषय ऊचुः ।
भवता कथितं सूत महदाख्यानमुत्तमम् ।
कृष्णस्य चरितं दिव्यं सर्वपातकनाशनम् ॥ १॥
सन्देहोऽत्र महाभाग वासुदेवकथानके ।
जायते नः प्रोच्यमाने विस्तरेण महामते ॥ २॥
वने गत्वा तपस्तप्तं वासुदेवेन दुष्करम् ।
विष्णोरंशावतारेण शिवस्याराधनं कृतम् ॥ ३॥
वरप्रदानं देव्या च पार्वत्या यत्कृतं पुनः ।
जगन्मातुश्च पूर्णायाः श्रीदेव्या अंशभूतया ॥ ४॥
ईश्वरेणापि कृष्णेन कुतस्तौ सम्प्रपूजितौ ।
न्यूनता वा किमस्त्वस्य तदेवं संशयो मम ॥ ५॥
सूत उवाच ।
शृणुध्वं कारणं तत्र मया व्यासश्रुतञ्च यत् ।
प्रब्रवीमि महाभागाः कथां कृष्णगुणान्विताम् ॥ ६॥
वृत्तान्तं व्यासतः श्रुत्वा वैराटीसुतजस्तदा ।
पुनः पप्रच्छ मेधावी सन्देहं परमं गतः ॥ ७॥
जनमेजय उवाच ।
सम्यक्सत्यवतीसूनो श्रुतं परमकारणम् ।
तथापि मनसो वृत्तिः संशयं न विमुञ्चति ॥ ८॥
कृष्णेनाराधितः शम्भुस्तपस्तप्त्वातिदारुणम् ।
विस्मयोऽयं महाभाग देवदेवेन विष्णुना ॥ ९॥
यः सर्वात्मापि सर्वेशः सर्वसिद्धिप्रदः प्रभुः ।
स कथं कृतवान्घोरं तपः प्राकृतवद्धरिः ॥ १०॥
जगत्कर्तुं क्षमः कृष्णस्तथा पालयितुं क्षमः ।
संहर्तुमपि कस्मात्स दारुणं तप आचरत् ॥ ११॥
व्यास उवाच ।
सत्यमुक्तं त्वया राजन् वासुदेवो जनार्दनः ।
क्षमः सर्वेषु कार्येषु देवानां दैत्यसूदनः ॥ १२॥
तथापि मानुषं देहमाश्रितः परमेश्वरः ।
कृतवान्मानुषान्भावान्वर्णाश्रमसमाश्रितान् ॥ १३॥
वृद्धानां पूजनं चैव गुरुपादाभिवन्दनम् ।
ब्राह्मणानां तथा सेवा देवताराधनं तथा ॥ १४॥
शोके शोकाभियोगश्च हर्षे हर्षसमुन्नतिः ।
दैन्यं नानापवादाश्च स्त्रीषु कामोपसेवनम् ॥ १५॥
कामः क्रोधस्तथा लोभः काले काले भवन्ति हि ।
तथा गुणमये देहे निर्गुणत्वं कथं भवेत् ॥ १६॥
सौबलीशापजाद्दोषात्तथा ब्राह्मणशापजात् ।
निधनं यादवानां तु कृष्णदेहस्य मोचनम् ॥ १७॥
हरणं लुण्ठनं तद्वत्तत्पत्नीनां नराधिप ।
अर्जुनस्यास्त्रमोक्षे च क्लीबत्वं तस्करेषु च ॥ १८॥
अज्ञत्वं हरणे गेहात्तत्प्रद्युम्नानिरुद्धयोः ।
एवं मानुषदेहेऽस्मिन्मानुषं खलु चेष्टितम् ॥ १९॥
विष्णोरंशावतारेऽस्मिन्नारायणमुनेस्तथा ।
अंशजे वासुदेवेऽत्र किं चित्रं शिवसेवने ॥ २०॥
स हि सर्वेश्वरो देवो विष्णोरपि च कारणम् ।
सुषुप्तस्थाननाथः स विष्णुना च प्रपूजितः ॥ २१॥
तदंशभूताः कृष्णाद्यास्तैः कथं न स पूज्यते ।
अकारो भगवान्ब्रह्माप्युकारः स्याद्धरिः स्वयम् ॥ २२॥
मकारो भगवान् रुद्रोऽप्यर्धमात्रा महेश्वरी ।
उत्तरोत्तरभावेनाप्युत्तमत्वं स्मृतं बुधैः ॥ २३॥
अतः सर्वेषु शास्त्रेषु देवी सर्वोत्तमा स्मृता ।
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ॥ २४॥
विष्णोरप्यथिको रुद्रो विष्णुस्तु ब्रह्मणोऽधिकः ।
तस्मान्न संशयः कार्यः कृष्णेन शिवपूजने ॥ २५॥
इच्छया ब्रह्मणो वक्त्राद्वरदानार्थमुद्बभौ ।
मूलरुद्रस्यांशभूतो रुद्रनामा द्वितीयकः ॥ २६॥
सोऽपि पूज्योऽस्ति सर्वेषां मूलरुद्रस्य का कथा ।
देवीतत्त्वस्य सान्निध्यादुत्तमत्वं स्मृतं शिवे ॥ २७॥
अवतारा हरेरेवं प्रभवन्ति युगे युगे ।
योगमायाप्रभावेण नात्र कार्या विचारणा ॥ २८॥
या नेत्रपक्ष्मपरिसञ्चलनेन सम्य-
ग्विश्वं सृजत्यवति हन्ति निगूढभावा ।
सैषा करोति सततं द्रुहिणाच्युतेशान्
नानावतारकलने परिभूयमानान् ॥ २९॥
सूतीगृहाद्व्रजनमप्यनया नियुक्तं
सङ्गोपितश्च भवने पशुपालराज्ञः ।
सम्प्रापितश्च मधुरां विनियोजितश्च
श्रीद्वारकाप्रणयने ननु भीतचित्तः ॥ ३०॥
निर्माय षोडशसहस्रशतार्धकास्ता
नार्योऽष्टसम्मततराः स्वकलासमुत्थाः ।
तासां विलासवशगं तु विधाय कामं
दासीकृतो हि भगवाननयाप्यनन्तः ॥ ३१॥
एकापि बन्धनविधौ युवती समर्था
पुंसो यथा सुदृढलोहमयं तु दाम ।
किं नाम षोडशसहस्रशतार्धकाश्च
तं स्वीकृतं शुकमिवातिनिबन्धयन्ति ॥ ३२॥
सात्राजितीवशगतेन मुदान्वितेन
प्राप्तं सुरेन्द्रभवनं हरिणा तदानीम् ।
कृत्वा मृधं मघवता विहृतस्तरूणा-
मीशः प्रियासदनभूषणतां य आप ॥ ३३॥
यो भीमजां हि हृतवाञ्छिशुपालकादी-
ञ्जित्वा विधिं निखिलधर्मकृतो विधित्सुः ।
जग्राह तां निजबलेन च धर्मपत्नीं
कोऽसौ विधिः परकलत्रहृतौ विजातः ॥ ३४॥
अहङ्कारवशः प्राणी करोति च शुभाशुभम् ।
विमूढो मोहजालेन तत्कृतेनातिपातिना ॥ ३५॥
अहङ्काराद्धि सञ्जातमिदं स्थावरजङ्गमम् ।
मूलाद्धरिहरादीनामुग्रात्प्रकृतिसम्भवात् ॥ ३६॥
अहङ्कारपरित्यक्तो यदा भवति पद्मजः ।
तदा विमुक्तो भवति नोचेत्संसारकर्मकृत् ॥ ३७॥
तन्मुक्तस्तु विमुक्तो हि बद्धस्तद्वशतां गतः ।
न नारी न धनं गेहं न पुत्रा न सहोदराः ॥ ३८॥
बन्धनं प्राणिनां राजन्नहङ्कारस्तु बन्धकः ।
अहं कर्ता मया चेदं कृतं कार्यं बलीयसा ॥ ३९॥
करिष्यामि करोम्येवं स्वयं बध्नाति प्राणभृत् ।
कारणेन विना कार्यं न सम्भवति कर्हिचित् ॥ ४०॥
यथा न दृश्यते जातो मृत्पिण्डेन विना घटः ।
विष्णुः पालयिता विश्वस्याहङ्कारसमन्वितः ॥ ४१॥
अन्यथा सर्वदा चिन्ताम्बुधौ मग्नः कथं भवेत् ।
अहङ्कारविमुक्तस्तु यदा भवति मानवः ॥ ४२॥
अवतारप्रवाहेषु कथं मज्जेच्छुभाशयः ।
मोहमूलमहङ्कारः संसारस्तत्समुद्भवः ॥ ४३॥
अहङ्कारविहीनानां न मोहो न च संसृतिः ।
त्रिविधः पुरुषः प्रोक्तः सात्त्विको राजसस्तथा ॥ ४४॥
तामसस्तु महाराज ब्रह्मविष्णुशिवादिषु ।
त्रिविधस्त्रिषु राजेन्द्र काजेशादिषु सर्वदा ॥ ४५॥
अहङ्कारः सदा प्रोक्तो मुनिभिस्तत्त्वदर्शिभिः ।
अहङ्कारेण तेनैव बद्धा एते न संशयः ॥ ४६॥
मायाविमोहिता मन्दाः प्रवदन्ति मनीषिणः ।
करोति स्वेच्छया विष्णुरवताराननेकशः ॥ ४७॥
मन्दोऽपि दुःखगहने गर्भवासेऽतिसङ्कटे ।
न करोति मतिं विद्वान्कथं कुर्यात्स चक्रभृत् ॥ ४८॥
कौसल्यादेवकीगर्भे विष्ठामलसमाकुले ।
स्वेच्छया प्रवदन्त्यद्धा गतो हि मधुसूदनः ॥ ४९॥
वैकुण्ठसदनं त्यक्त्वा गर्भवासे सुखं नु किम् ।
चिन्ताकोटिसमुत्थाने दुःखदे विषसम्मिते ॥ ५०॥
तपस्तप्त्वा क्रतून्कृत्वा दत्त्वा दानान्यनेकशः ।
न वाञ्छन्ति यतो लोका गर्भवासं सुदुःखदम् ॥ ५१॥
स कथं भगवान्विष्णुः स्ववशश्चेज्जनार्दनः ।
गर्भवासरुचिर्भूयाद्भवेत्स्ववशता यदि ॥ ५२॥
जानीहि त्वं महाराज योगमायावशे जगत् ।
ब्रह्मादिस्तम्बपर्यन्तं देवमानुषतिर्यगम् ॥ ५३॥
मायातन्त्रीनिबद्धा ये ब्रह्मविष्णुहरादयः ।
भ्रमन्ति बन्धमायान्ति लीलया चोर्णनाभवत् ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे योगमायाप्रभाववर्णनं नाम प्रथमोऽध्यायः ॥ ५.१॥
५.२ द्वितीयोऽध्यायः । महिषासुरोत्पत्तिः ।
राजोवाच ।
योगेश्वर्याः प्रभावोऽयं कथितश्चातिविस्तरात् ।
ब्रूहि तच्चरितं स्वामिञ्छ्रोतुं कौतूहलं मम ॥ १॥
महादेवीप्रभावं वै श्रोतुं को नाभिवाञ्छति ।
यो जानाति जगत्सर्वं तदुत्पन्नं चराचरम् ॥ २॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि विस्तरेण महामते ।
श्रद्दधानाय शान्ताय न ब्रूयात्स तु मन्दधीः ॥ ३॥
पुरा युद्धमभूद् घोरं देवदानवसेनयोः ।
पृथिव्यां पृथिवीपाल महिषाख्ये महीपतौ ॥ ४॥
महिषो नाम राजेन्द्र चकार तप उत्तमम् ।
गत्वा हेमगिरौ चोग्रं देवविस्मयकारकम् ॥ ५॥
वर्षाणामयुतं पूर्णं चिन्तयन्हृदि देवताम् ।
तस्य तुष्टो महाराज ब्रह्मा लोकपितामहः ॥ ६॥
तत्रागत्याब्रवीद्वाक्यं हंसारूढश्चतुर्मुखः ।
वरं वरय धर्मात्मन्ददामि तव वाच्छितम् ॥ ७॥
महिष उवाच ।
अमरत्वं देवदेव वाञ्छामि द्रुहिण प्रभो ।
यथा मृत्यु भयं न स्यात्तथा कुरु पितामह ॥ ८॥
ब्रह्मोवाच ।
उत्पन्नस्य ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
सर्वथा मरणोत्पत्ती सर्वेषां प्राणिनां किल ॥ ९॥
नाशः कालेन सर्वेषां प्राणिनां दैत्यपुङ्गव ।
महामहीधराणां च समुद्राणां च सर्वथा ॥ १०॥
एकं स्थानं परित्यज्य मरणस्य महीपते ।
प्रब्रूहि तं वरं साधो यस्ते मनसि वर्तते ॥ ११॥
महिष उवाच ।
न देवान्मानुषाद्दैत्यान्मरणं मे पितामह ।
पुरुषान्न च मे मृत्युर्योषा मां का हनिष्यति ॥ १२॥
तस्मान्मे मरणं नूनं कामिन्याः कुरु पद्मज ।
अबला हन्त मां हन्तुं कथं शक्ता भविष्यति ॥ १३॥
ब्रह्मोवाच ।
यदा कदापि दैत्येन्द्र नार्यास्ते मरणं ध्रुवम् ।
न नरेभ्यो महाभाग मृतिस्ते महिषासुर ॥ १४॥
व्यास उवाच ।
एवं दत्त्वा वरं तस्मै ययौ ब्रह्मा निजालयम् ।
सोऽपि दैत्यवरः प्राप निजं स्थानं मुदान्वितः ॥ १५॥
राजोवाच ।
महिषः कस्य पुत्रोऽसौ कथं जातो महाबली ।
कथं च माहिषं रूपं प्राप्तं तेन महात्मना ॥ १६॥
व्यास उवाच ।
दनोः पुत्रौ महाराज विख्यातौ क्षितिमण्डले ।
रम्भश्चैव करम्भश्च द्वावास्तां दानवोत्तमौ ॥ १७॥
तावपुत्रौ महाराज पुत्रार्थं तेपतुस्तपः ।
बहून्वर्षगणान्कामं पुण्ये पञ्चनदे जले ॥ १८॥
करम्भस्तु जले मग्नश्चकार परमं तपः ।
वृक्षं रसालवटं प्राप्य रम्भोऽग्निमसेवत ॥ १९॥
पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् ।
ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ २०॥
गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह ।
वासवस्तु करम्भं तं तदा जग्राह पादयोः ॥ २१॥
निजघान च तं दुष्टं करम्भं वृत्रसूदनः ।
भ्रातरं निहतं श्रुत्वा रम्भः कोपं परं गतः ॥ २२॥
स्वशीर्षं पावके होतुमैच्छच्छित्त्वा करेण ह ।
केशपाशे गहीत्वाशु वामेन क्रोधसंयुतः ॥ २३॥
दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् ।
छिनत्ति शीर्षं तत्तावद्वह्निना प्रतिबोधितः ॥ २४॥
उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि ।
आत्महत्यातिदुःसाध्या कथं त्वं कर्तुमुद्यतः ॥ २५॥
वरं वरय भद्रं ते यस्ते मनसि वर्तते ।
मा म्रियस्व मृतेनाद्य किं ते कार्यं भविष्यति ॥ २६॥
व्यास उवाच ।
तच्छुत्वा वचनं रम्भः पावकस्य सुभाषितम् ।
ततोऽब्रवीद्वचो रम्भस्त्यक्त्वा केशकलापकम् ॥ २७॥
यदि तुष्टोऽसि देवेश देहि मे वाञ्छितं वरम् ।
त्रैलोक्यविजयी पुत्रः स्यान्नः परबलार्दनः ॥ २८॥
अजेयः सर्वथा स स्याद्देवदानवमानवैः ।
कामरूपी महावीर्यः सर्वलोकाभिवन्दितः ॥ २९॥
पावकस्तं तथेत्याह भविष्यति तवेप्सितम् ।
पुत्रस्तव महाभाग मरणाद्विरमाधुना ॥ ३०॥
यस्यां चित्तं तु रम्भ त्वं प्रमदायां करिष्यसि ।
तस्यां पुत्रो महाभाग भविष्यति बलाधिकः ॥ ३१॥
व्यास उवाच ।
इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् ।
श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ ३२॥
यक्षैः परिवृतं स्थानं रमणीयं श्रियान्वितम् ।
दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ ३३॥
मत्तायां रूपपूर्णायां विहायान्याञ्च योषितम् ।
सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ ३४॥
रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः ।
सा तु गर्भवती जाता महिषी तस्य वीर्यतः ॥ ३५॥
तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् ।
महिषेभ्यश्च तां रक्षन्प्रियामनुमतां किल ॥ ३६॥
कदाचिन्महिषश्चान्यः कामार्तस्तामुपाद्रवत् ।
स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ ३७॥
स्वरक्षार्थं समागत्य महिषं समताडयत् ।
सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ ३८॥
ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् ।
भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ ३९॥
मृते भर्तरि सा दीना भयार्ता विद्रुता भृशम् ।
सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ ४०॥
पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः ।
कामयानस्तु तां कामी बलवीर्यमदोद्धतः ॥ ४१॥
रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा ।
धावमानं च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ ४२॥
युद्धं समभवद् घोरं यक्षाणां च हयारिणा ।
शरेण ताडितस्तूर्णं पपात धरणीतले ॥ ४३॥
मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् ।
चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ ४४॥
महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा ।
प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ ४५॥
वार्यमाणापि यक्षैः सा प्रविवेश हुताशनम् ।
ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ ४६॥
महिषस्तु चितामध्यात्समुत्तस्थौ महाबलः ।
रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्रवत्सलः ॥ ४७॥
रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः ।
अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ ४८॥
एवं स महिषो जातो रक्तबीजश्च वीर्यवान् ।
अवध्यस्तु सुरैर्दैत्यैर्मानवैश्च नृपोत्तम ॥ ४९॥
इत्येतत्कथितं राजन् जन्म तस्य महात्मनः ।
वरप्रदानञ्च तथा प्रोक्तं सर्वं सविस्तरम् ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे महिषासुरोत्पत्तिर्नाम द्वितीयोऽध्यायः ॥ ५.२॥
५.३ तृतीयोऽध्यायः । भगवतीमाहाम्ये दैत्यसैन्याद्योगः ।
व्यास उवाच ।
एवं स महिषो नाम दानवो वरदर्पितः ।
प्राप्य राज्यं जगत्सर्वं वशे चक्रे महाबलः ॥ १॥
पृथिवीं पालयामास सागरान्तां भुजार्जिताम् ।
एकच्छत्रां निरातङ्कां वैरिवर्गविवर्जिताम् ॥ २॥
सेनानीश्चिक्षुरस्तस्य महावीर्यो मदोत्कटः ।
धनाध्यक्षस्तथा ताम्रः सेनायुतसमावृतः ॥ ३॥
असिलोमा तथोदर्को बिडालाख्यश्च बाष्कलः ।
त्रिनेत्रोऽथ तथा कालबन्धको बलदर्पितः ॥ ४॥
एते सैन्ययुताः सर्वे दानवा मेदिनीं तदा ।
आवृत्य संस्थिताः काममृद्धां सागरमेखलाम् ॥ ५॥
करदाश्च कृताः सर्वे भूमिपालाः पुरातनाः ।
निहता ये बलोदग्राः क्षात्रधर्मव्यवस्थिताः ॥ ६॥
ब्राह्मणा वशगा जाता यज्ञभागसमर्पकाः ।
महिषस्य महाराज निखिले क्षितिमण्डले ॥ ७॥
एकातपत्रं तद्राज्यं कृत्वा स महिषासुरः ।
स्वर्गं जेतुं मनश्चक्रे वरदानेन गर्वितः ॥ ८॥
प्रणिधिं प्रेषयामास हयारिस्तु शचीपतिम् ।
स सन्देशहरं शीघ्रमाहूयोवाच दैत्यराट् ॥ ९॥
गच्छ वीर महाबाहो दूतत्वं कुरु मेऽनघ ।
ब्रूहि शक्रं दिवं गत्वा निःशङ्कः सुरसन्निधौ ॥ १०॥
मुञ्च स्वर्गं सहस्राक्ष यथेष्टं गच्छ मा चिरम् ।
सेवां वा कुरु देवेश महिषस्य महात्मनः ॥ ११॥
स त्वां संरक्षयेन्नूनं राजा शरणमागतम् ।
तस्मात्त्वं शरणं याहि महिषस्य शचीपते ॥ १२॥
नोचेद्वज्रं गहाणाशु युद्धाय बलसूदन ।
पूर्वैर्जितोऽसि चास्माकं जानामि तव पौरुषम् ॥ १३॥
अहल्याजार विज्ञातं बलं ते सुरसङ्घप ।
युध्यस्व व्रज वा कामं यत्र ते रमते मनः ॥ १४॥
व्यास उवाच ।
तच्छुत्वा वचनं तस्य शक्रः क्रोधसमन्वितः ।
उवाच तं नृपश्रेष्ठ स्मितपूर्वं वचस्तदा ॥ १५॥
न जानेऽहं सुमन्दात्मन् यतस्त्वं मददर्पितः ।
चिकित्सां सङ्करिष्यामि रोगस्यास्य प्रभोस्तव ॥ १६॥
अतः परं करिष्यामि मूलस्यास्य निमूलनम् ।
गच्छ दूत तथा ब्रूहि तस्याग्रे मम भाषितम् ॥ १७॥
शिष्टैर्दूता न हन्तव्यास्तस्मात्त्वां विसृजाम्यहम् ।
युद्धेच्छा चेत्समागच्छ त्वरितो महिषीसुत ॥ १८॥
हयारे त्वद्बलं ज्ञातं तृणादस्त्वं जडाकृतिः ।
शृङ्गयोस्ते करिष्यामि सुदृढं च शरासनम् ॥ १९॥
दर्पः शृङ्गबलात्तेऽस्ति विदितं कारणं मया ।
विषाणे ते परिच्छिद्य संहरिष्यामि तद् बलम् ॥ २०॥
यद् बलेनातिपूर्णस्त्वं जातोऽसि बलदर्पितः ।
कुशलस्त्वं तदाघाते न युद्धे महिषाधम ॥ २१॥
व्यास उवाच ।
इत्युक्तोऽसौ सुरेन्द्रेण स दूतस्त्वरितो गतः ।
जगाम महिषं मत्तं प्रणम्य प्रत्युवाच ह ॥ २२॥
दूत उवाच ।
राजन्देवाधिपः कामं न त्वां विगणयत्यसौ ।
मन्यते स्वबलं पूर्णं देवसैन्यसमावृतः ॥ २३॥
यदुक्तं तेन मूर्खेण कथमन्यद् ब्रवीम्यहम् ।
प्रियं सत्यं च वक्तव्यं भृत्येन पुरतः प्रभोः ॥ २४॥
प्रियं सत्यं च वक्तव्यं प्रभोरग्रे शुभेच्छुना ।
इति नीतिर्महाराज जागर्ति शुभकारिणी ॥ २५॥
केवलं चेत्प्रियं ब्रूयान्न ते कार्यं भविष्यति ।
परुषं च न वक्तव्यं कदाचिच्छुभमिच्छता ॥ २६
यथा रिपुमुखाद्वाचः प्रसरन्ति विषोपमाः ।
तथा भृत्यमुखान्नाथ निःसरन्ति कथं गिरः ॥ २७॥
यादृशानीह वाक्यानि तेनोक्तानि महीपते ।
तादृशानि न मे जिह्वा वक्तुमर्हति कर्हिचित् ॥ २८॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य हेतुगर्भं तृणाशनः ।
भृशं कोपपरीतात्मा बभूव महिषासुरः ॥ २९॥
समाहूयाब्रवीद्दैत्यान्क्रोधसंरक्तलोचनः ।
लाङ्गूलं पृष्ठदेशे च कृत्वा मूत्रं परित्यजन् ॥ ३०॥
भो भो दैत्याः सुरेन्द्रोऽसौ युद्धकामोऽस्ति सर्वथा ।
बलोद्योगं कुरुध्वं वै जेतव्योऽसौ सुराधमः ॥ ३१॥
मदग्रे को भवेच्छूरः कोटिशश्चेत्तथाविधाः ।
न बिभेम्येकतः कामं हनिष्याम्यद्य सर्वथा ॥ ३२॥
शरः शान्तेष्वसौ नूनं तपस्विषु बलाधिकः ।
बलकर्ता हि कुहको लम्पटः परदारहृत् ॥ ३३॥
अप्सरोबलसम्मत्तस्तपोविघ्नकरः खलः ।
छिद्रप्रहरणः पापो नित्यं विश्वासघातकः ॥ ३४॥
नमुचिर्निहतो येन कृत्वा सन्धिं दुरात्मना ।
शपथान्विविधानादौ कृत्वा भीतेन छद्मना ॥ ३५॥
विष्णुस्तु कपटाचार्यः कुहकः शपथाकरः ।
नानारूपधरः कामं बलकृद्दम्भपण्डितः ॥ ३६॥
कृत्वा कोलाकृतिं येन हिरण्याक्षो निपातितः ।
हिरण्यकशिपुर्येन नृसिंहेन च घातितः ॥ ३७॥
नाहं तद्वशगो नूनं भवेयं दनुनन्दनाः ।
विश्वासं नैव गच्छामि देवानां कुत्र कर्हिचित् ॥ ३८॥
किं करिष्यति मे विष्णुरिन्द्रो वा बलवत्तरः ।
रुद्रो वापि न मे शक्तः प्रतिकर्तुं रणाङ्गणे ॥ ३९॥
त्रिविष्टपं ग्रहीष्यामि जित्वेन्द्रं वरुणं यमम् ।
धनदं पावकं चैव चन्द्रसूर्यौ विजित्य च ॥ ४०॥
यज्ञभागभुजः सर्वे भविष्यामोऽद्य सोमपाः ।
जित्वा देवसमूहञ्च विहरिष्यामि दानवैः ॥ ४१॥
न मे भयं सुरेभ्यश्च वरदानेन दानवाः ।
मरणं न नरेभ्यश्च नारी किं मे करिष्यति ॥ ४२॥
पातालपर्वतेभ्यश्च समाहूय वरान्वरान् ।
दानवान्मम सैन्येशान्कुर्वन्तु त्वरिताश्चराः ॥ ४३॥
एकोऽहं सर्वदेवेशान्विजेतुं दानवाः क्षमः ।
शोभार्थं वः समाहूय नयामि सुरसङ्गमे ॥ ४४॥
शृङ्गाभ्यां च खुराभ्यां च हनिष्येऽहं सुरान्किल ।
न मे भयं सुरेभ्यश्च वरदानप्रभावतः ॥ ४५॥
अवध्योऽहं सुरगणैरसुरैर्मानवैस्तथा ।
तस्मात्सज्जा भवन्त्वद्य देवलोकजयाय वै ॥ ४६॥
जित्वा सुरालयं दैत्या विहरिष्यामि नन्दने ।
मन्दारकुसुमापीडा देवयोषित्समन्विताः ॥ ४७॥
कामधेनुपयोत्सिक्ताः सुधापानप्रमोदिताः ।
देवगन्धर्वगीतादिनृत्यलास्यसमन्विताः ॥ ४८॥
उर्वशी मेनका रम्भा घृताची च तिलोत्तमा ।
प्रमद्वरा महासेना मिश्रकेशी मदोत्कटा ॥ ४९॥
विप्रचित्तिप्रभृतयो नृत्यगीतविशारदाः ।
रञ्जयिष्यन्ति वः सर्वान्नानासवनिषेवणैः ॥ ५०॥
सर्वे सज्जा भवन्त्वद्य रोचतां गमनं दिवि ।
सङ्ग्रामार्थं सुरैः सार्धं कृत्वा मङ्गलमुत्तमम् ॥ ५१॥
रक्षणार्थं च सर्वेषां भार्गवं मुनिसत्तमम् ।
समाहूय च सम्पूज्य स्थाप्य यज्ञे गुरुं परम् ॥ ५२॥
व्यास उवाच ।
इति सन्दिश्य दैत्येन्द्रान्महिषः पापधीस्तदा ।
जगाम त्वरितो राजन्भवनं स्वं मुदान्वितः ॥ ५३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे भगवतीमाहाम्ये दैत्यसैन्योद्योगो नाम तृतीयोऽध्यायः ॥ ५.३॥
५.४ चतुर्थोऽध्यायः । भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम् ।
व्यास उवाच ।
गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ ।
यमवायुधनाध्यक्षवरुणानिदमूचिवान् ॥ १॥
महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः ।
वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥ २॥
तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः ।
स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥ ३॥
त्यज देवालयं शक्र यथेच्छं व्रज वासव ।
सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः ॥ ४॥
दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति ।
नतेषु भृत्यभूतेषु न कुप्यति कदाचन ॥ ५॥
नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् ।
गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥ ६॥
इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः ।
किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः ॥ ७॥
दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः ।
विशेषेण सदोद्योगी बलवान्बलदर्पितः ॥ ८॥
उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् ।
दैवाधीनो भवेन्नूनं जयो वाथ पराजयः ॥ ९॥
सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः ।
सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः ॥ १०॥
यानमप्यधुना नैव कर्तव्यं सहसा पुनः ।
प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥ ११॥
इङ्गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः ।
सेनाभियोगं प्रस्थानं बलसङ्ख्यां यथार्थतः ॥ १२॥
वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः ।
ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् ॥ १३॥
करिष्यामि ततस्तूर्णं यानं वा दुर्गसङ्ग्रहम् ।
विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा ।
सहसा विहितं कार्यं दुःखदं सर्वथा भवेत् ॥ १४॥
तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः ।
नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा ॥ १५॥
एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै ।
ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च ॥ १६॥
विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च ।
अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥ १७॥
सर्वथा तद्भवेन्नूनमज्ञातमौषधं यथा ।
व्यास उवाच ।
इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम् ॥ १८॥
प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव ।
दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ॥ १९॥
निवेदयामास तदा सर्वसैन्यबलाबलम् ।
ज्ञात्वा तद्बलमुद्योगं तुराषाडतिविस्मितः ॥ २०॥
देवानचोदयत्तूर्णं समाहूय पुरोहितम् ।
मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥ २१॥
उवाचाङ्गिरसश्रेष्ठं समासीनं वरासने ।
इन्द्र उवाच ।
भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः ॥ २२॥
सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः ।
दानवो महिषो नाम महावीर्यो मदान्वितः ॥ २३॥
योद्धुकामः समायाति बहुभिर्दानवैर्वृतः ।
तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना ॥ २४॥
तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः ॥ २५॥
विचिन्त्य मनसा कामं कार्यसाधनतत्परः ।
गुरुरुवाच ।
स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष ॥ २६॥
व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै ।
जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि ॥ २७॥
स्थातव्यं धैर्यमालम्ब्य तस्माद् बुद्धिमता सदा ।
भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥ २८॥
उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः ।
मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥ २९॥
दैवाधीनं च जानन्तो योगध्यानपरायणाः ।
तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः ॥ ३०॥
सुखं भवतु वा मा वा दैवे का परिदेवना ।
विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥ ३१॥
अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् ।
कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥ ३२॥
न तत्र दूषणं तस्य दैवाधीने शरीरिणि ।
कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे ॥ ३३॥
न रथे नायुधे नूनं दैवाधीना सुराधिप ।
बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते ॥ ३४॥
बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् ।
कातरो जयमाप्नोति शूरो याति पराजयम् ॥ ३५॥
दैवाधीने तु संसारे कामं का परिदेवना ।
उद्यमे योजयेन्नूनं भवितव्यं सुराधिप ॥ ३६॥
दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् ।
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ॥ ३७॥
आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।
धैर्यमेवावगन्तव्यं हर्षशोकोद्भवे बुधैः ॥ ३८॥
अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् ।
दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥ ३९॥
हर्षशोकोद्भवो यत्र न भवेद् बुद्धिनिश्चयात् ।
किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः ॥ ४०॥
चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् ।
प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने ॥ ४१॥
जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः ।
शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने ॥ ४२॥
शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् ।
सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी ॥ ४३॥
प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः ।
इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥ ४४॥
उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो ।
ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥ ४५॥
सन्तोषादपरं नास्ति सुखस्थानं शचीपते ।
अथवा यदि न ज्ञानं ममत्वनाशने किल ॥ ४६॥
ततो विवेकः कर्तव्यो भवितव्ये सुराधिप ।
प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल ॥ ४७॥
यद्भावि तद्भवत्येव का चिन्ता सुखदुःखयोः ।
सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम ॥ ४८॥
सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष ।
तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः ॥ ४९॥
अथवा मन्त्रयित्वाद्य कुरु यत्नं यथाविधि ।
कृते यत्ने महाराज भवितव्यं भविष्यति ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह
परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ ५.४॥
५.५ पञ्चमोऽध्यायः । दैत्यसैन्यपराजयः ।
व्यास उवाच ।
इति श्रुत्वा सहस्राक्षः पुनराह बृहस्पतिम् ।
युद्धोद्योगं करिष्यामि हयारेर्नाशनाय वै ॥ १॥
नोद्यमेन विना राज्यं न सुखं न च वै यशः ।
निरुद्यमं न शंसन्ति कातरा न च सोद्यमाः ॥ २॥
यतीनां भूषणं ज्ञानं सन्तोषो हि द्विजन्मनाम् ।
उद्यमः शत्रुहननं भूषणं भूतिमिच्छताम् ॥ ३॥
उद्यमेन हतस्त्वाष्ट्रो नमुचिर्बल एव च ।
तथैनं निहनिष्यामि महिषं मुनिसत्तम ॥ ४॥
बलं देवगुरुस्त्वं मे वज्रमायुधमुत्तमम् ।
सहायस्तु हरिर्नूनं तथोमापतिरव्ययः ॥ ५॥
रक्षोघ्नान्पठ मे साधो करोम्यद्य समुद्यमम् ।
स्वसैन्याभिनिवेशञ्च महिषं प्रति मानद ॥ ६॥
व्यास उवाच ।
इत्युक्तो देवराजेन वाचस्पतिरुवाच ह ।
सुरेन्द्रं युद्धसंरक्तं स्मितपूर्वं वचस्तदा ॥ ७॥
बृहस्पतिरुवाच ।
प्रेरयामि न चाहं त्वां न च निर्वारयाम्यहम् ।
सन्दिग्धेऽत्र जये कामं युध्यतश्च पराजये ॥ ८॥
न तेऽत्र दूषणं किञ्चिद्भवितव्ये शचीपते ।
सुखं वा यदि वा दुःखं विहितं च भविष्यति ॥ ९॥
न मया तत्परिज्ञातं भावि दुःखं सुखं तथा ।
यद्भार्याहरणे प्राप्तं पुरा वासव वेत्सि हि ॥ १०॥
शशिना मे हृता भार्या मित्रेणामित्रकर्शन ।
स्वाश्रमस्थेन सम्प्राप्तं दुःखं सर्वसुखापहम् ॥ ११॥
बुद्धिमान्सर्वलोकेषु विदितोऽहं सुराधिप ।
क्व मे गता तदा वुद्धिर्यदा भार्या हृता बलात् ॥ १२॥
तस्मादुपायः कर्तव्यो बुद्धिमद्भिः सदा नरैः ।
कार्यसिद्धिः सदा नूनं दैवाधीना सुराधिप ॥ १३॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं सत्यं गुरोः सार्थं शचीपतिः ।
ब्रह्माणं शरणं गत्वा नत्वा वचनमब्रवीत् ॥ १४॥
पितामह सुराध्यक्ष दैत्यो महिषसंज्ञकः ।
ग्रहीतुकामः स्वर्गं मे बलोद्योगं करोत्यलम् ॥ १५॥
अन्ये च दानवाः सर्वे तत्सैन्यं समुपस्थिताः ।
योद्धुकामा महावीर्याः सर्वे युद्धविशारदाः ॥ १६॥
तेनाहं भीतभीतोऽस्मि त्वत्सकाशमिहागतः ।
सर्वज्ञोऽसि महाप्राज्ञ साहाय्यं कर्तुमर्हसि ॥ १७॥
ब्रह्मोवाच ।
गच्छामः सर्व एवाद्य कैलासं त्वरिता वयम् ।
शङ्करं पुरतः कृत्वा विष्णुं च बलिनां वरम् ॥ १८॥
ततो युद्धं प्रकर्तव्यं सर्वैः सुरगणैः सह ।
मिलित्वा मन्त्रमाधाय देशं कालं विचिन्त्य च ॥ १९॥
बलाबलमविज्ञाय विवेकमपहाय च ।
साहसं तु प्रकुर्वाणो नरः पतनमृच्छति ॥ २०॥
व्यास उवाच ।
तन्निशम्य सहस्राक्षः कैलासं निर्जगाम ह ।
ब्रह्माणं पुरतः कृत्वा लोकपालसमन्वितः ॥ २१॥
तुष्टाव शङ्करं गत्वा वेदमन्त्रैर्महेश्वरम् ।
प्रसन्नं पुरतः कृत्वा ययौ विष्णुपुरं प्रति ॥ २२॥
स्तुत्वा तं देवदेवेशं कार्यं प्रोवाच चात्मनः ।
महिषात्तद्भयं चोग्रं वरदानमदोद्धतात् ॥ २३॥
तदाकर्ण्य भयं तस्य विष्णुर्देवानुवाच ह ।
करिष्यामो वयं युद्धं हनिष्यामस्तु दुर्जयम् ॥ २४॥
व्यास उवाच ।
इति ते निश्चयं कृत्वा ब्रह्मविष्णुहरीश्वराः ।
स्वानि स्वानि समारुह्य वाहनानि ययुः सुराः ॥ २५॥
ब्रह्मा हंससमारूढो विष्णर्गरुडवाहनः ।
शङ्करो वृषभारूढो वृत्रहा गजसंस्थितः ॥ २६॥
मयूरवाहनः स्कन्दो यमो महिषवाहनः ।
कृत्वा सैन्यसमायोगं यावत्ते निर्ययुः सुराः ॥ २७॥
तावद्दैत्यबलं प्राप्तं दृप्तं महिषपालितम् ।
तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥ २८॥
बाणैः खड्गैस्तथा प्रासैर्मुसलैश्च परश्वधैः ।
गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥ २९॥
मुद्गरैर्भिन्दिपालैश्च हलैश्चैवातिदारुणैः ।
अन्यैश्च विविधैरस्त्रैर्निजघ्नुस्ते परस्परम् ॥ ३०॥
सेनानीश्चिक्षुरस्तस्य गजारूढो महाबलः ।
मघवन्तं पञ्चभिस्तैः सायकैः समताडयत् ॥ ३१॥
तुराषाडपि तांश्छित्त्वा बाणैर्बाणांस्त्वरान्वितः ।
हृदये चार्धचन्द्रेण ताडयामास तं कृती ॥ ३२॥
बाणाहतस्तु सेनानीः प्राप मूर्च्छां गजोपरि ।
करिणं वज्रघातेन स जघान करे ततः ॥ ३३॥
तद्वज्राभिहतो नागो भग्नः सैन्यं जगाम ह ।
दृष्ट्वा तं दैत्यराट् कुद्धो बिडालाख्यमथाब्रवीत् ॥ ३४॥
गच्छ वीर महाबाहो जहीन्द्रं मदगर्वितम् ।
वरुणादीन्परान्देवान्हत्वाऽऽगच्छ ममान्तिकम् ॥ ३५॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्य बिडालाख्यो महाबलः ।
आरुह्य वारणं मत्तं जगाम त्रिदशाधिपम् ॥ ३६॥
वासवस्तं समायान्तं दृष्ट्वा क्रोधसमन्वितः ।
जघान विशिखैस्तीक्षौराशीविषसमप्रभैः ॥ ३७॥
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।
पञ्चाशद्भिर्जघानाशु वासवञ्च शिलीमुखैः ॥ ३८॥
तथेन्द्रोऽपि च तान्बाणांश्छित्त्वा कोपसमन्वितः ।
जघान विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ३९॥
स तु छित्त्वा शरांस्तूर्णं स्वशरैश्चापनिःसृतैः ।
गदया ताडयामास गजं तस्य करोपरि ॥ ४०॥
स्वकरे निहतो नागश्चकारार्तस्वरं मुहुः ।
परिवृत्य जघानाशु दैत्यसैन्यं भयातुरम् ॥ ४१॥
दानवस्तु गजं वीक्ष्य परावृत्य गतं रणात् ।
समाविश्य रथे रम्ये जगामाशु सुरान् रणे ॥ ४२॥
तुराषाडपि तं वीक्ष्य रथस्थं पुनरागतम् ।
अहनद्विशिखैस्तीक्ष्णैराशीविषसमप्रभैः ॥ ४३॥
सोऽपि क्रुद्धश्चकारोग्रां बाणवृष्टिं महाबलः ।
बभूव तुमुलं युद्धं तयोस्तत्र जयैषिणोः ॥ ४४॥
इन्द्रस्तु बलिनं दृष्ट्वा कोपेनाकुलितेन्द्रियः ।
जयन्तमग्रतः कृत्वा युयुधे तेन संयुतः ॥ ४५॥
जयन्तस्तु शितैर्बाणैस्तं जघान स्तनान्तरे ।
पञ्चभिः प्रबलाकृष्टैरसुरं मदगर्वितम् ॥ ४६॥
स बाणाभिहतस्तावन्निपपात रथोपरि ।
अतिवाह्य रथं सूतो निर्जगाम रणाजिरात् ॥ ४७॥
तस्मिन्विनिर्गते दैत्ये बिडालाख्येऽथ मूर्च्छिते ।
जयशब्दो महानासीदुन्दुभीनां च निःस्वनः ॥ ४८॥
सुराः प्रमुदिताः सर्वे तुष्टुवुस्तं शचीपतिम् ।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ४९॥
चुकोप महिषः श्रुत्वा जयशब्दं सुरैः कृतम् ।
प्रेषयामास तत्रैव ताम्रं परमदापहम् ॥ ५०॥
ताम्रस्तु बहुभिः सार्धं समागम्य रणाजिरे ।
शरवृष्टिं चकाराशु तडित्वानिव सागरे ॥ ५१॥
वरुणः पाशमुद्यम्य जगाम त्वरितस्तदा ।
यमश्च महिषारूढो दण्डमादाय निर्ययौ ॥ ५२॥
तत्र युद्धमभूद् घोरं देवदानवयोर्मिथः ।
बाणैः खड्गैश्च मुसलैः शक्तिभिश्च परश्वधैः ॥ ५३॥
दण्डेन निहतस्ताम्रो यमहस्तोद्यतेन च ।
न चचाल महाबाहुः सङ्ग्रामाङ्गणतस्तदा ॥ ५४॥
चापमाकृष्य वेगेन मुक्त्वा तीव्राञ्छिलीमुखान् ।
इन्द्रादीनहनत्तूर्णं ताम्रस्तस्मिन् रणाजिरे ॥ ५५॥
तेऽपि देवाः शरैर्दिव्यैर्निशितैश्च शिलाशितैः ।
निजघ्नुर्दानवान्क्रुद्धास्तिष्ठ तिष्ठेति चुकुशुः ॥ ५६॥
निहतस्तैः सुरैर्दैत्यो मूर्च्छामाप रणाङ्गणे ।
हाहाकारो महानासीद्दैत्यसैन्ये भयातुरे ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे दैत्यसैन्यपराजयो नाम पञ्चमोऽध्यायः ॥ ५.५॥
५.६ षष्ठोऽध्यायः । महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनम् ।
व्यास उवाच ।
ताम्रेऽथ मूर्च्छिते दैत्ये महिषः क्रोधसंयुतः ।
समुद्यम्य गदां गुर्वीं देवानुपजगाम ह ॥ १॥
तिष्ठन्त्वद्य सुराः सर्वे हन्म्यहं गदया किल ।
सर्वे बलिभुजः कामं बलहीनाः सदैव हि ॥ २॥
इत्युक्त्वासौ गजारूढं सम्प्राप्य मदगर्वितः ।
जघान गदया तूर्णं बाहुमूले महाभुजः ॥ ३॥
सोऽपि वज्रेण घोरेण चिच्छेदाशु गदाञ्च ताम् ।
प्रहर्तुकामस्त्वरितो जगाम महिषं प्रति ॥ ४॥
हयारिरपि कोपेन खड्गमादाय सुप्रभम् ।
ययाविन्द्रं महावीर्यं प्रहरिष्यन्निवान्तिकम् ॥ ५॥
बभूव च तयोर्युद्धं सर्वलोकभयावहम् ।
आयुधैर्विविधैस्तत्र मुनिविस्मयकारकम् ॥ ६॥
चकाराशु तदा दैत्यो मायां मोहकरीं किल ।
शाम्बरीं सर्वलोकघ्नीं मुनीनामपि मोहिनीम् ॥ ७॥
कोटिशो महिषास्तत्र तद्रूपास्तत्पराक्रमाः ।
ददृशुः सायुधाः सर्वे निघ्नन्तो देववाहिनीम् ॥ ८॥
मघवा विस्मितस्तत्र दृष्ट्वा तां दैत्यनिर्मिताम् ।
बभूवातिभयोद्विग्नो मायां मोहकरीं किल ॥ ९॥
वरुणोऽपि सुसन्त्रस्तस्तथैव धननायकः ।
यमो हुताशनः सूर्यः शीतरश्मिर्भयातुरः ॥ १०॥
पलायनपरा सर्वे बभूवुर्मोहिताः सुराः ।
ब्रह्मविष्णमहेशानां स्मरणं चक्रुरुद्यताः ॥ ११॥
तत्राजग्मुश्च काजेशाः स्मृतमात्राः सुरोत्तमाः ।
हंसतार्क्ष्यवृषारूढास्त्रातुकामा वरायुधाः ॥ १२॥
शौरिस्तां मोहिनीं दृष्ट्वा सुदर्शनमथोज्ज्वलम् ।
मुमोच तत्तेजसैव माया सा विलयं गता ॥ १३॥
वीक्ष्य तान्महिषस्तत्र सृष्टिस्थित्यन्तकारिणः ।
योद्धुकामः समादाय परिघं समुपाद्रवत् ॥ १४॥
महिषाख्यो महावीरः सेनानीश्चिक्षुरस्तथा ।
उग्रास्यश्चोग्रवीर्यश्च दुद्रुवुर्युद्धकामुकाः ॥ १५॥
असिलोमात्रिनेत्रश्च बाष्कलोऽन्धक एव च ।
एते चान्ये च बहवो युद्धकामा विनिर्ययुः ॥ १६॥
सन्नद्धा धृतचापास्ते रथारूढा मदोद्धताः ।
परिवव्रुः सुरान्सर्वान्वृका इव सुवत्सकान् ॥ १७॥
बाणवृष्टिं ततश्चक्रुर्दानवा मदगर्विताः ।
सुराश्चापि तथा चक्रुः परस्परजिघांसवः ॥ १८॥
अन्धको हरिमासाद्य पञ्चबाणाञ्छिलाशितान् ।
मुमोच विषसन्दिग्धान्कर्णाकृष्टान्महाबलान् ॥ १९॥
वासुदेवोऽप्यसम्प्राप्तान्विशिखानाशुगैस्तदा ।
चिच्छेद तान्पुनः पञ्च मुमोच रिपुनाशनः ॥ २०॥
तयोः परस्परं युद्धं बभूव हरिदैत्ययोः ।
बाणासिचक्रमुसलैर्गदाशक्तिपरश्वधैः ॥ २१॥
महेशान्धकयोर्युद्धं तुमुलं लोमहर्षणम् ।
पञ्चाशद्दिनपर्यन्तं बभूव च परस्परम् ॥ २२॥
इन्द्रबाष्कलयोस्तद्वन्महिषासुररुद्रयोः ।
यमत्रिनेत्रयोस्तद्वन्महाहनुधनेशयोः ॥ २३॥
असिलोमवरुणयोर्युद्धं परमदारुणम् ।
गरुडं गदया दैत्यो जघान हरिवाहनम् ॥ २४॥
स गदापातखिन्नाङ्गो निःश्वसन्नवतिष्ठत ।
शौरिस्तं दक्षिणेनाशु हस्तेन परिसान्त्वयन् ॥ २५॥
स्थिरं चकार देवेशो वैनतेयं महाबलम् ।
समाकृष्य धनुः शार्ङ्गं मुमोच विशिखान्बहून् ॥ २६॥
अन्धकोपरि कोपेन हन्तुकामो जनार्दनः ।
दानवोऽपि च तान्वाणांश्चिच्छेद स्वशरैः शितैः ॥ २७॥
पञ्चाशद्भिर्हरिं कोपाज्जघान च शिलाशितैः ।
वासुदेवोऽपि तांस्तूर्णं वञ्चयित्वा शरोत्तमान् ॥ २८॥
चक्रं मुमोच वेगेन सहस्रारं सुदर्शनम् ।
त्यक्तं सुदर्शनं दूरात्स्वचक्रेण न्यवारयत् ॥ २९॥
ननाद च महाराज देवान्सम्मोहयन्निव ।
दृष्ट्वा तु विफलं जातं चक्रं देवस्य शार्ङ्गिणः ॥ ३०॥
जग्मुः शोकं सुराः सर्वे जहर्षुर्दानवास्तथा ।
वासुदेवोऽपि तरसा दृष्ट्वा देवाञ्छुचावृतान् ॥ ३१॥
गदां कौमोदकीं धृत्वा दानवं समुपाद्रवत् ।
तं जघानातिवेगेन मूर्ध्नि मायाविनं हरिः ॥ ३२॥
स गदाभिहतो भूमौ निपपातातिमूर्च्छितः ।
तं तथा पतितं वीक्ष्य हयारिरतिकोपनः ॥ ३३॥
आजगाम रमानाथं त्रासयन्नतिगर्जितैः ।
वासुदेवोऽपि तं दृष्ट्वा समायान्तं क्रुधान्वितम् ॥ ३४॥
चापज्यानिनदं चोग्रं चकार नन्दयन्सुरान् ।
शरवृष्टिं चकाराशु भगवान्महिषोपरि ॥ ३५॥
सोऽपि चिच्छेद बाणौघैस्ताञ्छरान्गगनेरितान् ।
तयोर्युद्धमभूद्राजन् परस्परभयावहम् ॥ ३६॥
गदया ताडयामास केशवो मस्तकोपरि ।
स गदाभिहतो मूर्ध्नि पपातोर्व्यां सुमूर्च्छितः ॥ ३७॥
हाहाकारो महानासीत्सैन्ये तस्य सुदारुणः ।
स विहाय व्यथां दैत्यो मुहूर्तादुत्थितः पुनः ॥ ३८॥
गृहीत्वा परिघं शीर्षे जघान मधुसूदनम् ।
परिघेणाहतस्तेन मूर्च्छामाप जनार्दनः ॥ ३९॥
मूर्च्छितं तमुवाहाशु जगाम गरुडो रणात् ।
परावृत्ते जगन्नाथे देवा इन्द्रपुरोगमाः ॥ ४०॥
भयं प्रापुः सुदुःखार्ताश्चुक्रुशुश्च रणाजिरे ।
क्रन्दमानान्सुरान्वीक्ष्य शङ्करः शूलभृत्तदा ॥ ४१॥
महिषं तरसाभ्येत्य प्राहरद्रोषसंयुतः ।
सोऽपि शक्तिं मुमोचाथ शङ्करस्योरसि स्फुटम् ॥ ४२॥
जगर्ज स च दुष्टात्मा वञ्चयित्वा त्रिशूलकम् ।
शङ्करोऽपि तदा पीडां न प्रापोरसि ताडितः ॥ ४३॥
तं जघान त्रिशूलेन कोपादरुणलोचनः ।
संलग्नं शङ्करं दृष्ट्वा महिषेण दुरात्मना ॥ ४४॥
आजगाम हरिस्तावत्त्यक्त्वा मूर्च्छां प्रहारजाम् ।
महिषस्तु तदा वीक्ष्य सम्प्राप्तौ हरिशङ्करौ ॥ ४५॥
युद्धकामौ महावीर्यो चक्रशूलधरौ वरौ ।
कोपयुक्तो बभूवासौ दृष्ट्वा तौ समुपागतौ ॥ ४६॥
जगाम सम्मुखस्तावत्सङ्ग्रामार्थं महाभुजः ।
माहिषं वपुरास्थाय धुन्वन्पुच्छं समुत्कटम् ॥ ४७॥
चकार भैरवं नादं त्रासयन्नमरानपि ।
धुन्वञ्छृङ्गे महाकायो दारुणो जलदो यथा ॥ ४८॥
शृङ्गाभ्यां पर्वताज्छृङ्गांश्चिक्षेप भृशमुत्कटान् ।
दृष्ट्वा तौ तु महावीर्यौ दानवं देवसत्तमौ ॥ ४९॥
चक्रतुर्बाणवृष्टिं च दानवोपरि दारुणाम् ।
कुर्वाणौ बाणवृष्टिं तौ दृष्ट्वा हरिहरौ हरिः ॥ ५०॥
चिक्षेप गिरिशृङ्गं तु पुच्छेनावृत्य दारुणम् ।
आपतन्तं गिरिं वीक्ष्य भगवान्सात्वतां पतिः ॥ ५१॥
विशिखैः शतधा चक्रे चक्रेणाशु जघान तम् ।
हरिचक्राहतः सङ्ख्ये मूर्च्छामाप स दैत्यराट् ॥ ५२॥
उत्तस्थौ च क्षणान्नूनं मानुषं वपुरास्थितः ।
गदापाणिर्महाघोरो दानवः पर्वतोपमः ॥ ५३॥
मेघनादं ननादोच्चैर्भीषयन्नमरानपि ।
तच्छ्रुत्वा भगवान्विष्णुः पाञ्चजन्यं समुज्ज्वलम् ॥ ५४॥
पूरयामास तरसा शब्दं कर्तुं खरस्वरम् ।
तेन शब्देन शङ्खस्य भयत्रस्ताश्च दानवाः ।
बभूवुर्मुदिता देवा ऋषयश्च तपोधनाः ॥ ५५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे महिषासुरस्येन्द्रादिदेवैः सह युद्धवर्णनं नाम षष्ठोऽध्यायः ॥ ५.६॥
५.७ सप्तमोऽध्यायः । शङ्करशरणगमनवर्णनम् ।
व्यास उवाच ।
असुरान्महिषो दृष्ट्वा विषण्णमनसस्तदा ।
त्यक्त्वा तन्माहिषं रूपं बभूव मृगराडसौ ॥ १॥
कृत्वा नादं महाघोरं विस्तार्य च महासटाम् ।
पपात सुरसेनायां त्रासयन्नखदर्शनैः ॥ २॥
गरुडञ्च नखाघातैः कृत्वा रुधिरविप्लुतम् ।
जघान च भुजे विष्णुं नखाघातेन केसरी ॥ ३॥
वासुदेवोऽपि तं दृष्ट्वा चक्रमुद्यम्य वेगवान् ।
हन्तुकामो हरिः काममवापाशु क्रुधान्वितः ॥ ४॥
यावद्धयरिपुं वेगाच्चक्रेणाभिजघान तम् ।
तावत्सोऽतिबलः शृङ्गी शृङ्गाभ्यां न्यहनद्धरिम् ॥ ५॥
वासुदेवो विषाणाभ्यां ताडितोरसि विह्वलः ।
पलायनपरो वेगाज्जगाम भुवनं निजम् ॥ ६॥
गतं दृष्ट्वा हरिं कामं शङ्करोऽपि भयान्वितः ।
अवध्यं तं परं मत्वा ययौ कैलासपर्वतम् ॥ ७॥
ब्रह्मापि च निजं धाम त्वरितः प्रययौ भयात् ।
मघवा वज्रमालम्ब्य तस्थावाजौ महाबलः ॥ ८॥
वरुणः शक्तिमालम्ब्य धैर्यमालम्ब्य संस्थितः ।
यमोऽपि दण्डमादाय यत्तः समरतत्परः ॥ ९॥
ततो यक्षाधिपः कामं बभूव रणतत्परः ।
पावकः शक्तिमादाय तत्राभूद्युद्धमानसः ॥ १०॥
नक्षत्राधिपतिः सूर्यः समवेतौ स्थितावुभौ ।
वीक्ष्य तं दानवश्रेष्ठं युद्धाय कृतनिश्चयौ ॥ ११॥
एतस्मिन्नन्तरे क्रुद्धं दैत्यसैन्यं समभ्यगात् ।
विसृजन्बाणजालानि क्रूराहिसदृशानि च ॥ १२॥
कृत्वा हि माहिषं रूपं भूपतिः संस्थितस्तदा ।
देवदानवयोधानां निनादस्तुमुलोऽभवत् ॥ १३॥
ज्याघातश्च तलाघातो मेघनादसमोऽभवत् ।
सङ्ग्रामे सुमहाघोरे देवदानवसेनयोः ॥ १४॥
शृङ्गाभ्यां पार्वताञ्छृङ्गांश्चिक्षेप च महाबलः ।
जघान सुरसङ्घांश्च दानवो मदगर्वितः ॥ १५॥
खुराघातैस्तथा देवान्पुच्छस्य भ्रमणेन च ।
स जघान रुषाविष्टो महिषः परमाद्भुतः ॥ १६॥
ततो देवाः सगन्धर्वा भयमाजग्मुरुद्यताः ।
मघवा महिषं दृष्ट्वा पलायनपरोऽभवत् ॥ १७॥
सङ्गरं सम्परित्यज्य गते शक्रे शचीपतौ ।
यमो धनाधिपः पाशी जग्मुः सर्वे भयातुराः ॥ १८॥
महिषोऽपि जयं मत्वा जगाम स्वगृहं ततः ।
ऐरावतं गजं प्राप्य त्यक्तमिन्द्रेण गच्छता ॥ १९॥
तथोच्चैःश्रवसं भानोः कामधेनुं पयस्विनीम् ।
स्वसैन्यसंवृतस्तूर्णं स्वर्गं गन्तुं मनो दधे ॥ २०॥
तरसा देवसदनं गत्वा स महिषासुरः ।
जग्राह सुरराज्यं वै त्यक्तं देवैर्भयातुरैः ॥ २१॥
इन्द्रासने तथा रम्ये दानवः समुपाविशत् ।
दानवान्स्थापयामास देवानां स्थानकेषु सः ॥ २२॥
एवं वर्षशतं पूर्णं कृत्वा युद्धं सुदारुणम् ।
अवापैन्द्रपदं कामं दानवो मदगर्वितः ॥ २३॥
निर्जरा निर्गता नाकात्तेन सर्वेऽतिपीडिताः ।
एवं बहूनि वर्षाणि बभ्रमुर्गिरिगह्वरे ॥ २४॥
श्रान्ताः सर्वे तदा राजन् ब्रह्माणं शरणं ययुः ।
प्रजापतिं जगन्नाथं रजोरूपं चतुर्मुखम् ॥ २५॥
पद्मासनं वेदगर्भं सेवितं मुनिभिः स्वजैः ।
मरीचिप्रमुखैः शान्तैर्वेदवेदाङ्गपारगैः ॥ २६॥
किन्नरैः सिद्धगन्धर्वैश्चारणोरगपन्नगैः ।
तुष्टुवुर्भयभीतास्ते देवदेवं जगद्गुरुम् ॥ २७॥
देवा ऊचुः ।
धातः किमेतदखिलार्तिहराम्बुजन्म
जन्माभिवीक्ष्य न दयां कुरुषे सुरान् यत् ।
सम्पीडितान् रणजितानसुराधिपेन
स्थानच्युतान् गिरिगुहाकृतसन्निवासान् ॥ २८॥
पुत्रान्पिता किमपराधशतैः समेता-
न्सन्त्यज्य लोभरहितः कुरुतेऽतिदुःस्थान् ।
यस्त्वं सुरांस्तव पदाम्बुजभक्तियुक्ता-
न्दैत्यार्दितांश्च कृपणान् यदुपेक्षसेऽद्य ॥ २९॥
अमरभुवनराज्यं तेन भुक्तं नितान्तं
मखहविरपि योग्यं ब्राह्मणैराददाति ।
सुरतरुवरपुष्पं सेवतेऽसौ दुरात्मा
जलनिधिनिधिभूतां गामसौ सेवते ताम् ॥ ३०॥
किं वा गृणीमः सुरकार्यमद्भुतं
जानासि देवेश सुरारिचेष्टितम् ।
ज्ञानेन सर्वं त्वमशेषकार्यवि-
त्तस्मात्प्रभो ते प्रणताः स्म पादयोः ॥ ३१॥
यत्रापि कुत्रापि गतान्सुरानसौ
नानाचरित्रः खलु पापमानसः ।
पीडां करोत्येव स दुष्टचेष्टित-
स्त्रातासि देवेश विधेहि शं विभो ॥ ३२॥
नो चेद्वयं दावमहाग्निपीडिताः
कं शान्तिकर्तारमनन्ततेजसम् ।
यामः प्रजेशं शरणं सुरेष्टं
धातारमाद्यं परिमुच्य कं शिवम् ॥ ३३॥
व्यास उवाच ।
इति स्तुत्वा सुराः सर्वे प्रणेमुस्तं प्रजापतिम् ।
बद्धाञ्जलिपुटाः सर्वे विषण्णवदना भृशम् ॥ ३४॥
तांस्तथा पीडितान्दृष्ट्वा तदा लोकपितामहः ।
उवाच श्लक्ष्णया वाचा सुखं सञ्जनयन्निव ॥ ३५॥
ब्रह्मोवाच ।
किं करोमि सुराः कामं दानवो वरदर्पितः ।
स्त्रीवध्योऽसौ न पुंवध्यो विधेयं तत्र किं पुनः ॥ ३६॥
व्रजामोऽद्य सुराः सर्वे कैलासं पर्वतोत्तमम् ।
शङ्करं पुरतः कृत्वा सर्वकार्यविशारदम् ॥ ३७॥
ततो व्रजाम वैकुण्ठं यत्र देवो जनार्दनः ।
मिलित्वा देवकार्यञ्च विमृशामो विशेषतः ॥ ३८॥
इत्युक्त्वा हंसमारुह्य ब्रह्मा कार्यसमुच्चये ।
देवांश्च पृष्ठतः कृत्वा कैलासाभिमुखो ययौ ॥ ३९॥
तावच्छिवोऽपि तरसा ज्ञात्वा ध्यानेन पद्मजम् ।
आगच्छन्तं सुरैः सार्धं निर्गतः स्वगृहाद्बहिः ॥ ४०॥
दृष्ट्वा परस्परं तौ तु कृताभिवादनौ भृशम् ।
प्रणतौ च सुरैः सर्वैः सन्तुष्टौ सम्बभूवतुः ॥ ४१॥
आसनानि पृथग्दत्त्वा देवेभ्यो गिरिजापतिः ।
उपविष्टेषु तेष्वेव निषसादासने स्वके ॥ ४२॥
कृत्वा तु कुशलप्रश्नं ब्रह्माणं वृषभध्वजः ।
पप्रच्छ कारणं देवान्कैलासागमने विभुः ॥ ४३॥
शिव उवाच ।
किमत्रागमनं ब्रह्मन् कृतं देवैः सवासवैः ।
भवता च महाभाग ब्रूहि तत्कारणं किल ॥ ४४॥
ब्रह्मोवाच ।
महिषेण सुरेशान पीडिताः स्वर्निवासिनः ।
भ्रमन्ति गिरिदुर्गेषु भयत्रस्ताः सवासवाः ॥ ४५॥
यज्ञभुग्महिषो जातस्तथान्ये सुरशत्रवः ।
पीडिता लोकपालाश्च त्वामद्य शरणं गताः ॥ ४६॥
मया ते भवनं शम्भो प्रापिताः कार्यगौरवात् ।
यद्युक्तं तद्विधत्स्वाद्य सुरकार्यं सुरेश्वर ॥ ४७॥
त्वयि भारोऽस्ति सर्वेषां देवानां भूतभावन ।
व्यास उवाच ।
इति तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ॥ ४८॥
वचनं श्लक्ष्णया वाचा प्रोवाच पद्मजं प्रति ।
शिव उवाच ।
भवतैव कृतं कार्यं वरदानात्पुरा विभो ॥ ४९॥
अनर्थदञ्च देवानां किं कर्तव्यमतः परम् ।
ईदृशो बलवाञ्छूरः सर्वदेवभयप्रदः ॥ ५०॥
का समर्था वरा नारी तं हन्तुं मददर्पितम् ।
न मे भार्या न ते भार्या सङ्ग्रामं गन्तुमर्हति ॥ ५१॥
गत्वैव ते महाभागे युयुधाते कथं पुनः ।
इन्द्राणी च महाभागा न युद्धकुशलास्ति हि ॥ ५२॥
कान्या हन्तुं समर्थास्ति तं पापं मददर्पितम् ।
ममेदं मतमद्यैव गत्वा देवं जनार्दनम् ॥ ५३॥
स्तुत्वा तं देवकार्याय प्रेरयामः सुसत्वरम् ।
सोऽतिबुद्धिमतां श्रेष्ठो विष्णुः सर्वार्थसाधने ॥ ५४॥
मिलित्वा वासुदेवं वै कर्तव्यं कार्यचिन्तनम् ।
प्रपञ्चेन च बुद्ध्या स संविधास्यति साधनम् ॥ ५५॥
व्यास उवाच ।
इति रुद्रवचः श्रुत्वा ब्रह्माद्याः सुरसत्तमाः ।
उत्थितास्ते तथेत्युक्त्वा शिवेन सह सत्वराः ॥ ५६॥
स्वकीयैर्वाहनैः सर्वे ययुविष्णपुरं प्रति ।
मुदिताः शकुनान्दृष्ट्वा कार्यसिद्धिकराञ्छुभान् ॥ ५७॥
ववुर्वाताः शुभाः शान्ताः सुगन्धाः शुभशंसिनः ।
पक्षिणश्च शिवा वाचस्तत्रोचुः पथि सर्वशः ॥ ५८॥
निर्मलं चाभवद्व्योम दिशश्च विमलास्तथा ।
गमने तत्र देवानां सर्वं शुभमिवाभवत् ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
पराजितदेवतानां शङ्करशरणगमनवर्णनं नाम सप्तमोऽध्यायः ॥ ५.७॥
५.८ अष्टमोऽध्यायः । देव्याः स्वरूपोद्भववर्णनम् ।
व्यास उवाच ।
तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् ।
ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १॥
सरोवापीसरिद्भिश्च संयुतं सुखदं शुभम् ।
हंससारसचक्राह्वैः कूजद्भिश्च विराजितम् ॥ २॥
चम्पकाशोककह्लारमन्दारबकुलावृतैः ।
मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ ३॥
कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः ।
भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम् ॥ ४॥
सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः ।
संस्तुवद्भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ ५॥
प्रासादै रत्नखचितैः काञ्चनैश्चित्रमण्डितैः ।
अभ्रंलिहैर्विराजद्भिः संयुतं शुभसद्मकैः ॥ ६॥
गायद्भिर्देवगन्धर्वैर्नृत्यद्भिरप्सरोगणैः ।
रञ्जितं किन्नरैः शश्वद्रक्तकण्ठेर्मनोहरैः ॥ ७॥
मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः ।
स्तुवद्भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ ८॥
ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती ।
वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ ९॥
गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् ।
द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ १०॥
व्यास उवाच ।
विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ ।
सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ ११॥
विजय उवाच ।
देवदेव महाराज रमाकान्त सुरारिहन् ।
समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ १२॥
ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः ।
स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ १३॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः ।
निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ १४॥
गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् ।
प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ १५॥
प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् ।
तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ १६॥
देवा ऊचुः ।
देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक ।
दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ १७॥
विष्णुरुवाच ।
विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः ।
आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ १८॥
चिन्तातुराः कथं जाता विषण्णा दीनमानसाः ।
ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ १९॥
देवा ऊचुः ।
महिषेण महाराज पीडिताः पापकर्मणा ।
असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ २०॥
यज्ञभागानसौ भुङ्क्ते ब्राह्मणैः प्रतिपादितान् ।
अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ २१॥
वरदानेन धातुः स दुर्जयो मधुसूदन ।
तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ २२॥
समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद ।
कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ २३॥
धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल ।
का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ २४॥
उमा मा वा शची विद्या का समर्थास्य घातने ।
महिषस्यातिदुष्टस्य वरदानबलादपि ॥ २५॥
विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् ।
कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ २६॥
व्यास उवाच ।
श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव ।
युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ २७॥
अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा ।
उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ २८॥
हयारिं वरदृप्तञ्च मायाशतविशारदम् ।
हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ २९॥
प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः ।
उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ ३०॥
आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः ।
तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ ३१॥
सर्वायुधधरा नारी सर्वतेजःसमन्विता ।
हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ ३२॥
व्यास उवाच ।
इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः ।
स्वयमेवोद्बभौ तेजोराशिश्चातीव दुःसहः ॥ ३३॥
रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् ।
किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ ३४॥
निःसृतं हरिणा दृष्टं हरेण च महात्मना ।
विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ ३५॥
शङ्करस्य शरीरात्तु निःसृतं महदद्भुतम् ।
रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ ३६॥
भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् ।
घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ ३७॥
ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् ।
नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ ३८॥
ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् ।
आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ ३९॥
कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः ।
निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ ४०॥
अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् ।
निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ ४१॥
तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः ।
तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ ४२॥
पश्यतां तत्र देवानां तेजःपुञ्जसमुद्भवा ।
बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ ४३॥
त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा ।
अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ ४४॥
श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा ।
ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ ४५॥
अष्टादशभुजा देवी सहस्रभुजमण्डिता ।
सम्भूतासुरनाशाय तेजोराशिसमुद्भवा ॥ ४६॥
जनमेजय उवाच ।
कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम ।
विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्भवम् ॥ ४७॥
एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् ।
अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ ४८॥
भिन्नभागविभागेन जातान्यङ्गानि यानि तु ।
मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ ४९॥
ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्भवम् ।
बभूव यस्य देवस्य तेजसोऽङ्गं यदद्भुतम् ॥ ५०॥
आयुधाभरणादीनि दत्तानि यैर्यथा यथा ।
तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ ५१॥
न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् ।
चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ ५२॥
सूत उवाच ।
इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः ।
उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ ५३॥
व्यास उवाच ।
शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते ।
यथामति कुरुश्रेष्ठ तस्या देहसमुद्भवम् ॥ ५४॥
न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः ।
याथातथ्येन तद्रूपं वक्तुमीशः कदाचन ॥ ५५॥
कथं जानाम्यहं देव्या यद्रूपं यादृशं यतः ।
वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ ५६॥
सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये ।
नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ ५७॥
यथा नटो रङ्गगतो नानारूपो भवत्यसौ ।
एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ ५८॥
तथैषा देवकार्यार्थमरूपापि स्वलीलया ।
करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ ५९॥
कार्यकर्मानुसारेण नामानि प्रभवन्ति हि ।
धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ ६०॥
तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप ।
यथा तेजःसमुद्भूतं रूपं तस्या मनोहरम् ॥ ६१॥
शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् ।
श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ ६२॥
केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् ।
वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ ६३॥
नयनत्रितयं तस्या जज्ञे पावकतेजसा ।
कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ ६४॥
वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ ।
जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ ६५॥
वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः ।
नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ ६६॥
तिलपुष्पसमाकारा नासिका सुमनोहरा ।
सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ ६७॥
दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः ।
सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ ६८॥
अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा ।
उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ ६९॥
अष्टादशभुजाकारा बाहवो विष्णुतेजसा ।
वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ ७०॥
सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् ।
ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ ७१॥
जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः ।
नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ ७२॥
एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् ।
समुत्पन्ना तथा राजंस्तेजोराशिसमुद्भवा ॥ ७३॥
तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् ।
मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ ७४॥
विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च ।
प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ ७५॥
स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः ।
समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ ७६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
पञ्चमस्कन्धे देव्याः स्वरूपोद्भववर्णनं नामाष्टमोऽध्यायः ॥ ५.८॥
५.९ नवमोऽध्यायः । महिषमन्त्रिणा देवीवार्तावर्णनम् ।
व्यास उवाच ।
देवा विष्णुवचः श्रुत्वा सर्वे प्रमुदितास्तदा ।
ददुश्च भूषणान्याशु वस्त्राणि स्वायुधानि च ॥ १॥
क्षीरोदश्चाम्बरे दिव्ये रक्ते सूक्ष्मे तथाजरे ।
निर्मलञ्च तथा हारं प्रीतस्तस्मै सुमण्डितम् ॥ २॥
ददौ चूडामणिं दिव्यं सूर्यकोटिसमप्रभम् ।
कुण्डले च तथा शुभ्रे कटकानि भुजेषु वै ॥ ३॥
केयूरान्कङ्कणान्दिव्यान्नानारत्नविराजितान् ।
ददौ तस्यै विश्वकर्मा प्रसन्नेन्द्रियमानसः ॥ ४॥
नूपुरौ सुस्वरौ कान्तौ निर्मलौ रत्नभूषितौ ।
ददौ सूर्यप्रतीकाशौ त्वष्टा तस्यै सुपादयोः ॥ ५॥
तथा ग्रैवेयकं रम्यं ददौ तस्यै महार्णवः ।
अङ्गुलीयकरत्नानि तेजोवन्ति च सर्वशः ॥ ६॥
अम्लानपङ्कजां मालां गन्धाढ्यां भ्रमरानुगाम् ।
तथैव वैजयन्तीञ्च वरुणः सम्प्रयच्छत ॥ ७॥
हिमवानथ सन्तुष्टो रत्नानि विविधानि च ।
ददौ च वाहनं सिंहं कनकाभं मनोहरम् ॥ ८॥
भूषणैर्भूषिता दिव्यैः सा रराज वरा शुभा ।
सिंहारूढा वरारोहा सर्वलक्षणसंयुता ॥ ९॥
विष्णुश्चक्रात्समुत्पाद्य ददावस्यै रथाङ्गकम् ।
सहस्रारं सुदीप्तञ्च देवारिशिरसां हरम् ॥ १०॥
स्वत्रिशूलात्समुत्पाद्य शङ्करः शूलमुत्तमम् ।
ददौ देव्यै सुरारीणां कृन्तनं भयनाशनम् ॥ ११॥
वरुणश्च प्रसन्नात्मा ददौ शङ्खं समुज्वलम् ।
घोषवन्तं स्वशङ्खात्तु समुत्पाद्य सुमङ्गलम् ॥ १२॥
हुताशनस्तथा शक्तिं शतघ्नीं सुमनोजवाम् ।
प्रायच्छत्तु प्रसन्नात्मा तस्यै दैत्यविनाशिनीम् ॥ १३॥
इषुधिं बाणपूर्णञ्च चापं चाद्भुतदर्शनम् ।
मारुतो दत्तवांस्तस्यै दुराकर्षं खरस्वरम् ॥ १४॥
स्ववज्राद्वज्रमुत्पाद्य ददाविन्द्रोऽतिदारुणम् ।
घण्टामैरावतात्तूर्णं सुशब्दां चातिसुन्दराम् ॥ १५॥
ददौ दण्डं यमः कामं कालदण्डसमुद्भवम् ।
येनान्तं सर्वभूतानामकरोत्काल आगते ॥ १६॥
ब्रह्मा कमण्डलुं दिव्यं गङ्गावारिप्रपूरितम् ।
ददावस्यै मुदा युक्तो वरुणः पाशमेव च ॥ १७॥
कालः खड्गं तथा चर्म प्रायच्छत्तु नराधिप ।
परशुं विश्वकर्मा च तीक्ष्णमस्यै ददावथ ॥ १८॥
धनदस्तु सुरापूर्णं पानपात्रं सुवर्णजम् ।
पङ्कजं वरुणश्चादाद्देव्यै दिव्यं मनोहरम् ॥ १९॥
गदां कौमोदकीं त्वष्टा घण्टाशतनिनादिनीम् ।
अदात्तस्यै प्रसन्नात्मा सुरशत्रुविनाशिनीम् ॥ २०॥
अस्त्राण्यनेकरूपाणि तथाभेद्यञ्च दंशनम् ।
ददौ त्वष्टा जगन्मात्रे निजरश्मीन्दिवाकरः ॥ २१॥
सायुधां भूषणैर्युक्तां दृष्ट्वा ते विस्मयं गताः ।
तुष्टुवुस्तां सुरा देवीं त्रैलोक्यमोहिनीं शिवाम् ॥ २२॥
देवा ऊचुः ।
नमः शिवायै कल्याण्यै शान्त्यै पुष्ट्यै नमो नमः ।
भगवत्यै नमो देव्यै रुद्राण्यै सततं नमः ॥ २३॥
कालरात्र्यै तथाम्बायै इन्द्राण्यै ते नमो नमः ।
सिद्ध्यै बुद्ध्यै तथा वृद्ध्यै वैष्णव्यै ते नमो नमः ॥ २४॥
पृथिव्यां या स्थिता पृथ्व्या न ज्ञाता पृथिवीञ्च या ।
अन्तःस्थिता यमयति वन्दे तामीश्वरीं पराम् ॥ २५॥
मायायां या स्थिता ज्ञाता मायया न च तामजाम् ।
अन्तःस्थिता प्रेरयति प्रेरयित्रीं नुमः शिवाम् ॥ २६॥
कल्याणं कुरु भो मातस्त्राहि नः शत्रुतापितान् ।
जहि पापं हयारिं त्वं तेजसा स्वेन मोहितम् ॥ २७॥
खलं मायाविनं घोरं स्त्रीवध्यं वरदर्पितम् ।
दुःखदं सर्वदेवानां नानारूपधरं शतम् ॥ २८॥
त्वमेका सर्वदेवानां शरणं भक्तवत्सले ।
पीडितान्दानवेनाद्य त्राहि देवि नमोऽस्तु ते ॥ २९॥
व्यास उवाच ।
एवं स्तुता तदा देवी सुरैः सर्वसुखप्रदा ।
तानुवाच महादेवी स्मितपूर्वं शुभं वचः ॥ ३०॥
देव्युवाच ।
भयं त्यजन्तु गीर्वाणा महिषान्मन्दचेतसः ।
हनिष्यामि रणेऽद्यैव वरदृप्तं विमोहितम् ॥ ३१॥
व्यास उवाच ।
इत्युक्त्वा सा सुरान्देवी जहासातीव सुस्वरम् ।
चित्रमेतच्च संसारे भ्रममोहयुतं जगत् ॥ ३२॥
ब्रह्मविष्णुमहेशाद्याः सेन्द्राश्चान्ये सुरास्तथा ।
कम्पयुक्ता भयत्रस्ता वर्तन्ते महिषात्किल ॥ ३३॥
अहो दैवबलं घोरं दुर्जयं सुरसत्तमाः ।
कालः कर्तास्ति दुःखानां सुखानां प्रभुरीश्वरः ॥ ३४॥
सृष्टिपालनसंहारे समर्था अपि ते यदा ।
मुह्यन्ति क्लेशसन्तप्ता महिषेण प्रपीडिताः ॥ ३५॥
इति कृत्वा स्मितं देवी साट्टहासं चकार ह ।
उच्चैः शब्दं महाघोरं दानवानां भयप्रदम् ॥ ३६॥
चकम्पे वसुधा तत्र श्रुत्वा तच्छब्दमद्भुतम् ।
चेलुश्च पर्वताः सर्वे चुक्षोभाब्धिश्च वीर्यवान् ॥ ३७॥
मेरुश्चचाल शब्देन दिशः सर्वाः प्रपूरिताः ।
भयं जग्मुस्तदा श्रुत्वा दानवास्तत्स्वनं महत् ॥ ३८॥
जय पाहीति देवास्तामूचुः परमहर्षिताः ।
महिषोऽपि स्वनं श्रुत्वा चुकोप मदगर्वितः ॥ ३९॥
किमेतदिति तान्दैत्यान्पप्रच्छ स्वनशङ्कितः ।
गच्छन्तु त्वरिता दूता ज्ञातुं शब्दसमुद्भवम् ॥ ४०॥
कृतः केनायमत्युग्रः शब्दः कर्णव्यथाकरः ।
देवो वा दानवो वापि यो भवेत्स्वनकारकः ॥ ४१॥
गृहीत्वा तं दुरात्मानं मत्समीपं नयन्त्विह ।
हनिष्यामि दुराचारं गर्जन्तं स्मयदुर्मदम् ॥ ४२॥
क्षीणायुष्यं मन्दमतिं नयामि यमसादनम् ।
पराजिताः सुराः कामं न गर्जन्ति भयातुराः ॥ ४३॥
नासुरा मम वश्यास्ते कस्येदं मूढचेष्टितम् ।
त्वरिता मामुपायान्तु ज्ञात्वा शब्दस्य कारणम् ॥ ४४॥
अहं गत्वा हनिष्यामि तं पापं वितथश्रमम् ।
व्यास उवाच ।
इत्युक्तास्तेन ते दूता देवीं सर्वाङ्गसुन्दरीम् ॥ ४५॥
अष्टादशभुजां दिव्यां सर्वाभरणभूषिताम् ।
सर्वलक्षणसम्पन्नां वरायुधधरां शुभाम् ॥ ४६॥
दधतीं चषकं हस्ते पिबन्तीं च मुहुर्मधु ।
संवीक्ष्य भयभीतास्ते जग्मुस्त्रस्ताः सुशङ्किताः ॥ ४७॥
सकाशे महिषस्याशु तमूचुः स्वनकारणम् ।
दूता ऊचुः ।
देवी दैत्येश्वर प्रौढा दृश्यते काचिदङ्गना ॥ ४८॥
सर्वाङ्गभूषणा नारी सर्वरत्नोपशोभिता ।
न मानुषी नासुरी सा दिव्यरूपा मनोहरा ॥ ४९॥
सिंहारूढायुधधरा चाष्टादशकरा वरा ।
सा नादं कुरुते नारी लक्ष्यते मदगर्विता ॥ ५०॥
सुरापानरता कामं जानीमो न सभर्तृका ।
अन्तरिक्षस्थिता देवास्तां स्तुवन्ति मुदान्विताः ॥ ५१॥
जयेति पाहि नश्चेति जहि शत्रुमिति प्रभो ।
न जाने का वरारोहा कस्य वा सा परिग्रहः ॥ ५२॥
किमर्थमागता चात्र किं चिकीर्षति सुन्दरी ।
द्रष्टुं नैव समर्थाः स्मस्तत्तेजःपरिधर्षिताः ॥ ५३॥
शृङ्गारवीरहासाढ्या रौद्राद्भुतरसान्विता ।
दृष्ट्वैवैवंविधां नारीमसम्भाष्य समागताः ॥ ५४॥
वयं त्वदाज्ञया राजन् किं कर्तव्यमतःपरम् ।
महिष उवाच ।
गच्छ वीर मयादिष्टो मन्त्रिश्रेष्ठ बलान्वितः ॥ ५५॥
सामादिभिरुपायैस्त्वं समानय शुभाननाम् ।
नायाति यदि सा नारी त्रिभिः सामादिभिस्त्विह ॥ ५६॥
अहत्वा तां वरारोहां त्वमानय ममान्तिकम् ।
करोमि पट्टमहिषीं तां मरालभ्रुवं मुदा ॥ ५७॥
प्रीतियुक्ता समायाति यदि सा मृगलोचना ।
रसभङ्गो यथा न स्यात्तथा कुरु ममेप्सितम् ॥ ५८॥
श्रवणान्मोहितोऽस्म्यद्य तस्या रूपस्य सम्पदा ।
व्यास उवाच ।
महिषस्य वचः श्रुत्वा पेशलं मन्त्रिसत्तमः ॥ ५९॥
जगाम तरसा कामं गजाश्वरथसंयुतः ।
गत्वा दूरतरं स्थित्वा तामुवाच मनस्विनीम् ॥ ६०॥
विनयावनतः श्लक्ष्णं मन्त्री मधुरया गिरा ।
प्रधान उवाच ।
कासि त्वं मधुरालापे किमत्रागमनं कृतम् ॥ ६१॥
पृच्छति त्वां महाभागे मन्मुखेन मम प्रभुः ।
स जेता सर्वदेवानामवध्यस्तु नरैः किल ॥ ६२॥
ब्रह्मणो वरदानेन गर्वितश्चारुलोचने ।
दैत्येश्वरोऽसौ बलवान्कामरूपधरः सदा ॥ ६३॥
श्रुत्वा त्वां समुपायातां चारुवेषां मनोहराम् ।
द्रष्टुमिच्छति राजा मे महिषो नाम पार्थिवः ॥ ६४॥
मानुषं रूपमादाय त्वत्समीपं समेष्यति ।
यथा रुच्येत चार्वङ्गि तथा मन्यामहे वयम् ॥ ६५॥
तर्ह्येहि मृगशावाक्षि समीपं तस्य धीमतः ।
नो चेदिहानयाम्येनं राजानं भक्तितत्परम् ॥ ६६॥
तथा करोमि देवेशि यथा ते मनसेप्सितम् ।
वशगोऽसौ तवात्यर्थं रूपसंश्रवणात्तव ॥ ६७॥
करभोरु वदाशु त्वं संविधेयं मया तथा ॥ ६८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे महिषमन्त्रिणा
देवीवार्तावर्णनं नाम नवमोऽध्यायः ॥ ५.९॥
५.१० दशमोऽध्यायः । मन्त्रीद्वारा महिषासुरेण देव्या सह विवाहप्रस्तावः ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा प्रहस्य प्रमदोत्तमा ।
तमुवाच महाराज मेघगम्भीरया गिरा ॥ १॥
देव्युवाच ।
मन्त्रिवर्य सुराणां वै जननीं विद्धि मां किल ।
महालक्ष्मीमिति ख्यातां सर्वदैत्यनिषूदिनीम् ॥ २॥
प्रार्थिताहं सुरैः सर्वैर्महिषस्य वधाय च ।
पीडितैर्दानवेन्द्रेण यज्ञभागबहिष्कृतैः ॥ ३॥
तस्मादिहागतास्म्यद्य तद्वधार्थं कृतोद्यमा ।
एकाकिनी न सैन्येन संयुता मन्त्रिसत्तम ॥ ४॥
यत्त्वयाहं सामपूर्वं कृत्वा स्वागतमादरात् ।
उक्ता मधुरया वाचा तेन तुष्टास्मि तेऽनघ ॥ ५॥
नोचेद्धन्मि दृशा त्वां वै कालाग्निसमया किल ।
कस्य प्रीतिकरं न स्यान्माधुर्यवचनं खलु ॥ ६॥
गच्छ तं महिषं पापं वद मद्वचनादिदम् ।
गच्छ पातालमधुना जीवितेच्छा यदस्ति ते ॥ ७॥
नोचेत्कृतागसं दुष्टं हनिष्यामि रणाङ्गणे ।
मद्बाणक्षुण्णदेहस्त्वं गन्तासि यमसादनम् ॥ ८॥
दयालुत्वं ममेदं त्वं विदित्वा गच्छ सत्वरम् ।
हते त्वयि सुरा मूढ स्वर्गं प्राप्स्यन्ति सत्वरम् ॥ ९॥
तस्माद् गच्छस्व त्यक्त्वैको मेदिनीञ्च ससागराम् ।
पातालं तरसा मन्द यावद् बाणा न मेऽपतन् ॥ १०॥
युद्धेच्छा चेन्मनसि ते तर्ह्येहि त्वरितोऽसुर ।
वीरैर्महाबलैः सर्वैर्नयामि यमसादनम् ॥ ११॥
युगे युगे महामूढ हतास्त्वत्सदृशाः किल ।
असङ्ख्यातास्तथा त्वां वै हनिष्यामि रणाङ्गणे ॥ १२॥
साफल्यं कुरु शस्त्राणां धारणे तु श्रमोऽन्यथा ।
तद्युध्यस्व मया सार्धं समरे स्मरपीडितः ॥ १३॥
मा गर्वं कुरु दुष्टात्मन् यन्मेऽस्ति ब्रह्मणो वरः ।
स्त्रीवध्यत्वे त्वया मूढ पीडिताः सुरसत्तमाः ॥ १४॥
कर्तव्यं वचनं धातुस्तेनाहं त्वामुपागता ।
स्त्रीरूपमतुलं कृत्वा सत्यं हन्तुं कृतागसम् ॥ १५॥
यथेच्छं गच्छ वा मूढ पातालं पन्नगावृतम् ।
हित्वा भूसुरसद्माद्य जीवितेच्छा यदस्ति ते ॥ १६॥
व्यास उवाच ।
इत्युक्तः स ततो देव्या मन्त्रिश्रेष्ठो बलान्वितः ।
प्रत्युवाच निशम्यासौ वचनं हेतुगर्भितम् ॥ १७॥
देवि स्त्रीसदृशं वाक्यं ब्रूषे त्वं मदगर्विता ।
क्वासौ क्व त्वं कथं युद्धमसम्भाव्यमिदं किल ॥ १८॥
एकाकिनी पुनर्बाला प्रारब्धयौवना मृदुः ।
महिषोऽसौ महाकायो दुर्विभाव्यं हि सङ्गतम् ॥ १९॥
सैन्यं बहुविधं तस्य हस्त्यश्वरथसङ्कुलम् ।
पदातिगणसंविद्धं नानायुधविराजितम् ॥ २०॥
कः श्रमः करिराजस्य मालतीपुष्पमर्दने ।
मारणे तव वामोरु महिषस्य तथा रणे ॥ २१॥
यदि त्वां परुषं वाक्यं ब्रवीमि स्वल्पमप्यहम् ।
शृङ्गारे तद्विरुद्धं हि रसभङ्गाद्बिभेम्यहम् ॥ २२॥
राजास्माकं सुररिपुर्वर्तते त्वयि भक्तिमान् ।
साममेव मया वाच्यं दानयुक्तं तथा वचः ॥ २३॥
नोचेद्धन्म्यहमद्यैव बाणेन त्वां मृषावदाम् ।
मिथ्याभिमानचतुरां रूपयौवनगर्विताम् ॥ २४॥
स्वामी मे मोहितः श्रुत्वा रूपं ते भुवनातिगम् ।
तत्प्रियार्थं प्रियं कामं वक्तव्यं त्वयि यन्मया ॥ २५॥
राज्यं तव धनं सर्वं दासस्ते महिषः किल ।
कुरु भावं विशालाक्षि त्यक्त्वा रोषं मृतिप्रदम् ॥ २६॥
पतामि पादयोस्तेऽहं भक्तिभावेन भामिनि ।
पट्टराज्ञी महाराज्ञो भव शीघ्रं शुचिस्मिते ॥ २७॥
त्रैलोक्यविभवं सर्वं प्राप्स्यसि त्वमनाविलम् ।
सुखं संसारजं सर्वं महिषस्य परिग्रहात् ॥ २८॥
देव्युवाच ।
शृणु साचिव वक्ष्यामि वाक्यानां सारमुत्तमम् ।
शास्त्रदृष्टेन मार्गेण चातुर्यमनुचिन्त्य च ॥ २९॥
महिषस्य प्रधानस्त्वं मया ज्ञातं धिया किल ।
पशुबुद्धिस्वभावोऽसि वचनात्तव साम्प्रतम् ॥ ३०॥
मन्त्रिणस्त्वादृशा यस्य स कथं बुद्धिमान्भवेत् ।
उभयोः सदृशो योगः कृतोऽयं विधिना किल ॥ ३१॥
यदुक्तं स्त्रीस्वभावासि तद्विचारस्य मूढ किम् ।
पुमान्नाहं तत्स्वभावाभवंस्त्रीवेषधारिणी ॥ ३२॥
याचितं मरणं पूर्वं स्त्रिया त्वत्प्रभुणा यथा ।
तस्मान्मन्येऽतिमूर्खोऽसौ न वीररसवित्तमः ॥ ३३॥
कामिन्या मरणं क्लीबरतिदं शूरदुःखदम् ।
प्रार्थितं प्रभुणा तेन महिषेणात्मबुद्धिना ॥ ३४॥
तस्मात्स्त्रीरूपमाधाय कार्यं कर्तुमुपागता ।
कथं बिभेमि त्वद्वाक्यैर्धर्मशास्त्रविरोधकैः ॥ ३५॥
विपरीतं यदा दैवं तृणं वज्रसमं भवेत् ।
विधिश्चेत्सुमुखः कामं कुलिशं तूलवत्तदा ॥ ३६॥
किं सैन्यैरायुधैः किं वा प्रपञ्चैर्दुर्गसेवनैः ।
मरणं साम्प्रतं यस्य तस्य सैन्यैस्तु किं फलम् ॥ ३७॥
यदायं देहसम्बन्धो जीवस्य कालयोगतः ।
तदैव लिखितं सर्वं सुखं दुःखं तथा मृतिः ॥ ३८॥
यस्य येन प्रकारेण मरणं दैवनिर्मितम् ।
तस्य तेनैव जायेत नान्यथेति विनिश्चयः ॥ ३९॥
ब्रह्मादीनां यथा काले नाशोत्पत्ती विनिर्मिते ।
तथैव भवतः कामं किमन्येषां विचार्यते ॥ ४०॥
ये मृत्युधर्मिणस्तेषां वरदानेन दर्पिताः ।
मरिष्यामो न मन्यन्ते ते मूढा मन्दचेतसः ॥ ४१॥
तस्माद् गच्छ नृपं ब्रूहि वचनं मम सत्वरम् ।
यदाज्ञापयते भूपस्तत्कर्तव्यं त्वया किल ॥ ४२॥
मघवा स्वर्गमाप्नोतु देवाः सन्तु हविर्भुजः ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ४३॥
अन्यथा चेन्मतिर्मन्द महिषस्य दुरात्मनः ।
तद्युध्यस्व मया सार्धं मरणाय कृतादरः ॥ ४४॥
मन्यसे सङ्गरे भग्ना देवा विष्णुपुरोगमाः ।
दैवं हि कारणं तत्र वरदानं प्रजापतेः ॥ ४५॥
व्यास उवाच ।
इति देव्या वचः श्रुत्वा चिन्तयामास दानवः ।
किं कर्तव्यं मया युद्धं गन्तव्यं वा नृपं प्रति ॥ ४६॥
विवाहार्थमिहाज्ञप्तो राज्ञा कामातुरेण वै ।
तत्कथं विरसं कृत्वा गच्छेयं नृपसन्निधौ ॥ ४७॥
इयं बुद्धिः समीचीना यद् व्रजामि कलिं विना ।
यथागतं तथा शीघ्रं राज्ञे संवेदयाम्यहम् ॥ ४८॥
स प्रमाणं पुनः कार्ये राजा मतिमतां वरः ।
करिष्यति विचार्यैव सचिवैर्निपुणैः सह ॥ ४९॥
सहसा न मया युद्धं कर्तव्यमनया सह ।
जये पराजये वापि भूपतेरप्रियं भवेत् ॥ ५०॥
यदि मां सुन्दरी हन्यादहं वा हन्मि तां पुनः ।
येन केनाप्युपायेन स कुप्येत्पार्थिवः किल ॥ ५१॥
तस्मात्तत्रैव गत्वाहं बोधयिष्यामि तं नृपम् ।
यथाद्याभिहितं देव्या यथारुचि करोतु सः ॥ ५२॥
व्यास उवाच ।
इति सञ्चिन्त्य मेधावी जगाम नृपसन्निधौ ।
प्रणम्य तमुवाचेदं कृताञ्जलिरमात्यकः ॥ ५३॥
मन्त्र्युवाच ।
राजन् देवी वरारोहा सिंहस्योपरि संस्थिता ।
अष्टादशभुजा रम्या वरायुधधरा परा ॥ ५४॥
सा मयोक्ता महाराज महिषं भज भामिनि ।
महिषी भव राज्ञस्त्वं त्रैलोक्याधिपतेः प्रिया ॥ ५५॥
पट्टराज्ञी त्वमेवास्य भविता नात्र संशयः ।
स तवाज्ञाकरो जातो वशवर्ती भविष्यति ॥ ५६॥
त्रैलोक्यविभवं भुक्त्वा चिरकालं वरानने ।
महिषं पतिमासाद्य योषितां सुभगा भव ॥ ५७॥
इति मद्वचनं श्रुत्वा सा स्मयावेशमोहिता ।
मामुवाच विशालाक्षी स्मितपूर्वमिदं वचः ॥ ५८॥
महिषीगर्भसम्भूतं पशूनामधमं किल ।
बलिं दास्याम्यहं देव्यै सुराणां हितकाम्यया ॥ ५९॥
का मूढा कामिनी लोके महिषं वै पतिं भजेत् ।
मादृशी मन्दबुद्धे किं पशुभावं भजेदिह ॥ ६०॥
महिषी महिषं नाथं सशृङ्गा शृङ्गसंयुतम् ।
कुरुते क्रन्दमाना वै नाहं तत्सदृशी शठा ॥ ६१॥
करिष्येऽहं मृधे युद्धं हनिष्ये त्वां सुराप्रियम् ।
गच्छ वा दुष्ट पातालं जीवितेच्छा यदस्ति ते ॥ ६२॥
परुषं तु तया वाक्यमित्युक्तं नृप मत्तया ।
तच्छ्रुत्वाहं समायातः प्रविचिन्त्य पुनः पुनः ॥ ६३॥
रसभङ्गं विचिन्त्यैव न युद्धं तु मया कृतम् ।
आज्ञां विना तवात्यन्तं कथं कुर्यां वृथोद्यमम् ॥ ६४॥
सातीव च बलोन्मत्ता वर्तते भूप भामिनी ।
भवितव्यं न जानामि किं वा भावि भविष्यति ॥ ६५॥
कार्येऽस्मिंस्त्वं प्रमाणं नो मन्त्रोऽतीव दुरासदः ।
युद्धं पलायनं श्रेयो न जानेऽहं विनिश्चयम् ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे मन्त्रीद्वारा महिषासुरेण
देव्या सह विवाहप्रस्तावो नाम दशमोऽध्यायः ॥ ५.१०॥
५.११ एकादशोऽध्यायः । ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा महिषो मदविह्वलः ।
मन्त्रिवृद्धान् समाहूय राजा वचनमब्रवीत् ॥ १॥
राजोवाच ।
मन्त्रिणः किं च कर्तव्यं विश्रब्धं ब्रूत मा चिरम् ।
आगता देवविहिता मायेयं शाम्बरीव किम् ॥ २॥
कार्येऽस्मिन्निपुणा यूयमुपायेषु विचक्षणाः ।
सामादिषु च कर्तव्यः कोऽत्र मह्यं ब्रुवन्तु च ॥ ३॥
मन्त्रिण ऊचुः ।
सत्यं सदैव वक्तव्यं प्रियञ्च नृपसत्तम ।
कार्यं हितकरं नूनं विचार्य विबुधैः किल ॥ ४॥
सत्यं च हितकृद्राजन्प्रियं चाहितकृद्भवेत् ।
यथौषधं नृणां लोके ह्यप्रियं रोगनाशनम् ॥ ५॥
सत्यस्य श्रोता मन्ता च दुर्लभः पृथिवीपते ।
वक्तापि दुर्लभः कामं बहवश्चाटुभाषकाः ॥ ६॥
कथं ब्रूमोऽत्र नृपते विचारे गहने त्विह ।
शुभं वाप्यशुभं वापि को वेत्ति भुवनत्रये ॥ ७॥
राजोवाच ।
स्वस्वमत्यनुसारेण ब्रुवन्त्वद्य पृथक्पृथक् ।
येषां हि यादृशो भावस्तच्छ्रुत्वा चिन्तयाम्यहम् ॥ ८॥
बहूनां मतमाज्ञाय विचार्य च पुनः पुनः ।
यच्छ्रेयस्तद्धि कर्तव्यं कार्यं कार्यविचक्षणैः ॥ ९॥
व्यास उवाच ।
तस्यैवं वचनं श्रुत्वा विरूपाक्षो महाबलः ।
उवाच तरसा वाक्यं रञ्जयन्पृथिवीपतिम् ॥ १०॥
विरूपाक्ष उवाच ।
राजन्नारी वराकीयं सा ब्रूते मदगर्विता ।
विभीषिकामात्रमिदं ज्ञातव्यं वचनं त्वया ॥ ११॥
को बिभेति स्त्रियो वाक्यैर्दुरुक्तै रणदुर्मदैः ।
अनृतं साहसं चेति जानन्नारीविचेष्टितम् ॥ १२॥
जित्वा त्रिभुवनं राजन्नद्य कान्ताभयेन वै ।
दीनत्वेऽप्ययशो नूनं वीरस्य भुवने भवेत् ॥ १३॥
तस्माद्याम्यहमेकाकी युद्धाय चण्डिकां प्रति ।
हनिष्ये तां महाराज निर्भयो भव साम्प्रतम् ॥ १४॥
सेनावृतोऽहं गत्वा तां शस्त्रास्त्रैर्विविधैः किल ।
निषूदयामि दुर्मर्षां चण्डिकां चण्डविक्रमाम् ॥ १५॥
बद्ध्वा सर्पमयैः पाशैरानयिष्ये तवान्तिकम् ।
वशगा तु सदा ते स्यात्पश्य राजन् बलं मम ॥ १६॥
व्यास उवाच ।
विरूपाक्षवचः श्रुत्वा दुर्धरो वाक्यमब्रवीत् ।
सत्यमुक्तं वचो राजन् विरूपाक्षेण धीमता ॥ १७॥
ममापि वचनं श्लक्ष्णं श्रोतव्यं धीमता त्वया ।
कामातुरैषा सुदती लक्ष्यतेऽप्यनुमानतः ॥ १८॥
भवत्येवंविधा कामं नायिका रूपगर्विता ।
भीषयित्वा वरारोहा त्वां वशे कर्तुमिच्छति ॥ १९॥
हावोऽयं मानिनीनां वै तं वेत्ति रसवित्तमः ।
वक्रोक्तिरेषा कामिन्याः प्रियं प्रति परायणम् ॥ २०॥
वेत्ति कोऽपि नरः कामं कामशास्त्रविचक्षणः ।
यदुक्तं नाम बाणैस्त्वा वधिष्ये रणमूर्धनि ॥ २१॥
हेतुगर्भमिदं वाक्यं ज्ञातव्यं हेतुवित्तमैः ।
बाणास्तु मानिनीनां वै कटाक्षा एव विश्रुताः ॥ २२॥
पुष्पाञ्जलिमयाश्चान्ये व्यङ्ग्यानि वचनानि च ।
का शक्तिरन्यबाणानां प्रेरणे त्वयि पार्थिव ॥ २३॥
तादृशीनां न सा शक्तिर्ब्रह्मविष्णुहरादिषु ।
ययोक्तं नेत्रबाणैस्त्वां हनिष्ये मन्द पार्थिवम् ॥ २४॥
विपरीतं परिज्ञातं तेनारसविदा किल ।
पातयिष्यामि शय्यायां रणमय्यां पतिं तव ॥ २५॥
विपरीतरतिकीडाभाषणं ज्ञेयमेव तत् ।
करिष्ये विगतप्राणं यदुक्तं वचनं तया ॥ २६॥
वीर्यं प्राणा इति प्रोक्तं तद्विहीनं न चान्यथा ।
व्यङ्ग्याधिक्येन वाक्येन वरयत्युत्तमा नृप ॥ २७॥
तद्वै विचारतो ज्ञेयं रसग्रन्थविचक्षणैः ।
इति ज्ञात्वा महाराज कर्तव्यं रससंयुतम् ॥ २८॥
सामदानद्वयं तस्या नान्योपायोऽस्ति भूपते ।
रुष्टा वा गर्विता वापि वशगा मानिनी भवेत् ॥ २९॥
तादृशैर्मधुरैर्वाक्यैरानयिष्ये तवान्तिकम् ।
किं बहूक्तेन मे राजन् कर्तव्या वशवर्तिनी ॥ ३०॥
गत्वा मयाधुनैवेयं किङ्करीव सदैव ते ।
व्यास उवाव
इत्थं निशम्य तद्वाक्यं ताम्रस्तत्त्वविचक्षणः ॥ ३१॥
उवाच वचनं राजन्निशामय मयोदितम् ।
हेतुमद्धर्मसहितं रसयुक्तं नयान्वितम् ॥ ३२॥
नैषा कामातुरा बाला नानुरक्ता विचक्षणा ।
व्यङ्ग्यानि नैव वाक्यानि तयोक्तानि तु मानद ॥ ३३॥
चित्रमत्र महाबाहो यदेका वरवर्णिनी ।
निरालम्बा समायाति चित्ररूपा मनोहरा ॥ ३४॥
अष्टादशभुजा नारी न श्रुता न च वीक्षिता ।
केनापि त्रिषु लोकेषु पराक्रमवती शुभा ॥ ३५॥
आयुधान्यपि तावन्ति धृतानि बलवन्ति च ।
विपरीतमिदं मन्ये सर्वं कालकृतं नृप ॥ ३६॥
स्वप्नानि दुर्निमित्तानि मया दृष्टानि वै निशि ।
तेन जानाम्यहं नूनं वैशसं समुपागतम् ॥ ३७॥
कृष्णाम्बरधरा नारी रुदती च गृहाङ्गणे ।
दृष्टा स्वप्नेऽप्युषःकाले चिन्तितव्यस्तदत्ययः ॥ ३८॥
विकृताः पक्षिणो रात्रौ रोरुवन्ति गृहे गृहे ।
उत्पाता विविधा राजन् प्रभवन्ति गृहे गृहे ॥ ३९॥
तेन जानाम्यहं नूनं कारणं किञ्चिदेव हि ।
यत्त्वां प्रार्थयते बाला युद्धाय कृतनिश्चया ॥ ४०॥
नैषास्ति मानुषी नो वा गान्धर्वी न तथासुरी ।
देवैः कृतेयं ज्ञातव्या माया मोहकरी विभो ॥ ४१॥
कातरत्वं न कर्तव्यं ममैतन्मतमित्यलम् ।
कर्तव्यं सर्वथा युद्धं यद्भाव्यं तद्भविष्यति ॥ ४२॥
को वेद दैवकर्तव्यं शुभं वाप्यशुभं तथा ।
अवलम्ब्य धिया धैर्यं स्थातव्यं वै विचक्षणैः ॥ ४३॥
जीवितं मरणं पुंसां दैवाधीनं नराधिप ।
कोऽपि नैवान्यथा कर्तुं समर्थो भुवनत्रये ॥ ४४॥
महिष उवाच ।
गच्छ ताम्र महाभाग युद्धाय कृतनिश्चयः ।
तामानय वरारोहां जित्वा धर्मेण मानिनीम् ॥ ४५॥
न भवेद्वशगा नारी सङ्ग्रामे यदि सा तव ।
हन्तव्या नान्यथा कामं माननीया प्रयत्नतः ॥ ४६॥
वीरस्त्वमसि सर्वज्ञ कामशास्त्रविशारदः ।
येन केनाप्युपायेन जेतव्या वरवर्णिनी ॥ ४७॥
त्वरन्वीर महाबाहो सैन्येन महता वृतः ।
तत्र गत्वा त्वया ज्ञेया विचार्य च पुनः पुनः ॥ ४८॥
किमर्थमागता चेयं ज्ञातव्यं तद्धि कारणम् ।
कामाद्वा वैरभावाच्च माया कस्येयमित्युत ॥ ४९॥
आदौ तन्निश्चयं कृत्वा ज्ञातव्यं तच्चिकीर्षितम् ।
पश्चाद्युद्धं प्रकर्तव्यं यथायोग्यं यथाबलम् ॥ ५०॥
कातरत्वं न कर्तव्यं निर्दयत्वं तथा न च ।
यादृशं हि मनस्तस्याः कर्तव्यं तादृशं त्वया ॥ ५१॥
व्यास उवाच ।
इति तद्भाषितं श्रुत्वा ताम्रः कालवशं गतः ।
निर्गतः सैन्यसंयुक्तः प्रणम्य महिषं नृपम् ॥ ५२॥
गच्छन्मार्गे दुरात्मासौ शकुनान्वीक्ष्य दारुणान् ।
विस्मयञ्च भयं प्राप यममार्गप्रदर्शकान् ॥ ५३॥
सगत्वा तां समालोक्य देवीं सिंहोपरिस्थिताम् ।
स्तूयमानां सुरैः सर्वैः सर्वायुधविभूषिताम् ॥ ५४॥
तामुवाच विनीतः सन् वाक्यं मधुरया गिरा ।
सामभावं समाश्रित्य विनयावनतः स्थितः ॥ ५५॥
देवि दैत्येश्वरः शृङ्गी त्वद्रूपगुणमोहितः ।
स्पृहां करोति महिषस्त्वत्पाणिग्रहणाय च ॥ ५६॥
भावं कुरु विशालाक्षि तस्मिन्नमरदुर्जये ।
पतिं तं प्राप्य मृद्वङ्गि नन्दने विहराद्भुते ॥ ५७॥
सर्वाङ्गसुन्दरं देहं प्राप्य सर्वसुखास्पदम् ।
सुखं सर्वात्मना ग्राह्यं दुःखं हेयमिति स्थितिः ॥ ५८॥
करभोरु किमर्थं ते गृहीतान्यायुधान्यलम् ।
पुष्पकन्दुकयोग्यास्ते कराः कमलकोमलाः ॥ ५९॥
भ्रूचापे विद्यमानेऽपि धनुषा किं प्रयोजनम् ।
कटाक्षा विशिखाः सन्ति किं बाणैर्निष्प्रयोजनैः ॥ ६०॥
संसारे दुःखदं युद्धं न कर्तव्यं विजानता ।
लोभासक्ताः प्रकुर्वन्ति सङ्ग्रामञ्च परस्परम् ॥ ६१॥
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
भेदनं निजगात्राणां कस्य तज्जायते मुदे ॥ ६२॥
तस्मात्त्वमपि तन्वङ्गि प्रसादं कर्तुमर्हसि ।
भर्तारं भज मे नाथं देवदानवपूजितम् ॥ ६३॥
स तेऽत्र वाञ्छितं सर्वं करिष्यति मनोरथम् ।
त्वं पट्टमहिषी राज्ञः सर्वथा नात्र संशयः ॥ ६४॥
वचनं कुरु मे देवि प्राप्स्यसे सुखमुत्तमम् ।
सङ्ग्रामे जयसन्देहः कष्टं प्राप्य न संशयः ॥ ६५॥
जानासि राजनीतिं त्वं यथावद्वरवर्णिनि ।
भुङ्क्ष्व राज्यसुखं पूर्णं वर्षाणामयुतायुतम् ॥ ६६॥
पुत्रस्ते भविता कान्तः सोऽपि राजा भविष्यति ।
यौवने क्रीडयित्वान्ते वार्धक्ये सुखमाप्स्यसि ॥ ६७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
ताम्रकृतं देवीं प्रति विस्रंसनवचनवर्णनं नामैकादशोऽध्यायः ॥ ५.११॥
५.१२ द्वादशोऽध्यायः । देवीपराजयकरणाय दुर्धरप्रबोधवचनम् ।
व्यास उवाच ।
तन्निशम्य वचस्तस्य ताम्रस्य जगदम्बिका ।
मेघगम्भीरया वाचा हसन्ती तमुवाच ह ॥ १॥
देव्युवाच ।
गच्छ ताम्र पतिं ब्रूहि मुमूर्षुं मन्दचेतसम् ।
महिषं चातिकामार्तं मूढं ज्ञानविवर्जितम् ॥ २॥
यथा ते महिषी माता प्रौढा यवसभक्षिणी ।
नाहं तथा शृङ्गवती लम्बपुच्छा महोदरी ॥ ३॥
न कामयेऽहं देवेशं नैव विष्णुं न शङ्करम् ।
धनदं वरुणं नैव ब्रह्माणं न च पावकम् ॥ ४॥
एतान्देवगणान्हित्वा पशुं केन गुणेन वै ।
वृणोम्यहं वृथा लोके गर्हणा मे भवेदिति ॥ ५॥
नाहं पतिंवरा नारी वर्तते मे पतिः प्रभुः ।
सर्वकर्ता सर्वसाक्षी ह्यकर्ता निःस्पृहः स्थिरः ॥ ६॥
निर्गुणो निर्ममोऽनन्तो निरालम्बो निराश्रयः ।
सर्वज्ञः सर्वगः साक्षी पूर्णः पूर्णाशयः शिवः ॥ ७॥
सर्वावासक्षमः शान्तः सर्वदृक्सर्वभावनः ।
तं त्यक्त्वा महिषं मन्दं कथं सेवितुमुत्सहे ॥ ८॥
प्रबुध्य युध्यतां कामं करोमि यमवाहनम् ।
अथवा मनुजानां वै करिष्ये जलवाहकम् ॥ ९॥
जीवितेच्छास्ति चेत्पाप गच्छ पातालमाशु वै ।
समस्तैर्दानवैर्युक्तस्त्वन्यथा हन्मि सङ्गरे ॥ १०॥
कामं सदृशयोर्योगः संसारे सुखदो भवेत् ।
अन्यथा दुःखदो भूयादज्ञानाद्यदि कल्पितः ॥ ११॥
मूर्खस्त्वमसि यद् ब्रूषे पतिं मे भज भामिनि ।
क्वाहं क्व महिषः शृङ्गी सम्बन्धः कीदृशो द्वयोः ॥ १२॥
गच्छ युध्यस्व वा कामं हनिष्येऽहं सबान्धवम् ।
यज्ञभागं देवलोकं नोचेत्त्यक्त्वा सुखी भव ॥ १३॥
व्यास उवाच ।
इत्युक्त्वा सा तदा देवी जगर्ज भृशमद्भुतम् ।
कल्पान्तसदृशं नादं चक्रे दैत्यभयावहम् ॥ १४॥
चकम्पे वसुधा चेलुस्तेन शब्देन भूधराः ।
गर्भाश्च दैत्यपत्नीनां सस्रंसुर्गर्जितस्वनात् ॥ १५॥
ताम्रः श्रुत्वा च तं शब्दं भयत्रस्तमनास्तदा ।
पलायनं ततः कृत्वा जगाम महिषान्तिकम् ॥ १६॥
नगरे तस्य ये दैत्यास्तेऽपि चिन्तामवाप्नुवन् ।
बधिरीकृतकर्णाश्च पलायनपरा नृप ॥ १७॥
तदा क्रोधेन सिंहोऽपि ननाद भृशमुत्सटः ।
तेन नादेन दैतेया भयं जग्मुरपि स्फुटम् ॥ १८॥
ताम्रं समागतं दृष्ट्वा हयारिरपि मोहितः ।
चिन्तयामास सचिवैः किं कर्तव्यमतः परम् ॥ १९॥
दुर्गग्रहो वा कर्तव्यो युद्धं निर्गत्य वा पुनः ।
पलायने कृते श्रेयो भवेद्वा दानवोत्तमाः ॥ २०॥
बुद्धिमन्तो दुराधर्षाः सर्वशास्त्रविशारदाः ।
मन्त्रः खलु प्रकर्तव्यः सुगुप्तः कार्यसिद्धये ॥ २१॥
मन्त्रमूलं स्मृतं राज्यं यदि स स्यात्सुरक्षितः ।
मन्त्रिभिश्च सदाचारैर्विधेयः सर्वथा बुधैः ॥ २२॥
मन्त्रभेदे विनाशः स्याद्राज्यस्य भूपतेस्तथा ।
तस्माद्भेदभयाद् गुप्तः कर्तव्यो भूतिमिच्छता ॥ २३॥
तदत्र मन्त्रिभिर्वाच्यं वचनं हेतुमद्धितम् ।
कालदेशानुसारेण विचिन्त्य नीतिनिर्णयम् ॥ २४॥
या योषात्र समायाता प्रबला देवनिर्मिता ।
एकाकिनी निरालम्बा कारणं तद्विचिन्त्यताम् ॥ २५॥
युद्धं प्रार्थयते बाला किमाश्चर्यमतः परम् ।
श्रेयोऽत्र विपरीतं वा को वेत्ति भुवनत्रये ॥ २६॥
न बहूनां जयोऽप्यस्ति नैकस्य च पराजयः ।
दैवाधीनौ सदा ज्ञेयौ युद्धे जयपराजयौ ॥ २७॥
उपायवादिनः प्राहुर्दैवं किं केन वीक्षितम् ।
अदृष्टमिति यन्नाम प्रवदन्ति मनीषिणः ॥ २८॥
तत्सत्त्वेऽपि प्रमाणं किं कातराशावलम्बनम् ।
न समर्थजनानां हि दैवं कुत्रापि लक्ष्यते ॥ २९॥
उद्यमो दैवमेतौ हि शूरकातरयोर्मतम् ।
विचिन्त्याद्य धिया सर्वं कर्तव्यं कार्यमादरात् ॥ ३०॥
व्यास उवाच ।
इति राज्ञो वचः श्रुत्वा हेतुगर्भं महायशाः ।
बिडालाख्यो महाराजमित्युवाच कृताञ्जलिः ॥ ३१॥
राजन्नेषा विशालाक्षी ज्ञातव्या यत्नतः पुनः ।
किमर्थमिह सम्प्राप्ता कुतः कस्य परिग्रहः ॥ ३२॥
मरणं ते परिज्ञाय स्त्रिया सर्वात्मना सुरैः ।
प्रेषिता पद्मपत्राक्षी समुत्पाद्य स्वतेजसा ॥ ३३॥
तेऽपि छन्नाः स्थिताः खेऽत्र सर्वे युद्धदिदृक्षवः ।
समयेऽस्याः सहायास्ते भविष्यन्ति युयुत्सवः ॥ ३४॥
पुरतः कामिनीं कृत्वा ते वै विष्णुपुरोगमाः ।
वधिष्यन्ति च नः सर्वान्सा त्वां युद्धे हनिष्यति ॥ ३५॥
एतच्चिकीर्षितं तेषां मया ज्ञातं नराधिप ।
भवितव्यस्य न ज्ञानं वर्तते मम सर्वथा ॥ ३६॥
योद्धव्यं न त्वयाद्येति नाहं वक्तुं क्षमः प्रभो ।
प्रमाणं त्वं महाराज कार्येऽत्र देवनिर्मिते ॥ ३७॥
तदर्थेऽस्माभिरनिशं मर्तव्यं कार्यगौरवात् ।
विहर्तव्यं त्वया सार्धमेष धर्मोऽनुजीविनाम् ॥ ३८॥
विचारोऽत्र महानस्ति यदेका कामिनी नृप ।
युद्धं प्रार्थयतेऽस्माभिः ससैन्यैर्बलदर्पितैः ॥ ३९॥
दुर्मुख उवाच ।
राजन् युद्धे जयो नोऽद्य भविता वेद्म्यहं किल ।
पलायनं न कर्तव्यं यशोहानिकरं नृणाम् ॥ ४०॥
इन्द्रादीनां संयुगेऽपि न कृतं यज्जुगुप्सितम् ।
एकाकिनीं स्त्रियं प्राप्य को हि कुर्यात्पलायनम् ॥ ४१॥
तस्माद्युद्धं प्रकर्तव्यं मरणं वा रणे जयः ।
यद्भावि तद्भवत्येव कात्र चिन्ता विपश्यतः ॥ ४२॥
मरणेऽत्र यशःप्राप्तिर्जीवने च तथा सुखम् ।
उभयं मनसा कृत्वा कर्तव्यं युद्धमद्य वै ॥ ४३॥
पलायने यशोहानिर्मरणं चायुषः क्षये ।
तस्माच्छोको न कर्तव्यो जीविते मरणे वृथा ॥ ४४॥
व्यास उवाच ।
दुर्मुखस्य वचः श्रुत्वा बाष्कलो वाक्यमब्रवीत् ।
प्रणतः प्राञ्जलिर्भूत्वा राजानं वाक्यकोविदः ॥ ४५॥
बाष्कल उवाच ।
राजंश्चिन्ता न कर्तव्या कार्येऽस्मिन्कातरप्रिये ।
अहमेको हनिष्यामि चण्डीं चञ्चललोचनाम् ॥ ४६॥
उत्साहस्तु प्रकर्तव्यः स्थायीभावो रसस्य च ।
भयानको भवेद्वैरी वीरस्य नृपसत्तम ॥ ४७॥
तस्मात्त्यक्त्वा भयं भूप करिष्ये युद्धमद्भुतम् ।
नयिष्यामि नरेन्द्राहं चण्डिकां यमसादनम् ॥ ४८॥
न बिभेमि यमादिन्द्रात्कुबेराद्वरुणादपि ।
वायोर्वह्नेस्तथा विष्णोः शङ्कराच्छशिनो रवेः ॥ ४९॥
एकाकिनी तथा नारी किं पुनर्मदगर्विता ।
अहं तां निहनिष्यामि विशिखैश्च शिलाशितैः ॥ ५०॥
पश्य बाहुबलं मेऽद्य विहरस्व यथासुखम् ।
भवतात्र न गन्तव्यं सङ्ग्रामेऽप्यनया समम् ॥ ५१॥
व्यास उवाच ।
एवं ब्रुवति राजेन्द्रं बाष्कले मदगर्विते ।
प्रणम्य नृपतिं तत्र दुर्धरो वाक्यमब्रवीत् ॥ ५२॥
दुर्धर उवाच ।
महिषाहं विजेष्यामि देवीं देवविनिर्मिताम् ।
अष्टादशभुजां रम्यां कारणाच्च समागताम् ॥ ५३॥
राजन् भीषयितुं त्वां वै मायैषा निर्मिता सुरैः ।
विभीषिकेयं विज्ञाय त्यज मोहं मनोगतम् ॥ ५४॥
राजनीतिरियं राजन् मन्त्रिकृत्यं तथा शृणु ।
सात्त्विका राजसाः केचित्तामसाश्च तथापरे ॥ ५५॥
मन्त्रिणस्त्रिविधा लोके भवन्ति दानवाधिप ।
सात्त्विकाः प्रभुकार्याणि साधयन्ति स्वशक्तिभिः ॥ ५६॥
आत्मकृत्यं प्रकुर्वन्ति स्वामिकार्याविरोधतः ।
एकचित्ता धर्मपरा मन्त्रशास्त्रविशारदाः ॥ ५७॥
राजसा भिन्नचित्ताश्च स्वकार्यनिरताः सदा ।
कदाचित्स्वामिकार्यं ते प्रकुर्वन्ति यदृच्छया ॥ ५८॥
तामसा लोभनिरताः स्वकार्यनिरताः सदा ।
प्रभुकार्यं विनाश्यैव स्वकार्यं साधयन्ति ते ॥ ५९॥
समये ते विभिद्यन्ते परैस्तु परिवञ्चिताः ।
स्वच्छिद्रं शत्रुपक्षीयान्निर्दिशन्ति गृहस्थिताः ॥ ६०॥
कार्यभेदकरा नित्यं कोशगुप्तासिवत्सदा ।
सङ्ग्रामेऽथ समुत्पन्ने भीषयन्ति प्रभुं सदा ॥ ६१॥
विश्वासस्तु न कर्तव्यस्तेषां राजन् कदाचन ।
विश्वासे कार्यहानिः स्यान्मन्त्रहानिः सदैव हि ॥ ६२॥
खलाः किं किं न कुर्वन्ति विश्वस्ता लोभतत्पराः ।
तामसाः पापनिरता बुद्धिहीनाः शठास्तथा ॥ ६३॥
तस्मात्कार्यं करिष्यामि गत्वाहं रणमस्तके ।
चिन्ता त्वया न कर्तव्या सर्वथा नृपसत्तम ॥ ६४॥
गृहीत्वा तां दुराचारामागमिष्यामि सत्वरः ।
पश्य मेऽद्य बलं धैर्यं प्रभुकार्यं स्वशक्तितः ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देवीपराजयकरणाय
दुर्धरप्रबोधवचनं नाम द्वादशोऽध्यायः ॥ ५.१२॥
५.१३ त्रयोदशोऽध्यायः । महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ ।
जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ १॥
तौ गत्वा समरे देवीमूचतुर्वचनं तदा ।
दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा ॥ २॥
देवि देवा जिता येन महिषेण महात्मना ।
वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ॥ ३॥
स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् ।
भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल ॥ ४॥
त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते ।
महिषे परमं भावं कुरु कान्ते मनोगतम् ॥ ५॥
कृत्वा पतिं महावीरं संसारसुखमद्भुतम् ।
त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम् ॥ ६॥
देव्युवाच ।
जाल्म त्वं किं विजानासि नारीयं काममोहिता ।
मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम् ॥ ७॥
कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः ।
अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः ॥ ८॥
का नु कामातुरा नारी भजेच्च पशुरूपिणम् ।
पशूनामधमं नूनं महिषं देवरूपिणी ॥ ९॥
गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ ।
वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम् ॥ १०॥
पातालं गच्छ वाभ्येत्य सङ्ग्रामं कुरु वा मया ।
रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम् ॥ ११॥
हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम ।
इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥ १२॥
मामनिर्जित्य भूभागे न स्थानं ते कदाचन ।
भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥ १३॥
व्यास उवाच ।
इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ ।
धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः ॥ १४॥
कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता ।
उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह ॥ १५॥
भगवत्यपि बाणौघान्मुमोच दानवौ प्रति ।
कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये ॥ १६॥
तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे ।
दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥ १७॥
तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा ।
बाणासिपरिघाघातैर्भयदं मन्दचेतसाम् ॥ १८॥
ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् ।
जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः ॥ १९॥
दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः ।
सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम् ॥ २०॥
सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् ।
जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः ॥ २१॥
अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् ।
बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ ॥ २२॥
आगच्छन्तं गदापाणिं दानवं मदगर्वितम् ।
चण्डिका स्वगदापातैः पातयामास भूतले ॥ २३॥
बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः ।
चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः ॥ २४॥
तमागच्छन्तमालोक्य देवी शूलेन वक्षसि ।
जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥ २५॥
पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः ।
जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः ॥ २६॥
तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः ।
आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥ २७॥
तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः ।
धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः ॥ २८॥
तमागच्छन्तमालोक्य देवी शङ्खमवादयत् ।
कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह ॥ २९॥
सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् ।
स्वबाणैस्तान्महामाया चिच्छेद च ननाद च ॥ ३०॥
तयोः परस्परं युद्धं बभूव तुमुलं नृप ।
बाणशक्तिगदाघातैर्मुसलैस्तोमरैस्तथा ॥ ३१॥
रणभूमौ तदा जाता रुधिरौघवहा नदी ।
पतितानि तदा तीरे शिरांसि प्रबभुस्तदा ॥ ३२॥
यथा सन्तरणार्थाय यमकिङ्करनायकैः ।
तुम्बीफलानि नीतानि नवशिक्षापरैर्मुदा ॥ ३३॥
रणभूमिस्तदा घोरा बभूवातीव दुर्गमा ।
शरीरैः पतितैर्भूमौ खाद्यमानैर्वृकादिभिः ॥ ३४॥
गोमायुसारमेयाश्च काकाः कङ्का अयोमुखाः ।
गृध्रा श्येनाश्च खादन्ति शरीराणि दुरात्मनाम् ॥ ३५॥
ववौ वायुश्च दुर्गन्धो मृतानां देहसङ्गतः ।
अभूत्किलकिलाशब्दः खगानां पलभक्षिणाम् ॥ ३६॥
तदा चुकोप दुष्टात्मा दुर्मुखः कालमोहितः ।
देवीमुवाच गर्वेण कृत्वा चोर्ध्वकरं शुभम् ॥ ३७॥
गच्छ चण्डि हनिष्यामि त्वामद्यैव सुबालिशे ।
दैत्यं वा भज वामोरु महिषं मदगर्वितम् ॥ ३८॥
देव्युवाच ।
आसन्नमरणः कामं प्रलपस्यद्य मोहितः ।
अद्यैव त्वां हनिष्यामि यथायं बाष्कलो हतः ॥ ३९॥
गच्छ वा तिष्ठ वा मन्द मरणं यदि रोचते ।
हत्वा त्वां वै वधिष्यामि बालिशं महिषीसुतम् ॥ ४०॥
तच्छ्रुत्वा वचनं तस्या दुर्मुखो मर्तुमुद्यतः ।
मुमोच बाणवृष्टिं तु चण्डिकां प्रति दारुणाम् ॥ ४१॥
सापि तां तरसा छित्त्वा बाणवृष्टिं शितैः शरैः ।
जघान दानवं कृद्धा वृत्रं वज्रधरो यथा ॥ ४२॥
तयोः परस्परं युद्धं सञ्जातं चातिकर्कशम् ।
भयदं कातराणाञ्च शूराणां बलवर्धनम् ॥ ४३॥
देवी चिच्छेद तरसा धनुस्तस्य करे स्थितम् ।
तथैव पञ्चभिर्बाणैर्बभञ्ज रथमुत्तमम् ॥ ४४॥
रथे भग्ने महाबाहुः पदातिर्दुर्मुखस्तदा ।
गदां गहीत्वा दुर्धर्षां जगाम चण्डिकां प्रति ॥ ४५॥
चकार स गदाघातं सिंहमौलौ महाबलः ।
न चचाल हरिः स्थानात्ताडितोऽपि महाबलः ॥ ४६॥
अम्बिका तं समालोक्य गदापाणिं पुरःस्थितम् ।
खड्गेन शितधारेण शिरश्चिच्छेद मौलिमत् ॥ ४७॥
छिन्ने च मस्तके भूमौ पपात दुर्मुखो मृतः ।
जयशब्दं तदा चक्रुर्मुदिता निर्जरा भृशम् ॥ ४८॥
तुष्टुवुस्तां तदा देवीं दुर्मुखे निहतेऽमराः ।
पुष्पवृष्टिं तथा चक्रुर्जयशब्दं नभःस्थिताः ॥ ४९॥
ऋषयः सिद्धगन्धर्वाः सविद्याधरकिन्नराः ।
जहृषुस्तं हतं दृष्ट्वा दानवं रणमस्तके ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे महिषसेनाधिप-
बाष्कलदुर्मुखनिपातनवर्णनं नाम त्रयोदशोऽध्यायः ॥ ५.१३॥
५.१४ चतुर्दशोऽध्यायः । ताम्रचिक्षुराख्यवधवर्णनम् ।
व्यास उवाच ।
दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः ।
उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ १॥
निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ ।
तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम् ॥ २॥
कालो हि बलवान्कर्ता सततं सुखदुःखयोः ।
नराणां परतन्त्राणां पुण्यपापानुयोगतः ॥ ३॥
निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् ।
ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे ॥ ४॥
व्यास उवाच ।
एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते ।
चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः ॥ ५॥
राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने ।
इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः ॥ ६॥
द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् ।
महता सैन्यघोषेण पूरयन्गगनं दिशः ॥ ७॥
तमागच्छन्तमालोक्य देवी भगवती शिवा ।
चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम् ॥ ८॥
तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः ।
किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः ॥ ९॥
चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् ।
उवाचातीव सङ्कुद्धः किं भयं वः समागतम् ॥ १०॥
अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् ।
तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥ ११॥
इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः ।
आगत्य सङ्गरे देवीमित्युवाच गतव्यथः ॥ १२॥
किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् ।
नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम् ॥ १३॥
स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् ।
उपेक्षां कुरुते चित्तं मदीयं वामलोचने ॥ १४॥
स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि ।
न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन ॥ १५॥
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
भवादृशीनां देहेषु दुनोति मालतीदलम् ॥ १६॥
धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् ।
लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः ॥ १७॥
तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः ।
पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः ॥ १८॥
देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः ।
धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत् ॥ १९॥
त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः ।
सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे ॥ २०॥
खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः ।
मरणान्ते तु संस्कारो गोमायुमुखकर्षणम् ॥ २१॥
तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् ।
रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥ २२॥
तस्माद् गच्छ वरारोहे यत्र ते रमते मनः ।
भज वा भूपतिं नाथं हयारिं सुरमर्दनम् ॥ २३॥
व्यास उवाच ।
एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका ।
किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः ॥ २४॥
नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा ।
न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥ २५॥
मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि ।
राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः ॥ २६॥
सङ्ग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् ।
यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ २७॥
देवानां दुःखदातारं दानवं मदगर्वितम् ।
हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ॥ २८॥
जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव ।
तदा गच्छन्तु पातालं दानवाः सर्व एव ते ॥ २९॥
मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः ।
सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥ ३०॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्या दानवो बलदर्पितः ।
मुमोच बाणवृष्टिं तां घनवृष्टिमिवापराम् ॥ ३१॥
चिच्छेद तस्य सा बाणान्स्वबाणैर्निशितैस्तदा ।
जघान तं तथा घोरैराशीविषसमैः शरैः ॥ ३२॥
युद्धं परस्परं तत्र बभूव विस्मयप्रदम् ।
गदया घातयामास तं रथाज्जगदम्बिका ॥ ३३॥
मूर्च्छां प्राप स दुष्टात्मा गदयाभिहतो भृशम् ।
मुहूर्तद्वयमात्रं तु रथोपस्थ इवाचलः ॥ ३४॥
तं तथा मूर्च्छितं दृष्ट्वा ताम्रः परबलार्दनः ।
आजगाम रणे योद्धुं चण्डिकां प्रति चापलात् ॥ ३५॥
आगच्छन्तं तु तं वीक्ष्य हसन्ती प्राह चण्डिका ।
एह्येहि दानवश्रेष्ठ यमलोकं नयाम्यहम् ॥ ३६॥
किं भवद्भिः समायातैरबलैश्च गतायुषैः ।
महिषः किं गृहे मूढः करोति जीवनोद्यमम् ॥ ३७॥
किं भवद्भिर्हतैर्मन्दैर्ममापि विफलः श्रमः ।
अहते महिषे पापे सुरशत्रौ दुरात्मनि ॥ ३८॥
तस्माद्यूयं गृहं गत्वा महिषं प्रेषयन्त्विह ।
पश्येन्मां सोऽपि मन्दात्मा यादृशीं तादृशीं स्थिताम् ॥ ३९॥
ताम्रस्तद्वचनं श्रुत्वा बाणवृष्टिं चकार ह ।
चण्डिकां प्रति कोपेन कर्णाकृष्टशरासनः ॥ ४०॥
भगवत्यपि ताम्राक्षी समाकृष्य शरासनम् ।
बाणान्मुमोच तरसा हन्तुकामा सुराहितम् ॥ ४१॥
चिक्षुराख्योऽपिबलवान्मूर्च्छां त्यक्त्वोत्थितः पुनः ।
गृहीत्वा सशरं चापं तस्थौ तत्सम्मुखः क्षणात् ॥ ४२॥
चिक्षुराख्यश्च ताम्रश्च द्वावप्यतिबलोत्कटौ ।
युयुधाते महावीरौ सह देव्या रणाङ्गणे ॥ ४३॥
कुपिता च महामाया ववर्ष शरसन्ततिम् ।
चकार दानवान् सर्वान् बाणक्षततनुच्छदान् ॥ ४४॥
असुराः क्रोधसम्मूढा बभूवुः शरताडिताः ।
चिक्षिपुः शरजालानि देवीं प्रति रुषान्विताः ॥ ४५॥
बभुस्ते राक्षसास्तत्र किंशुका इव पुष्पिणः ।
शिलीमुखक्षताः सर्वे वसन्ते च वने रणे ॥ ४६॥
बभूव तुमुलं युद्धं ताम्रेण सह संयुगे ।
विस्मयं परमं जग्मुर्देवा ये प्रेक्षकाः स्थिताः ॥ ४७॥
ताम्रो मुसलमादाय लोहजं दारुणं दृढम् ।
जघान मस्तके सिंहं जहास च ननर्द च ॥ ४८॥
नर्दमानं तदा तं तु दृष्ट्वा देवी रुषान्विता ।
खड्गेन शितधारेण शिरश्चिच्छेद सत्वरा ॥ ४९॥
छिन्ने शिरसि ताम्रस्तु विशीर्षो मुसली बली ।
बभ्राम क्षणमात्रं तु पपात रणमस्तके ॥ ५०॥
पतितं ताम्रमालोक्य चिक्षुराख्यो महाबलः ।
खड्गमादाय तरसा दुद्राव चण्डिकां प्रति ॥ ५१॥
भगवत्यपि तं दृष्ट्वा खड्गपाणिमुपागतम् ।
दानवं पञ्चभिर्बाणैर्जघान तरसा रणे ॥ ५२॥
एकेन पातितं खड्गं द्वितीयेन तु तत्करः ।
कण्ठाच्च मस्तकं तस्य कृन्तितं चापरैः शरैः ॥ ५३॥
एवं तौ निहतौ कूरौ राक्षसौ रणदुर्मदौ ।
भग्नं सैन्यं तयोस्तूर्णं दिक्षु सन्त्रस्तमानसम् ॥ ५४॥
देवाश्च मुदिताः सर्वे दृष्ट्वा तौ निहतौ रणे ।
पुष्पवृष्टिं मुदा चक्रुर्जयशब्दं नभःस्थिताः ॥ ५५॥
ऋषयो देवगन्धर्वा वेतालाः सिद्धचारणाः ।
ऊचुस्ते जय देवीति चाम्बिकेति पुनः पुनः ॥ ५६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
ताम्रचिक्षुराख्यवधवर्णनं नाम चतुर्दशोऽध्यायः ॥ ५.१४॥
५.१५ पञ्चदशोऽध्यायः । असिलोमबिडालाख्यवधवर्णनम् ।
व्यास उवाच ।
तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः ।
प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ १॥
असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् ।
सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ २॥
ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् ।
अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ ३॥
असिलोमाग्रतो गत्वा तामुवाच हसन्निव ।
विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ ४॥
असिलोमोवाच ।
देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि ।
आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ ५॥
कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् ।
काञ्चनं मणिरत्नानि भाजनानि वराणि च ॥ ६॥
यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् ।
किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ ७॥
कथयन्ति महात्मानो युद्धं सर्वसुखापहम् ।
कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ ८॥
किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये ।
चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ ९॥
तत्किमर्थं दुःखहेतुं सङ्ग्रामं कर्तुमिच्छसि ।
संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ १०॥
तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः ।
आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ ११॥
नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः ।
सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ १२॥
तथापि यौवनं प्राप्य भुङ्क्ष्व भोगाननुत्तमान् ।
परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ १३॥
स्वर्गभोगपरा नित्यं भव भामिनि भूतले ।
अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ १४॥
परोपतापनं कार्यं वर्जनीयं सदा बुधैः ।
अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ १५॥
तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु ।
अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ १६॥
दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः ।
तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ १७॥
कारणं वद सुश्रोणि दानवानां वधे तव ।
देव्युवाच ।
त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ १८॥
तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् ।
विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ १९॥
न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी ।
न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ २०॥
धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् ।
व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ २१॥
साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः ।
वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ २२॥
युगे युगे तानेवाहमवतारान्बिभर्मि च ।
महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ २३॥
ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना ।
तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ २४॥
गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् ।
ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ २५॥
किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह ।
सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ २६॥
सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् ।
देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् ।
तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ २७॥
व्यास उवाच ।
तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः ।
बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ २८॥
असिलोमोवाच ।
श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् ।
एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ २९॥
बिडालाख्य उवाच ।
न सन्धिकामोऽस्ति नृपोऽभिमानी
युद्धे च मृत्युं नियतं हि जानन् ।
दृष्ट्वा हतान् प्रेरयते तथास्मा-
न्दैव हि कोऽतिक्रमितुं समर्थः ॥ ३०॥
(दुःसाध्य एवास्त्विह सेवकानां
धर्मः सदा मानविवर्जितानाम् ।
आज्ञापराणां वशवर्तिकानां
पाञ्चालिकानामिव सूत्रभेदात् ॥)
गत्वा कथं तस्य पुरस्त्वया च
मयापि वक्तव्यमिदं कठोरम् ।
गच्छन्तु पातालमितश्च सर्वे
दत्त्वाथ रत्नानि धनं सुराणाम् ॥ ३१॥
(प्रियं हि वक्तव्यमसत्यमेव
न च प्रियं स्याद्धितकृत्तु भाषितम् ।
सत्यं प्रियं नो भवतीह कामं
मौनं ततो बुद्धिमतां प्रतिष्ठितम् ॥)
न फल्गुवाक्यैः प्रतिबोधनीयो
राजा तु वीरैरिति नीतिशास्त्रम् ॥ ३२॥
न नूनं तत्र गन्तव्यं हितं वा वक्तुमादरात् ।
प्रष्टुं वापि गते राजा कोपयुक्तो भविष्यति ॥ ३३॥
इति सञ्चिन्त्य कर्तव्यं युद्धं प्राणस्य संशये ।
स्वामिकार्यं परं मत्वा मरणं तृणवत्तथा ॥ ३४॥
व्यास उवाच ।
इति सञ्चिन्त्य तौ वीरौ संस्थितौ युद्धतत्परौ ।
धनुर्बाणधरौ तत्र सन्नद्धौ रथसङ्गतौ ॥ ३५॥
प्रथमं तु बिडालाख्यः सप्तबाणान्मुमोच ह ।
असिलोमा स्थितो दूरे प्रेक्षकः परमास्त्रवित् ॥ ३६॥
चिच्छेद तांस्तथाप्राप्तानम्बिका स्वशरैः शरान् ।
बिडालाख्यं त्रिभिर्बाणैर्जघान च शिलाशितैः ॥ ३७॥
प्राप्य बाणव्यथां दैत्यः पपात समराङ्गणे ।
मूर्च्छितोऽथ ममाराशु दानवो दैवयोगतः ॥ ३८॥
बिडालाख्यं हतं दृष्ट्वा रणे शक्तिशरोत्करैः ।
असिलोमा धनुष्पाणिः संस्थितो युद्धतत्परः ॥ ३९॥
ऊर्ध्वं सव्यं करं कृत्वा तामुवाच मितं वचः ।
देवि जानामि मरणं दानवानां दुरात्मनाम् ॥ ४०॥
तथापि युद्धं कर्तव्यं पराधीनेन वै मया ।
महिषो मन्दबुद्धिश्च न जानाति प्रियाप्रिये ॥ ४१॥
तदग्रे नैव वक्तव्यं हितं चैवाप्रियं मया ।
मर्तव्यं वीरधर्मेण शुभं वाप्यशुभं भवेत् ॥ ४२॥
दैवमेव परं मन्ये धिपौरुषमनर्थकम् ।
पतन्ति दानवास्तूर्णं तव बाणहता भुवि ॥ ४३॥
इत्युक्त्वा शरवृष्टिं स चकार दानवोत्तमः ।
देवी चिच्छेद तान्बाणैरप्राप्तांस्तु निजान्तिके ॥ ४४॥
अन्यैर्विव्याध तं तूर्णमसिलोमानमाशुगैः ।
वीक्षितामरसङ्घैश्च कोपपूर्णानना तदा ॥ ४५॥
शुशुभे दानवः कामं बाणैर्विद्धतनुः किल ।
स्रवद्रुधिरधारः स प्रफुल्लः किंशुको यथा ॥ ४६॥
असिलोमा गदां गुर्वीं लौहीमुद्यम्य वेगतः ।
दुद्राव चण्डिकां कोपात्सिंहं मूर्ध्नि जघान ह ॥ ४७॥
सिंहोऽपि नखराघातैस्तं ददार भुजान्तरे ।
अगणय्य गदाघातं कृतं तेन बलीयसा ॥ ४८॥
उत्पत्य तरसा दैत्यो गदापाणिः सुदारुणः ।
सिंहमूर्ध्नि समारुह्य जघान गदयाम्बिकाम् ॥ ४९॥
कृतं तेन प्रहारं तु वञ्चयित्वा विशाम्पते ।
खड्गेन शितधारेण शिरश्चिच्छेद कण्ठतः ॥ ५०॥
छिन्ने शिरसि दैत्येन्द्रः पपात तरसा क्षितौ ।
हाहाकारो महानासीत्सैन्ये तस्य दुरात्मनः ॥ ५१॥
जय देवीति देवास्ता तुष्टुवुर्जगदम्बिकाम् ।
देवदुन्दुभयो नेदुर्जगुश्च नृप किन्नराः ॥ ५२॥
निहतौ दानवौ वीक्ष्य पतितौ च रणाङ्गणे ।
निहताः सैनिकाः सर्वे तत्र केसरिणा बलात् ॥ ५३॥
भक्षिताश्च तथा केचिन्निःशेषं तद्रणं कृतम् ।
भग्नाः केचिद् गता मन्दा महिषं प्रति दुःखिताः ॥ ५४॥
चुक्रुशू रुरुदुश्चैव त्राहि त्राहीति भाषणैः ।
असिलोमबिडालाख्यौ निहतौ नृपसत्तम ॥ ५५॥
अन्ये ये सैनिका राजन् सिंहेन भक्षिताश्च ते ।
एवं ब्रुवन्तो राजानं तदा चक्रुश्च वैशसम् ॥ ५६॥
तच्छ्रुत्वा वचनं तेषां महिषो दुर्मनास्तदा ।
बभूव चिन्ताकुलितो विमना दुःखसंयुतः ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे असिलोम-
बिडालाख्यवधवर्णनं नाम पञ्चदशोऽध्यायः ॥ ५.१५॥
५.१६ षोडशोऽध्यायः । महिषद्वारा देवीप्रबोधनम् ।
व्यास उवाच ।
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः ।
दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ १॥
सहस्रखरसंयुक्तं पताकाध्वजभूषितम् ।
आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ २॥
सूतोऽपि रथमानीय तमुवाच त्वरान्वितः ।
राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ ३॥
सर्वायुधसमायुक्तो वरास्तरणसंयुतः ।
आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ ४॥
मानुषं देहमास्थाय सङ्ग्रामे गन्तुमुद्यतः ।
विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ ५॥
शृङ्गिणं महिषं नूनं विमना सा भविष्यति ।
नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ ६॥
तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति ।
यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ ७॥
ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः ।
इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ ८॥
त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः ।
सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ ९॥
दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः ।
रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ १०॥
सेनापरिवृतो देवीं जगाम मदगर्वितः ।
मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ ११॥
तमागतं समालोक्य दैत्यानामधिपं तदा ।
बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ १२॥
स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् ।
समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ १३॥
देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल ।
नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ १४॥
सुखं संयोगजं नॄणां नासंयोगे भवेदिह ।
संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह ॥ १५॥
भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः ।
तत्र प्रीतिभवानादौ कथयामि यथामति ॥ १६॥
मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः ।
भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ १७॥
उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः ।
तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ १८॥
नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः ।
विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ १९॥
अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः ।
अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ २०॥
नारीपुरुषयोः कान्ते समानवयसो सदा ।
संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ २१॥
अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः ।
चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ २२॥
परस्परसमुत्कर्षः कथ्यते हि परस्परम् ।
तं चेत्करोषि संयोगं वीरेण च मया सह ॥ २३॥
अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः ।
नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ २४॥
इन्द्रादयः सुराः सर्वे सङ्ग्रामे विजिता मया ।
रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ २५॥
भुङ्क्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा ।
पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ २६॥
वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः ।
यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ २७॥
आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ ।
चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ २८॥
आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल ।
प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ २९॥
धर्माणामुत्तमो धर्मः शरणागतरक्षणम् ।
त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि ॥ ३०॥
मरणान्तं वचः सत्यं नान्यथा प्रकरोम्यहम् ।
पादौ नतोऽस्मि तन्वङ्गि त्यक्त्वा नानायुधानि ते ॥ ३१॥
दयां कुरु विशालाक्षि तप्तोऽस्मि काममार्गणैः ।
जन्मप्रभृति चार्वङ्गि दैन्यं नाचरितं मया ॥ ३२॥
ब्रह्मादीनीश्वरान्प्राप्य त्वयि तद्विदधाम्यहम् ।
चरितं मम जानन्ति रणे ब्रह्मादयः सुराः ॥ ३३॥
सोऽप्यहं तव दासोऽस्मि मन्मुखं पश्य भामिनि ।
व्यास उवाच ।
इति ब्रुवाणं तं दैत्यं देवी भगवती हि सा ॥ ३४॥
प्रहस्य सस्मितं वाक्यमुवाच वरवर्णिनी ।
देव्युवाच ।
नाहं पुरुषमिच्छामि परमं पुरुषं विना ॥ ३५॥
तस्य चेच्छास्म्यहं दैत्य सृजामि सकलं जगत् ।
स मां पश्यति विश्वात्मा तस्याहं प्रकृतिः शिवा ॥ ३६॥
तत्सान्निध्यवशादेव चैतन्यं मयि शाश्वतम् ।
जडाहं तस्य संयोगात्प्रभवामि सचेतना ॥ ३७॥
अयस्कान्तस्य सान्निध्यादयसश्चेतना यथा ।
न ग्राम्यसुखवाञ्छा मे कदाचिदपि जायते ॥ ३८॥
मूर्खस्त्वमसि मन्दात्मन् यत्स्त्रीसङ्गं चिकीर्षसि ।
नरस्य बन्धनार्थाय शृङ्खला स्त्री प्रकीर्तिता ॥ ३९॥
लोहबद्धोऽपि मुच्येत स्त्रीबद्धो नैव मुच्यते ।
किमिच्छसि च मन्दात्मन् मूत्रागारस्य सेवनम् ॥ ४०॥
शमं कुरु सुखाय त्वं शमात्सुखमवाप्स्यसि ।
नारीसङ्गे महद्दुःखं जानन्किं त्वं विमुह्यसि ॥ ४१॥
त्यज वैरं सुरैः सार्धं यथेष्टं विचरावनौ ।
पातालं गच्छ वा कामं जीवितेच्छा यदस्ति ते ॥ ४२॥
अथवा कुरु सङ्ग्रामं बलवत्यस्मि साम्प्रतम् ।
प्रेषिताहं सुरैः सर्वैस्तव नाशाय दानव ॥ ४३॥
सत्यं ब्रवीमि येनाद्य त्वया वचनसौहृदम् ।
दर्शितं तेन तुष्टास्मि जीवन्गच्छ यथासुखम् ॥ ४४॥
सतां सप्तपदी मैत्री तेन मुञ्चामि जीवितम् ।
मरणेच्छास्ति चेद्युद्धं कुरु वीर यथासुखम् ॥ ४५॥
हनिष्यामि महाबाहो त्वामहं नात्र संशयः ।
व्यास उवाच ।
इति तस्या वचः श्रुत्वा दानवः काममोहितः ॥ ४६॥
उवाच श्लक्ष्णया वाचा मधुरं वचनं ततः ।
बिभेम्यहं वरारोहे त्वां प्रहर्तुं वरानने ॥ ४७॥
कोमलां चारुसर्वाङ्गीं नारीं नरविमोहिनीम् ।
जित्वा हरिहरादींश्च लोकपालांश्च सर्वशः ॥ ४८॥
किं त्वया सह युद्धं मे युक्तं कमललोचने ।
रोचते यदि चार्वङ्गि विवाहं कुरु मां भज ॥ ४९॥
नोचेद् गच्छ यथेष्टं ते देशं यस्मात्समागता ।
नाहं त्वां प्रहरिष्यामि यतो मैत्री कृता त्वया ॥ ५०॥
हितमुक्तं शुभं वाक्यं तस्माद् गच्छ यथासुखम् ।
का शोभा मे भवेदन्ते हत्वा त्वां चारुलोचनाम् ॥ ५१॥
स्त्रीहत्या बालहत्या च ब्रह्महत्या दुरत्यया ।
गृहीत्वा त्वां गृहं नूनं गच्छाम्यद्य वरानने ॥ ५२॥
तथापि मे फलं न स्याद्बलाद्भोगसुखं कुतः ।
प्रब्रवीमि सुकेशि त्वां विनयावनतो यतः ॥ ५३॥
पुरुषस्य सुखं न स्यादृते कान्तामुखाम्बुजात् ।
तत्तथैव हि नारीणां न स्याच्च पुरुषं विना ॥ ५४॥
संयोगे सुखसम्भूतिर्वियोगे दुःखसम्भवः ।
कान्तासि रूपसम्पन्ना सर्वाभरणभूषिता ॥ ५५॥
चातुर्यं त्वयि किं नास्ति यतो मां न भजस्यहो ।
तवोपदिष्टं केनेदं भोगानां परिवर्जनम् ॥ ५६॥
वञ्चितासि प्रियालापे वैरिणा केनचित्त्विह ।
मुञ्चाग्रहमिमं कान्ते कुरु कार्यं सुशोभनम् ॥ ५७॥
सुखं तव ममापि स्याद्विवाहे विहिते किल ।
विष्णुर्लक्ष्या सहाभाति सावित्र्या च सहात्मभूः ॥ ५८॥
रुद्रो भाति च पार्वत्या शच्या शतमखस्तथा ।
का नारी पतिहीना च सुखं प्राप्नोति शाश्वतम् ॥ ५९॥
येन त्वमसितापाङ्गि न करोषि पतिं शुभम् ।
कामः क्वाद्य गतः कान्ते यस्त्वां बाणैः सुकोमलैः ॥ ६०॥
मादनैः पञ्चभिः कामं न ताडयति मन्दधीः ।
मन्येऽहमिव कामोऽपि दयावांस्त्वयि सुन्दरि ॥ ६१॥
अबलेति च मन्वानो न प्रेरयति मार्गणान् ।
मनोभवस्य वैरं वा किमप्यस्ति मया सह ॥ ६२॥
तेन च त्वय्यरालाक्षि न मुञ्चति शिलीमुखान् ।
अथवा मेऽहितैर्देवैर्वारितोऽसौ झषध्वजः ॥ ६३॥
सुखविध्वंसिभिस्तेन त्वयि न प्रहरत्यपि ।
त्यक्त्वा मां मृगशावाक्षि पश्चात्तापं करिष्यसि ॥ ६४॥
मन्दोदरीव तन्वङ्गि परित्यज्य शुभं नृपम् ।
अनुकूलं पतिं पश्चात्सा चकार शठं पतिम् ।
कामार्ता च यदा जाता मोहेन व्याकुलान्तरा ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे महिषद्वारा
देवीप्रबोधनं नाम षोडशोऽध्यायः ॥ ५.१६॥
५.१७ सप्तदशोऽध्यायः । राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १॥
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ २॥
महिष उवाच ।
सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले ।
घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ ३॥
चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः ।
न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ ४॥
सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ।
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ ५॥
तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ।
सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ ६॥
नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता ।
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ ७॥
पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् ।
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ ८॥
इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने ।
दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ ९॥
वरार्थं नृपतिश्चिन्तामवाप च दिने दिने ।
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ १०॥
तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः ।
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ ११॥
सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः ।
राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ १२॥
कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ।
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ १३॥
विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति ।
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ १४॥
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ।
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ १५॥
स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ।
पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ १६॥
स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः ।
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ १७॥
विवाहे वर्तमाने तु पावकस्य च सन्निधौ ।
वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ १८॥
श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ।
पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ १९॥
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ।
तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ २०॥
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ।
संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ २१॥
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ।
श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ २२॥
उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः ।
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ २३॥
अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् ।
एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ २४॥
कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् ।
वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ २५॥
परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे ।
मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ २६॥
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ।
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ २७॥
न च वाञ्छति भर्तारं कौमारव्रतधारिणी ।
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ २८॥
न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा ।
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ २९॥
विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् ।
वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ ३०॥
यौवनस्याङ्कुरा जाता नारीणां कामदीपकाः ।
तथापि सा वयस्याभिः प्रेरितापि पुनः पुनः ॥ ३१॥
चकमे न पतिं कर्तुं ज्ञानार्थपदभाषिणी ।
एकदोद्यानदेशे सा विहर्तुं बहुपादपे ॥ ३२॥
जगाम सुमुखी प्रेम्णा सैरन्ध्रीगणसेविता ।
रेमे कृशोदरी तत्रापश्यत्कुसुमिता लताः ॥ ३३॥
पुष्पाणि चिन्वती रम्या वयस्याभिः समावृता ।
कोसलाधिपतिस्तत्र मार्गे दैववशात्तदा ॥ ३४॥
आजगाम महावीरो वीरसेनोऽतिविश्रुतः ।
एकाकी रथमारूढः कतिचित्सेवकैर्वृतः ॥ ३५॥
सैन्यं च पृष्ठतस्तस्य समायाति शनैः शनैः ।
दृष्टस्तस्या वयस्याभिर्दूरतः पार्थिवस्तदा ॥ ३६॥
मन्दोदर्यै तथा प्रोक्तं समायाति नरः पथि ।
रथारूढो महाबाहू रूपवान्मदनोऽपरः ॥ ३७॥
मन्येऽहं नृपतिः कश्चित्प्राप्तो भाग्यवशादिह ।
एवं ब्रुवत्यां तत्रासौ कोसलेन्द्रः समागतः ॥ ३८॥
दृष्ट्वा तामसितापाङ्गीं विस्मयं प्राप भूपतिः ।
उत्तीर्य स रथात्तूर्णं पप्रच्छ परिचारिकाम् ॥ ३९॥
केयं बाला विशालाक्षी कस्य पुत्री वदाशु मे ।
एवं पृष्टा तु सैरन्ध्री तमुवाच शुचिस्मिता ॥ ४०॥
प्रथमं ब्रूहि मे वीर पृच्छामि त्वां सुलोचन ।
कोऽसि त्वं किमिहायातः किं कार्यं वद साम्प्रतम् ॥ ४१॥
इति पृष्टस्तु सैरन्ध्र्या तामुवाच महीपतिः ।
कोसलो नाम देशोऽस्ति पृथिव्यां परमाद्भुतः ॥ ४२॥
तस्य पालयिता चाहं वीरसेनाभिधः प्रिये ।
वाहिनी पृष्ठतः कामं समायाति चतुर्विधा ॥ ४३॥
मार्गभ्रमादिह प्राप्तं विद्धि मां कोसलाधिपम् ।
सैरन्ध्र्युवाच ।
चन्द्रसेनसुता राजन्नाम्ना मन्दोदरी किल ॥ ४४॥
उद्याने रन्तुकामेयं प्राप्ता कमललोचना ।
श्रुत्वा तद्भाषितं राजा प्रत्युवाच प्रसाधिकाम् ॥ ४५॥
सैरन्ध्रि चतुरासि त्वं राजपुत्रीं प्रबोधय ।
ककुत्स्थवंशजश्चाहं राजास्मि चारुलोचने ॥ ४६॥
गान्धर्वेण विवाहेन पतिं मां कुरु कामिनि ।
न मे भार्यास्ति सुश्रोणि वयसोऽद्भुतयौवनाम् ॥ ४७॥
वाञ्छामि रूपसम्पन्नां सुकुलां कामिनीं किल ।
अथवा ते पिता मह्यं विधिना दातुमर्हति ॥ ४८॥
अनुकूलः पतिश्चाहं भविष्यामि न संशयः ।
महिष उवाच ।
इत्याकर्ण्य वचस्तस्य सैरन्ध्री प्राह तां तदा ॥ ४९॥
प्रहस्य मधुरं वाक्यं कामशास्त्रविशारदा ।
मन्दोदरि नृपः प्राप्तः सूर्यवंशसमुद्भवः ॥ ५०॥
रूपवान्बलवान्कान्तो वयसा त्वत्समः पुनः ।
प्रीतिमान्नृपतिर्जातस्त्वयि सुन्दरि सर्वथा ॥ ५१॥
पितापि ते विशालाक्षि परितप्यति सर्वथा ।
विवाहकालं ते ज्ञात्वा त्वां च वैराग्यसंयुताम् ॥ ५२॥
इत्याहास्मान्स नृपतिर्विनिःश्वस्य पुनः पुनः ।
पुत्रीं प्रबोधयन्त्वेतां सैरन्ध्र्यः सेवने रताः ॥ ५३॥
वक्तुं शक्ता वयं न त्वां हठधर्मरतां पुनः ।
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मोऽब्रवीन्मनुः ॥ ५४॥
भर्तारं सेवमाना वै नारी स्वर्गमवाप्नुयात् ।
तस्मात्कुरु विशालाक्षि विवाहं विधिपूर्वकम् ॥ ५५॥
मन्दादर्युवाच ।
नाहं पतिं करिष्यामि चरिष्ये तप अद्भुतम् ।
निवारय नृपं बाले किं मां पश्यति निस्त्रपः ॥ ५६॥
सैरन्ध्र्युवाच ।
दुर्जयो देवि कामोऽसौ कालोऽसौ दुरतिक्रमः ।
तस्मान्मे वचनं पथ्यं कर्तुमर्हसि सुन्दरि ॥ ५७॥
अन्यथा व्यसनं नूनमापतेदिति निश्चयः ।
इति तस्या वचः श्रुत्वा कन्योवाचाथ तां सखीम् ॥ ५८॥
यद्यद्भवेत्तद्भवतु दैवयोगादसंशयम् ।
न विवाहं करिष्येऽहं सर्वथा परिचारिके ॥ ५९॥
महिष उवाच ।
इति तस्यास्तु निर्बन्धं ज्ञात्वा प्राह नृपं पुनः ।
गच्छ राजन् यथाकामं नेयमिच्छति सत्पतिम् ॥ ६०॥
नृपस्तु तद्वचः श्रुत्वा निर्गतः सह सेनया ।
कोसलान्विमना भूत्वा कामिनीं प्रति निःस्पृहः ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देवीमहिषसंवादे
राजपुत्रीमन्दोदरीवृत्तवर्णनं नाम सप्तदशोऽध्यायः ॥ ५.१७॥
५.१८ अष्टादशोऽध्यायः । महिषासुरवधः ।
महिष उवाच ।
तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा ।
विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ १॥
तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः ।
राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ २॥
तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः ।
कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ ३॥
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ।
चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ ४॥
पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः ।
इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ ५॥
चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः ।
प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ ६॥
तमाहूय नृपं गेहे विवाहविधिना ददौ ।
कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ ७॥
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ।
जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ ८॥
रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ।
कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ ९॥
सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ।
उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ १०॥
कदाचिदपि सामान्यां रहो रूपवतीं नृपः ।
क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ ११॥
न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ।
किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ १२॥
किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे ।
का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ १३॥
अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ।
पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ १४॥
अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ।
देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ १५॥
पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् ।
हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ १६॥
तस्मादत्रैव संवासो वैराग्ययुतया मया ।
कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ १७॥
महिष उवाच ।
इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा ।
स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ १८॥
तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ।
अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ १९॥
वचनं कुरु मे तथ्यं नारीणां परमं हितम् ।
अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ २०॥
देव्युवाच ।
मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् ।
हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ २१॥
यदा यदा हि साधूनां दुःखं भवति दानव ।
तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ २२॥
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ।
सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ २३॥
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल ।
त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ २४॥
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ।
सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ २५॥
व्यास उवाच ।
इत्युक्तः स तया देव्या धनुरादाय दानवः ।
युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ २६॥
मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् ।
देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ २७॥
तयोः परस्परं युद्धं सम्बभूव भयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ २८॥
मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् ।
देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ २९॥
ततो भगवती क्रुद्धा तं जघान शितैः शरैः ।
दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिशृङ्गवत् ॥ ३०॥
तं तथा निहतं दृष्ट्वा त्रिनेत्रः परमास्त्रवित् ।
आगत्य सप्तभिर्बाणैर्जघान परमेश्वरीम् ॥ ३१॥
अनागतांस्तु चिच्छेद देवी तान्विशिखैः शरान् ।
त्रिशूलेन त्रिनेत्रं तु जघान जगदम्बिका ॥ ३२॥
अन्धकस्त्वाजगामाशु हतं दृष्ट्वा त्रिलोचनम् ।
गदया लोहमय्याऽऽशु सिंहं विव्याध मस्तके ॥ ३३॥
सिंहस्तु नखघातेन तं हत्वा बलवत्तरम् ।
चखाद तरसा मांसमन्धकस्य रुषान्वितः ॥ ३४॥
तान् रणे निहतान्वीक्ष्य दानवो विस्मयं गतः ।
चिक्षेप तरसा बाणानतितीक्ष्णाञ्छिलाशितान् ॥ ३५॥
द्विधा चक्रे शरान्देवी तानप्राप्ताञ्छिलीमुखैः ।
गदया ताडयामास दैत्यं वक्षसि चाम्बिका ॥ ३६॥
स गदाभिहतो मूर्च्छामवापामरबाधकः ।
विषह्य पीडां पापात्मा पुनरागत्य सत्वरः ॥ ३७॥
जघान गदया सिंहं मूर्ध्नि क्रोधसमन्वितः ।
सिंहोऽपि नखघातेन तं ददार महासुरम् ॥ ३८॥
विहाय पौरुषं रूपं सोऽपि सिंहो बभूव ह ।
नखैर्विदारयामास देवीसिंहं मदोत्कटम् ॥ ३९॥
तञ्च केसरिणं वीक्ष्य देवी क्रुद्धा ह्ययोमुखैः ।
शरैरवाकिरत्तीक्ष्णैः क्रूरैराशीविषैरिव ॥ ४०॥
त्यक्त्वा स हरिरूपं तु गजो भूत्वा मदस्रवः ।
शैलशृङ्गं करे कृत्वा चिक्षेप चण्डिकां प्रति ॥ ४१॥
आगच्छन्तं गिरेः शृङ्गं देवी बाणैः शिलाशितैः ।
चकार तिलशः खण्डाञ्जहास जगदम्बिका ॥ ४२॥
उत्पत्य च तदा सिंहस्तस्य मूर्ध्नि व्यवस्थितः ।
नखैर्विदारयामास महिषं गजरूपिणम् ॥ ४३॥
विहाय गजरूपं च बभूवाष्टापदी तथा ।
हन्तुकामो हरिं कोपाद्दारुणो बलवत्तरः ॥ ४४॥
तं वीक्ष्य शरभं देवी खड्गेन सा रुषान्विता ।
उत्तमाङ्गे जघानाशु सोऽपि तां प्राहरत्तदा ॥ ४५॥
तयोः परस्परं युद्धं बभूवातिभयप्रदम् ।
माहिषं रूपमास्थाय शृङ्गाभ्यां प्राहरत्तदा ॥ ४६॥
पुच्छप्रभ्रमणेनाशु शृङ्गाघातैर्महासुरः ।
ताडयामास तन्वङ्गीं घोररूपो भयानकः ॥ ४७॥
पुच्छेन पर्वताञ्छृङ्गे गृहीत्वा भ्रामयन्बलात् ।
प्रेषयामास पापात्मा प्रहसन्परया मुदा ॥ ४८॥
तामुवाच बलोन्मत्तस्तिष्ठ देवि रणाङ्गणे ।
अद्याहं त्वां हनिष्यामि रूपयौवनभूषिताम् ॥ ४९॥
मूर्खासि मदमत्ताद्य यन्मया सह सङ्गरम् ।
करोषि मोहितातीव मृषा बलवती खरा ॥ ५०॥
हत्वा त्वां निहनिष्यामि देवान्कपटपण्डितान् ।
ये नारीं पुरतः कृत्वा जेतुमिच्छन्ति मां शठाः ॥ ५१॥
देव्युवाच ।
मा गर्वं कुरु मन्दात्मंस्तिष्ठ तिष्ठ रणाङ्गणे ।
करिष्यामि निरातङ्कान्हत्वा त्वां सुरसत्तमान् ॥ ५२॥
पीत्वाद्य माधवीं मिष्टां शातयामि रणेऽधम ।
देवानां दुःखदं पापं मुनीनां भयकारकम् ॥ ५३॥
व्यास उवाच ।
इत्युक्त्वा चषकं हैमं गहीत्वा सुरया युतम् ।
पपौ पुनः पुनः क्रोधाद्धन्तुकामा महासुरम् ॥ ५४॥
पीत्वा द्राक्षासवं मिष्टं शूलमादाय सत्वरा ।
दुद्राव दानवं देवी हर्षयन्देवतागणान् ॥ ५५॥
देवास्तां तुष्टुवुः प्रेष्णा चक्रुः कुसुमवर्षणम् ।
जय जीवेति ते प्रोचुर्दुन्दुभीनाञ्च निःस्वनैः ॥ ५६॥
ऋषयः सिद्धगन्धर्वाः पिशाचोरगचारणाः ।
किन्नराः प्रेक्ष्य सङ्ग्रामं मुदिता गगने स्थिताः ॥ ५७॥
सोऽपि नानाविधान्देहान्कृत्वा कृत्वा पुनः पुनः ।
मायामयाञ्जघानाजौ देवीं कपटपण्डितः ॥ ५८॥
चण्डिकापि च तं पापं त्रिशूलेन बलाद्धृदि ।
ताडयामास तीक्ष्णेन क्रोधादरुणलोचना ॥ ५९॥
ताडितोऽसौ पपातोर्व्यां मूर्च्छामाप मुहूर्तकम् ।
पुनरुत्थाय चामुण्डां पद्भ्यां वेगादताडयत् ॥ ६०॥
विनिहत्य पदाघातैर्जहास च मुहुर्मुहुः ।
रुराव दारुणं शब्दं देवानां भयकारकम् ॥ ६१॥
ततो देवी सहस्रारं सुनाभं चक्रमुत्तमम् ।
करे कृत्वा जगादोच्चैः संस्थितं महिषासुरम् ॥ ६२॥
पश्य चक्रं मदान्धाद्य तव कण्ठनिकृन्तनम् ।
क्षणमात्रं स्थिरो भूत्वा यमलोकं व्रजाधुना ॥ ६३॥
इत्युक्त्वा दारुणं चक्रं मुमोच जगदम्बिका ।
शिरश्छिन्नं रथाङ्गेन दानवस्य तदा रणे ॥ ६४॥
सुस्राव रुधिरं चोष्णं कण्ठनालाद् गिरेर्यथा ।
गैरिकाद्यरुणं प्रौढं प्रवाहमिव नैर्झरम् ॥ ६५॥
कबन्धस्तस्य दैत्यस्य भ्रमन्वै पतितः क्षितौ ।
जयशब्दश्च देवानां बभूव सुखवर्धनः ॥ ६६॥
सिंहस्त्वतिबलस्तत्र पलायनपरानथ ।
दानवान्भक्षयामास क्षुधार्त इव सङ्गरे ॥ ६७॥
मृते च महिषे क्रूरे दानवा भयपीडिताः ।
मृतशेषाश्च ये केचित्पातालं ते ययुर्नृप ॥ ६८॥
आनन्दं परमं जग्मुर्देवास्तस्मिन्निपातिते ।
मुनयो मानवाश्चैव ये चान्ये साधवः क्षितौ ॥ ६९॥
चण्डिकापि रणं त्यक्त्वा शुभे देशेऽथ संस्थिता ।
देवास्तत्राययुः शीघ्रं स्तोतुकामाः सुखप्रदाम् ॥ ७०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
महिषासुरवधो नामाष्टादशोऽध्यायः ॥ ५.१८॥
५.१९ एकोनविंशोऽध्यायः । देवीसान्त्वनम् ।
व्यास उवाच ।
अथ प्रमुदिताः सर्वे देवा इन्द्रपुरोगमाः ।
महिषं निहतं दृष्ट्वा तुष्टुवुर्जगदम्बिकाम् ॥ १॥
देवा ऊचुः ।
ब्रह्मा सृजत्यवति विष्णुरिदं महेशः
शक्त्या तवैव हरते ननु चान्तकाले ॥
ईशा न तेऽपि च भवन्ति तया विहीना-
स्तस्मात्त्वमेव जगतः स्थितिनाशकर्त्री ॥ २॥
कीर्तिर्मतिः स्मृतिगती करुणा दया त्वं
श्रद्धा धृतिश्च वसुधा कमलाजपा च ।
पुष्टिः कलाथ विजया गिरिजा जया त्वं
तुष्टिः प्रमा त्वमसि बुद्धिरुमा रमा च ॥ ३॥
विद्या क्षमा जगति कान्तिरपीह मेधा
सर्वं त्वमेव विदिता भुवनत्रयेऽस्मिन् ।
आभिर्विना तव तु शक्तिभिराशु कर्तुं
को वा क्षमः सकललोकनिवासभूमे ॥ ४॥
त्वं धारणा ननु न चेदसि कूर्मनागौ
धर्तुं क्षमौ कथमिलामपि तौ भवेताम् ।
पृथ्वी न चेत्त्वमसि वा गगने कथं स्था-
स्यत्येतदम्ब निखिलं बहुभारयुक्तम् ॥ ५॥
ये वा स्तुवन्ति मनुजा अमरान्विमूढा
मायागुणैस्तव चतुर्मुखविष्णुरुद्रान् ।
शुभ्रांशुवह्नियमवायुगणेशमुख्यान्
किं त्वामृते जननि ते प्रभवन्ति कार्ये ॥ ६॥
ये जुह्वति प्रविततेऽल्पधियोऽम्ब यज्ञे
वह्नौ सुरान्समधिकृत्य हविः समृद्धम् ।
स्वाहा न चेत्त्वमसि ते कथमापुरद्धा
त्वामेव किं न हि यजन्ति ततो हि मूढाः ॥ ७॥
भोगप्रदासि भवतीह चराचराणां
स्वांशैर्ददासि खलु जीवनमेव नित्यम् ।
स्वीयान्सुराञ्जननि पोषयसीह यद्व-
त्तद्वत्परानपि च पालयसीति हेतोः ॥ ८॥
मातः स्वयंविरचितान्विपिने विनोदा-
द्वन्ध्यान्पलाशरहितांश्च कटूंश्च वृक्षान् ।
नोच्छेदयन्ति पुरुषा निपुणाः कथञ्चि-
त्तस्मात्त्वमप्यतितरां परिपासि दैत्यान् ॥ ९॥
यत्त्वं तु हंसि रणमूर्ध्नि शरैरराती-
न्देवाङ्गनासुरतकेलिमतीन्विदित्वा ।
देहान्तरेऽपि करुणारसमाददाना
तत्ते चरित्रमिदमीप्सितपूरणाय ॥ १०॥
चित्रं त्वमी यदसुभी रहिता न सन्ति
त्वच्चिन्तितेन दनुजाः प्रथितप्रभावाः ।
येषां कृते जननि देहनिबन्धनं ते
क्रीडारसस्तव न चान्यतरोऽत्र हेतुः ॥ ११॥
प्राप्ते कलावहह दुष्टतरे च काले
न त्वां भजन्ति मनुजा ननु वञ्चितास्ते ।
धूर्तैः पुराणचतुरैर्हरिशङ्कराणां
सेवापराश्च विहितास्तव निर्मितानाम् ॥ १२॥
ज्ञात्वा सुरांस्तव वशानसुरार्दितांश्च
ये वै भजन्ति भुवि भावयुता विभग्नान् ।
धृत्वा करे सुविमलं खलु दीपकं ते
कूपे पतन्ति मनुजा विजलेऽतिघोरे ॥ १३॥
विद्या त्वमेव सुखदासुखदाप्यविद्या
मातस्त्वमेव जननार्तिहरा नराणाम् ।
मोक्षार्थिभिस्तु कलिता किल मन्दधीभि-
र्नाराधिता जननि भोगपरैस्तथाज्ञैः ॥ १४॥
ब्रह्मा हरश्च हरिरप्यनिशं शरण्यं
पादाम्बुजं तव भजन्ति सुरास्तथान्ये ।
तद्वै न येऽल्पमतयो मनसा भजन्ति
भ्रान्ताः पतन्ति सततं भवसागरे ते ॥ १५॥
चण्डि त्वदङ्घ्रिजलजोत्थरजःप्रसादै-
र्ब्रह्मा करोति सकलं भुवनं भवादौ ।
शौरिश्च पाति खलु संहरते हरस्तु
त्वां सेवते न मनुजस्त्विह दुर्भगोऽसौ ॥ १६॥
वाग्देवता त्वमसि देवि सुरासुराणां
वक्तुं न तेऽमरवराः प्रभवन्ति शक्ताः ।
त्वं चेन्मुखे वससि नैव यदैव तेषां
यस्माद्भवन्ति मनुजा न हि तद्विहीनाः ॥ १७॥
शप्तो हरिस्तु भृगुणा कुपितेन कामं
मीनो बभूव कमठः खलु सूकरस्तु ।
पश्चान्नृसिंह इति यश्छलकृद्धरायां
तान्सेवतां जननि मृत्युभयं न किं स्यात् ॥ १८॥
शम्भोः पपात भुवि लिङ्गमिदं प्रसिद्धं
शापेन तेन च भृगोर्विपिने गतस्य ।
तं ये नरा भुवि भजन्ति कपालिनं तु
तेषां सुखं कथमिहापि परत्र मातः ॥ १९॥
योऽभूद् गजाननगणाधिपतिर्महेशा-
त्तं ये भजन्ति मनुजा वितथप्रपन्नाः ।
जानन्ति ते न सकलार्थफलप्रदात्रीं
त्वां देवि विश्वजननीं सुखसेवनीयाम् ॥ २०॥
चित्रं त्वयारिजनतापि दयार्द्रभावा-
द्धत्वा रणे शितशरैर्गमिता द्युलोकम् ।
नोचेत्स्वकर्मनिचिते निरये नितान्तं
दुःखातिदुःखगतिमापदमापतेत्सा ॥ २१॥
ब्रह्मा हरश्च हरिरप्युत गर्वभावा-
ज्जानन्ति तेऽपि विबुधा न तव प्रभावम् ।
केऽन्ये भवन्ति मनुजा विदितुं समर्थाः
सम्मोहितास्तव गुणैरमितप्रभावैः ॥ २२॥
क्लिश्यन्ति तेऽपि मुनयस्तव दुर्विभाव्यं
पादाम्बुजं न हि भजन्ति विमूढचित्ताः ।
सूर्याग्निसेवनपराः परमार्थतत्त्वं
ज्ञातं न तैः श्रुतिशतैरपि वेदसारम् ॥ २३॥
मन्ये गुणास्तव भुवि प्रथितप्रभावाः
कुर्वन्ति ये हि विमुखान्ननु भक्तिभावात् ।
लोकान्स्वबुद्धिरचितैर्विविधागमैश्च
विष्ण्वीशभास्करगणेशपरान्विधाय ॥ २४॥
कुर्वन्ति ये तव पदाद्विमुखान्नराग्र्या-
न्स्वोक्तागमैर्हरिहरार्चनभक्तियोगैः ।
तेषां न कुप्यसि दयां कुरुषेऽम्बिके त्वं
तान्मोहमन्त्रनिपुणान्प्रथयस्यलं च ॥ २५॥
तुर्ये युगे भवति चातिबलं गुणस्य
तुर्यस्य तेन मथितान्यसदागमानि ।
त्वां गोपयन्ति निपुणाः कवयः कलौ वै
त्वत्कल्पितान्सुरगणानपि संस्तुवन्ति ॥ २६॥
ध्यायन्ति मुक्तिफलदां भुवि योगसिद्धां
विद्यां पराञ्च मुनयोऽतिविशुद्धसत्त्वाः ।
ते नाप्नुवन्ति जननीजठरे तु दुःखं
धन्यास्त एव मनुजास्त्वयि ये विलीनाः ॥ २७॥
चिच्छक्तिरस्ति परमात्मनि येन सोऽपि
व्यक्तो जगत्सु विदितो भवकृत्यकर्ता ।
कोऽन्यस्त्वया विरहितः प्रभवत्यमुष्मिन्
कर्तुं विहर्तुमपि सञ्चलितुं स्वशक्त्या ॥ २८॥
तत्त्वानि चिद्विरहितानि जगद्विधातुं
किं वा क्षमाणि जगदम्ब यतो जडानि ।
किं चेन्द्रियाणि गुणकर्मयुतानि सन्ति
देवि त्वया विरहितानि फलं प्रदातुम् ॥ २९॥
देवा मखेष्वपि हुतं मुनिभिः स्वभागं
गृह्णीयुरम्ब विधिवत्प्रतिपादितं किम् ।
स्वाहा न चेत्त्वमसि तत्र निमित्तभूता
तस्मात्त्वमेव ननु पालयसीव विश्वम् ॥ ३०॥
सर्वं त्वयेदमखिलं विहितं भवादौ
त्वं पासि वै हरिहरप्रमुखान्दिगीशान् ।
कालेऽत्सि विश्वमपि ते चरितं भवाद्यं
जानन्ति नैव मनुजाः क्व नु मन्दभाग्याः ॥ ३१॥
हत्वासुरं महिषरूपधरं महोग्रं
मातस्त्वया सुरगणः किल रक्षितोऽयम् ।
कां ते स्तुतिं जननि मन्दधियो विदामो
वेदा गतिं तव यथार्थतया न जग्मुः ॥ ३२॥
कार्यं कृतं जगति नो यदसौ दुरात्मा
वैरी हतो भुवनकण्टकदुर्विभाव्यः ।
कीर्तिः कृता ननु जगत्सु कृपा विधेया-
प्यस्मांश्च पाहि जननि प्रथितप्रभावे ॥ ३३॥
व्यास उवाच ।
एवं स्तुता सुरैर्देवी तानुवाच मृदुस्वरा ।
अन्यत्कार्यं च दुःसाध्यं ब्रुवन्तु सुरसत्तमाः ॥ ३४॥
यदा यदा हि देवानां कार्यं स्यादतिदुर्घटम् ।
स्मर्तव्याहं तदा शीघ्रं नाशयिष्यामि चापदम् ॥ ३५॥
देवा ऊचुः ।
सर्वं कृतं त्वया देवि कार्यं नः खलु साम्प्रतम् ।
यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ ३६॥
स्मरिष्यामो यथा तेऽम्ब सदैव पदपङ्कजम् ।
तथा कुरु जगन्मातर्भक्तिं त्वय्यप्यचञ्चलाम् ॥ ३७॥
अपराधसहस्राणि मातैव सहते सदा ।
इति ज्ञात्वा जगद्योनिं न भजन्ते कुतो जनाः ॥ ३८॥
द्वौ सुपर्णो तु देहेऽस्मिंस्तयोः सख्यं निरन्तरम् ।
नान्यः सखा तृतीयोऽस्ति योऽपराधं सहेत हि ॥ ३९॥
तस्माज्जीवः सखायं त्वां हित्वा किं नु करिष्यति ।
पापात्मा मन्दभाग्योऽसौ सुरमानुषयोनिषु ॥ ४०॥
प्राप्य देहं सुदुष्प्रापं न स्मरेत्त्वां नराधमः ।
मनसा कर्मणा वाचा ब्रूमः सत्यं पुनः पुनः ॥ ४१॥
सुखे वाप्यथवा दुःखे त्वं नः शरणमद्भुतम् ।
पाहि नः सततं देवि सर्वैस्तव वरायुधैः ॥ ४२॥
अन्यथा शरणं नास्ति त्वत्पादाम्बुजरेणुतः ।
व्यास उवाच ।
एवं स्तुता सुरैर्देवी तत्रैवान्तरधीयत ।
विस्मयं परमं जग्मुर्देवास्तां वीक्ष्य निर्गताम् ॥ ४३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
देवीसान्त्वनं नामैकोनविंशोऽध्यायः ॥ ५.१९॥
५.२० विंशोऽध्यायः । महिषवधानन्तरं पृथिवीसुखवर्णनम् ।
जनमेजय उवाच -
अथाद्भुतं वीक्ष्य मुने प्रभावं
देव्या जगच्छान्तिकरं परञ्च ।
न तृप्तिरस्ति द्विजवर्य शृण्वतः
कथामृतं ते मुखपद्मजातम् ॥ १॥
अन्तर्हितायां च तदा भवान्या
चक्रुश्च किं देवपुरोगमास्ते ।
देव्याश्चरित्र परमं पवित्रं
दुरापमेवाल्पपुण्यैर्नराणाम् ॥ २॥
कस्तृप्तिमाप्नोति कथामृतेन
भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः ।
पीतेन येनामरतां प्रयाति
धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ ३॥
लीलाचरित्रं जगदम्बिकाया
रक्षान्वितं देवमहामुनीनाम् ।
संसारवार्धेस्तरणं नराणां
कथं कृतज्ञा हि परित्यजेयुः ॥ ४॥
मुक्ताश्च ये चैव मुमुक्षवश्च
संसारिणो रोगयुताश्च केचित् ।
तेषां सदा श्रोत्रपुटैश्च पेयं
सर्वार्थदं वेदविदो वदन्ति ॥ ५॥
तथा विशेषेण मुने नृपाणां
धर्मार्थकामेषु सदा रतानाम् ।
मुक्ताश्च यस्मात्खलु तत्पिबन्ति
कथं न पेयं रहितैश्च तेभ्यः ॥ ६॥
यैः पूजिता पूर्वभवे भवानी
सत्कुन्दपुष्पैरथ चम्पकैश्च ।
बैल्वैर्दलैस्ते भुवि भोगयुक्ता
नृपा भवन्तीत्यनुमेयमेवम् ॥ ७॥
ये भक्तिहीना समवाप्य देहं
तं मानुषं भारतभूमिभागे ।
यैर्नार्चिता ते धनधान्यहीना
रोगान्विताः सन्ततिवर्जिताश्च ॥ ८॥
भ्रमन्ति नित्यं किल दासभूता
आज्ञाकराः केवलभारवाहाः ।
दिवानिशं स्वार्थपराः कदापि
नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ ९॥
अन्धाश्च मूका बधिराश्च खञ्जाः
कुष्ठान्विता ये भुवि दुःखभाजः ।
तत्रानुमानं कविभिर्विधेयं
नाराधिता तैः सततं भवानी ॥ १०॥
ये राजभोगान्वितऋद्धिपूर्णाः
संसेव्यमाना बहुभिर्मनुष्यैः ।
दृश्यन्ति ये वा विभवैः समेता-
स्तैः पूजिताम्बेत्यनुमेयमेव ॥ ११॥
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् ।
कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ १२॥
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः ।
क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा ॥ १३॥
कथितं ते महाभाग गतान्तर्धानमाशु सा ।
स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ १४॥
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता ।
अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ १५॥
व्यास उवाच ।
पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् ।
क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ १६॥
यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे ।
पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ १७॥
यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः ।
नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ १८॥
स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा ।
यत्र सङ्क्रीडते नित्यं मायाशक्तिः सनातनी ॥ १९॥
देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा ।
रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम् ॥ २०॥
अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् ।
सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ २१॥
दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः ।
स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ २२॥
गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते ।
धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ २३॥
पर्जन्यः कालवर्षी च धरा धान्यगुणावृता ।
पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ २४॥
गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् ।
नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ २५॥
ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा ।
क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ २६॥
शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः ।
न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ २७॥
अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह ।
आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ २८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ २९॥
सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः ।
मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ ३०॥
पतिव्रतधरा नार्यः सुशीलाः सत्यसंयुताः ।
पितृभक्तिपराः पुत्रा आसन्धर्मपरायणाः ॥ ३१॥
न पाखण्डं न वाधर्मः कुत्रापि पृथिवीतले ।
वेदवादा शास्त्रवादा नान्ये वादास्तथाभवन् ॥ ३२॥
कलहो नैव केषाञ्चिन्न दैन्यं नाशुभा मतिः ।
सर्वत्र सुखिनो लोकाः काले च मरणं तथा ॥ ३३॥
सुहृदां न वियोगश्च नापदश्च कदाचन ।
नानावृष्टिर्न दुर्भिक्षं न मारी दुःखदा नृणाम् ॥ ३४॥
न रोगो न च मात्सर्यं न विरोधः परस्परम् ।
सर्वत्र सुखसम्पन्ना नरा नार्यः सुखान्विताः ॥ ३५॥
क्रीडन्ति मानवाः सर्वे स्वर्गे देवगणा इव ।
न चौरा न च पाखण्डा वञ्चका दम्भकास्तथा ॥ ३६॥
पिशुना लम्पटाः स्तब्धा न बभूवुस्तदा नृप ।
न वेदद्वेषिणः पापा मानवाः पृथिवीपते ॥ ३७॥
सर्वधर्मरता नित्यं द्विजसेवापरायणाः ।
त्रिधात्वात्सृष्टिधर्मस्य त्रिविधा ब्राह्मणास्ततः ॥ ३८॥
सात्त्विका राजसाश्चैव तामसाश्च तथापरे ।
सर्वे वेदविदो दक्षाः सात्त्विकाः सत्त्ववृत्तयः ॥ ३९॥
प्रतिग्रहविहीनाश्च दयादमपरायणाः ।
यज्ञास्ते सात्त्विकैरन्नैः कुर्वाणा धर्मतत्पराः ॥ ४०॥
पुरोडाशविधानैश्च पशुभिर्न कदाचन ।
दानमध्ययनञ्चैव यजनं तु तृतीयकम् ॥ ४१॥
त्रिकर्मरसिकास्ते वै सात्त्विका ब्राह्मणा नृप ।
राजसा वेदविद्वांसः क्षत्रियाणां पुरोहिताः ॥ ४२॥
षट्कर्मनिरता सर्वे विधिवन्मांसभक्षकाः ।
यजनं याजनं दानं तथैव च प्रतिग्रहः ॥ ४३॥
अध्ययनं तु वेदानां तथैवाध्यापनं तु षट् ।
तामसाः क्रोधसंयुक्ता रागद्वेषपराः पुनः ॥ ४४॥
राज्ञां कर्मकरा नित्यं किञ्चिदध्ययने रताः ।
महिषे निहते सर्वे सुखिनो वेदतत्पराः ॥ ४५॥
बभूवुर्व्रतनिष्णाता दानधर्मपरास्तथा ।
क्षत्रियाः पालने युक्ता वैश्या वणिजवृत्तयः ॥ ४६॥
कृषिवाणिज्यगोरक्षाकुसीदवृत्तयः परे ।
एवं प्रमुदितो लोको महिषे विनिपातिते ॥ ४७॥
अनुद्वेगः प्रजानां वै सम्बभूव धनागमः ।
बहुक्षीरा शुभा गावो नद्यश्चैव बहूदकाः ॥ ४८॥
वृक्षा बहुफलाश्चासन्मानवा रोगवर्जिताः ।
नाधयो नेतयः क्वापि प्रजानां दुःखदायकाः ॥ ४९॥
न निधनमुपयान्ति प्राणिनस्तेऽप्यकाले
सकलविभवयुक्ता रोगहीनाः सदैव ।
निगमविहितधर्मे तत्पराश्चण्डिकाया-
श्चरणसरसिजानां सेवने दत्तचित्ताः ॥ ५०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे महिषवधानन्तरं
पृथिवीसुखवर्णनं नाम विशोऽध्यायः ॥ ५.२०॥
५.२१ एकविंशोऽध्यायः । शुम्भनिशुम्भद्वारा स्वर्गविजयवर्णनम् ।
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि देव्याश्चरितमुत्तमम् ।
सुखदं सर्वजन्तूनां सर्वपापप्रणाशनम् ॥ १॥
यथा शुम्भो निशुम्भश्च भ्रातरौ बलवत्तरौ ।
बभूवतुर्महावीरौ अवध्यौ पुरुषैः किल ॥ २॥
बहुसेनावृतौ शूरौ देवानां दुःखदौ सदा
दुराचारौ मदोत्सिक्तौ बहुदानवसंयुतौ ॥ ३॥
हतावम्बिकया तौ तु सङ्ग्रामेऽतीव दारुणे ।
देवानाञ्ज हितार्थाय सर्वैः परिचरैः सह ॥ ४॥
चण्डमुण्डौ महाबाहू रक्तबीजोऽतिदारुणः ।
धूम्रलोचननामा च निहतास्ते रणाङ्गणे ॥ ५॥
तान्निहत्य सुराणां सा जहार भयमुत्तमम् ।
स्तुता सम्पूजिता देवैर्गिरौ हेमाचले शुभे ॥ ६॥
राजोवाच ।
कावेतावसुरावादौ कथं तौ बलिनां वरौ ।
केन संस्थापितौ चेह स्त्रीवध्यत्वं कुतो गतौ ॥ ७॥
तपसा वरदानेन कस्य जातौ महाबलौ ।
कथञ्च निहतौ सर्वं कथयस्व सविस्तरम् ॥ ८॥
व्यास उवाच ।
शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम् ।
देव्याश्चरितसंयुक्तां सर्वार्थफलदां शुभाम् ॥ ९॥
पुरा शुम्भनिशुम्भौ द्वावसुरौ भूमिमण्डले ।
पातालतश्च सम्प्राप्तौ भ्रातरौ शुभदर्शनौ ॥ १०॥
तौ प्राप्तयौवनौ चैव चेरतुस्तप उत्तमम् ।
अन्नोदकं परित्यज्य पुष्करे लोकपावने ॥ ११॥
वर्षाणामयुतं यावद्योगविद्यापरायणौ ।
एकत्रैवासनं कृत्वा तेपाते परमं तपः ॥ १२॥
तयोस्तुष्टोऽभवद् ब्रह्मा सर्वलोकपितामहः ।
तत्रागतश्च भगवानारुह्य वरटापतिम् ॥ १३॥
तावुभौ च जगत्स्रष्टा दृष्ट्वा ध्यानपरौ स्थितौ ।
उत्तिष्ठत महाभागौ तुष्टोऽहं तपसा किल ॥ १४॥
वाञ्छितं वां वरं कामं ददामि ब्रुवतामिह ।
कामदोऽहं समायातो दृष्ट्वा वां तपसो बलम् ॥ १५॥
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य प्रबुद्धौ तौ समाहितौ ।
प्रदक्षिणक्रियां कृत्वा प्रणामं चक्रतुस्तदा ॥ १६॥
दण्डवत्प्रणिपातञ्च कृत्वा तौ दुर्बलाकृती ।
ऊचतुर्मधुरां वाचं दीनौ गद्गदया गिरा ॥ १७॥
देवदेव दयासिन्धो भक्तानामभयप्रद ।
अमरत्वञ्च नौ ब्रह्मन्देहि तुष्टोऽसि चेद्विभो ॥ १८॥
मरणादपरं किञ्चिद्भयं नास्ति धरातले ।
तस्माद्भयाच्च सन्त्रस्तौ युष्माकं शरणं गतौ ॥ १९॥
त्राहि त्वं देवदेवेश जगत्कर्तः क्षमानिधे ।
परिस्फोटय विश्वात्मन् सद्यो मरणजं भयम् ॥ २०॥
ब्रह्मोवाच ।
किमिदं प्रार्थनीयं वो विपरीतं तु सर्वथा ।
अदेयं सर्वथा सर्वैः सर्वेभ्यो भुवनत्रये ॥ २१॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
मर्यादा विहिता लोके पूर्वं विश्वकृता किल ॥ २२॥
मर्तव्यं सर्वथा सर्वैः प्राणिभिर्नात्र संशयः ।
अन्यं प्रार्थयतं कामं ददामि यच्च वाञ्छितम् ॥ २३॥
व्यास उवाच ।
तदाकर्ण्य वचस्तस्य सुविमृश्य च दानवौ ।
ऊचतुः प्रणिपत्याथ ब्रह्माणं पुरतः स्थितम् ॥ २४॥
पुरुषैरमराद्यैश्च मानवैर्मृगपक्षिभिः ।
अवध्यत्वं कृपासिन्धो देहि नौ वाञ्छितं वरम् ॥ २५॥
नारी बलवती कास्ति या नौ नाशं करिष्यति ।
न बिभीवः स्त्रियः कामं त्रैलोक्ये सचराचरे ॥ २६॥
अवध्यौ भ्रातरौ स्यातां नरेभ्यः पङ्कजोद्भव ।
भयं न स्त्रीजनेभ्यश्च स्वभावादबला हि सा ॥ २७॥
व्यास उवाच ।
इति श्रुत्वा तयोर्वाक्यं प्रददौ वाञ्छितं वरम् ।
ब्रह्मा प्रसन्नमनसा जगामाथ स्वमालयम् ॥ २८॥
गतेऽथ भवने तस्मिन्दानवौ स्वगृहं गतौ ।
भृगुं पुरोहितं कृत्वा चक्रतुः पूजनं तदा ॥ २९॥
शुभे दिने सुनक्षत्रे जातरूपमयं शुभम् ।
कृत्वा सिंहासनं दिव्यं राज्यार्थं प्रददौ मुनिः ॥ ३०॥
शुम्भाय ज्येष्ठभूताय ददौ राज्यासनं शुभम् ।
सेवनार्थं तदैवाशु सम्प्राप्ता दानवोत्तमाः ॥ ३१॥
चण्डमुण्डौ महावीरौ भ्रातरौ बलदर्पितौ ।
सम्प्राप्तौ सैन्यसंयुक्तौ रथवाजिगजान्वितौ ॥ ३२॥
धूम्रलोचननामा च तद्रूपश्चण्डविक्रमः ।
शुम्भञ्च भूपतिं श्रुत्वा तदागाद्बलसंयुतः ॥ ३३॥
रक्तबीजस्तथा शूरो वरदानबलाधिकः ।
अक्षौहिणीभ्यां संयुक्तस्तत्रैवागत्य सङ्गतः ॥ ३४॥
तस्यैकं कारणं राजन् सङ्ग्रामे युध्यतः सदा ।
देहाद्रुधिरसम्पातस्तस्य शस्त्राहतस्य च ॥ ३५॥
जायते च यदा भूमावुत्पद्यन्ते ह्यनेकशः ।
तादृशाः पुरुषाः क्रूरा बहवः शस्त्रपाणयः ॥ ३६॥
सम्भवन्ति तदाकारास्तद्रूपास्तत्पराक्रमाः ।
युद्धं पुनस्ते कुर्वन्ति पुरुषा रक्तसम्भवाः ॥ ३७॥
अतः सोऽपि महावीर्यः सङ्ग्रामेऽतीव दुर्जयः ।
अवध्यः सर्वभूतानां रक्तबीजो महासुरः ॥ ३८॥
अन्ये च बहवः शूराश्चतुरङ्गसमन्विताः ।
शुम्भञ्च नृपतिं मत्वा बभूवुस्तस्य सेवकाः ॥ ३९॥
असङ्ख्याता तदा जाता सेना शुम्भनिशुम्भयोः ।
पृथिव्याः सकलं राज्यं गृहीतं बलवत्तया ॥ ४०॥
सेनायोगं तदा कृत्वा निशुम्भः परवीरहा ।
जगाम तरसा स्वर्गे शचीपतिजयाय च ॥ ४१॥
चकारासौ महायुद्धं लोकपालैः समन्ततः ।
वृत्रहा वज्रपातेन ताडयामास वक्षसि ॥ ४२॥
स वज्राभिहतो भूमौ पपात दानवानुजः ।
भग्नं बलं तदा तस्य निशुम्भस्य महात्मनः ॥ ४३॥
भ्रातरं मूर्च्छितं श्रुत्वा शुम्भः परबलार्दनः ।
तत्रागत्य सुरान्मर्वांस्ताडयामास सायकैः ॥ ४४॥
कृतं युद्धं महत्तेन शुम्भेनाक्लिष्टकर्मणा ।
निर्जितास्तु सुराः सर्वे सेन्द्राः पालाश्च सर्वशः ॥ ४५॥
ऐन्द्रं पदं तदा तेन गृहीतं बलवत्तया ।
कल्पपादपसंयुक्तं कामधेनुसमन्वितम् ॥ ४६॥
त्रैलोक्यं यज्ञभागाश्च हृतास्तेन महात्मना ।
नन्दनं च वनं प्राप्य मुदितोऽभून्महासुरः ॥ ४७॥
सुधायाश्चैव पानेन सुखमाप महासुरः ।
कुबेरं स च निर्जित्य तस्य राज्यं चकार ह ॥ ४८॥
अधिकारं तथा भानोः शशिनश्च चकार ह ।
यमञ्चैव विनिर्जित्य जग्राह तत्पदं तथा ॥ ४९॥
वरुणस्य तथा राज्यं चकार वह्निकर्म च ।
वायोः कार्यं निशुम्भश्च चकार स्वबलान्वितः ॥ ५०॥
ततो देवा विनिर्धूता हृतराज्या हृतश्रियः ।
सन्त्यज्य नन्दनं सर्वे निर्ययुर्गिरिगह्वरे ॥ ५१॥
हृताधिकारास्ते सर्वे बभ्रमुर्विजने वने ।
निरालम्बा निराधारा निस्तेजस्का निरायुधाः ॥ ५२॥
विचेरुरमराः सर्वे पर्वतानां गुहासु च ।
उद्यानेषु च शून्येषु नदीनां गह्वरेषु च ॥ ५३॥
न प्रापुस्ते सुखं वापि स्थानभ्रष्टा विचेतसः ।
लोकपाला महाराज दैवाधीनं सुखं किल ॥ ५४॥
बलवन्तो महाभागा बहुज्ञा धनसंयुताः ।
काले दुःखं तथा दैन्यमाप्नुवन्ति नराधिप ॥ ५५॥
चित्रमेतन्महाराज कालस्यैव विचेष्टितम् ।
यः करोति नरं तावद्राजानं भिक्षुकं ततः ॥ ५६॥
दातारं याचकं चैव बलवन्तं तथाबलम् ।
पण्डितं विकलं कामं शूरं चातीव कातरम् ॥ ५७॥
मखानाञ्च शतं कृत्वा प्राप्येन्द्रासनमुत्तमम् ।
पुनर्दुःखं परं प्राप्तं कालस्य गतिरीदृशी ॥ ५८॥
कालः करोति धर्मिष्ठं पुरुषं ज्ञानसंयुतम् ।
तमेवातीव पापिष्ठं ज्ञानलेशविवर्जितम् ॥ ५९॥
न विस्मयोऽत्र कर्तव्यः सर्वथा कालचेष्टिते ।
ब्रह्मविष्णुहरादीनामपीदृक्कष्टचेष्टितम् ॥ ६०॥
विष्णुर्जननमाप्नोति सूकरादिषु योनिषु ।
हरः कपाली सञ्जातः कालेनैव बलीयसा ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे शुम्भनिशुम्भद्वारा
स्वर्गविजयवर्णनं नामकविंशोऽध्यायः ॥ ५.२१॥
५.२२ द्वाविंशोऽध्यायः । देवकृतदेव्याराधनवर्णनम् ।
व्यास उवाच ।
पराजिताः सुराः सर्वे राज्यं शुम्भः शशास ह ।
एवं वर्षसहस्रं तु जगाम नृपसत्तम ॥ १॥
भ्रष्टराज्यास्ततो देवाश्चिन्तामापुः सुदुस्तराम् ।
गुरुं दुःखातुरास्ते तु पप्रच्छुरिदमादृताः ॥ २॥
किं कर्तव्यं गुरो ब्रूहि सर्वज्ञस्त्वं महामुनिः ।
उपायोऽस्ति महाभाग दुःखस्य विनिवृत्तये ॥ ३॥
उपचारपरा नूनं वेदमन्त्राः सहस्रशः ।
वाच्छितार्थकरा नूनं सूत्रैः संलक्षिताः किल ॥ ४॥
इष्टयो विविधाः प्रोक्ताः सर्वकामफलप्रदाः ।
ताः कुरुष्व मुने नूनं त्वं जानासि च तत्क्रियाः ॥ ५॥
विधिः शत्रुविनाशाय यथोद्दिष्टः सदागमे ।
तं कुरुष्वाद्य विधिवद्यथा नो दुःखसङ्क्षयः ॥ ६॥
भवेदाङ्गिरसाद्यैव तथा त्वं कर्तुमर्हसि ।
दानवानां विनाशाय अभिचारं यथामति ॥ ७॥
बृहस्पतिरुवाच ।
सर्वे मन्त्राश्च वेदोक्ता दैवाधीनफलाश्च ते ।
न स्वतन्त्राः सुराधीश तथैकान्तफलप्रदाः ॥ ८॥
मन्त्राणां देवता यूयं ते तु दुःखैकभाजनम् ।
जाताः स्म कालयोगेन किं करोमि प्रसाधनम् ॥ ९॥
इन्द्राग्निवरुणादीनां यजनं यज्ञकर्मसु ।
ते यूयं विपदं प्राप्ताः करिष्यन्ति किमिष्टयः ॥ १०॥
अवश्यम्भाविभावानां प्रतीकारो न विद्यते ।
उपायस्त्वथ कर्तव्य इति शिष्टानुशासनम् ॥ ११॥
दैवं हि बलवत्केचित्प्रवदन्ति मनीषिणः ।
उपायवादिनो दैवं प्रवदन्ति निरर्थकम् ॥ १२॥
दैवं चैवाप्युपायश्च द्वावेवाभिमतौ नृणाम् ।
केवलं दैवमाश्रित्य न स्थातव्यं कदाचन ॥ १३॥
उपायः सर्वथा कार्यो विचार्य स्वधिया पुनः ।
तस्माद् ब्रवीमि वः सर्वान्संविचार्य पुनः पुनः ॥ १४॥
पुरा भगवती तुष्टा जघान महिषासुरम् ।
युष्माभिस्तु स्तुता देवी वरदानं ददावथ ॥ १५॥
आपदं नाशयिष्यामि संस्मृता वा सदैव हि ।
यदा यदा वो देवेशा आपदो दैवसम्भवाः ॥ १६॥
प्रभवन्ति तदा कामं स्मर्तव्याहं सुरैः सदा ।
स्मृताहं नाशयिष्यामि युष्माकं परमापदः ॥ १७॥
तस्माद्धिमाचले गत्वा पर्वते सुमनोहरे ।
आराधनं चण्डिकायाः कुरुध्वं प्रेमपूर्वकम् ॥ १८॥
मायाबीजविधानज्ञास्तत्पुरश्चरणे रताः ।
जानाम्यहं योगबलात्प्रसन्ना सा भविष्यति ॥ १९॥
दुःखस्यान्तोऽद्य युष्माकं दृश्यते नात्र संशयः ।
तस्मिञ्छैले सदा देवी तिष्ठतीति मया श्रुतम् ॥ २०॥
स्तुता सम्पूजिता सद्यो वाञ्छितार्थान् प्रदास्यति ।
निश्चयं परमं कृत्वा गच्छध्वं वै हिमालयम् ॥ २१॥
सुराः सर्वाणि कार्याणि सा वः कामं विधास्यति ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा देवास्ते प्रययुर्गिरिम् ॥ २२॥
हिमालयं महाराज देवीध्यानपरायणाः ।
मायाबीजं हृदा नित्यं जपन्तः सर्व एव हि ॥ २३॥
नमश्चक्रुर्महामायां भक्तानामभयप्रदाम् ।
तुष्टुवुः स्तोत्रमन्त्रैश्च भक्त्या परमया युताः ॥ २४॥
नमो देवि विश्वेश्वरि प्राणनाथे
सदानन्दरूपे सुरानन्ददे ते ।
नमो दानवान्तप्रदे मानवाना-
मनेकार्थदे भक्तिगम्यस्वरूपे ॥ २५॥
न ते नामसङ्ख्यां न ते रूपमीदृ-
क्तथा कोऽपि वेदादिदेवस्वरूपे ।
त्वमेवासि सर्वेषु शक्तिस्वरूपा
प्रजासृष्टिसंहारकाले सदैव ॥ २६॥
स्मृतिस्त्वं धृतिस्त्वं त्वमेवासि बुद्धि-
र्जरा पुष्टितुष्टी धृतिः कान्तिशान्ती ।
सुविद्या सुलक्ष्मीर्गतिः कीर्तिमेधे
त्वमेवासि विश्वस्य बीजं पुराणम् ॥ २७॥
यदा यैः स्वरूपैः करोषीह कार्यं
सुराणां च तेभ्यो नमामोऽद्य शान्त्यै ।
क्षमा योगनिद्रा दया त्वं विवक्षा
स्थिता सर्वभूतेषु शस्तैः स्वरूपैः ॥ २८॥
कृतं कार्यमादौ त्वया यत्सुराणां
हतोऽसौ महारिर्मदान्धो हयारिः ।
दया ते सदा सर्वदेवेषु देवि
प्रसिद्धा पुराणेषु वेदेषु गीता ॥ २९॥
किमत्रास्ति चित्रं यदम्बा सुतं स्वं
मुदा पालयेत्पोषयेत्सम्यगेव ।
यतस्त्वं जनित्री सुराणां सहाया
कुरुष्वैकचित्तेन कार्यं समग्रम् ॥ ३०॥
न वा ते गुणानामियत्तां स्वरूपं
वयं देवि जानीमहे विश्ववन्द्ये ।
कृपापात्रमित्येव मत्वा तथास्मा-
न्भयेभ्यः सदा पाहि पातुं समर्थे ॥ ३१॥
विना बाणपातैर्विना मुष्टिघातै-
र्विनाशूलखड्गैर्विना शक्तिदण्डैः ।
रिपून्हन्तुमेवासि शक्ता विनोदा-
त्तथापीह लोकोपकाराय लीला ॥ ३२॥
इदं शाश्वतं नैव जानन्ति मूढा
न कार्यं विना कारणं सम्भवेद्वा ।
वयं तर्कयामोऽनुमानं प्रमाणं
त्वमेवासि कर्तास्य विश्वस्य चेति ॥ ३३॥
अजः सृष्टिकर्ता मुकुन्दोऽवितायं
हरो नाशकृद्वै पुराणे प्रसिद्धः ।
न किं त्वत्प्रसूतास्त्रयस्ते युगादौ
त्वमेवासि सर्वस्य तेनैव माता ॥ ३४॥
त्रिभिस्त्वं पुराराधिता देवि दत्ता
त्वया शक्तिरुग्रा च तेभ्यः समग्रा ।
त्वया संयुतास्ते प्रकुर्वन्ति कामं
जगत्पालनोत्पत्तिसंहारमेव ॥ ३५॥
ते किं न मन्दमतयो यतयो विमूढा-
स्त्वां ये न विश्वजननीं समुपाश्रयन्ति ।
विद्यां परां सकलकामफलप्रदां तां
मुक्तिप्रदां विबुधवृन्दसुवन्दिताङ्घ्रिम् ॥ ३६॥
ये वैष्णवाः पाशपताश्च सौरा
दम्भास्त एव प्रतिभान्ति नूनम् ।
ध्यायन्ति न त्वां कमलाञ्च लज्जां
कान्तिं स्थितिं कीर्तिमथापि पुष्टिम् ॥ ३७॥
हरिहरादिभिरप्यथ सेविता
त्वमिह देववरैरसुरैस्तथा ।
भुवि भजन्ति न येऽल्पधियो नरा
जननि ते विधिना खलु वञ्चिताः ॥ ३८॥
जलधिजापदपङ्कजरञ्जनं
जतुरसेन करोति हरिः स्वयम् ।
त्रिनयनोऽपि धराधरजाङ्घ्रिपं-
कजपरागनिषेवणतत्परः ॥ ३९॥
किमपरस्य नरस्य कथानकै-
स्तव पदाब्जयुगं न भजन्ति के ।
विगतरागगृहाश्च दयां क्षमां
कृतधियो मुनयोऽपि भजन्ति ते ॥ ४०॥
देवि त्वदङ्घ्रिभजने न जना रता ये
संसारकूपपतिताः पतिताः किलामी ।
ते कुष्ठगुल्मशिराधियुता भवन्ति
दारिद्र्यदैन्यसहिता रहिताः सुखौघैः ॥ ४१॥
ये काष्ठभारवहने यवसावहारे
कार्ये भवन्ति निपुणा धनदारहीनाः ।
जानीमहेऽल्पमतिभिर्भवदङ्घ्रिसेवा
पूर्वे भवे जननि तैर्न कृता कदापि ॥ ४२॥
व्यास उवाच ।
एवं स्तुता सुरैः सर्वैरम्बिका करुणान्विता ।
प्रादुर्बभूव तरसा रूपयौवनसंयुता ॥ ४३॥
दिव्याम्बरधरा देवी दिव्यभूषणभूषिता ।
दिव्यमाल्यसमायुक्ता दिव्यचन्दनचर्चिता ॥ ४४॥
जगन्मोहनलावण्या सर्वलक्षणलक्षिता ।
अद्वितीयस्वरूपा सा देवानां दर्शनं गता ॥ ४५॥
जाह्नव्यां स्नातुकामा सा निर्गता गिरिगह्वरात् ।
दिव्यरूपधरा देवी विश्वमोहनमोहिनी ॥ ४६॥
देवान्स्तुतिपरानाह मेघगम्भीरया गिरा ।
प्रेमपूर्वं स्मितं कृत्वा कोकिलामञ्जुवादिनी ॥ ४७॥
देव्युवाच ।
भो भोः सुरवराः कात्र भवद्भिः स्तूयते भृशम् ।
किमर्थं ब्रूत वः कार्यं चिन्ताविष्टाः कुतः पुनः ॥ ४८॥
व्यास उवाच ।
तच्छ्रुत्वा भाषितं तस्या मोहिता रूपसम्पदा ।
प्रेमपूर्वं हृदुत्साहास्तामूचुः सुरसत्तमाः ॥ ४९॥
देवा ऊचुः ।
देवि स्तुमस्त्वां विश्वेशि प्रणताः स्म कृपार्णवे ।
पाहि नः सर्वदुःखेभ्यः संविग्नान्दैत्यतापितान् ॥ ५०॥
पुरा त्वया महादेवि निहत्यासुरकण्टकम् ।
महिषं नो वरो दत्तः स्मर्तव्याहं सदापदि ॥ ५१॥
स्मरणाद्दैत्यजां पीडां नाशयिष्याम्यसंशयम् ।
तेन त्वं संस्मृता देवि नूनमस्माभिरित्यपि ॥ ५२॥
अद्य शुम्भनिशुम्भौ द्वावसुरौ घोरदर्शनौ ।
उत्पन्नौ विघ्नकर्तारावहन्यौ पुरुषैः किल ॥ ५३॥
रक्तबीजश्च बलवांश्चण्डमुण्डौ तथासुरौ ।
एतैरन्यैश्च देवानां हृतं राज्यं महाबलैः ॥ ५४॥
गतिरन्या न चास्माकं त्वमेवासि महाबले ।
कुरु कार्यं सुराणां वै दुःखितानां सुमध्यमे ॥ ५५॥
देवास्त्वदङ्घ्रिभजने निरताः सदैव
ते दानवैरतिबलैर्विपदं सुनीताः ।
तान्देवि दुःखरहितान् कुरु भक्तियुक्ता-
न्मातस्त्वमेव शरणं भव दुःखितानाम् ॥ ५६॥
सकलभुवनरक्षा देवि कार्या त्वयाद्य
स्वकृतमिति विदित्वा विश्वमेतद्युगादौ ।
जननि जगति पीडां दानवा दर्पयुक्ताः
स्वबलमदसमेतास्ते प्रकुर्वन्ति मातः ॥ ५७॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
देवकृतदेव्याराधनवर्णनं नाम द्वाविंशोऽध्यायः ॥ ५.२२॥
५.२३ त्रयोविंशोऽध्यायः । देव्या सुग्रीवदूताय स्वव्रतकथनम् ।
व्यास उवाच ।
एवं स्तुता तदा देवी दैवतैः शत्रुतापितैः ।
स्वशरीरात्परं रूपं प्रादुर्भूतं चकार ह ॥ १॥
पार्वत्यास्तु शरीराद्वै निःसृता चाम्बिका यदा ।
कौशिकीति समस्तेषु ततो लोकेषु पठ्यते ॥ २॥
निःसृतायां तु तस्यां सा पार्वती तनुव्यत्ययात् ।
कृष्णरूपाथ सञ्जाता कालिका सा प्रकीर्तिता ॥ ३॥
मषीवर्णा महाघोरा दैत्यानां भयवर्धिनी ।
कालरात्रीति सा प्रोक्ता सर्वकामफलप्रदा ॥ ४॥
अम्बिकायाः परं रूपं विरराज मनोहरम् ।
सर्वभूषणसंयुक्तं लावण्यगुणसंयुतम् ॥ ५॥
ततोऽम्बिका तदा देवानित्युवाच ह सस्मिता ।
तिष्ठन्तु निर्भया यूयं हनिष्यामि रिपूनिह ॥ ६॥
कार्यं वः सर्वथा कार्यं विहरिष्याम्यहं रणे ।
निशुम्भादीन्वधिष्यामि युष्माकं सुखहेतवे ॥ ७॥
इत्युक्त्वा सा तदा देवी सिंहारूढा मदोत्कटा ।
कालिकां पार्श्वतः कृत्वा जगाम नगरे रिपोः ॥ ८॥
सा गत्वोपवने तस्थावम्बिका कालिकान्विता ।
जगावथ कलं तत्र जगन्मोहनमोहनम् ॥ ९॥
श्रुत्वा तन्मधुरं गानं मोहमीयुः खगा मृगाः ।
मुदञ्च परमां प्रापुरमरा गगने स्थिताः ॥ १०॥
तस्मिन्नवसरे तत्र दानवौ शुम्भसेवकौ ।
चण्डमुण्डाभिधौ घोरौ रममाणौ यदृच्छया ॥ ११॥
आगतौ ददृशाते तु तां तदा दिव्यरूपिणीम् ।
अम्बिकां गानसंयुक्तां कालिकां पुरतः स्थिताम् ॥ १२॥
दृष्ट्वा तां दिव्यरूपाञ्च दानवौ विस्मयान्वितौ ।
जग्मतुस्तरसा पार्श्वं शुम्भस्य नृपसत्तम ॥ १३॥
तौ गत्वा तं समासीनं दैत्यानामधिपं गृहे ।
ऊचतुर्मधुरां वाणीं प्रणम्य शिरसा नृपम् ॥ १४॥
राजन् हिमालयात्कामं कामिनी काममोहिनी ।
सम्प्राप्ता सिंहमारूढा सर्वलक्षणसंयुता ॥ १५॥
नेदृशी देवलोकेऽस्ति न गन्धर्वपुरे तथा ।
न दृष्टा न श्रुता क्वापि पृथिव्यां प्रमदोत्तमा ॥ १६॥
गानञ्च तादृशं राजन् करोति जनरञ्जनम् ।
मृगास्तिष्ठन्ति तत्पार्श्वे मथुरस्वरमोहिताः ॥ १७॥
ज्ञायतां कस्य पुत्रीयं किमर्थमिह चागता ।
गृह्यतां राजशार्दूल तव योग्यास्ति कामिनी ॥ १८॥
ज्ञात्वाऽऽनय गृहे भार्यां कुरु कल्याणलोचनाम् ।
निश्चितं नास्ति संसारे नारी त्वेवंविधा किल ॥ १९॥
देवानां सर्वरत्नानि गृहीतानि त्वया नृप ।
कस्मान्नेमां वरारोहां प्रगह्णासि नृपोत्तम ॥ २०॥
इन्द्रस्यैरावतः श्रीमान्पारिजाततरुस्तथा ।
गृहीतोऽश्वः सप्तमुखस्त्वया नृप बलात्किल ॥ २१॥
विमानं वैधसं दिव्यं मरालध्वजसंयुतम् ।
त्वयात्तं रत्नभूतं तद्बलेन नृप चाद्भुतम् ॥ २२॥
कुबेरस्य निधिः पद्मस्त्वया राजन् समाहृतः ।
छत्रं जलपतेः शुभ्रं गृहीतं तत्त्वया बलात् ॥ २३॥
पाशश्चापि निशुम्भेन भ्रात्रा तव नृपोत्तम ।
गृहीतोऽस्ति हठात्कामं वरुणस्य जितस्य च ॥ २४॥
अम्लानपङ्कजां तुभ्यं मालां जलनिधिर्ददौ ।
भयात्तव महाराज रत्नानि विविधानि च ॥ २५॥
मृत्योः शक्तिर्यमस्यापि दण्डः परमदारुणः ।
त्वया जित्वा हृतः कामं किमन्यद्वर्ण्यते नृप ॥ २६॥
कामधेनुर्गहीताद्य वर्तते सागरोद्भवा ।
मेनकाद्या वशे राजंस्तव तिष्ठन्ति चाप्सराः ॥ २७॥
एवं सर्वाणि रत्नानि त्वयात्तानि बलादपि ।
कस्मान्न गृह्यते कान्तारत्नमेषा वराङ्गना ॥ २८॥
सर्वाणि ते गृहस्थानि रत्नानि विशदान्यथ ।
अनया सम्भविष्यन्ति रत्नभूतानि भूपते ॥ २९॥
त्रिषु लोकेषु दैत्येन्द्र नेदृशी वर्तते प्रिया ।
तस्मात्तामानयाशु त्वं कुरु भार्यां मनोहराम् ॥ ३०॥
व्यास उवाच ।
इति श्रुत्वा तयोर्वाक्यं मधुरं मधुराक्षरम् ।
प्रसन्नवदनः प्राह सुग्रीवं सनिधौ स्थितम् ॥ ३१॥
गच्छ सुग्रीव दूतत्वं कुरु कार्यं विचक्षण ।
वक्तव्यञ्च तथा तत्र यथाभ्येति कृशोदरी ॥ ३२॥
उपायौ द्वौ प्रयोक्तव्यौ कान्तासु सुविचक्षणैः ।
सामदाने इति प्राहुः शृङ्गाररसकोविदाः ॥ ३३॥
भेदे प्रयुज्यमानेऽपि रसाभासस्तु जायते ।
निग्रहे रसभङ्गः स्यात्तस्मात्तौ दूषितौ बुधैः ॥ ३४॥
सामदानमुखैर्वाक्यैः श्लक्ष्णैर्नर्मयुतैस्तथा ।
का न याति वशे दूत कामिनी कामपीडिता ॥ ३५॥
व्यास उवाच ।
सुग्रीवस्तु वचः श्रुत्वा शुम्भोक्तं सुप्रियं पटु ।
जगाम तरसा तत्र यत्रास्ते जगदम्बिका ॥ ३६॥
सोऽपश्यत्सुमुखीं कान्तां सिंहस्योपरिसंस्थिताम् ।
प्रणम्य मधुरं वाक्यमुवाच जगदम्बिकाम् ॥ ३७॥
दूत उवाच ।
वरोरु त्रिदशारातिः शुम्भः सर्वाङ्गसुन्दरः ।
त्रैलोक्याधिपतिः शूरः सर्वजिद्राजते नृपः ॥ ३८॥
तेनाहं प्रेषितः कामं त्वत्सकाशं महात्मना ।
त्वद्रूपश्रवणासक्तचित्तेनातिविदूयता ॥ ३९॥
वचनं तस्य तन्वङ्गि शृणु प्रेमपुरःसरम् ।
प्रणिपत्य यथा प्राह दैत्यानामधिपस्त्वयि ॥ ४०॥
देवा मया जिताः सर्वे त्रैलोक्याधिपतिस्त्वहम् ।
यज्ञभागानहं कान्ते गह्णामीह स्थितः सदा ॥ ४१॥
हृतसारा कृता नूनं द्यौर्मया रत्नवर्जिता ।
यानि रत्नानि देवानां तानि चाहृतवानहम् ॥ ४२॥
भोक्ताहं सर्वरत्नानां त्रिषु लोकेषु भामिनि ।
वशानुगाः सुराः सर्वे मम दैत्याश्च मानवाः ॥ ४३॥
त्वद्गुणैः कर्णमागत्य प्रविश्य हृदयान्तरम् ।
त्वदधीनः कृतः कामं किङ्करोऽस्मि करोमि किम् ॥ ४४॥
त्वमाज्ञापय रम्भोरु तत्करोमि वशानुगः ।
दासोऽहं तव चार्वङ्गि रक्ष मां कामबाणतः ॥ ४५॥
भज मां त्वं मरालाक्षि तवाधीनं स्मराकुलम् ।
त्रैलोक्यस्वामिनी भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ ४६॥
तव चाज्ञाकरः कान्ते भवामि मरणावधि ।
अवध्योऽस्मि वरारोहे सदेवासुरमानुषैः ॥ ४७॥
सदा सौभाग्यसंयुक्ता भविष्यसि वरानने ।
यत्र ते रमते चित्तं तत्र क्रीडस्व सुन्दरि ॥ ४८॥
इति तस्य वचश्चित्ते विमृश्य मदमन्थरे ।
वक्तव्यं यद्भवेत्प्रेम्णा तद् ब्रूहि मधुरं वचः ॥ ४९॥
शुम्भाय चञ्चलापाङ्गि तद्ब्रवीम्यहमाशु वै ।
व्यास उवाच ।
तद्दूतवचनं श्रुत्वा स्मितं कृत्वा सुपेशलम् ॥ ५०॥
तं प्राह मधुरां वाचं देवी देवार्थसाधिका ।
देव्युवाच ।
जानाम्यहं निशुम्भं च शुम्भं चातिबलं नृपम् ॥ ५१॥
जेतारं सर्वदेवानां हन्तारञ्चैव विद्विषाम् ।
राशिं सर्वगुणानाञ्च भोक्तारं सर्वसम्पदाम् ॥ ५२॥
दातारं चातिशूरं च सुन्दरं मन्मथाकृतिम् ।
द्वात्रिंशल्लक्षणैर्युक्तमवध्यं सुरमानुषैः ॥ ५३॥
ज्ञात्वा समागतास्स्म्यत्र द्रष्टुकामा महासुरम् ।
रत्नं कनकमायाति स्वशोभाधिकवृद्धये ॥ ५४॥
तत्राहं स्वपतिं द्रष्टुं दूरादेवागतास्मि वै ।
दृष्टा मया सुराः सर्वे मानवा भुवि मानदाः ॥ ५५॥
गन्धर्वा राक्षसाश्चान्ये ये चातिप्रियदर्शनाः ।
सर्वे शुम्भभयाद्भीता वेपमाना विचेतसः ॥ ५६॥
श्रुत्वा शुम्भगुणानत्र प्राप्तास्म्यद्य दिदृक्षया ।
गच्छ दूत महाभाग ब्रूहि शुम्भं महाबलम् ॥ ५७॥
निर्जने श्लक्ष्णया वाचा वचनं वचनान्मम ।
त्वां ज्ञात्वा बलिनां श्रेष्ठं सुन्दराणां च सुन्दरम् ॥ ५८॥
दातारं गुणिनं शूरं सर्वविद्याविशारदम् ।
जेतारं सर्वदेवानां दक्षं चोग्रं कुलोत्तरम् ॥ ५९॥
भोक्तारं सर्वरत्नानां स्वाधीनं स्वबलोन्नतम् ।
पतिकामास्म्यहं सत्यं तव योग्या नराधिप ॥ ६०॥
स्वेच्छया नगरे तेऽत्र समायाता महामते ।
ममास्ति कारणं किञ्चिद्विवाहे राक्षसोत्तम ॥ ६१॥
बालभावाद्व्रतं किञ्चित्कृतं राजन्मया पुरा ।
क्रीडन्त्या च वयस्याभिः सहैकान्ते यदृच्छया ॥ ६२॥
स्वदेहबलदर्पेण सखीनां पुरतो रहः ।
मत्समानबलः शूरो रणे मां जेष्यति स्फुटम् ॥ ६३॥
तं वरिष्याम्यहं कामं ज्ञात्वा तस्य बलाबलम् ।
जहसुर्वचनं श्रुत्वा सख्यो विस्मितमानसाः ॥ ६४॥
किमेतया कृतं क्रूरं व्रतमद्भुतमाशु वै ।
तस्मात्त्वमपि राजेन्द्र ज्ञात्वा मे हीदृशं बलं । ६५॥
जित्वा मां स्वबलेनात्र वाञ्छितं कुरु चात्मनः ।
त्वं वा तवानुजो भ्राता समेत्य समराङ्गणे ।
जित्वा मां समरेणात्र विवाहं कुरु सुन्दर ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देव्या सुग्रीवदूताय
स्वव्रतकथनं नाम त्रयोविंशोऽध्यायः ॥ ५.२३॥
५.२४ चतुर्विंशोऽध्यायः । देवीमाहात्म्ये देवीपार्श्वे धूम्रलोचनदूतप्रेषणम् ।
व्यास उवाच ।
देव्यास्तद्वचनं श्रुत्वा स दूतः प्राह विस्मितः ।
किं ब्रूषे रुचिरापाङ्गि स्त्रीस्वभावाद्धि साहसात् ॥ १॥
इन्द्राद्या निर्जिता येन देवा दैत्यास्तथापरे ।
तं कथं समरे देवि जेतुमिच्छसि भामिनि ॥ २॥
त्रैलोक्ये तादृशो नास्ति यः शुम्भं समरे जयेत् ।
का त्वं कमलपत्राक्षि तस्याग्रे युधि साम्प्रतम् ॥ ३॥
अविचार्य न वक्तव्यं वचनं चापि सुन्दरि ।
बलं स्वपरयोर्ज्ञात्वा वक्तव्यं समयोचितम् ॥ ४॥
त्रैलोक्याधिपतिः शुम्भस्तव रूपेण मोहितः ।
त्वाञ्च प्रार्थयते राजा कुरु तस्येप्सितं प्रिये ॥ ५॥
त्यक्त्वा मूर्खस्वभावं त्वं सम्मान्य वचनं मम ।
भज शुम्भं निशुम्भं वा हितमेतद् ब्रवीमि ते ॥ ६॥
शृङ्गारः सर्वथा सर्वैः प्राणिभिः परया मुदा ।
सेवनीयो बुद्धिमद्भिर्नवानामुत्तमो यतः ॥ ७॥
नागमिष्यसि चेद् बाले सङ्क्रुद्धः पृथिवीपतिः ।
अन्यानाज्ञाकरान्प्रेष्य बलान्नेष्यति साम्प्रतम् ॥ ८॥
केशेष्वाकृष्य ते नूनं दानवा बलदर्पिताः ।
त्वां नयिष्यन्ति वामोरु तरसा शुम्भसन्तिधौ ॥ ९॥
स्वलज्जां रक्ष तन्वङ्गि साहसं सर्वथा त्यज ।
मानिता गच्छ तत्पार्श्वे मानपात्रं यतोऽसि वै ॥ १०॥
क्व युद्धं निशितैर्बाणैः क्व सुखं रतिसङ्गजम् ।
सारासारं परिच्छेद्य कुरु मे वचनं पटु ॥ ११॥
भज शुम्भं निशुम्भं वा लब्धासि परमं सुखम् ।
देव्युवाच ।
सत्यं दूत महाभाग प्रवक्तुं निपुणो ह्यसि ॥ १२॥
निशुम्भशुम्भौ जानामि बलवन्ताविति ध्रुवम् ।
प्रतिज्ञा मे कृता बाल्यादन्यथा सा कथं भवेत् ॥ १३॥
तस्माद् ब्रूहि निशुम्भञ्च शुम्भं वा बलवत्तरम् ।
विना युद्धं न मे भर्ता भविता कोऽपि सौष्ठवात् ॥ १४॥
जित्वा मां तरसा कामं करं गृह्णातु साम्प्रतम् ।
युद्धेच्छया समायातां विद्धि मामबलां नृप ॥ १५॥
युद्धं देहि समर्थोऽसि वीरधर्मं समाचर ।
बिभेषि मम शूलाच्चेत्पातालं गच्छ मा चिरम् ॥ १६॥
त्रिदिवं च धरां त्यक्त्वा जीवितेच्छा यदस्ति ते ।
इति दूत वदाशु त्वं गत्वा स्वपतिमादरात् ॥ १७॥
स विचार्य यथायुक्तं करिष्यति महाबलः ।
संसारे दूतधर्मोऽयं यत्सत्यं भाषणं किल ॥ १८॥
शत्रौ पत्यौ च धर्मज्ञ तथा त्वं कुरु मा चिरम् ।
व्यास उवाच ।
अथ तद्वचनं श्रुत्वा नीतिमद्बलसंयुतम् ॥ १९॥
हेतुयुक्तं प्रगल्पञ्च विस्मितः प्रययौ तदा ।
गत्वा दैत्यपतिं दूतो विचार्य च पुनः पुनः ॥ २०॥
प्रणम्य पादयोः प्रह्वः प्रत्युवाच नृपञ्ज तम् ।
राजनीतिकरं वाक्यं मृदुपूर्वं प्रियं वचः ॥ २१॥
दूत उवाच ।
सत्यं प्रियं च वक्तव्यं तेन चिन्तापरो ह्यहम् ।
सत्यं प्रियं च राजेन्द्र वचनं दुर्लभं किल ॥ २२॥
अप्रियं वदतां कामं राजा कुप्यति सर्वथा ।
साक्षात्कुतः समायाता कस्य वा किम्बलाबला ॥ २३॥
न ज्ञानगोचरं किञ्चित्किं ब्रवीमि विचेष्टितम् ।
युद्धकामा मया दृष्टा गर्विता कटुभाषिणी ॥ २४॥
तया यत्कथितं सम्यक् तच्छृणुष्व महामते ।
मया बाल्यात्प्रतिज्ञेयं कृता पूर्वं विनोदतः ॥ २५॥
सखीनां पुरतः कामं विवाहं प्रति सर्वथा ।
यो मां युद्धे जयेदद्धा दर्पञ्च विधुनोति वै ॥ २६॥
तं वरिष्याम्यहं कामं पतिं समबलं किल ।
न मे प्रतिज्ञा मिथ्या सा कर्तव्या नृपसत्तम ॥ २७॥
तस्माद्युध्यस्व धर्मज्ञ जित्वा मां स्ववशं कुरु ।
तयेति व्याहृतं वाक्यं श्रुत्वाहं समुपागतः ॥ २८॥
यथेच्छसि महाराज तथा कुरु तव प्रियम् ।
सा युद्धार्थं कृतमतिः सायुधा सिंहगामिनी ॥ २९॥
निश्चला वर्तते भूप यद्योग्यं तद्विधीयताम् ।
व्यास उवाच ।
इत्याकर्ण्य वचस्तस्य सुग्रीवस्य नराधिपः ॥ ३०॥
पप्रच्छ भ्रातरंशूरं समीपस्थं महाबलम् ।
शुम्भ उवाच ।
भ्रातः किमत्र कर्तव्यं ब्रूहि सत्यं महामते ॥ ३१॥
नार्येका योद्धुकामास्ति समाह्वयति साम्प्रतम् ।
अहं गच्छामि सङ्ग्रामे त्वं वा गच्छ बलान्वितः ॥ ३२॥
यद्रोचते निशुम्भात्र तत्कर्तव्यं मया किल ।
निशुम्भ उवाच ।
न मया न त्वया वीर गन्तव्यं रणमूर्धनि ॥ ३३॥
प्रेषयस्व महाराज त्वरितं धूम्रलोचनम् ।
स गत्वा तां रणे जित्वा गृहीत्वा चारुलोचनाम् ॥ ३४॥
आगमिष्यति शुम्भात्र विवाहः संविधीयताम् ।
व्यास उवाच ।
तन्निशम्य वचस्तस्य शुम्भो भ्रातुः कनीयसः ॥ ३५
कोपात्सम्प्रेषयामास पार्श्वस्थं धूम्रलोचनम् ।
शुम्भ उवाच ।
धूम्रलोचन गच्छाशु सैन्येन महताऽऽवृतः ॥ ३६॥
गृहीत्वाऽऽनय तां मुग्धां स्ववीर्यमदमोहिताम् ।
देवो वा दानवो वापि मनुष्यो वा महाबलः ॥ ३७॥
तत्पार्ष्णिग्राहतां प्राप्तो हन्तव्यस्तरसा त्वया ।
तत्पार्श्ववर्तिनीं कालीं हत्वा सङ्गृह्य तां पुनः ॥ ३८॥
शीघ्रमत्र समागच्छ कृत्वा कार्यमनुत्तमम् ।
रक्षणीया त्वया साध्वी मुञ्चन्ती मृदुमार्गणान् ॥ ३९॥
यत्नेन महता वीर मृदुदेहा कृशोदरी ।
तत्सहायाश्च हन्तव्या ये रणे शस्त्रपाणयः ॥ ४०॥
सर्वथा सा न हन्तव्या रक्षणीया प्रयत्नतः ।
व्यास उवाच ।
इत्यादिष्टस्तदा राज्ञा तरसा धूम्रलोचनः ॥ ४१॥
प्रणम्य शुम्भं सैन्येन भूतः शीघ्रं ययौ रणे ।
असाधूनां सहस्राणां षष्ट्या तेषां वृतस्तथा ॥ ४२॥
स ददर्श ततो देवीं रम्योपवनसंस्थिताम् ।
दृष्ट्वा तां मृगशावाक्षीं विनयेन समन्वितः ॥ ४३॥
उवाच वचनं श्लक्ष्णं हेतुमद्रसभूषितम् ।
शृणु देवि महाभागे शुम्भस्त्वद्विरहातुरः ॥ ४४॥
दूतं प्रेषितवान्पार्श्वे तव नीतिविशारदः ।
रसभङ्गभयोद्विग्नः सामपूर्वं त्वयि स्वयम् ॥ ४५॥
तेनागत्य वचः प्रोक्तं विपरीतं वरानने ।
वचसा तेन मे भर्ता चिन्ताविष्टमना नृपः ॥ ४६॥
बभूव रसमार्गज्ञे शुम्भः कामविमोहितः ।
दूतेन तेन न ज्ञातं हेतुगर्भं वचस्तव ॥ ४७॥
यो मां जयति सङ्ग्रामे यदुक्तं कठिनं वचः ।
न ज्ञातस्तेन सङ्ग्रामो द्विविधः खलु मानिनि ॥ ४८॥
रतिजोऽथोत्साहजश्च पात्रभेदे विवक्षितः ।
रतिजस्त्वयि वामोरु शत्रोरुत्साहजः स्मृतः ॥ ४९॥
सुखदः प्रथमः कान्ते दुःखदश्चारिजः स्मृतः ।
जानाम्यहं वरारोहे भवत्या मानसं किल ॥ ५०॥
रतिसङ्ग्रामभावस्ते हृदये परिवर्तते ।
इति तज्ज्ञं विदित्वा मां त्वत्सकाशं नराधिपः ॥ ५१॥
प्रेषयामास शुम्भोऽद्य बलेन महताऽऽवृतम् ।
चतुरासि महाभागे शृणु मे वचनं मृदु ॥ ५२॥
भज शुम्भं त्रिलोकेशं देवदर्पनिबर्हणम् ।
पट्टराज्ञी प्रिया भूत्वा भुङ्क्ष्व भोगाननुत्तमान् ॥ ५३॥
जेष्यति त्वां महाबाहुः शुम्भः कामबलार्थवित् ।
विचित्रान्कुरु हावांस्त्वं सोऽपि भावान्करिष्यति ॥ ५४॥
भविष्यति कालिकेयं तत्र वै नर्मसाक्षिणी ।
एवं सङ्गरयोगेन पतिर्मे परमार्थवित् ॥ ५५॥
जित्वा त्वां सुखशय्यायां परिश्रान्तां करिष्यति ।
रक्तदेहां नखाघातैर्दन्तैश्च खण्डिताधराम् ॥ ५६॥
स्वेदक्लिन्नां प्रभग्नां त्वां संविधास्यति भूपतिः ।
भविता मानसः कामो रतिसङ्ग्रामजस्तव ॥ ५७॥
दर्शनाद्वश एवास्ते शुम्भः सर्वात्मना प्रिये ।
वचनं कुरु मे पथ्यं हितकृच्चापि पेशलम् ॥ ५८॥
भज शुम्भं गणाध्यक्षं माननीयातिमानिनी ।
मन्दभाग्याश्च ते नूनं ह्यस्त्रयुद्धप्रियाश्च ये ॥ ५९॥
न तदर्हासि कान्ते त्वं सदा सुरतवल्लभे ।
अशोकं कुरु राजानं पादाघातविकासितम् ॥ ६०॥
बकुलं सीधुसेकेन तथा कुरबकं कुरु ॥ ६१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देवीमाहात्म्ये देवीपार्श्वे
धूम्रलोचनदूतप्रेषणं नाम चतुर्विंशोऽध्यायः ॥ ५.२४॥
५.२५ पञ्चविंशोऽध्यायः । देव्यासह युद्धाय चण्डमुण्डप्रेषणम् ।
व्यास उवाच ।
इत्युक्त्वा विररामासौ वचनं धूम्रलोचनः ।
प्रत्युवाच तदा काली प्रहस्य ललितं वचः ॥ १॥
विदूषकोऽसि जाल्म त्वं शैलूष इव भाषसे ।
वृथा मनोरथांश्चित्ते करोषि मधुरं वदन् ॥ २॥
बलवान्बलसंयुक्तः प्रेषितोऽसि दुरात्मना ।
कुरु युद्धं वृथा वादं मुञ्च मूढमतेऽधुना ॥ ३॥
हत्वा शुम्भं निशुम्भञ्च त्वदन्यान्वा बलाधिकान् ।
देवी क्रुद्धा शराघातैर्व्रजिष्यति निजालयम् ॥ ४॥
क्वासौ मन्दमतिः शुम्भः क्व वा विश्वविमोहिनी ।
अयुक्तः खलु संसारे विवाहविधिरेतयोः ॥ ५॥
सिंही किं त्वतिकामार्ता जम्बुकं कुरुते पतिम् ।
करिणी गर्दभं वापि गवयं सुरभिः किमु ॥ ६॥
गच्छ शुम्भं निशुम्भं च वद सत्यं वचो मम ।
कुरु युद्धं न चेद्याहि पातालं तरसाधुना ॥ ७॥
व्यास उवाच ।
कालिकायावचः श्रुत्वा स दैत्यो धूम्रलोचनः ।
तामुवाच महाभाग क्रोधसंरक्तलोचनः ॥ ८॥
दुर्दर्शे त्वां निहत्याजौ सिंहञ्च मदगर्वितम् ।
गृहीत्वैनां गमिष्यामि राजानं प्रत्यहं किल ॥ ९॥
रसभङ्गभयात्कालि बिभेमि त्विह साम्प्रतम् ।
नोचेत्त्वां निशितैर्बाणैर्हन्म्यद्य कलहप्रिये ॥ १०॥
कालिकोवाच ।
किं विकत्थसि मन्दात्मन्नायं धर्मो धनुष्मताम् ।
स्वशक्त्या मुञ्च विशिखान्गन्तासि यमसंसदि ॥ ११॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं दैत्यः सङ्गृह्य कार्मुकं दृढम् ।
कालिकां तां शरासारैर्ववर्षातिशिलाशितैः ॥ १२॥
देवास्तु प्रेक्षकास्तत्र विमानवरसंस्थिताः ।
तां स्तुवन्तो जयेत्यूचुर्देवीं शक्रपुरोगमाः ॥ १३॥
तयोः परस्परं युद्धं प्रवृत्तं चातिदारुणम् ।
बाणखड्गगदाशक्तिमुसलादिभिरुत्कटम् ॥ १४॥
कालिका बाणपातैस्तु हत्वा पूर्वं खरानथ ।
बभञ्ज तद्रथं व्यूढं जहास च मुहुर्मुहुः ॥ १५॥
स चान्यं रथमारूढः कोपेन प्रज्वलन्निव ।
बाणवृष्टिं चकारोग्रां कालिकोपरि भारत ॥ १६॥
सापि चिच्छेद तरसा तस्य बाणानसङ्गतान् ।
मुमोचान्यानुग्रवेगान्दानवोपरि कालिका ॥ १७॥
तैर्बाणैर्निहतास्तस्य पार्ष्णिग्राहा सहस्रशः ।
बभञ्ज च रथं वेगात्सूतं हत्वा खरानपि ॥ १८॥
चिच्छेद तद्धनुः सद्यो बाणैरुरगसन्निभैः ।
मुदं चक्रे सुराणां सा शङ्खनादं तथाकरोत् ॥ १९॥
विरथः परिघं गृह्य सर्वलोहमयं दृढम् ।
आजगाम रथोपस्थं कुपितो धूम्रलोचनः ॥ २०॥
वाचा निर्भर्त्सयन्कालीं करालः कालसन्निभः ।
अद्यैव त्वां हनिष्यामि कुरूपे पिङ्गलोचने ॥ २१॥
इत्युक्त्वा सहसाऽऽगत्य परिघं क्षिपते यदा ।
हुङ्कारेणैव तं भस्म चकार तरसाम्बिका ॥ २२॥
दृष्ट्वा भस्मीकृतं दैत्यं सैनिका भयविह्वलाः ।
चक्रुः पलायनं सद्यो हा तातेत्यब्रुवन्पथि ॥ २३॥
देवास्तं निहतं दृष्ट्वा दानवं धूम्रलोचनम् ।
मुमुचुः पुष्पवृष्टिं ते मुदिता गगने स्थिताः ॥ २४॥
रणभूमिस्तदा राजन् दारुणा समपद्यत ।
निहतैर्दानवैरश्वैः खरैश्च वारणैस्तथा ॥ २५॥
गृध्राः काका वटाः श्येना वरफा जम्बुकास्तथा ।
ननृतुश्चुक्रुशुः प्रेतान्पतितान् रणभूमिषु ॥ २६॥
अम्बिका तद्रणस्थानं त्यक्त्वा दूरं स्थलान्तरे ।
गत्वा चकार चाप्युग्रं शङ्खनादं भयप्रदम् ॥ २७॥
तं श्रुत्वा दरशब्दं तु शुम्भः सद्मनि संस्थितः ।
दृष्ट्वाथ दानवान्भग्नानागतान् रुधिरोक्षितान् ॥ २८॥
छिन्नपादकराक्षांश्च मञ्चकारोपितानपि ।
भग्नपृष्ठकटिग्रीवान्क्रन्दमानाननेकशः ॥ २९॥
वीक्ष्य शुम्भो निशुम्भश्च क्व गतो धूम्रलोचनः ।
कथं भग्नाः समायाता नानीता किं वरानना ॥ ३०॥
सैन्यं कुत्र गतं मन्दाः कथयन्तु यथोचितम् ।
कस्यायं शङ्खनादोऽद्य श्रूयते भयवर्धनः ॥ ३१॥
गणा ऊचुः ।
बलञ्च पातितं सर्वं निहतो धूम्रलोचनः ।
कृतं कालिकया कर्म रणभूमावमानुषम् ॥ ३२॥
शङ्खनादोऽम्बिकायास्तु गगनं व्याप्य राजते ।
हर्षदः सुरसङ्घानां दानवानाञ्च शोककृत् ॥ ३३॥
यदा निपातिताः सर्वे तेन केसरिणा विभो ।
रथा भग्ना हयाश्चैव बाणपातैर्विनाशिताः ॥ ३४॥
गगनस्थाः सुराश्चक्रुः पुष्पवृष्टिं मुदान्विताः ।
दृष्ट्वा भग्नं बलं सर्वं पातितं धूम्रलोचनम् ॥ ३५॥
निश्चयस्तु कृतोऽस्माभिर्जयो नैव भवेदिति ।
विचारं कुरु राजेन्द्र मन्त्रिभिर्मन्त्रवित्तमैः ॥ ३६॥
विस्मयोऽयं महाराज यदेका जगदम्बिका ।
भवद्भिः सह युद्धाय संस्थिता सैन्यवर्जिता ॥ ३७॥
निर्भयैकाकिनी बाला सिंहारूढा मदोत्कटा ।
चित्रमेतन्महाराज भासतेऽद्भुतमञ्जसा ॥ ३८॥
सन्धिर्वा विग्रहो वाद्य स्थानं निर्याणमेव च ।
मन्त्रयित्वा महाराज कुरु कार्यं यथारुचि ॥ ३९॥
तत्सन्निधौ बलं नास्ति तथापि शत्रुतापन ।
पार्ष्णिग्राहा सुराः सर्वे भविष्यन्ति किलापदि ॥ ४०॥
समये तत्समीपस्थौ ज्ञातौ च हरिशङ्करौ ।
लोकपालाः समीपेऽद्य वर्तन्ते गगने स्थिताः ॥ ४१॥
रक्षोगणाश्च गन्धर्वाः किन्नरा मानुषास्तथा ।
तत्सहायाश्च मन्तव्याः समये सुरतापन ॥ ४२॥
अस्माकं मतिमानेन ज्ञायते सर्वथेदृशम् ।
अम्बिकायाः सहायाशा तत्कार्याशा न काचन ॥ ४३॥
एका नाशयितुं शक्ता जगत्सर्वं चराचरम् ।
का कथा दानवानां तु सर्वेषामिति निश्चयः ॥ ४४॥
इति ज्ञात्वा महाभाग यथारुचि तथा कुरु ।
हितं सत्यं मितं वाक्यं वक्तव्यमनुयायिभिः ॥ ४५॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं तेषां शुम्भः परबलार्दनः ।
कनीयांसं समानीय पप्रच्छ रहसि स्थितः ॥ ४६॥
भ्रातः कालिकयाद्यैव निहतो धूम्रलोचनः ।
बलञ्च शातितं सर्वं गणा भग्नाः समागताः ॥ ४७॥
अम्बिका शङ्खनादं वै करोति मदगर्विता ।
ज्ञानिनां चैव दुर्ज्ञेया गतिः कालस्य सर्वथा ॥ ४८॥
तृणं वज्रायते नूनं वज्रं चैव तृणायते ।
बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी ॥ ४९॥
पृच्छामि त्वां महाभाग किं कर्तव्यमितः परम् ।
अभोग्या चाम्बिका नूनं कारणादत्र चागता ॥ ५०॥
युक्तं पलायनं वीर युद्धं वा वद सत्वरम् ।
लघुं ज्येष्ठं विजानामि त्वामहं कार्यसङ्कटे ॥ ५१॥
निशुम्भ उवाच ।
न वा पलायनं युक्तं न दुर्गग्रहणं तथा ।
युद्धमेव परं श्रेयः सर्वथैवानयानघ ॥ ५२॥
ससैन्योऽहं गमिष्यामि रणे तु प्रवराश्रितः ।
हत्वा तामागमिष्यामि तरसा त्वबलामिमाम् ॥ ५३॥
अथवा बलवद्दैवादन्यथा चेद्भविष्यति ।
मृते मयि त्वया कार्यं विमृश्य च पुनः पुनः ॥ ५४॥
इति तस्य वचः श्रुत्वा शुम्भः प्रोवाच चानुजम् ।
तिष्ठ त्वं चण्डमुण्डौ द्वौ गच्छेतां बलसंयुतौ ॥ ५५॥
शशकग्रहणायात्र न युक्तं गजमोचनम् ।
चण्डमुण्डौ महावीरौ तां हन्तुं सर्वथा क्षमौ ॥ ५६॥
इत्युक्त्वा भ्रातरं शुम्भः सम्भाष्य च महाबलौ ।
उवाच वचनं राजा चण्डमुण्डौ पुरःस्थितौ ॥ ५७॥
गच्छतं चण्डमुण्डौ द्वौ स्वसैन्यपरिवारितौ ।
हन्तुं तामबलां शीघ्रं निर्लज्जां मदगर्विताम् ॥ ५८॥
गृहीत्वाथ निहत्याजौ कालिकां पिङ्गलोचनाम् ।
आगम्यतां महाभागौ कृत्वा कार्यं महत्तरम् ॥ ५९॥
सा नायाति गृहीतापि गर्विता चाम्बिका यदि ।
तदा बाणैर्महातीक्ष्णैर्हन्तव्याहवमण्डिता ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देव्यासह युद्धाय
चण्डमुण्डप्रेषणं नाम पञ्चविंशोऽध्यायः ॥ ५.२५॥
५.२६ षड्विंशोऽध्यायः । चण्डमुण्डवधेन देव्याश्चामुण्डेतिनामवर्णनम् ।
व्यास उवाच ।
इत्याज्ञप्तौ तदा वीरौ चण्डमुण्डौ महाबलौ ।
जग्मतुस्तरसैवाजौ सैन्येन महतान्वितौ ॥ १॥
दृष्ट्वा तत्र स्थितां देवीं देवानां हितकारिणीम् ।
ऊचतुस्तौ महावीर्यौ तदा सामान्वितं वचः ॥ २॥
बाले त्वं किं न जानासि शुम्भं सुरबलार्दनम् ।
निशुम्भञ्च महावीर्यं तुराषाड्विजयोद्धतम् ॥ ३॥
त्वमेकासि वरारोहे कालिकासिंहसंयुता ।
जेतुमिच्छसि दुर्बुद्धे शुम्भं सर्वबलान्वितम् ॥ ४॥
मतिदः कोऽपि ते नास्ति नारी वापि नरोऽपि वा ।
देवास्त्वां प्रेरयन्त्येव विनाशाय तवैव ते ॥ ५॥
विमृश्य कुरु तन्वङ्गि कार्यं स्वपरयोर्बलम् ।
अष्टादशभुजत्वात्त्वं गर्वञ्च कुरुषे मृषा ॥ ६॥
किं भुजैर्बहुभिर्व्यर्थैरायुधैः किं श्रमप्रदैः ।
शुम्भस्याग्रे सुराणां वै जेतुः समरशालिनः ॥ ७॥
ऐरावतकरच्छेत्तुर्दन्तिदारणकारिणः ।
जयिनः सुरसङ्घानां कार्यं कुरु मनोगतम् ॥ ८॥
वृथा गर्वायसे कान्ते कुरु मे वचनं प्रियम् ।
हितं तव विशालाक्षि सुखदं दुःखनाशनम् ॥ ९॥
दुःखदानि च कार्याणि त्याज्यानि दूरतो बुधैः ।
सुखदानि च सेव्यानि शास्त्रतत्त्वविशारदैः ॥ १०॥
चतुरासि पिकालापे पश्य शुम्भबलं महत् ।
प्रत्यक्षं सुरसङ्घानां मर्दनेन महोदयम् ॥ ११॥
प्रत्यक्षञ्च परित्यज्य वृथैवानुमितिः किल ।
सन्देहसहिते कार्ये न विपश्चित्प्रवर्तते ॥ १२॥
शत्रुः सुराणां परमः शुम्भः समरदुर्जयः ।
तस्मात्त्वां प्रेरयन्त्यत्र देवा दैत्येशपीडिताः ॥ १३॥
तस्मात्तद्वचनैः स्निग्धैर्वञ्चितासि शुचिस्मिते ।
दुःखाय तव देवानां शिक्षा स्वार्थस्य साधिका ॥ १४॥
कार्यमित्रं परिक्षिप्य धर्ममित्रं समाश्रयेत् ।
देवाः स्वार्थपराः कामं त्वामहं सत्यमब्रुवम् ॥ १५॥
भज शुम्भं सुरेशानं जेतारं भुवनेश्वरम् ।
चतुरं सुन्दरं शूरं कामशास्त्रविशारदम् ॥ १६
ऐश्वर्यं सर्वलोकानां प्राप्स्यसे शुम्भशासनात् ।
निश्चयं परमं कृत्वा भर्तारं भज शोभनम् ॥ १७॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा चण्डस्य जगदम्बिका ।
मेघगम्भीरनिनदं जगर्ज पुनरब्रवीत् ॥ १८॥
गच्छ जाल्म मृषा किं त्वं भाषसे वञ्चकं वचः ।
त्यक्त्वा हरिहरादींश्च शुम्भं कस्माद्भजे पतिम् ॥ १९॥
न मे कश्चित्पतिः कार्यो न कार्यं पतिना सह ।
स्वामिनी सर्वभूतानामहमेव निशामय ॥ २०॥
शुम्भा मे बहवो दृष्टा निशुम्भाश्च सहस्रशः ।
घातिताश्च मया पूर्वं शतशो दैत्यदानवाः ॥ २१॥
ममाग्रे देववृन्दानि विनष्टानि युगे युगे ।
नाशं यास्यन्ति दैत्यानां यूथानि पुनरद्य वै ॥ २२॥
काल एवागतोऽस्त्यत्र दैत्यसंहारकारकः ।
वृथा त्वं कुरुषे यत्नं रक्षणायात्मसन्ततेः ॥ २३॥
कुरु युद्धं वीरधर्मरक्षायै त्वं महामते ।
मरणं भावि दुस्त्याज्यं यशो रक्ष्यं महात्मभिः ॥ २४॥
किं ते कार्यं निशुम्भेन शुम्भेन च दुरात्मना ।
वीरधर्मं परं प्राप्य गच्छ स्वर्गं सुरालयम् ॥ २५॥
शुम्भो निशुम्भश्चैवान्ये ये चात्र तव बान्धवाः ।
सर्वे तवानुगाः पश्चादागमिष्यन्ति साम्प्रतम् ॥ २६॥
क्रमशः सर्वदैत्यानां करिष्याम्यद्य सङ्क्षयम् ।
विषादं त्यज मन्दात्मन् कुरु युद्धं विशाम्पते ॥ २७॥
त्वामहं निहनिष्यामि भ्रातरं तव साम्प्रतम् ।
ततः शुम्भं निशुम्भं च रक्तबीजं मदोत्कटम् ॥ २८॥
अन्यांश्च दानवान्सर्वान्हत्वाहं समराङ्गणे ।
गमिष्यामि यथास्थानं तिष्ठ वा गच्छ वा द्रुतम् ॥ २९॥
गृहाणास्त्रं वृथापुष्ट कुरु युद्धं मयाधुना ।
किं जल्पसि मृषा वाक्यं सर्वथा कातरप्रियम् ॥ ३०॥
व्यास उवाच ।
तयेत्थं प्रेरितौ दैत्यौ चण्डमुण्डौ क्रुधान्वितौ ।
ज्याशब्दं तरसा घोरं चक्रतुर्बलदर्पितौ ॥ ३१॥
सापि शङ्खस्वनं चक्रे पूरयन्ती दिशो दश ।
सिंहोऽपि कुपितस्तावन्नादं समकरोद्बली ॥ ३२॥
तेन नादेन शक्राद्या जहर्षुरमरास्तदा ।
मुनयो यक्षगन्धर्वाः सिद्धाः साध्याश्च किन्नराः ॥ ३३॥
युद्धं परस्परं तत्र जातं कातरभीतिदम् ।
चण्डिकाचण्डयोस्तीव्रं बाणखड्गगदादिभिः ॥ ३४॥
चण्डमुक्ताञ्छरान्देवी चिच्छेद निशितैः शरैः ।
मुमोच पुनरुग्रान्सा बाणांश्च पन्नगानिव ॥ ३५॥
गगनं छादितं तत्र सङ्ग्रामे विशिखैस्तदा ।
शलभैरिव मेघान्ते कर्षकाणां भयप्रदैः ॥ ३६॥
मुण्डोऽपि सैनिकैः सार्धं पपात तरसा रणे ।
मुमोच बाणवृष्टिं वै क्रुद्धः परमदारुणः ॥ ३७॥
बाणजालं महद् दृष्ट्वा कुद्धा तत्राम्बिका भृशम् ।
कोपेन वदनं तस्या बभूव घनसन्निभम् ॥ ३८॥
कदलीपुष्पनेत्रञ्च भृकुटीकुटिलं तदा ।
निष्क्रान्ता च तदा काली ललाटफलकाद्द्रुतम् ॥ ३९॥
व्याघ्रचर्माम्बरा क्रूरा गजचर्मोत्तरीयका ।
मुण्डमालाधरा घोरा शुष्कवापीसमोदरा ॥ ४०॥
खड्गपाशधरातीव भीषणा भयदायिनी ।
खट्वाङ्गधारिणी रौद्रा कालरात्रिरिवापरा ॥ ४१॥
विस्तीर्णवदना जिह्वां चालयन्ती मुहुर्मुहुः ।
विस्तारजघना वेगाज्जघानासुरसैनिकान् ॥ ४२॥
करे कृत्वा महावीरांस्तरसा सा रुषान्विता ।
मुखे चिक्षेप दैतेयान्पिपेष दशनैः शनैः ॥ ४३॥
गजान्घण्टान्वितान्हस्ते गृहीत्वा निदधौ मुखे ।
सारोहान्भक्षयित्वाजौ साट्टहासं चकार ह ॥ ४४॥
तथैव तुरगानुष्ट्रांस्तथा सारथिभिः सह ।
निक्षिप्य वक्त्त्रे दशनैश्चर्वयत्यतिभैरवम् ॥ ४५॥
हन्यमानं बलं प्रेक्ष्य चण्डमुण्डौ महासुरौ ।
छादयामासतुर्देवीं बाणासारैरनन्तरैः ॥ ४६॥
चण्डश्चण्डकरच्छायं चक्रं चक्रधरायुधम् ।
चिक्षेप तरसा देवीं ननाद च मुहुर्मुहुः ॥ ४७॥
नदन्तं वीक्ष्य तं काली रथाङ्गञ्च रविप्रभम् ।
बाणेनैकेन चिच्छेद सुप्रभं तत्सुदर्शनम् ॥ ४८॥
तं जघान शरैस्तीक्ष्णैश्चण्डं चण्डी शिलाशितैः ।
मूर्च्छितोऽसौ पपातोर्व्यां देवीबाणार्दितो भृशम् ॥ ४९॥
पतितं भ्रातरं वीक्ष्य मुण्डो दुःखार्दितस्तदा ।
चकार शरवृष्टिञ्च कालिकोपरि कोपतः ॥ ५०॥
चण्डिका मुण्डनिर्मुक्तां शरवृष्टिं सुदारुणाम् ।
ईषिकास्त्रैर्बलान्मुक्तैश्चकार तिलशः क्षणात् ॥ ५१॥
अर्धचन्द्रेण बाणेन ताडयामास तं पुनः ।
पतितोऽसौ महावीर्यो मेदिन्यां मदवर्जितः ॥ ५२॥
हाहाकारो महानासीद्दानवानां बले तदा ।
जहर्षुरमराः सर्वे गगनस्था गतव्यथाः ॥ ५३॥
विहाय मूर्च्छां चण्डस्तु सङ्गृह्य महतीं गदाम् ।
तरसा ताडयामास कालिकां दक्षिणे भुजे ॥ ५४॥
वञ्चयित्वा गदाघातं तं बबन्ध महासुरम् ।
तरसा बाणपाशेन मन्त्रमुक्तेन कालिका ॥ ५५॥
उत्थितस्तु तदा मुण्डो बद्धं दृष्ट्वानुजं बलात् ।
आजगाम सुसन्नद्धः शक्तिं कृत्वा करे दृढाम् ॥ ५६॥
आगच्छन्तं तदा काली दानवं वीक्ष्य सत्वरम् ।
बबन्ध तरसा तं तु द्वितीयं भ्रातरं भृशम् ॥ ५७॥
गृहीत्वा तौ महावीर्यौ चण्डमुण्डौ शशाविव ।
कुर्वती विपुलं हासमाजगामाम्बिकां प्रति ॥ ५८॥
आगत्य तामथोवाच गृहाणेमौ पशू प्रिये ।
रणयज्ञार्थमानीतौ दानवौ रणदुर्जयौ ॥ ५९॥
तावानीतौ तदा वीक्ष्य चण्डिका तौ वृकाविव ।
अम्बिका कालिकां प्राह माधुरीसंयुतं वचः ॥ ६०॥
वधं मा कुरु मा मुञ्च चतुरासि रणप्रिये ।
देवानां कार्यसंसिद्धिः कर्तव्या तरसा त्वया ॥ ६१॥
व्यास उवाच ।
इति तस्या वचः श्रुत्वा कालिका प्राह तां पुनः ।
युद्धयज्ञेऽतिविख्याते खड्गयूपे प्रतिष्ठिते ॥ ६२॥
आलम्भञ्च करिष्यामि यथा हिंसा न जायते ।
इत्युक्त्वा सा तदा देवी खड्गेन शिरसी तयोः ॥ ६३॥
चकर्त तरसा काली पपौ च रुधिरं मुदा ।
एवं दैत्यौ हतौ दृष्ट्वा मुदितोवाच चाम्बिका ॥ ६४॥
कृतं कार्यं सुराणां ते ददाम्यद्य वरं शुभम् ।
चण्डमुण्डौ हतौ यस्मात्तस्मात्ते नाम कालिके ।
चामुण्डेति सुविख्यातं भविष्यति धरातले ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे चण्डमुण्डवधेन
देव्याश्चामुण्डेतिनामवर्णनं नाम षड्विंशोऽध्यायः ॥ ५.२६॥
५.२७ सप्तविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।
व्यास उवाच ।
हतौ तौ दानवौ दृष्ट्वा हतशेषाश्च सैनिकाः ।
पलायनं ततः कृत्वा जग्मुः सर्वे नृपं प्रति ॥ १॥
भिन्नाङ्गा विशिखैः केचित्केचिच्छिन्नकरास्तथा ।
रुधिरस्रावदेहाश्च रुदन्तोऽभिययुः पुरे ॥ २॥
गत्वा दैत्यपतिं सर्वे चक्रुर्बुम्बारवं मुहुः ।
रक्ष रक्ष महाराज भक्षयत्यद्य कालिका ॥ ३॥
तया हतौ महावीरौ चण्डमुण्डौ सुरार्दनौ ।
भक्षिताः सैनिकाः सर्वे वयं भग्ना भयातुराः ॥ ४॥
भीतिदञ्च रणस्थानं कृतं कालिकया प्रभो ।
पातितैर्गजवीराश्वैर्दासेरकपदातिभिः ॥ ५॥
शोणितौघवहा कुल्या कृता मांसातिकर्दमा ।
केशशैवलिनी भग्नरथचक्रविराजिता ॥ ६॥
छिन्नबाह्वादिमत्स्याढ्या शीर्षतुम्बीफलान्विता ।
भयदा कातराणां वै सुराणां मोदवर्धिनी ॥ ७॥
कुलं रक्ष महाराज पातालं गच्छ सत्वरम् ।
क्रुद्धा देवी क्षयं सद्यः करिष्यति न संशयः ॥ ८॥
सिंहोऽपि भक्षयत्याजौ दानवान्दनुजेश्वर ।
तथैव कालिका देवी हन्ति बाणैरनेकधा ॥ ९॥
तस्मात्त्वमपि राजेन्द्र मरणाय मृषा मतिम् ।
करोषि सहितो भ्रात्रा शुम्भेन कुपिताशयः ॥ १०॥
किं करिष्यति नार्येषा क्रूरा कुलविनाशिनी ।
यस्या हेतोर्महाराज हन्तुमिच्छसि बान्धवान् ॥ ११॥
दैवाधीनौ महाराज लोके जयपराजयौ ।
अल्पार्थाय महद्दुःखं बुद्धिमान्न प्रकल्पयेत् ॥ १२॥
चित्रं पश्य विधेः कर्म यदधीनं जगत् प्रभो ।
निहता राक्षसाः सर्वे स्त्रिया पश्यैकयानया ॥ १३॥
जेता त्वं लोकपालानां सैन्ययुक्तो हि साम्प्रतम् ।
एका प्रार्थयते बाला युद्धायेति सुसम्भ्रमः ॥ १४॥
पुरा त्वया तपस्तप्तं पुष्करे देवतायने ।
वरदानाय सम्प्राप्तो ब्रह्मा लोकपितामहः ॥ १५॥
धात्रोक्तस्त्वं महाराज वरं वरय सुव्रत ।
तदा त्वयामरत्वं च प्रार्थितं ब्रह्मणः किल ॥ १६॥
देवदैत्यमनुष्येभ्यो न भवेन्मरणं मम ।
सर्पकिन्नरयक्षेभ्यः पुंल्लिङ्गवाचकादपि ॥ १७॥
तस्मात्त्वां हन्तुकामैषा प्राप्ता योषिद्वरा प्रभो ।
युद्धं मा कुरु राजेन्द्र विचार्यैवं धियाधुना ॥ १८॥
देवी ह्येषा महामाया प्रकृतिः परमा मता ।
कल्पान्तकाले राजेन्द्र सर्वसंहारकारिणी ॥ १९॥
उत्पादयित्री लोकानां देवानामीश्वरी शुभा ।
त्रिगुणा तामसी देवी सर्वशक्तिसमन्विता ॥ २०॥
अजय्या चाक्षया नित्या सर्वज्ञा च सदोदिता ।
वेदमाता च गायत्री सन्ध्या सर्वसुरालया ॥ २१॥
निर्गुणा सगुणा सिद्धा सर्वसिद्धिप्रदाव्यया ।
आनन्दानन्ददा गौरी देवानामभयप्रदा ॥ २२॥
एवं ज्ञात्वा महाराज वैरभावं त्यजानया ।
शरणं व्रज राजेन्द्र देवी त्वां पालयिष्यति ॥ २३॥
आज्ञाकरो भवैतस्याः सञ्जीवय निजं कुलम् ।
हतशेषाश्च ये दैत्यास्ते भवन्तु चिरायुषः ॥ २४॥
व्यास उवाच ।
इति तेषां वचः श्रुत्वा शुम्भः सुरबलार्दनः ।
उवाच वचनं तथ्यं वीरवर्यगुणान्वितम् ॥ २५॥
शुम्भ उवाच ।
मौनं कुर्वन्तु भो मन्दा यूयं भग्ना रणाजिरात् ।
शीघ्रं गच्छत पातालं जीविताशा बलीयसी ॥ २६॥
दैवाधीनं जगत्सर्वं का चिन्तात्र जये मम ।
देवास्तथैव ब्रह्माद्या दैवाधीना वयं यथा ॥ २७॥
ब्रह्मा विष्णुश्च रुद्रोऽयं यमोऽग्निर्वरुणस्तथा ।
सूर्यश्चन्द्रस्तथा शक्रः सर्वे दैववशाः किल ॥ २८॥
का चिन्ता तर्हि मे मन्दा यद्भावि तद्भविष्यति ।
उद्यमस्तादृशो भूयाद्यादृशी भवितव्यता ॥ २९॥
सर्वथैव विचार्यैव न शोचन्ति बुधाः क्वचित् ।
स्वधर्मं न त्यजन्तीह ज्ञानिनो मरणाद्भयात् ॥ ३०॥
सुखं दुःखं तथैवायुर्जीवितं मरणं नृणाम् ।
काले भवति सम्प्राप्ते सर्वथा दैवनिर्मितम् ॥ ३१॥
ब्रह्मा पतति काले स्वे विष्णुश्च पार्वतीपतिः ।
नाशं गच्छन्त्यायुषोऽन्ते सर्वे देवाः सवासवाः ॥ ३२॥
तथाहमपि कालस्य वशगः सर्वथाधुना ।
नाशं जयं वा गन्तास्मि स्वधर्मपरिपालनात् ॥ ३३॥
आहूतोऽप्यनया कामं युद्धायाबलया किल ।
कथं पलायनपरो जीवेयं शरदां शतम् ॥ ३४॥
करिष्याम्यद्य सङ्ग्रामं यद्भावि तद्भवत्विह ।
जयो वा मरणं वापि स्वीकरोमि यथा तथा ॥ ३५॥
दैवं मिथ्येति विद्वांसो वदन्त्युद्यमवादिनः ।
युक्तियुक्तं वचस्तेषां ये जानन्त्यभिभाषितम् ॥ ३६॥
उद्यमेन विना कामं न सिध्यन्ति मनोरथाः ।
कातरा एव जल्पन्ति यद्भाव्यं तद्भविष्यति ॥ ३७॥
अदृष्टं बलवन्मूढाः प्रवदन्ति न पण्डिताः ।
प्रमाणं तस्य सत्त्वे किमदृश्यं दृश्यते कथम् ॥ ३८॥
अदृष्टं क्त्वापि दृष्टं स्यादेषा मूर्खविभीषिका ।
अवलम्बं विनैवैषा दुःखे चित्तस्य धारणा ॥ ३९॥
चक्रीसमीपे संविष्टा संस्थिता पिष्टकारिणी ।
उद्यमेन विना पिष्टं न भवत्येव सर्वथा ॥ ४०॥
उद्यमे च कृते कार्यं सिद्धिं यात्येव सर्वथा ।
कदाचित्तस्य न्यूनत्वे कार्यं नैव भवेदपि ॥ ४१॥
देशं कालञ्च विज्ञाय स्वबलं शत्रुजं बलम् ।
कृतं कार्यं भवत्येव बृहस्पतिवचो यथा ॥ ४२॥
व्यास उवाच ।
इति निश्चित्य दैत्येन्द्रो रक्तबीजं महासुरम् ।
प्रेषयामास सङ्ग्रामे सैन्येन महताऽऽवृतम् ॥ ४३॥
शुम्भ उवाच ।
रक्तबीज महाबाहो गच्छ त्वं समराङ्गणे ।
कुरु युद्धं महाभाग यथा ते बलमाहितम् ॥ ४४॥
रक्तबीज उवाच ।
महाराज न ते कार्या चिन्ता स्वल्पतरापि वा ।
अहमेनां हनिष्यामि करिष्यामि वशे तव ॥ ४५॥
पश्य मे युद्धचातुर्यं क्वेयं बाला सुरप्रिया ।
दासीं तेऽहं करिष्यामि जित्वेमां समरे बलात् ॥ ४६॥
व्यास उवाच ।
इत्याभाष्य कुरुश्रेष्ठ रक्तबीजो महासुरः ।
जगाम रथमारुह्य स्वसैन्यपरिवारितः ॥ ४७॥
हस्त्यश्वरथपादातवृन्दैश्च परिवेष्टितः ।
निर्जगाम रथारूढो देवीं शैलोपरिस्थिताम् ॥ ४८॥
तमागतं समालोक्य देवी शङ्खमवादयत् ।
भयदं सर्वदैत्यानां देवानां मोदवर्धनम् ॥ ४९॥
श्रुत्वा शङ्खस्वनं चोग्रं रक्तबीजोऽतिवेगवान् ।
गत्वा समीपे चामुण्डां बभाषे वचनं मृदु ॥ ५०॥
रक्तबीज उवाच ।
बाले किं मां भीषयसि मत्वा त्वं कातरं किल ।
शङ्खनादेन तन्वङ्गि वेत्सि किं धूम्रलोचनम् ॥ ५१॥
रक्तबीजोऽस्मि नाम्नाहं त्वत्सकाशमिहागतः ।
युद्धेच्छा चेत्पिकालापे सज्जा भव भयं न मे ॥ ५२॥
पश्याद्य मे बलं कान्ते दृष्टा ये कातरास्त्वया ।
नाहं पङ्क्तिगतस्तेषां कुरु युद्धं यथेच्छसि ॥ ५३॥
वृद्धाश्च सेविताः पूर्वं नीतिशास्त्रं श्रुतं त्वया ।
पतितं चार्थविज्ञानं विद्वद्गोष्ठी कृताथ वा ॥ ५४॥
साहित्यतन्त्रविज्ञानं चेदस्ति तव सुन्दरि ।
शृणु मे वचनं पथ्यं तथ्यं प्रमितिबृंहितम् ॥ ५५॥
रसानाञ्च नवानां वै द्वावेव मुख्यतां गतौ ।
शृङ्गारकः शान्तिरसो विद्वज्जनसभासु च ॥ ५६॥
तयोः शृङ्गार एवादौ नृपभावे प्रतिष्ठितः ।
विष्णुर्लक्ष्म्या सहास्ते वै सावित्र्या चतुराननः ॥ ५७॥
शच्येन्द्रः शैलसुतया शङ्करः सह शेरते ।
वल्ल्या वृक्षो मृगो मृग्या कपोत्या च कपोतकः ॥ ५८॥
एवं सर्वे प्राणभृतः संयोगरसिका भृशम् ।
अप्राप्तभोगविभवा ये चान्ये कातरा नराः ॥ ५९॥
भवन्ति यतयस्ते वै मूढा दैवेन वञ्चिताः ।
असंसाररसज्ञास्ते वञ्चिता वञ्चनापरैः ॥ ६०॥
मधुरालापनिपुणै रताः शान्तिरसे हि ते ।
क्व ज्ञानं क्व च वैराग्यं वर्तमाने मनोभवे ॥ ६१॥
लोभे क्रोधे च दुर्धर्षे मोहे मतिविनाशके ।
तस्मात्त्वमपि कल्याणि कुरु कान्तं मनोहरम् ॥ ६२॥
शुम्भं सुराणां जेतारं निशुम्भं वा महाबलम् ।
व्यास उवाच ।
इत्युक्त्वा रक्तबीजोऽसौ विरराम पुरःस्थितः ।
श्रुत्वा जहास चामुण्डा कालिका चाम्बिका तथा ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे
रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनं नाम सस्तविंशोऽध्यायः ॥ ५.२७॥
५.२८ अष्टाविंशोऽध्यायः । रक्तबीजद्वारा देवीसमीपे शुम्भनिशुम्भसंवादवर्णनम् ।
व्यास उवाच ।
कृत्वा हास्यं ततो देवी तमुवाच विशाम्पते ।
मेघगम्भीरया वाचा युक्तियुक्तमिदं वचः ॥ १॥
पूर्वमेव मया प्रोक्तं मन्दात्मन् किं विकत्थसे ।
दूतस्याग्रे यथायोग्यं वचनं हितसंयुतम् ॥ २॥
सदृशो मम रूपेण बलेन विभवेन च ।
त्रिलोक्यां यदि कोऽपि स्यात्तं पतिं प्रवृणोम्यहम् ॥ ३॥
ब्रूहि शुम्भं निशुम्भञ्च प्रतिज्ञा मे पुरा कृता ।
तस्माद्युध्यस्व जित्वा मां विवाहं विधिवत्कुरु ॥ ४॥
त्वं वै तदाज्ञया प्राप्तस्तस्य कार्यार्थसिद्धये ।
सङ्ग्रामं कुरु पातालं गच्छ वा पतिना सह ॥ ५॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं देव्याः स दैत्योऽमर्षपूरितः ।
मुमोच तरसा बाणान्सिंहस्योपरि दारुणान् ॥ ६॥
अम्बिका ताच्छरान्वीक्ष्य गगने पन्नगोपमान् ।
चिच्छेद सायकैस्तीक्ष्णैर्लघुहस्ततया क्षणात् ॥ ७॥
अन्यैर्जघान विशिखै रक्तबीजं महासुरम् ।
अम्बिकाचापनिर्मुक्तैः कर्णाकृष्टैः शिलाशितैः ॥ ८॥
देवीबाणहतः पापो मूर्च्छामाप रथोपरि ।
पतिते रक्तबीजे तु हाहाकारो महानभूत् ॥ ९॥
सैनिकाश्चुक्रुशुः सर्वे हताः स्म इति चाब्रुवन् ।
ततो बुम्बारवं श्रुत्वा शुम्भः परमदारुणम् ॥ १०॥
उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ।
शुम्भ उवाच ।
निर्यान्तु दानवाः सर्वे काम्बोजाः स्वबलैर्वृताः ॥ ११॥
अन्येऽप्यतिबलाः शूराः कालकेया विशेषतः ।
व्यास उवाच ।
इत्याज्ञप्तं बलं सर्वं शुम्भेन च चतुर्विधम् ॥ १२॥
निर्जगाम मदाऽऽविष्टं देवीसमरमण्डले ।
तमागतं समालोक्य चण्डिका दानवं बलम् ॥ १३॥
घण्टानादं चकाराशु भीषणं भयदं मुहुः ।
ज्यास्वनं शङ्खनादञ्च चकार जगदम्बिका ॥ १४॥
तेन नादेन सा जाता काली विस्तारितानना ।
श्रुत्वा तन्निनदं घोरं सिंहो देव्याश्च वाहनम् ॥ १५॥
जगर्ज सोऽपि बलवाञ्जनयन्भयमद्भुतम् ।
तन्निनादमुपश्रुत्य दानवाः क्रोधमूर्च्छिताः ॥ १६॥
सर्वे चिक्षिपुरस्त्राणि देवीं प्रति महाबलाः ।
तस्मिन्नेवायते युद्धे दारुणे लोमहर्षणे ॥ १७॥
ब्रह्मादीनाञ्च देवानां शक्तयश्चण्डिकां ययुः ।
यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ॥ १८॥
तादृग्रूपास्तदा देव्यः प्रययुः समराङ्गणे ।
ब्रह्माणी वरटारूढा साक्षसूत्रकमण्डलुः ॥ १९॥
आगता ब्रह्मणः शक्तिर्ब्रह्माणीति प्रतिश्रुता ।
वैष्णवी गरुडारूढा शङ्खचक्रगदाधरा ॥ २०॥
पद्महस्ता समायाता पीताम्बरविभूषिता ।
शाङ्करी तु वृषारूढा त्रिशूलवरधारिणी ॥ २१॥
अर्धचन्द्रधरा देवी तथाहिवलया शिवा ।
कौमारी शिखिसंरूढा शक्तिहस्ता वरानना ॥ २२॥
युद्धकामा समायाता कार्तिकेयस्वरूपिणी ।
इन्द्राणी सुष्ठुवदना सुश्वेतगजवाहना ॥ २३॥
वज्रहस्तातिरोषाढ्या सङ्ग्रामाभिमुखी ययौ ।
वाराही शूकराकारा प्रौढप्रेतासना मता ॥ २४॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
याम्या च महिषारूढा दण्डहस्ता भयप्रदा ॥ २५॥
समायाताथ सङ्ग्रामे यमरूपा शुचिस्मिता ।
तथैव वारुणी शक्तिः कौबेरी च मदोत्कटा ॥ २६॥
एवंविधास्तथाऽऽकारा ययुः स्वस्वबलैर्वृताः ।
आगतास्ताः समालोक्य देवी मुदमवाप च ॥ २७॥
स्वस्था मुमुदिरे देवा दैत्याश्च भयमाययुः ।
ताभिः परिवृतस्तत्र शङ्करो लोकशङ्करः ॥ २८॥
समागम्य च सङ्ग्रामे चण्डिकामित्युवाच ह ।
हन्यन्तामसुराः शीघ्रं देवानां कार्यसिद्धये ॥ २९॥
निशुम्भं चैव शुम्भं च ये चान्ये दानवाः स्थिताः ।
हत्वा दैत्यबलं सर्वं कृत्वा च निर्भयं जगत् ॥ ३०॥
स्वानि स्वानि च धिष्ण्यानि समागच्छन्तु शक्तयः ।
देवा यज्ञभुजः सन्तु ब्राह्मणा यजने रताः ॥ ३१॥
प्राणिनः सन्तु सन्तुष्टाः सर्वे स्थावरजङ्गमाः ।
शमं यान्तु तथोत्पाता ईतयश्च तथा पुनः ॥ ३२॥
घनाः काले प्रवर्षन्तु कृषिर्बहुफला तथा ।
व्यास उवाच ।
एवं ब्रुवति देवेशे शङ्करे लोकशङ्करे ॥ ३३॥
चण्डिकाया शरीरात्तु निर्गता शक्तिरद्भुता ।
भीषणातिप्रचण्डा च शिवाशतनिनादिनी ॥ ३४॥
घोररूपाथ पञ्चास्यमित्युवाच स्मितानना ।
देवदेव व्रजाशु त्वं दैत्यानामधिपं प्रति ॥ ३५॥
दूतत्वं कुरु कामारे ब्रूहि शुम्भं स्मराकुलम् ।
निशुम्भञ्च मदोत्सिक्तं वचनान्मम शङ्कर ॥ ३६॥
मुक्त्वा त्रिविष्टपं यात यूयं पातालमाशु वै ।
देवाः स्वर्गे सुखं यान्तु तुराषाट् स्वासनं शभम् ॥ ३७॥
प्राप्नोतु त्रिदिवं स्थानं यज्ञभागांश्च देवताः ।
जीवितेच्छा च युष्माकं यदि स्यात्तु महत्तरा ॥ ३८॥
तर्हि गच्छत पातालं तरसा यत्र दानवाः ।
अथवा बलमास्थाय युद्धेच्छा मरणाय चेत् ॥ ३९॥
तदाऽऽगच्छन्तु तृप्यन्तु मच्छिवाः पिशितेन वः ।
व्यास उवाच ।
तच्छ्रुत्वा वचनं तस्याः शूलपाणिस्त्वरान्वितः ॥ ४०॥
गत्वाऽऽह दैत्यराजानं शुम्भं सदसि संस्थितम् ।
शिव उवाच ।
राजन् दूतोऽहमम्बायास्त्रिपुरान्तकरो हरः ॥ ४१॥
त्वत्सकाशमिहायातो हितं कर्तुं तवाखिलम् ।
त्यक्त्वा स्वर्गं तथा भूमिं यूयं गच्छत सत्वरम् ॥ ४२॥
पातालं यत्र प्रह्लादो बलिश्च बलिनां वरः ।
अथवा मरणेच्छा चेत्तर्ह्यागच्छत सत्वरम् ॥ ४३॥
सङ्ग्रामे वो हनिष्यामि सर्वानेवाहमाशु वै ।
इत्युवाच महाराज्ञी युष्मत्कल्याणहेतवे ॥ ४४॥
व्यास उवाच ।
इति दैत्यवरान्देवीवाक्यं पीयूषसन्निभम् ।
हितकृच्छ्रावयित्वा स प्रत्यायातश्च शूलभृत् ॥ ४५॥
ययासौ प्रेरितः शम्भुर्दूतत्वे दानवान्प्रति ।
शिवदूतीति विख्याता जाता त्रिभुवनेऽखिले ॥ ४६॥
तेऽपि श्रुत्वा वचो देव्याः शङ्करोक्तं तुदुष्करम् ।
युद्धाय निर्ययुः शीघ्रं दंशिताः शस्त्रपाणयः ॥ ४७॥
तरसा रणमागत्य चण्डिकां प्रति दानवाः ।
निर्जघ्नुश्च शरैस्तीक्ष्णैः कर्णाकृष्टैः शिलाशितैः ॥ ४८॥
कालिका शूलपातैस्तान् गदाशक्तिविदारितान् ।
कुर्वन्ती व्यचरत्तत्र भक्षयन्ती च दानवान् ॥ ४९॥
कमण्डलुजलाक्षेपगतप्राणान् महाबलान् ।
ब्रह्माणी चाकरोत्तत्र दानवान्समराङ्गणे ॥ ५०॥
माहेश्वरी वृषारूढा त्रिशूलेनातिरंहसा ।
जघान दानवान्सङ्ख्ये पातयामास भूतले ॥ ५१॥
वैष्णवी चक्रपातेन गदापातेन दानवान् ।
गतप्राणांश्चकाराशु चोत्तमाङ्गविवर्जितान् ॥ ५२॥
ऐन्द्री वज्रप्रहारेण पातयामास भूतले ।
ऐरावतकराघातपीडितान्दैत्यपुङ्गवान् ॥ ५३॥
वाराही तुण्डघातेन दंष्ट्राग्रपातनेन च ।
जघान क्रोधसंयुक्ता शतशो दैत्यदानवान् ॥ ५४॥
नारसिंही नखैस्तीव्रैर्दारितान्दैत्यपुङ्गवान् ।
भक्षयन्ती चचाराजौ ननाद च मुहुर्मुहुः ॥ ५५॥
शिवदूती अट्टहासैः पातयामास भूतले ।
तांश्चखादाथ चामुण्डा कालिका च त्वरान्विता ॥ ५६॥
शिखिसंस्था च कौमारी कर्णाकृष्टैः शिलाशितैः ।
निजघान रणे शत्रून्देवानां च हिताय वै ॥ ५७॥
वारुणी पाशसम्बद्धान्दैत्यान्समरमस्तके ।
पातयामास तत्पृष्ठे मूर्च्छितान्गतचेतनान् ॥ ५८॥
एवं मातृगणेनाजावतिवीर्यपराक्रमम् ।
मर्दितं दानवं सैन्यं पलायनपरं ह्यभूत् ॥ ५९॥
बुम्बारवस्तु सुमहानभूत्तत्र बलार्णवे ।
पुष्पवृष्टिं तदा देवाश्चक्रुर्देव्या गणोपरि ॥ ६०॥
तच्छ्रुत्वा निनदं घोरं जयशब्दं च दानवाः ।
रक्तबीजश्चुकोपाशु दृष्ट्वा दैत्यान्पलायितान् ॥ ६१॥
गर्जमानांस्तथा देवान्वीक्ष्य दैत्यो महाबलः ।
रक्तबीजस्तु तेजस्वी रणमभ्याययौ तदा ॥ ६२॥
सायुधो रथसंविष्टः कुर्वञ्ज्याशब्दमद्भुतम् ।
आजगाम तदा देवीं क्रोधरक्तेक्षणोद्यतः ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे रक्तबीजेन
देव्या युद्धवर्णनं नामाष्टाविशोऽध्यायः ॥ ५.२८॥
५.२९ एकोनत्रिंशोऽध्यायः । देव्यासह युद्धकरणाय निशुम्भप्रयाणम् ।
व्यास उवाच ।
वरदानमिदं तस्य दानवस्य शिवार्पितम् ।
अत्यद्भुततरं राजञ्छ्रुणु तत्प्रब्रवीम्यहम् ॥ १॥
तस्य देहाद्रक्तबिन्दुर्यदा पतति भूतले ।
समुत्पतन्ति दैतेयास्तद्रूपास्तत्पराक्रमाः ॥ २॥
असङ्ख्याता महावीर्या दानवा रक्तसम्भवाः ।
प्रभवन्त्विति रुद्रेण दत्तोऽस्त्यत्यद्भुतो वरः ॥ ३॥
स तेन वरदानेन दर्पितः क्रोधसंयुतः ।
अभ्यगात्तरसा सङ्ख्ये हन्तुं देवीं सकालिकाम् ॥ ४॥
स दृष्ट्वा वैष्णवीं शक्तिं गरुडोपरिसंस्थिताम् ।
शक्त्या जघान दैत्येन्द्रस्तां वै कमललोचनाम् ॥ ५॥
गदया वारयामास शक्तिः सा शक्तिसंयुता ।
अताडयच्च चक्रेण रक्तबीजं महासुरम् ॥ ६॥
रथाङ्गहतदेहात्तु बहु सुस्राव शोणितम् ।
वज्राहतगिरेः शृङ्गान्निर्झरा इव गैरिका ॥ ७॥
यत्र यत्र यदा भूमौ पतन्ति रक्तबिन्दवः ।
समुत्तस्थुस्तदाकाराः पुरुषाश्च सहस्रशः ॥ ८॥
ऐन्द्री तमसुरं घोरं वज्रेणाभिजघान च ।
रक्तबीजं क्रुधाऽऽविष्टा निःससार च शोणितम् ॥ ९॥
ततस्तत्क्षतजाज्जाता रक्तबीजा ह्यनेकशः ।
तद्वीर्याश्च तदाकारा सायुधा युद्धदुर्मदाः ॥ १०॥
ब्रह्माणी ब्रह्मदण्डेन कुपिता ह्यहनद् भृशम् ।
माहेश्वरी त्रिशूलेन दारयामास दानवम् ॥ ११॥
नारसिंही नखाघातैस्तं विव्याध महासुरम् ।
अहनत्तुण्डघातेन क्रुद्धा तं राक्षसाधमम् ॥ १२॥
कौमारी च तथा शक्त्या वक्षस्येनमताडयत् ।
सोऽपि क्रुद्धः शरासारैर्बिभेद निशितैश्च ताः ॥ १३॥
गदाशक्तिप्रहारैस्तु मातॄः सर्वाः पृथक्पृथक् ।
शक्तयस्तं शराघातैर्विव्यधुस्तत्प्रकोपिताः ॥ १४॥
तस्य शस्त्राणि चिच्छेद चण्डिका स्वशरैः शितैः ।
जघानान्यैश्च विशिखैस्तं देवी कुपिता भृशम् ॥ १५॥
तस्य देहाच्च सुस्राव रुधिरं बहुधा तु यत् ।
तस्मात्तत्सदृशाः शूराः प्रादुरासन्सहस्रशः ॥ १६॥
रक्तबीजैर्जगद्व्याप्तं रुधिरौघसमुद्भवैः ।
सन्नद्धैः सायुधैः कामं कुर्वद्भिर्युद्धमद्भुतम् ॥ १७॥
प्रहरन्तश्च तान्दृष्ट्वा रक्तबीजाननेकशः ।
भयभीताः सुरास्त्रेसुर्विषण्णाः शोककर्षिताः ॥ १८॥
कथमद्य क्षयं दैत्या गमिष्यन्ति सहस्रशः ।
महाकाया महावीर्या दानवा रक्तसम्भवाः ॥ १९॥
एकैव चण्डिकात्रास्ति तथा काली च मातरः ।
एताभिर्दानवाः सर्वे जेतव्याः कष्टमेव तत् ॥ २०॥
निशुम्भो वाथ शुम्भो वा सहसा बलसंवृतः ।
आगमिष्यति सङ्ग्रामे ततोऽनर्थो महान्भवेत् ॥ २१॥
व्यास उवाच ।
एवं देवा भयोद्विग्नाश्चिन्तामापुर्महत्तराम् ।
यदा तदाम्बिका प्राह कालीं कमललोचनाम् ॥ २२॥
चामुण्डे कुरु विस्तीर्णं वदनं त्वरिता भृशम् ।
मच्छस्त्रपातसम्भूतं रुधिरं पिब सत्वरा ॥ २३॥
भक्षयन्ती चर रणे दानवानद्य कामतः ।
हनिष्यामि शरैस्तीक्ष्णैर्गदासिमुसलैस्तथा ॥ २४॥
तथा कुरु विशालाक्षि पानं तद्रुधिरस्य च ।
बिन्दुमात्रं यथा भूम्यां न पतेदपि साम्प्रतम् ॥ २५॥
भक्ष्यमाणास्तदा दैत्या न चोत्पत्स्यन्ति चापरे ।
एवमेषां क्षयो नूनं भविष्यति न चान्यथा ॥ २६॥
घातयिष्याम्यहं दैत्यं त्वं भक्षय च सत्वरा ।
पिबन्ती क्षतजं सर्वं यतमानारिसङ्क्षये ॥ २७॥
इत्थं दैत्यक्षयं कृत्वा दत्त्वा राज्यं सुरालयम् ।
इन्द्राय सुस्थिरं सर्वं गमिष्यामो यथासुखम् ॥ २८॥
व्यास उवाच ।
इत्युक्ताम्बिकया देवी चामुण्डा चण्डविक्रमा ।
पपौ च क्षतजं सर्वं रक्तबीजशरीरजम् ॥ २९॥
अम्बिका तं जघानाशु खड्गेन मुसलेन च ।
चखाद देहशकलांश्चामुण्डा तान्कृशोदरी ॥ ३०॥
सोऽपि क्रुद्धो गदाघातैश्चामुण्डां समघातयत् ।
तथापि सा पपावाशु क्षतजं तमभक्षयत् ॥ ३१॥
येऽन्ये रुधिरजाः क्रूरा रक्तबीजा महाबलाः ।
तेऽपि निष्पातिताः सर्वे भक्षिता गतशोणिताः ॥ ३२॥
कृत्रिमा भक्षिताः सर्वे यस्तु स्वाभाविकोऽसुरः ।
सोऽपि प्रपातितो हत्वा खड्गेनातिविखण्डितः ॥ ३३॥
रक्तबीजे हते रौद्रे ये चान्ये दानवा रणे ।
पलायनं ततः कृत्वा गतास्ते भयकम्पिताः ॥ ३४॥
हाहेति विब्रुवन्तस्ते शुम्भं प्रोचुः सविह्वलाः ।
रुथिरारक्तदेहाश्च विगतास्त्रा विचेतसः ॥ ३५॥
राजन्नम्बिकया रक्तबीजोऽसौ विनिपातितः ।
चामुण्डा तस्य देहात्तु पपौ सर्वं च शोणितम् ॥ ३६॥
ये चान्ये दानवाः शूरा वाहनेनातिरंहसा ।
सिंहेन निहताः सर्वे काल्या च भक्षिताः परे ॥ ३७॥
वयं त्वां कथितुं राजन्नागता युद्धचेष्टितम् ।
चरितञ्च तथा देव्याः सङ्ग्रामे परमाद्भुतम् ॥ ३८॥
अजेयेयं महाराज सर्वथा दैत्यदानवैः ।
गन्धर्वासुरयक्षैश्च पन्नगोरगराक्षसैः ॥ ३९॥
अन्यास्तत्रागता देव्य इन्द्राणीप्रमुखा भृशम् ।
युध्यमाना महाराज वाहनैरायुधैर्युताः ॥ ४०॥
ताभिः सर्वं हतं सैन्यं दानवानां वरायुधैः ।
रक्तबीजोऽपि राजेन्द्र तरसा विनिपातितः ॥ ४१॥
एकापि दुःसहा देवी किं पुनस्ताभिरन्विता ।
सिंहोऽपि हन्ति सङ्ग्रामे राक्षसानमितप्रभः ॥ ४२॥
अतो विचार्य सचिवैर्यद्युक्तं तद्विधीयताम् ।
न वैरमनया युक्तं सन्धिरेव सुखप्रदः ॥ ४३॥
आश्चर्यमेतदखिलं यन्नारी हन्ति राक्षसान् ।
रक्तबीजोऽपि निहतः पीतं तस्यापि शोणितम् ॥ ४४॥
अन्ये निपातिता दैत्याः सङ्ग्रामेऽम्बिकया नृप ।
चामुण्डया च मांसं वै भक्षितं सकलं रणे ॥ ४५॥
वरं पातालगमनं तस्याः सेवाथवा वरा ।
न तु युद्धं महाराज कार्यमम्बिकया सह ॥ ४६॥
न नारी प्राकृता ह्येषा देवकार्यार्थसाधिनी ।
मायेयं प्रबला देवी क्षपयन्तीयमुत्थिता ॥ ४७॥
व्यास उवाच ।
इति तेषां वचस्तथ्यं श्रुत्वा कालविमोहितः ।
मुमूर्षुः प्रत्युवाचेदं शुम्भः प्रस्फुरिताधरः ॥ ४८॥
शुम्भ उवाच ।
यूयं गच्छत पातालं शरणं वा भयातुराः ।
हनिष्याम्यहमद्यैव ताञ्च ताश्च समुद्यतः ॥ ४९॥
जित्वा सर्वान्सुरानाजौ कृत्वा राज्यं सुपुष्कलम् ।
कथं नारीभयोद्विग्नः पातालं प्रविशाम्यहम् ॥ ५०॥
निहत्य पार्षदान्सर्वान् रक्तबीजमुखान् रणे ।
प्राणत्राणाय गच्छामि हित्वा किं विपुलं यशः ॥ ५१॥
मरणं त्वनिवार्यं वै प्राणिनां कालकल्पितम् ।
तद्भयं जन्मनोपात्तं त्यजेत्को दुर्लभं यशः ॥ ५२॥
निशुम्भाहं गमिष्यामि रथारूढो रणाजिरे ।
हत्वा तामागमिष्यामि नागमिष्यामि चान्यथा ॥ ५३॥
त्वं तु सेनायुतो वीर पार्ष्णिग्राहो भवस्व मे ।
तरसा तां शरैस्तीक्ष्णैर्नारीं नय यमालये ॥ ५४॥
निशुम्भ उवाच ।
अहमद्य हनिष्यामि गत्वा दुष्टाञ्च कालिकाम् ।
आगमिष्याम्यहं शीघ्रं गृहीत्वा तामथाम्बिकाम् ॥ ५५॥
मा चिन्तां कुरु राजेन्द्र वराकायास्तु कारणे ।
क्वैषा बाला क्व मे बाहुवीर्यं विश्ववशङ्करम् ॥ ५६॥
त्यक्त्वाऽऽर्तिं विपुलां भ्रातर्भुङ्क्ष भोगाननुत्तमान् ।
आनयिष्याम्यहं कामं मानिनीं मानसंयुताम् ॥ ५७॥
मयि तिष्ठति ते राजन्न युक्तं गमनं रणे ।
गत्वाहमानयिष्यामि तवार्थे वै जयश्रियम् ॥ ५८॥
व्यास उवाच ।
इत्युक्त्वा भ्रातरं ज्येष्ठं कनीयान्बलगर्वितः ।
रथमास्थाय विपुलं सन्नद्धः स्वबलावृतः ॥ ५९॥
जगाम तरसा तूर्णं सङ्गरे कृतमङ्गलः ।
संस्तुतो बन्दिसूतैश्च सायुधः सपरिष्करः ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे देव्यासह युद्धकरणाय
निशुम्भप्रयाणं नामकोनत्रिंशोऽध्यायः ॥ ५.२९॥
५.३० त्रिंशोऽध्यायः । युद्धात्प्रत्यागतानां रक्षसां शुम्भाय वार्तावर्णनम् ।
व्यास उवाच ।
निशुम्भो निश्चयं कृत्वा मरणाय जयाय वा ।
सोद्यमः सबलः शूरो रणे देवीमुपाययौ ॥ १॥
तमाजगाम शुम्भोऽपि स्वबलेन समावृतः ।
प्रेक्षकोऽभूद्रणे राजा सङ्ग्रामरसपण्डितः ॥ २॥
गगने संस्थिता देवास्तदाभ्रपटलावृताः ।
दिदृक्षवस्तु सङ्ग्रामे सेन्द्रा यक्षगणास्तथा ॥ ३॥
निशुम्भोऽथ रणे गत्वा धनुरादाय शार्ङ्गकम् ।
चकार शरवृष्टिं स भीषयञ्जगदम्बिकाम् ॥ ४॥
मुञ्चन्तं शरजालानि निशुम्भं चण्डिका रणे ।
वीक्ष्यादाय धनुः श्रेष्ठं जहास सुस्वरं मुहुः ॥ ५॥
उवाच कालिकां देवी पश्य मूर्खत्वमेतयोः ।
मरणायागतौ कालि मत्समीपमिहाधुना ॥ ६॥
दृष्ट्वा दैत्यवधं घोरं रक्तबीजात्ययं तथा ।
जयाशां कुरुतस्त्वेतौ मोहितौ मम मायया ॥ ७॥
आशा बलवती ह्येषा न जहाति नरं क्वचित् ।
भग्नं हृतबलं नष्टं गतपक्षं विचेतनम् ॥ ८॥
आशापाशनिबद्धौ द्वौ युद्धाय समुपागतौ ।
निहन्तव्यौ मया कालि रणे शुम्भनिशुम्भकौ ॥ ९॥
आसन्नमरणावेतौ सम्प्राप्तौ दैवमोहितौ ।
पश्यतां सर्वदेवानां हनिष्याम्यहमद्य तौ ॥ १०॥
व्यास उवाच ।
इत्युक्त्वा कालिकां चण्डी कर्णाकृष्टशरोत्करैः ।
छादयामास तरसा निशुम्भं पुरतः स्थितम् ॥ ११॥
दानवोऽपि शरांस्तस्याश्चिच्छेद निशितैः शरैः ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ १२॥
केसरी केशजालानि धुन्वानः सैन्यसागरम् ।
गाहयामास बलवान्सरसीं वारणो यथा ॥ १३॥
नखैर्दन्तप्रहारैस्तु दानवान्पुरतः स्थितान् ।
चखाद च विशीर्णाङ्गान् गजानिव मदोत्कटान् ॥ १४॥
एवं विमथ्यमाने तु सैन्ये केसरिणा तदा ।
अभ्यधावन्निशुम्भोऽथ विकृष्टवरकार्मुकः ॥ १५॥
अन्येऽपि क्रुद्धा दैत्येन्द्रा देवीं हन्तुमुपाययुः ।
सन्दष्टदन्तरसना रक्तनेत्रा ह्यनेकशः ॥ १६॥
तत्राजगाम तरसा शुम्भः सैन्यसमावृतः ।
निहत्य कालिकां कोपाद्ग्रहीतुं जगदम्बिकाम् ॥ १७॥
तत्रागत्य ददर्शाजावम्बिकाञ्च पुरःस्थिताम् ।
रौद्ररसयुतां कान्तां शृङ्गाररससंयुताम् ॥ १८॥
तां वीक्ष्य विपुलापाङ्गीं त्रैलोक्यवरसुन्दरीम् ।
सुरक्तनयनां रम्यां क्रोधरक्तेक्षणां तथा ॥ १९॥
विवाहेच्छां परित्यज्य जयाशां दूरतस्तथा ।
मरणे निश्चयं कृत्वा तस्थावाहितकार्मुकः ॥ २०॥
तं तथा दानवं देवी स्मितपूर्वमिदं वचः ।
बभाषे शृण्वतां तेषां दैत्यानां रणमस्तके ॥ २१॥
गच्छध्वं पामरा यूयं पातालं वा जलार्णवम् ।
जीविताशां स्थिरां कृत्वा त्यक्त्वात्रैवायुधानि च ॥ २२॥
अथवा मच्छराघातहतप्राणा रणाजिरे ।
प्राप्य स्वर्गसुखं सर्वे क्रीडन्तु विगतज्वराः ॥ २३॥
कातरत्वं च शूरत्वं न भवत्येव सर्वथा ।
ददाम्यभयदानं वै यान्तु सर्वे यथासुखम् ॥ २४॥
व्यास उवाच ।
इत्याकर्ण्य वचस्तस्या निशुम्भो मदगर्वितः ।
निशितं खड्गमादाय चर्म चैवाष्टचन्द्रकम् ॥ २५॥
धावमानस्तु तरसासिना सिंहं मदोत्कटम् ।
जघानातिबलान्मूर्ध्नि भ्रामयञ्जगदम्बिकाम् ॥ २६॥
ततो देवी स्वगदया वञ्चयित्वासिपातनम् ।
ताडयामास तं बाहोर्मूले परशुना तदा ॥ २७॥
खड्गेन निहतः सोऽपि बाहुमूले महामदः ।
संस्तभ्य वेदनां भूयो जघान चण्डिकां तदा ॥ २८॥
सापि घण्टास्वनं घोरं चकार भयदं नृणाम् ।
पपौ पुनः पुनः पानं निशुम्भं हन्तुमिच्छती ॥ २९॥
एवं परस्परं युद्धं बभूवातिभयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ ३०॥
पलादाः पक्षिणः क्रूराः सारमेयाश्च जम्बुकाः ।
ननृतुश्चातिसन्तुष्टा गृध्राः कङ्काश्च वायसाः ॥ ३१॥
रणभूर्भाति भूयिष्ठपतितासुरवर्ष्मकैः ।
रुधिरस्रावसंयुक्तैर्गजाश्वदेहसङ्कुला ॥ ३२॥
पतितान्दानवान्दृष्ट्वा निशुम्भोऽतिरुषान्वितः ।
प्रययौ चण्डिकां तूर्णं गदामादाय दारुणाम् ॥ ३३॥
सिंहं जघान गदया मस्तके मदगर्वितः ।
प्रहृत्य च स्मितं कृत्वा पुनर्देवीमताडयत् ॥ ३४॥
सापि तं कुपितातीव निशुम्भं पुरतः स्थितम् ।
प्रहरन्तं समीक्ष्याथ देवी वचनमब्रवीत् ॥ ३५॥
देव्युवाच ।
तिष्ठ मन्दमते तावद्यावत्खड्गमिदं तव ।
ग्रीवायां प्रेरयाम्यस्माद् गन्तासि यमसादनम् ॥ ३६॥
व्यास उवाच ।
इत्युक्त्वा तरसा देवी कृपाणेन समाहिता ।
चिच्छेद मस्तकं तस्य निशुम्भस्याथ चण्डिका ॥ ३७॥
सच्छिन्नमस्तको देव्या कबन्धोऽतीव दारुणः ।
बभ्राम च गदापाणिस्त्रासयन्देवतागणान् ॥ ३८॥
देवी तस्य शितैर्बाणैश्चिच्छेद चरणौ करौ ।
पपातोर्व्यां ततः पापी गतासुः पर्वतोपमः ॥ ३९॥
तस्मिन्निपतिते दैत्ये निशुम्भे भीमविक्रमे ।
हाहाकारो महानासीत्तत्सैन्ये भयकम्पिते ॥ ४०॥
त्यक्त्वाऽऽयुधानि सर्वाणि सैनिकाः क्षतजाप्लुताः ।
जग्मुर्बुम्बारवं सर्वे कुर्वाणा राजमन्दिरम् ॥ ४१॥
तानागतान्सुसम्प्रेक्ष्य शुम्भः शत्रुनिषूदनः ।
पप्रच्छ क्व निशुम्भोऽसौ कथं भग्नाः पलायिताः ॥ ४२
तच्छ्रुत्वा वचनं राज्ञस्ते प्रोचुः प्रणता भृशम् ।
राजंस्ते निहतो भ्राता शेते समरमूर्धनि ॥ ४३॥
तया निपातिताः शूरा ये च तेऽप्यनुजानुगाः ।
वयं त्वां कथितुं सर्वं वृत्तान्तं समुपागताः ॥ ४४॥
निशुम्भो निहतस्तत्र तया चण्डिकयाधुना ।
न हि युद्धस्य कालोऽद्य तव राजन् रणाङ्गणे ॥ ४५॥
देवकार्यं समुद्दिश्य कापीयं परमाङ्गना ।
हन्तुं दैत्यकुलं नूनं प्राप्तेति परिचिन्तय ॥ ४६॥
नैषा प्राकृतयोषैव देवी शक्तिरनुत्तमा ।
अचिन्त्यचरिता क्वापि दुर्ज्ञेया दैवतैरपि ॥ ४७॥
नानारूपधरातीव मायामूलविशारदा ।
विचित्रभूषणा देवी सर्वायुधधरा शुभा ॥ ४८॥
गहना गूढचरिता कालरात्रिरिवापरा ।
अपारपारगा पूर्णा सर्वलक्षणसंयुता ॥ ४९॥
अन्तरिक्षस्थिता देवास्तां स्तुवन्त्यकुतोभयाः ।
देवकार्यञ्च कुर्वाणां श्रीदेवीं परमाद्भुताम् ॥ ५०॥
पलायनं परो धर्मः सर्वथा देहरक्षणम् ।
रक्षिते किल देहेस्मिन्कालेऽस्मत्सुखताङ्गते ॥ ५१॥
सङ्ग्रामे विजयो राजन् भविता ते न संशयः ।
कालः करोति बलिनं समये निर्बलं क्वचित् ॥ ५२॥
तं पुनः सबलं कृत्वा जयायोपदधाति हि ।
दातारं याचकं कालः करोति समये क्वचित् ॥ ५३॥
भिक्षुकं धनदातारं करोति समयान्तरे ।
विष्णुः कालवशे नूनं ब्रह्मा वा पार्वतीपतिः ॥ ५४॥
इन्द्राद्या निर्जराः सर्वे काल एव प्रभुः स्वयम् ।
तस्मात्कालं प्रतीक्षस्व विपरीतं तवाधुना ॥ ५५॥
सम्मुखो देवतानाञ्च दैत्यानां नाशहेतुकः ।
एकैव च गतिर्नास्ति कालस्य किल भूपते ॥ ५६॥
नानारूपधराप्यस्ति ज्ञातव्यं तस्य चेष्टितम् ।
कदाचित्सम्भवो नॄणां कदाचित्प्रलयस्तथा ॥ ५७॥
उत्पत्तिहेतुः कालोऽन्यः क्षयहेतुस्तथापरः ।
प्रत्यक्षं ते महाराज देवाः सर्वे सवासवाः ॥ ५८॥
करदास्ते कृताः पूर्वं कालेन सम्मुखेन च ।
तेनैव विमुखेनाद्य बलिनोऽबलयासुराः ॥ ५९॥
निहता नितरां कालः करोति च शुभाशुभम् ।
नैवात्र कारणं काली नैव देवाः सनातनाः ॥ ६०॥
यथा ते रोचते राजंस्तथा कुरु विमृश्य च ।
कालोऽयं नात्र हेतुस्ते दानवानां तथा पुनः ॥ ६१॥
त्वदग्रतो गतः शक्रो भग्नः सङ्ख्ये निरायुधः ।
तथा विष्णुस्तथा रुद्रो वरुणो धनदो यमः ॥ ६२॥
तथा त्वमपि राजेन्द्र वीक्ष्य कालवशं जगत् ।
पातालं गच्छ तरसा जीवन्भद्रमवाप्स्यसि ॥ ६३॥
मृते त्वयि महाराज शत्रवस्ते मुदान्विताः ।
मङ्गलानि प्रगायन्तो विचरिष्यन्ति सर्वतः ॥ ६४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे युद्धात्प्रत्यागतानां रक्षसां
शुम्भाय वार्तावर्णनं नाम त्रिंशोऽध्यायः ॥ ५.३०॥
५.३१ एकत्रिंशोऽध्यायः । शुम्भवधः ।
व्यास उवाच ।
इति तेषां वचः श्रुत्वा शुम्भो दैत्यपतिस्तथा ।
उवाच सैनिकानाशु कोपाकुलितलोचनः ॥ १॥
शुम्भ उवाच ।
जाल्माः किं श्रूत दुर्वाच्यं कृत्वा जीवितुमुत्सहे ।
निहत्य सचिवान्भ्रातॄन्निर्लज्जो विचरामि किम् ॥ २॥
कालः कर्ता शुभानां वाशुभानां बलवत्तरः ।
का चिन्ता मम दुर्वारे तस्मिन्नीशेऽप्यरूपके ॥ ३॥
यद्भवति तद्भवतु यत्करोति करोतु तत् ।
न मे चिन्तास्ति कुत्रापि मरणाज्जीवनात्तथा ॥ ४॥
स कालोऽप्यन्यथाकर्तुं भावितो नेशते क्वचित् ।
न वर्षति च पर्जन्यः श्रावणे मासि सर्वथा ॥ ५॥
कदाचिन्मार्गशीर्षे वा पौषे माघेऽथ फाल्गुने ।
अकाले वर्षतीवाशु तस्मान्मुख्यो न चास्त्वयम् ॥ ६॥
कालो निमित्तमात्रं तु दैवं हि बलवत्तरम् ।
दैवेन निर्मितं सर्वं नान्यथा भवतीत्यदः ॥ ७
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
जेता यः सर्वदेवानां निशुम्भोऽप्यनया हतः ॥ ८
रक्तबीजो महाशूरः सोऽपि नाशं गतो यदा ।
तदाहं कीर्तिमुत्सृज्य जीविताशां करोमि किम् ॥ ९॥
प्राप्ते काले स्वयं ब्रह्मा परार्धद्वयसम्मिते ।
निधनं याति तरसा जगत्कर्ता स्वयं प्रभुः ॥ १०॥
चतुर्युगसहस्रं तु ब्रह्मणो दिवसे किल ।
पतन्ति भवनात्पञ्च नव चेन्द्रास्तथा पुनः ॥ ११॥
तथैव द्विगुणे विष्णुर्मरणायोपकल्पते ।
तथैव द्विगुणे काले शङ्करः शान्तिमेति च ॥ १२॥
का चिन्ता मरणे मूढा निश्चले दैवनिर्मिते ।
मही महीधराणाञ्च नाशः सूर्यशशाङ्कयोः ॥ १३॥
जातस्य हि ध्रुवं मृत्युर्धुवं जन्म मृतस्य च ।
अध्रुवेऽस्मिञ्छरीरे तु रक्षणीयं यशः स्थिरम् ॥ १४॥
रथो मे कल्प्यतां शीघ्रं गमिष्यामि रणाजिरे ।
जयो वा मरणं वापि भवत्वद्यैव दैवतः ॥ १५॥
इत्युक्त्वा सैनिकाञ्छुम्भो रथमास्थाय सत्वरः ।
प्रययावम्बिका यत्र संस्थिता तु हिमाचले ॥ १६॥
सैन्यं प्रचलितं तस्य सङ्गे तत्र चतुर्विधम् ।
हस्त्यश्वरथपादातिसंयुतं सायुधं बहु ॥ १७॥
तत्र गत्वाचले शुम्भः संस्थितां जगदम्बिकाम् ।
त्रैलोक्यमोहिनीं कान्तामपश्यत्सिंहवाहिनीम् ॥ १८॥
सर्वाभरणभूषाढ्यां सर्वलक्षणसंवृताम् ।
स्तूयमानां सुरैः खस्थैर्गन्धर्वयक्षकिन्नरैः ॥ १९॥
पुष्पैश्च पूज्यमानाञ्च मन्दारपादपोद्भवैः ।
कुर्वाणां शङ्खनिनदं घण्टानादं मनोहरम् ॥ २०॥
दृष्ट्वा तां मोहमगमच्छुम्भः कामविमोहितः ।
पञ्चबाणाहतः कामं मनसा समचिन्तयत् ॥ २१॥
अहो रूपमिदं सम्यगहो चातुर्यमद्भुतम् ।
सौकुमार्यञ्ज धैर्यञ्च परस्परविरोधि यत् ॥ २२॥
सुकुमारातितन्वङ्गी सद्यः प्रकटयौवना ।
चित्रमेतदसौ बाला कामभावविवर्जिता ॥ २३॥
कामकान्तासमा रूपे सर्वलक्षणलक्षिता ।
अम्बिकेयं किमेतत्तु हन्ति सर्वान्महाबलान् ॥ २४॥
उपायः कोऽत्र कर्तव्यो येन मे वशगा भवेत् ।
न मन्त्रा वा मरालाक्षीसाधने सन्निधौ मम ॥ २५॥
सर्वमन्त्रमयी ह्येषा मोहिनी मदगर्विता ।
सुन्दरीयं कथं मे स्याद्वशगा वरवर्णिनी ॥ २६॥
पातालगमनं मेऽद्य न युक्तं समराङ्गणात् ।
सामदानविभेदैश्च नेयं साध्या महाबला ॥ २७॥
किं कर्तव्यं च गन्तव्यं विषमे समुपस्थिते ।
मरणं नोत्तमं चात्र स्त्रीकृतं तु यशोऽपहृत् ॥ २८॥
मरणमृषिभिः प्रोक्तं सङ्गरे मङ्गलास्पदम् ।
यत्तत्समानबलयोर्योधयोर्युध्यतोः किल ॥ २९॥
प्राप्तेयं दैवरचिता नारी नरशतोत्तमा ।
नाशायास्मत्कुलस्येह सर्वथातिबलाबला ॥ ३०॥
वृथा किं सामवाक्यानि मया योज्यानि साम्प्रतम् ।
हननायागता ह्येषा किं नु साम्ना प्रसीदति ॥ ३१॥
न दानैश्चालितुं योग्या नानाशस्त्रविभूषिता ।
भेदस्तु विफलः कामं सर्वदेववशानुगा ॥ ३२॥
तस्मात्तु मरणं श्रेयो न सङ्ग्रामे पलायनम् ।
जयो वा मरणं वाद्य भवत्वेव यथाविधि ॥ ३३॥
व्यास उवाच ।
इति सञ्चिन्त्य मनसा शुम्भः सत्त्वाश्रितोऽभवत् ।
युद्धाय सुस्थिरो भूत्वा तामुवाच पुरःस्थिताम् ॥ ३४॥
देवि युध्यस्व कान्तेऽद्य मृथायं ते परिश्रमः ।
मूर्खासि किल नारीणां नायं धर्मः कदाचन ॥ ३५॥
नारीणां लोचने बाणा भ्रुवावेव शरासनम् ।
हावभावास्तु शस्त्राणि पुमाँल्लक्ष्यं विचक्षणः ॥ ३६॥
सन्नाहश्चाङ्गरागोऽत्र रथश्चापि मनोरथः ।
मन्दप्रजल्पितं भेरीशब्दो नान्यः कदाचन ॥ ३७॥
अन्यास्त्रधारणं स्त्रीणां विडम्बनमसंशयम् ।
लज्जैव भूषणं कान्ते न च धार्ष्ट्यं कदाचन ॥ ३८॥
युध्यमाना वरा नारी कर्कशेवाभिदृश्यते ।
स्तनौ सङ्गोपनीयौ वा धनुषः कर्षणे कथम् ॥ ३९॥
क्व मन्दगमनं कुत्र गदामादाय धावनम् ।
बुद्धिदा कालिका तेऽत्र चामुण्डा परनायिका ॥ ४०॥
चण्डिका मन्त्रमध्यस्था लालनेऽसुस्वरा शिवा ।
वाहनं मृगराडास्ते सर्वसत्त्वभयङ्करः ॥ ४१॥
वीणानादं परित्यज्य घण्टानादं करोषि यत् ।
रूपयौवनयोः सर्वं विरोधि वरवर्णिनि ॥ ४२॥
यदि ते सङ्गरेच्छास्ति कुरूपा भव भामिनि ।
लम्बोष्ठी कुनखी क्रूरा ध्वाङ्क्षवर्णा विलोचना ॥ ४३॥
लम्बपादा कुदन्ती च मार्जारनयनाकृतिः ।
ईदृशं रूपमास्थाय तिष्ठ युद्धे स्थिरा भव ॥ ४४॥
कर्कशं वचनं ब्रूहि ततो युद्धं करोम्यहम् ।
ईदृशीं सुदतीं दृष्ट्वा न मे पाणिः प्रसीदति ॥ ४५॥
हन्तुं त्वां मृगशावाक्षि कामकान्तोपमे मृधे ।
व्यास उवाच ।
इति ब्रुवाणं कामार्तं वीक्ष्य तं जगदम्बिका ॥ ४६॥
स्मितपूर्वमिदं वाक्यमुवाच भरतोत्तम ।
देव्युवाच ।
किं विषीदसि मन्दात्मन् कामबाणविमोहितः ॥ ४७॥
प्रेक्षिकाहं स्थिता मूढ कुरु कालिकया मृधम् ।
चामुण्डया वा कुर्वेते तव योग्ये रणाङ्गणे ॥ ४८॥
प्रहरस्व यथाकामं नाहं त्वां योद्धमुत्सहे ।
इत्युक्त्वा कालिकां प्राह देवी मधुरया गिरा ॥ ४९॥
जह्येनं कालिके क्रूरे कुरूपप्रियमाहवे ।
व्यास उवाच ।
इत्युक्ता कालिका कालप्रेरिता कालरूपिणी ॥ ५०॥
गदां प्रगृह्य तरसा तस्थावाजौ कृतोद्यमा ।
तयोः परस्परं युद्धं बभूवातिभयानकम् ॥ ५१॥
पश्यतां सर्वदेवानां मुनीनाञ्च महात्मनाम् ।
गदामुद्यम्य शुम्भोऽथ जघान कालिकां रणे ॥ ५२॥
कालिका दैत्यराजानं गदया न्यहनद् भृशम् ।
बभञ्जास्य रथं चण्डी गदया कनकोज्ज्वलम् ॥ ५३॥
खरान्हत्वा जघानाशु दारुकं दारुणस्वना ।
स पदातिर्गदां गुर्वीं समादाय क्रुधान्वितः ॥ ५४॥
कालिकाभुजयोर्मध्ये प्रहसन्नहनत्तदा ।
वञ्चयित्वा गदाघातं खड्गमादाय सत्वरा ॥ ५५॥
चिच्छेदास्य भुजं सव्यं सायुधं चन्दनार्चितम् ।
स छिन्नबाहुर्विरथो गदापाणिः परिप्लुतः ॥ ५६॥
अचिरेण समागम्य कालिकामहनत्तदा ।
काली च करवालेन भुजं तस्याथ दक्षिणम् ॥ ५७॥
चिच्छेद प्रहसन्ती सा सगदं किल साङ्गदम् ।
कर्तुं पादप्रहारं स कुपितः प्रययौ जवात् ॥ ५८॥
काली चिच्छेद चरणौ खड्गेनास्य त्वरान्विता ।
सच्छिन्नकरपादोऽपि तिष्ठ तिष्ठेति च ब्रुवन् ॥ ५९॥
धावमानो ययावाशु कालिकां भीषयन्निव ।
तमागच्छन्तमालोक्य कालिका कमलोपमम् ॥ ६०॥
चकर्त मस्तकं कण्ठाद्रुधिरौघवहं भृशम् ।
छिन्नेऽसौ मस्तके भूमौ पपात गिरिसन्निभः ॥ ६१॥
प्राणा विनिर्ययुस्तस्य देहादुत्क्रम्य सत्वरम् ।
गतासुं पतितं दैत्यं दृष्ट्वा देवाः सवासवाः ॥ ६२॥
तुष्टुवुस्तां तदा देवीं चामुण्डां कालिकां तथा ।
ववुर्वाताः शिवास्तत्र दिशश्च विमला भृशम् ॥ ६३॥
बभूवुश्चाग्नयो होमे प्रदक्षिणशिखाः शुभाः ।
हतशेषाश्च ये दैत्याः प्रणम्य जगदम्बिकाम् ॥ ६४॥
त्यक्त्वाऽऽयुधानि ते सर्वे पातालं प्रययुर्नृप ।
एतत्ते सर्वमाख्यातं देव्याश्चरितमुत्तमम् ॥ ६५॥
शुम्भादीनां वधं चैव सुराणां रक्षणं तथा ।
एतदाख्यानकं सर्वं पठन्ति भुवि मानवाः ॥ ६६॥
शृण्वन्ति च सदा भक्त्या ते कृतार्था भवन्ति हि ।
अपुत्रो लभते पुत्रान्निर्धनश्च धनं बहु ॥ ६७॥
रोगी च मुच्यते रोगात्सर्वान्कामानवाप्नुयात् ।
शत्रुतो न भयं तस्य य इदं चरितं शुभम् ।
शृणोति पठते नित्यं मुक्तिमाञ्जायते नरः ॥ ६८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
शुम्भवधो नामेकत्रिंशोऽध्यायः ॥ ५.३१॥
५.३२ द्वात्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्मुनिसमीपे गमनम् ।
जनमेजय उवाच ।
महिमा वर्णितः सम्यक्चण्डिकायास्त्वया मुने ।
केन चाराधिता पूर्वं चरित्रत्रययोगतः ॥ १॥
प्रसन्ना कस्य वरदा केन प्राप्तं फलं महत् ।
आराध्य कामदां देवीं कथयस्व कृपानिधे ॥ २॥
उपासनाविधिं ब्रह्मंस्तथा पूजाविधिं वद ।
विस्तरेण महाभाग होमस्य च विधिं पुनः ॥ ३॥
सूत उवाच ।
इति भूपवचः श्रुत्वा प्रीतः सत्यवतीसुतः ।
प्रत्युवाच नृपं कृष्णो महामायाप्रपूजनम् ॥ ४॥
व्यास उवाच ।
स्वारोचिषेऽन्तरे पूर्वं सुरथो नाम पार्थिवः ।
बभूव परमोदारः प्रजापालनतत्परः ॥ ५॥
सत्यवादी कर्मपरो ब्राह्मणानाञ्च पूजकः ।
गुरुभक्तिरतो नित्यं स्वदारगमने रतः ॥ ६॥
दानशीलोऽविरोधी च धनुर्वेदैकपारगः ।
एवं पालयतो राज्यं म्लेच्छाः पर्वतवासिनः ॥ ७॥
बलाच्छत्रुत्वमापन्नाः सैन्यं कृत्वा चतुर्विधम् ।
हस्त्यश्वरथपादातिसहितास्ते मदोत्कटाः ॥ ८॥
कोलाविध्वंसिनः प्राप्ताः पृथ्वीग्रहणतत्पराः ।
सुरथः सैन्यमादाय सम्मुखः समपद्यत ॥ ९॥
युद्धं समभवद्घोरं तस्य तैरतिदारुणैः ।
म्लेच्छानां तु बलं स्वल्पं राज्ञस्द्बलमद्भुतम् ॥ १०॥
तथापि तैर्जितो युद्धे दैवाद्राजा पराजितः ।
भग्नश्च स्वपुरं प्राप्तः सुरक्षं दुर्गमण्डितम् ॥ ११॥
चिन्तयामास मेधावी राजा नीतिविचक्षणः ।
प्रधानान्विमना दृष्ट्वा शत्रुपक्षसमाश्रितान् ॥ १२॥
स्थानं गृहीत्वा विपुलं परिखादुर्गमण्डितम् ।
कालप्रतीक्षा कर्तव्या किं वा युद्धं वरं मतम् ॥ १३॥
मन्त्रिणः शत्रुवशगा मन्त्रयोग्या न ते किल ।
किं करोमीति मनसा भूपतिः समचिन्तयत् ॥ १४॥
कदाचित्ते गहीत्वा मां पापाचाराः पराश्रिताः ।
शत्रुभ्योऽथ प्रदास्यन्ति तदा किं वा भविष्यति ॥ १५॥
पापबुद्धिषु विश्वासो न कर्तव्यः कदाचन ।
किन्न ते वै प्रकुर्वन्ति ये लोभवशगा नराः ॥ १६॥
भ्रातरं पितरं मित्रं सुहृदं बान्धवं तथा ।
गुरुं पूज्यं द्विजं द्वेष्टि लोभाविष्टः सदा नरः ॥ १७॥
तस्मान्मया न कर्तव्यो विश्वासः सर्वथाधुना ।
मन्त्रिवर्गेऽतिपापिष्ठे शत्रुपक्षसमाश्रिते ॥ १८॥
इति सञ्चिन्त्य मनसा राजा परमदुर्मनाः ।
एकाकी हयमारुह्य निर्जगाम पुरात्ततः ॥ १९॥
असहायोऽथ निर्गत्य गहनं वनमाश्रितः ।
चिन्तयामास मेधावी क्व गन्तव्यं मया पुनः ॥ २०॥
योजनत्रयमात्रे तु मुनेराश्रममुत्तमम् ।
ज्ञात्वा जगाम भूपालस्तापसस्य सुमेधसः ॥ २१॥
बहुवृक्षसमायुक्तं नदीपुलिनसंश्रितम् ।
निर्वैरश्वापदाकीर्णं कोकिलारावमण्डितम् ॥ २२॥
शिष्याध्ययनशब्दाढ्यं मृगयूथशतावृतम् ।
नीवारान्नसुपक्वाढ्यं सुपुष्पफलपादपम् ॥ २३॥
होमधूमसुगन्धेन प्रीतिदं प्राणिनां सदा ।
वेदध्वनिसमाक्रान्तं स्वर्गादपि मनोहरम् ॥ २४॥
दृष्ट्वा तमाश्रमं राजा बभूवासौ मुदान्वितः ।
भयं त्यक्त्वा मतिं चक्रे विश्रामाय द्विजाश्रमे ॥ २५॥
आसज्य पादपेऽश्वं तु जगाम विनयान्वितः ।
दृष्ट्वा तं मुनिमासीनं सालच्छायासु संश्रितम् ॥ २६॥
मृगाजिनासनं शान्तं तपसातिकृशं ऋजुम् ।
अध्यापयन्तं शिष्यांश्च वेदशास्त्रार्थदर्शिनम् ॥ २७॥
रहितं क्रोधलोभाद्यैर्द्वन्द्वातीतं विमत्सरम् ।
आत्मज्ञानरतं सत्यवादिनं शमसंयुतम् ॥ २८॥
तं वीक्ष्य भूपतिर्भूमौ पपात दण्डवत्तदा ।
तदग्रेऽश्रुजलापूर्णनयनः प्रेमसंयुतः ॥ २९॥
उत्तिष्ठोत्तिष्ठ भद्रं ते तमुवाच तदा मुनिः ।
शिष्यो ददौ बृसीं तस्मै गुरुणा नोदितस्तदा ॥ ३०॥
उत्थाय नृपतिस्तस्यां समासीनस्तदाज्ञया ।
अर्ध्यपाद्यार्हणं चक्रे सुमेधा विधिपूर्वकम् ॥ ३१॥
पप्रच्छात्र कुतः प्राप्तः कस्त्वं चिन्तापरः कथम् ।
कथयस्व यथाकामं संवृतं कारणं त्विह ॥ ३२॥
किमागमनकृत्यं ते ब्रूहि कार्यं मनोगतम् ।
करिष्ये वाञ्छितं काममसाध्यमपि यत्तव ॥ ३३॥
राजोवाच ।
सुरथो नाम राजाहं शत्रुभिश्च पराजितः ।
त्यक्त्वा राज्यं गृहं भार्यामहं ते शरणं गतः ॥ ३४॥
यदाज्ञापयसे ब्रह्मंस्तदहं भक्तितत्परः ।
करिष्यामि न मे त्राता त्वदन्यः पृथिवीतले ॥ ३५॥
शत्रुभ्यो मे भयं घोरं प्राप्तोऽस्म्यद्य तवान्तिकम् ।
त्रायस्व मुनिशार्दूल शरणागतवत्सल ॥ ३६॥
ऋषिरुवाच ।
निर्भयं वस राजेन्द्र नात्र ते शत्रवः किल ।
आगमिष्यन्ति बलिनो निश्चयं तपसो बलात् ॥ ३७॥
नात्र हिंसा प्रकर्तव्या वनवृत्त्वा नृपोत्तम ।
कर्तव्यं जीवनं शस्तैर्नीवारफलमूलकैः ॥ ३८॥
व्यास उवाच ।
इति तस्य वचः श्रुत्वा निर्भयः स नृपस्तदा ।
उवासाश्रम एवासौ फलमूलाशनः शुचिः ॥ ३९॥
कदाचित्स नृपस्तत्र वृक्षच्छायां समाश्रितः ।
चिन्तयामास चिन्तार्तो गृह एव गताशयः ॥ ४०॥
राज्यं मे शत्रुभिः प्राप्तं म्लेच्छैः पापरतैः सदा ।
सम्पीडिताः स्युर्लोकास्तैर्दुराचारैर्गतत्रपैः ॥ ४१॥
गजाश्च तुरगाः सर्वे दुर्बला भक्ष्यवर्जिताः ।
जाताः स्युर्नात्र सन्देहः शत्रुणा परिपीडिताः ॥ ४२॥
सेवका मम सर्वे ते शत्रूणां वशवर्तिनः ।
दुःखिता एव जाताः स्युः पालिता ये मया पुरा ॥ ४३॥
धनं मे सुदुराचारैरसद्व्ययपरैः परैः ।
द्यूतासवभुजिष्यादिस्थाने स्यात्प्रापितं किल ॥ ४४॥
कोशक्षयं करिष्यन्ति व्यसनैः पापबुद्धयः ।
न पात्रदाननिपुणा म्लेच्छास्ते मन्त्रिणोऽपि मे ॥ ४५॥
इति चिन्तापरो राजा वृक्षमूलस्थितो यदा ।
तदाऽऽजगाम वैश्यस्तु कश्चिदार्तिपरस्तथा ॥ ४६॥
नृपेण पुरतो दृष्टः पार्श्वे तत्रोपवेशितः ।
पप्रच्छ तं नृपः कोऽसि कुत एवागतो वनम् ॥ ४७॥
कोऽसि कस्माच्च दीनोऽसि हरिणः शोकपीडितः ।
ब्रूहि सत्यं महाभाग मैत्री साप्तपदी मता ॥ ४८॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं राज्ञस्तमुवाच विशोत्तमः ।
उपविश्य स्थिरो भूत्वा मत्वा साधुसमागमम् ॥ ४९॥
वैश्य उवाच ।
मित्राहं वैश्यजातीयः समाधिर्नाम विश्रुतः ।
धनवान्धर्मनिपुणः सत्यवागनसूयकः ॥ ५०॥
पुत्रदारैर्निरस्तोऽहं धनलुब्धैरसाधुभिः ।
(कृपणेति मिषं कृत्वा त्यक्त्वा मायां सुदुस्त्यजां ।)
स्वजनेन च सन्त्यक्तः प्राप्तोऽस्मि वनमाशु वै ॥ ५१॥
कोऽसि त्वं भाग्यवान्भासि कथयस्व प्रियाधुना ।
राजोवाच ।
सुरथो नाम राजाहं दस्युभिः पीडितोऽभवम् ॥ ५२॥
प्राप्तोऽस्मि गतराज्योऽत्र मन्त्रिभिः परिवञ्चितः ।
दिष्ट्या त्वमत्र मित्रं मे मिलितोऽसि विशोत्तम ॥ ५३॥
सुखेन विहरिष्यावो वनेऽत्र शुभपादपे ।
शोकं त्यज महाबुद्धे स्वस्थो भव विशोत्तम ॥ ५४॥
(अत्रैव च यथाकामं सुखं तिष्ठ मया सह ।)
वैश्य उवाच ।
कुटुम्बं मे निरालम्बं मया हीनं सुदुःखितम् ।
भविष्यति च चिन्ताऽऽर्तं व्याधिशोकोपतापितम् ॥ ५५॥
भार्यादेहे सुखं नो वा पुत्रदेहे न वा सुखम् ।
इति चिन्तातुरं चेतो न मे शाम्यति भूमिप ॥ ५६॥
कदा द्रक्ष्ये सुतं भार्यां गृहं स्वजनमेव च ।
स्वस्थं न मन्मनो राजन् गृहचिन्ताकुलं भृशम् ॥ ५७॥
राजोवाव
यैर्निरस्तोऽसि पुत्राद्यैरसद्वृत्तैः सुबालिशैः ।
तान्दृष्ट्वा किं सुखं तेऽद्य भविष्यति महामते ॥ ५८॥
हितकारी वरः शत्रुर्दुःखदाः सुहृदः कुतः ।
तस्मात्स्थिरं मनः कृत्वा विहरस्व मया सह ॥ ५९॥
वैश्य उवाच ।
मनो मे न स्थिरं राजन् भवत्यद्य सुदुःखितम् ।
चिन्तयात्र कुटुम्बस्य दुस्त्यजस्य दुरात्मभिः ॥ ६०॥
राजोवाच ।
ममापि राज्यजं दुःखं दुनोति किल मानसम् ।
पृच्छावोऽद्य मुनिं शान्तं शोकनाशनमौषधम् ॥ ६१॥
व्यास उवाच ।
इति कृत्वा मतिं तौ तु राजा वैश्यश्च जग्मतुः ।
मुनिं तौ विनयोपेतौ प्रष्टुं शोकस्य कारणम् ॥ ६२॥
गत्वा तं प्रणिपत्याह राजा ऋषिमनुत्तमम् ।
आसीनं सम्यगासीनः शान्तं शान्तिमुपागतः ॥ ६३॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे सुरथराजसमाधि-
वैश्ययोर्मुनिसमीपे गमनं नाम द्वात्रिंशोऽध्यायः ॥ ५.३२॥
५.३३ त्रयस्त्रिंशोऽध्यायः । देवीमाहात्म्यवर्णनम् ।
राजोवाव
मुने वैश्योऽयमधुना वने मे मित्रतां गतः ।
पुत्रदारैर्निरस्तोऽयं प्राप्तोऽत्र मम सङ्गमम् ॥ १॥
(कुटुम्बविरहेणासौ दुःखितोऽतीव दुर्मनाः ।
न शान्तिमुपयात्येष तथापि मम साम्प्रतम् ।
गतराज्यस्य दुःखेन शोकार्तोऽस्मि महामते ।)
निष्कारणञ्च मे चिन्ता हृदयान्न निवर्तते ।
हया मे दुर्बलाः स्युः किं गजाः शत्रुवशं गताः ॥ २॥
भृत्यवर्गस्तथा दुःखी जातः स्यात्तु मया विना ।
कोशक्षयं करिष्यन्ति रिपवोऽतिबलात्क्षणात् ॥ ३॥
इत्येवं चिन्तयानस्य न मे निद्रा तनौ सुखम् ।
जानामीदं जगन्मिथ्या स्वप्नवत्सर्वमेव हि ॥ ४॥
जानतोऽपि मनो भ्रान्तं न स्थिरं भवति प्रभो ।
कोऽहं केऽश्वा गजाः केऽमी न ते मे च सहोदराः ॥ ५॥
न पुत्रा न च मित्राणि येषां दुःखं दुनोति माम् ।
भ्रमोऽयमिति जानामि तथापि मम मानसः ॥ ६॥
मोहो नैवापसरति किं तत्कारणमद्भुतम् ।
स्वामिंस्त्वमसि सर्वज्ञः सर्वसंशयनाशकृत् ॥ ७॥
कारणं ब्रूहि मोहस्य ममास्य च दयानिधे ।
व्यास उवाच ।
इति पृष्टस्तदा राज्ञा सुमेधा मुनिसत्तमः ॥ ८॥
तमुवाच परं ज्ञानं शोकमोहविनाशनम् ।
ऋषिरुवाच ।
शृणु राजन् प्रवक्ष्यामि कारणं बन्धमोक्षयोः ॥ ९॥
महामायेति विख्याता सर्वेषां प्राणिनामिह ।
ब्रह्मा विष्णुस्तथेशानस्तुराषाड् वरुणोऽनिलः ॥ १०॥
सर्वे देवा मनुष्याश्च गन्धर्वोरगराक्षसाः ।
वृक्षाश्च विविधा वल्ल्यः पशवो मृगपक्षिणः ॥ ११॥
मायाधीनाश्च ते सर्वे भाजनं बन्धमोक्षयोः ।
तया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ १२॥
तद्वशे वर्तते नूनं मोहजालेन यन्त्रितम् ।
त्वं कियान्मानुषेष्वेकः क्षत्रियो रजसाविलः ॥ १३॥
ज्ञानिनामपि चेतांसि मोहयत्यनिशं हि सा ।
ब्रह्मेशवासुदेवाद्या ज्ञाने सत्यपि शेषतः ॥ १४॥
तेऽपि रागवशाल्लोके भ्रमन्ति परिमोहिताः ।
पुरा सत्ययुगे राजन् विष्णुर्नारायणः स्वयम् ॥ १५॥
श्वेतद्वीपं समासाद्य चकार विपुलं तपः ।
वर्षाणामयुतं यावद् ब्रह्मविद्याप्रसक्तये ॥ १६॥
अनश्वरसुखायासौ चिन्तयानस्ततः परम् ।
एकस्मिन्निर्जने देशे ब्रह्मापि परमाद्भुते ॥ १७॥
स्थितस्तपसि राजेन्द्र मोहस्य विनिवृत्तये ।
कदाचिद्वासुदेवोऽसौ स्थलान्तरमतिर्हरिः ॥ १८॥
तस्माद्देशात्समुत्थाय जगामान्यद्दिदृक्षया ।
चतुर्मुखोऽपि राजेन्द्र तथैव निःसृतः स्थलात् ॥ १९॥
मिलितौ मार्गमध्ये तु चतुर्मुखचतुर्भुजौ ।
अन्योन्यं पृष्टवन्तौ तौ कस्त्वं कस्त्वमिति स्म ह ॥ २०॥
ब्रह्मा प्रोवाच तं देवं कर्ताहं जगतः किल ।
विष्णस्तमाह भो मूर्ख जगत्कर्ताहमच्युतः ॥ २१॥
त्वं कियान्बलहीनोऽसि रजोगुणसमाश्रितः ।
सत्त्वाश्रितं हि मां विद्धि वासुदेवं सनातनम् ॥ २२॥
मया त्वं रक्षितोऽद्यैव कृत्वा युद्धं सुदारुणम् ।
शरणं मे समायातो दानवाभ्यां प्रपीडितः ॥ २३॥
मया तौ निहतौ कामं दानवौ मधुकैटभौ ।
कथं गर्वायसे मन्द मोहोऽयं त्यज साम्प्रतम् ॥ २४॥
न मत्तोऽप्यधिकः कश्चित्संसारेऽस्मिन्प्रसारिते ।
ऋषिरुवाच ।
एवं प्रवदमानौ तौ ब्रह्मविष्णू परस्परम् ॥ २५॥
स्फुरदोष्ठौ वेपमानौ लोहिताक्षौ बभूवतुः ।
प्रादुर्बभूव सहसा तयोर्विवदमानयोः ॥ २६॥
मध्ये लिङ्गं सुधाश्वेतं विपुलं दीर्घमद्भुतम् ।
आकाशे तरसा तत्र वागुवाचाशरीरिणी ॥ २७॥
तौ सम्बोध्य महाभागौ विवदन्तौ परस्परम् ।
ब्रह्मन् विष्णो विवादं मा कुरुतां वां परस्परम् ॥ २८॥
लिङ्गस्यास्य परं पारमधस्तादुपरि धुवम् ।
यो याति युवयोर्मध्ये स श्रेष्ठो वां सदैव हि ॥ २९॥
एकः प्रयातु पातालमाकाशमपरोऽधुना ।
प्रमाणं मे वचः कार्यं त्यक्त्वा वादं निरर्थकम् ॥ ३०॥
मध्यस्थः सर्वदा कार्यो विवादेऽस्मिन्द्वयोरिह ।
ऋषिरुवाच ।
तच्छ्रुत्वा वचनं दिव्यं सज्जीभूतौ कृतोद्यमौ ॥ ३१॥
जग्मतुर्मातुमग्रस्थं लिङ्गमद्भुतदर्शनम् ।
पातालमगमद्विष्णुर्ब्रह्माप्याकाशमेव च ॥ ३२॥
परिमातुं महालिङ्गं स्वमहत्त्वविवृद्धये ।
विष्णुर्गत्वा कियद्देशं श्रान्तः सर्वात्मना यतः ॥ ३३॥
न प्रापान्तं स लिङ्गस्य परिवृत्य ययौ स्थलम् ।
ब्रह्मागच्छत्ततश्चोर्ध्वं पतितं केतकीदलम् ॥ ३४॥
शिवस्य मस्तकात्प्राप्य परावृत्तो मुदावृतः ।
आगत्य तरसा ब्रह्मा विष्णवे केतकीदलम् ॥ ३५॥
दर्शयित्वा च वितथमुवाच मदमोहितः ।
लिङ्गस्य मस्तकादेतद् गृहीतं केतकीदलम् ॥ ३६॥
अभिज्ञानाय चानीतं तव चित्तप्रशान्तये ।
श्रुत्वा तद्ब्रह्मणोवाक्यं दृष्ट्वा च केतकीदलम् ॥ ३७॥
हरिस्तं प्रत्युवाचेदं साक्षी कः कथयाधुना ।
यथार्थवादी मेधावी सदाचारः शुचि समः ॥ ३८॥
साक्षी भवति सर्वत्र विवादे समुपस्थिते ।
ब्रह्मोवाच ।
दूरदेशात्समायाति साक्षी कः समयेऽधुना ॥ ३९॥
यत्सत्यं तद्वचः सेयं केतकी कथयिष्यति ।
इत्युक्त्वा प्रेरिता तत्र ब्रह्मणा केतकी स्फुटम् ॥ ४०॥
वचनं प्राह तरसा शार्ङ्गिणं प्रत्यबोधयत् ।
शिवमूर्ध्नि स्थितां ब्रह्मा गहीत्वा मां समागतः ॥ ४१॥
सन्देहोऽत्र न कर्तव्यस्त्वया विष्णो कदाचन ।
मम वाक्यं प्रमाणं हि ब्रह्मा पारङ्गतोऽस्य ह ॥ ४२॥
गृहीत्वा मां समायातः शिवभक्तैः समर्पिताम् ।
केतक्या वचनं श्रुत्वा हरिराह स्मयन्निव ॥ ४३॥
महादेवः प्रमाणं मे यद्यसौ वचनं वदेत् ।
ऋषिरुवाच ।
तदाकर्ण्य हरेर्वाक्यं महादेवः सनातनः ॥ ४४॥
कुपितः केतकीं प्राह मिथ्यावादिनि मा वद ।
गच्छतो मध्यतः प्राप्ता पतिता मस्तकान्मम ॥ ४५॥
मिथ्याभिभाषिणी त्यक्ता मया त्वं सर्वदैव हि ।
ब्रह्मा लज्जापरो भूत्वा ननाम मधुसूदनम् ॥ ४६॥
शिवेन केतकी त्यक्ता तद्दिनात्कुसुमेषु वै ।
एवं मायाबलं विद्धि ज्ञानिनामपि मोहदम् ॥ ४७॥
अन्येषां प्राणिनां राजन् का वार्ता विभ्रमं प्रति ।
देवानां कार्यसिद्ध्यर्थं सर्वदैव रमापतिः ॥ ४८॥
दैत्यान्वञ्चयते चाशु त्यक्त्वा पापभयं हरिः ।
अवतारकरो देवो नानायोनिषु माधवः ॥ ४९॥
त्यक्त्वानन्दसुखं दैत्यैर्युद्धं चैवाकरोद्विभुः ।
नूनं मायाबलं चैतन्माधवेऽपि जगद्गुरौ ॥ ५०॥
सर्वज्ञे देवकार्यांशे का वार्तान्यस्य भूपते ।
ज्ञानिनामपि चेतांसि परमा प्रकृतिः किल ॥ ५१॥
बलादाकृष्य मोहाय प्रयच्छति महीपते ।
यया व्याप्तमिदं सर्वं भगवत्या चराचरम् ॥ ५२॥
मोहदा ज्ञानदा सैव बन्धमोक्षप्रदा सदा ।
राजोवाच ।
भगवन्ब्रूहि मे तस्याः स्वरूपं बलमुत्तमम् ॥ ५३॥
उत्पत्तिकारणं वापि स्थानं परमकं च यत् ।
ऋषिरुवाच ।
न चोत्पत्तिरनादित्वान्नृप तस्याः कदाचन ॥ ५४॥
नित्यैव सा परा देवी कारणानां च कारणम् ।
वर्तते सर्वभूतेषु शक्तिः सर्वात्मना नृप ॥ ५५॥
शववच्छक्तिहीनस्तु प्राणी भवति सर्वथा ।
चिच्छक्तिः सर्वभूतेषु रूपं तस्यास्तदेव हि ॥ ५६॥
आविर्भावतिरोभावौ देवानां कार्यसिद्धये ।
यदा स्तुवन्ति तां देवा मनुजाश्च विशाम्पते ॥ ५७॥
प्रादुर्भवति भूतानां दुःखनाशाय चाम्बिका ।
नानारूपधरा देवी नानाशक्तिसमन्विता ॥ ५८॥
आविर्भवति कार्यार्थं स्वेच्छया परमेश्वरी ।
दैवाधीना न सा देवी यथा सर्वे सुरा नृप ॥ ५९॥
न कालवशगा नित्यं पुरुषार्थप्रवर्तिनी ।
अकर्ता पुरुषो द्रष्टा दृश्यं सर्वमिदं जगत् ॥ ६०॥
दृश्यस्य जननी सैव देवी सदसदात्मिका ।
पुरुषं रञ्जयत्येका कृत्वा ब्रह्माण्डनाटकम् ॥ ६१॥
रञ्जिते पुरुषे सर्वं संहरत्यतिरंहसा ।
तया निमित्तभूतास्ते ब्रह्मविष्णुमहेश्वराः ॥ ६२॥
कल्पिताः स्वस्वकार्येषु प्रेरिता लीलया त्वमी ।
स्वांशं तेषु समारोप्य कृतास्ते बलवत्तराः ॥ ६३॥
दत्ताश्च शक्तयस्तेभ्यो गीर्लक्ष्मीर्गिरिजा तथा ।
ते तां ध्यायन्ति देवेशा पूजयन्ति परां मुदा ॥ ६४॥
ज्ञात्वा सर्वेश्वरीं शक्तिं सृष्टिस्थितिविनाशिनीम् ।
एतत्ते सर्वमाख्यातं देवीमाहात्म्यमुत्तमम् ।
मम बुद्ध्यनुसारेण नान्तं जानामि भूपते ॥ ६५॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे
देवीमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ५.३३॥
५.३४ चतुस्त्रिंशोऽध्यायः । भगवत्याः पूजाराधनविधिवर्णनम् ।
राजोवाच ।
भगवन्ब्रूहि मे सम्यक्तस्या आराधने विधिम् ।
पूजाविधिञ्च मन्त्रांश्च तथा होमविधिं वद ॥ १॥
ऋषिरुवाच ।
शृणु राजन्प्रवक्ष्यामि तस्याः पूजाविधिं शुभम् ।
कामदं मोक्षदं नॄणां ज्ञानदं दुःखनाशनम् ॥ २॥
आदौ स्नानविधिं कृत्वा शुचिः शुक्लाम्बरो नरः ।
आचम्य प्रयतः कृत्वा शुभमायतनं निजम् ॥ ३॥
ततोऽवलिप्तभूम्यां तु संस्थाप्यासनमुत्तमम् ।
तत्रोपविश्य विधिवत् त्रिराचम्य मुदान्वितः ॥ ४॥
पूजाद्रव्यं सुसंस्थाप्य यथाशक्त्यनुसारतः ।
प्राणायामं ततः कृत्वा भूतशुद्धिं विधाय च ॥ ५॥
कुर्यात्प्राणप्रतिष्ठां तु सम्भारं प्रोक्ष्य मन्त्रतः ।
कालज्ञानं ततः कृत्वा न्यासं कुर्याद्यथाविधि ॥ ६॥
शुभे ताम्रमये पात्रे चन्दनेन सितेन च ।
षट्कोणं विलिखेद्यन्त्रं चाष्टकोणं ततो बहिः ॥ ७॥
नवाक्षरस्य मन्त्रस्य बीजानि विलिखेत्ततः ।
कृत्वा यन्त्रप्रतिष्ठाञ्च वेदोक्ता संविधाय च ॥ ८॥
अर्चां वा धातवीं कुर्यात्पूजामन्त्रैः शिवोदितैः ।
पूजनं पृथिवीपाल भगवत्याः प्रयत्नतः ॥ ९॥
कृत्वा वा विधिवत्पूजामागमोक्तां समाहितः ।
जपेन्नवाक्षरं मन्त्रं सततं ध्यानपूर्वकम् ॥ १०॥
होमं दशांशतः कुर्याद्दशांशेन च तर्पणम् ।
भोजनं ब्राह्मणानाञ्च तद्दशांशेन कारयेत् ॥ ११॥
चरित्रत्रयपाठञ्च नित्यं कुर्याद्विसर्जयेत् ।
नवरात्रव्रतं चैव विधेयं विधिपूर्वकम् ॥ १२॥
आश्विने च तथा चैत्रे शुक्ले पक्षे नराधिप ।
नवरात्रोपवासो वै कर्तव्यः शुभमिच्छता ॥ १३॥
होमः सुविपुलः कार्यो जप्यमन्त्रैः सुपायसैः ।
शर्कराघृतमिश्रैश्च मधुयुक्तैः सुसंस्कृतैः ॥ १४॥
छागमांसेन वा कार्यो बिल्वपत्रैस्तथा शुभैः ।
हयारिकुसुमै रक्तैस्तिलैर्वा शर्करायुतैः ॥ १५॥
अष्टम्याञ्च चतुर्दश्यां नवम्याञ्च विशेषतः ।
कर्तव्यं पूजनं देव्या ब्राह्मणानाञ्च भोजनम् ॥ १६॥
निर्धनो धनमाप्नोति रोगी रोगात्प्रमुच्यते ।
अपुत्रो लभते पुत्राञ्छुभांश्च वशवर्तिनः ॥ १७॥
राज्यभ्रष्टो नृपो राज्यं प्राप्नोति सार्वभौमिकम् ।
शत्रुभिः पीडितो हन्ति रिपुं मायाप्रसादतः ॥ १८॥
विद्यार्थी पूजनं यस्तु करोति नियतेन्द्रियः ।
अनवद्यां शुभा विद्यां विन्दते नात्र संशयः ॥ १९॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भक्तिसंयुतः ।
पूजयेज्जगतां धात्रीं स सर्वसुखभाग्भवेत् ॥ २०॥
नवरात्रव्रतं कुर्यान्नरनारीगणश्च यः ।
वाञ्छितं फलमाप्नोति सर्वदा भक्तितत्परः ॥ २१॥
आश्विने शुक्लपक्षे तु नवरात्रव्रतं शुभम् ।
करोति भावसंयुक्तः सर्वान्कामानवाप्नुयात् ॥ २२॥
विधिवन्मण्डलं कृत्वा पूजास्थानं प्रकल्पयेत् ।
कलशं स्थापयेत्तत्र वेदमन्त्रविधानतः ॥ २३॥
यन्त्रं सुरुचिरं कृत्वा स्थापयेत्कलशोपरि ।
वापयित्वा यवांश्चारून्पार्श्वतः परिवर्तितान् ॥ २४॥
कृत्वोपरि वितानञ्च पुष्पमालासमावृतम् ।
धूपदीपसुसंयुक्तं कर्तव्यं चण्डिकागृहम् ॥ २५॥
त्रिकालं तत्र कर्तव्या पूजा शक्त्यनुसारतः ।
वित्तशाठ्यं न कर्तव्यं चण्डिकायाश्च पूजने ॥ २६॥
धूपैर्दीपैः सुनैवेद्यैः फलपुष्पैरनेकशः ।
गीतवाद्यैः स्तोत्रपाठैर्वेदपारायणैस्तथा ॥ २७॥
उत्सवस्तत्र कर्तव्यो नानावादित्रसंयुतैः ।
कन्यकानां पूजनञ्च विधेयं विधिपूर्वकम् ॥ २८॥
चन्दनैर्भूषणैर्वस्त्रैर्भक्ष्यैश्च विविधैस्तथा ।
सुगन्धतैलमाल्यैश्च मनसो रुचिकारकैः ॥ २९॥
एवं सम्पूजनं कृत्वा होमं मन्त्रविधानतः ।
अष्टम्यां वा नवम्यां वा कारयेद्विधिपूर्वकम् ॥ ३०॥
ब्राह्मणान्भोजयेत्पश्चात्पारणं दशमीदिने ।
कर्तव्यं शक्तितो दानं देयं भक्तिपरैर्नृपैः ॥ ३१॥
एवं यः कुरुते भक्त्या नवरात्रव्रतं नरः ।
नारी वा सधवा भक्त्या विधवा वा पतिव्रता ॥ ३२॥
इह लोके सुखं भोगान्प्राप्नोति मनसेप्सितान् ।
देहान्ते परमं स्थानं प्राप्नोति व्रततत्परः ॥ ३३॥
जन्मान्तरेऽम्बिकाभक्तिर्भवत्यव्यभिचारिणी ।
जन्मोत्तमकुले प्राप्य सदाचारो भवेद्धि सः ॥ ३४॥
नवरात्रव्रतं प्रोक्तं व्रतानामुत्तमं व्रतम् ।
आराधनं शिवायास्तु सर्वसौख्यकरं परम् ॥ ३५॥
अनेन विधिना राजन् समाराधय चण्डिकाम् ।
जित्वा रिपूनस्खलितं राज्यं प्राप्स्यस्यनुत्तमम् ॥ ३६॥
सुखञ्च परमं भूप देहेऽस्मिन्स्वगृहे पुनः ।
पुत्रदारान्समासाद्य लप्स्यसे नात्र संशयः ॥ ३७॥
वैश्योत्तम त्वमेवाद्य समाराधय कामदाम् ।
देवीं विश्वेश्वरीं मायां सृष्टिसंहारकारिणीम् ॥ ३८॥
स्वजनानां च मान्यस्त्वं भविष्यसि गृहे गतः ।
सुखं सांसारिकं प्राप्य यथाभिलषितं पुनः ॥ ३९॥
देवीलोके शुभे वासो भविता ते न संशयः ।
नाराधिता भगवती यैस्ते नरकभागिनः ॥ ४०॥
इह लोकेऽतिदुःखार्ता नानारोगैः प्रपीडिताः ।
भवन्ति मानवा राजञ्छत्रुभिश्च पराजिताः ॥ ४१॥
निष्कलत्रा ह्यपुत्राश्च तृष्णार्ताः स्तब्धबुद्धयः ।
बिल्वीदलैः करवीरैः शतपत्रैश्च चम्पकैः ॥ ४२॥
अर्चिता जगतां धात्री यैस्तेऽतीव विलासिनः ।
भवन्ति कृतपुण्यास्ते शक्तिभक्तिपरायणाः ॥ ४३॥
धनविभवसुखाढ्या मानवा मानवन्तः
सकलगुणगणानां भाजनं भारतीशाः ।
निगमपठितमन्त्रैः पूजिता यैर्भवानी
नृपतितिलकमुख्यास्ते भवन्तीह लोके ॥ ४४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे भगवत्याः
पूजाराधनविधिवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ५.३४॥
५.३५ पञ्चत्रिंशोऽध्यायः । सुरथराजसमाधिवैश्ययोर्देवीभक्त्येष्टप्राप्तिवर्णनम् ।
व्यास उवाच ।
इति तस्य वचः श्रुत्वा दुःखितौ वैश्यपार्थिवौ ।
प्रणिपत्य मुनिं प्रीत्या प्रश्रयावनतौ भृशम् ॥ १॥
हर्षेणोत्फुल्लनयनावूचतुर्वाक्यकोविदौ ।
कृताञ्जलिपुटौ शान्तौ भक्तिप्रवणचेतसौ ॥ २॥
भगवन्पावितावद्य शान्तौ दीनौ शुचान्वितौ ।
तव सूक्तसरस्वत्या गङ्गयेव भगीरथः ॥ ३॥
साधवः सम्भवन्तीह परोपकृतितत्पराः ।
अकृत्रिमगुणारामाः सुखदाः सर्वदेहिनाम् ॥ ४॥
पूर्वपुण्यप्रसङ्गेन प्राप्तोऽयमाश्रमः शुभः ।
तवावाभ्यां महाभाग महादुःखविनाशकः ॥ ५॥
भवन्ति मानवा भूमौ बहवः स्वार्थतत्पराः ।
परार्थसाधने दक्षाः केचित्क्वापि भवादृशाः ॥ ६॥
दुःखितोऽहं मुनिश्रेष्ठ वैश्योऽयं चातिदुःखितः ।
उभौ संसारसन्तप्तौ तवाश्रमपदे मुदा ॥ ७॥
दर्शनादेव हे विद्वन् गतं दुःखमिहावयोः ।
देहजं मानसं वाक्यश्रवणादेव साम्प्रतम् ॥ ८॥
धन्यावावां कृतकृत्यौ जातौ सूक्तिसुधारसात् ।
पावितौ भवता ब्रह्मन् कृपया करुणार्णव ॥ ९॥
गृहाणास्मत्करौ साधो नय पारं भवार्णवे ।
मग्नौ श्रान्ताविति ज्ञात्वा मन्त्रदानेन साम्प्रतम् ॥ १०॥
तपः कृत्वातिविपुलं समाराध्य सुखप्रदाम् ।
सम्प्राप्य दर्शनं भूयो यास्यावो निजमन्दिरम् ॥ ११॥
वदनात्तव सम्प्राप्य देवीमन्त्रं नवाक्षरम् ।
स्मरणञ्ज करिष्यावो निराहारौ धृतव्रतौ ॥ १२॥
व्यास उवाच ।
इति सञ्चोदितस्ताभ्यां सुमेधा मुनिसत्तमः ।
ददौ मन्त्रं शुभं ताभ्यां ध्यानबीजपुरःसरम् ॥ १३॥
तौ च प्राप्य मुनेर्मन्त्रं सम्मन्त्र्य गुरुदैवतौ ।
जग्मतुर्वैश्यराजानौ नदीतीरमनुत्तमम् ॥ १४॥
एकान्ते विजने स्थाने कृत्वाऽऽसनपरिग्रहम् ।
उपविष्टौ स्थिरप्रज्ञौ तावतीव कृशोदरौ ॥ १५॥
मन्त्रजाप्यरतौ शान्तौ चरित्रत्रयपाठकौ ।
निन्यतुर्मासमेकं तु तत्र ध्यानपरायणौ ॥ १६॥
तयोर्मासव्रतेनैव जाता प्रीतिरनुत्तमा ।
पादाम्बुजे भवान्यास्तु स्थिरा बुद्धिस्तथाप्यलम् ॥ १७॥
कदाचित्पादयोर्गत्वा मुनेस्तस्य महात्मनः ।
कृतप्रणामावागत्य तस्थतुश्च कुशासने ॥ १८॥
नान्यकार्यपरौ क्वापि बभूवतुः कदाचन ।
देवीध्यानपरौ नित्यं जपमन्त्ररतौ सदा ॥ १९॥
एवं जाते तदा पूर्णे तत्र संवत्सरे नृप ।
बभूवतुः फलाहारं त्यक्त्वा पर्णाशनौ नृप ॥ २०॥
वर्षमेकं तपस्तत्र चक्रतुर्वैश्यपार्थिवौ ।
शुष्कपर्णाशनौ दान्तौ जपध्यानपरायणौ ॥ २१॥
पूर्णे वर्षद्वये जाते कदाचिद्दर्शनञ्च तौ ।
प्रापतुः स्वप्नमध्ये तु भगवत्या मनोहरम् ॥ २२॥
रक्ताम्बरधरां देवीं चारुभूषणभूषिताम् ।
कदाचिनॄपतिः स्वप्नेऽप्यपश्यज्जगदम्बिकाम् ॥ २३॥
वीक्ष्य स्वप्ने च तौ देवीं प्रीतियुक्तौ बभूवतुः ।
जलाहारैस्तृतीये तु स्थितौ संवत्सरे तु तौ ॥ २४॥
एवं वर्षत्रयं कृत्वा ततस्तौ वैश्यपार्थिवौ ।
चक्रतुस्तौ तदा चिन्तां चित्ते दर्शनलालसौ ॥ २५॥
प्रत्यक्षं दर्शनं देव्या न प्राप्तं शान्तिदं नृणाम् ।
देहत्यागं करिष्यावो दुःखितौ भृशमातुरौ ॥ २६॥
इति सञ्चिन्त्य मनसा राजा कुण्डं चकार ह ।
त्रिकोणं सुस्थिरं सौम्यं हस्तमात्रप्रमाणतः ॥ २७॥
संस्थाप्य पावकं राजा तथा वैश्योऽतिभक्तिमान् ।
जुहावासौ निजं मांसं छित्त्वा छित्त्वा पुनः पुनः ॥ २८॥
तथा वैश्योऽपि दीप्तेऽग्नौ स्वमांसं प्राक्षिपत्तदा ।
रुधिरेण बलिं चास्यै ददतुस्तौ कृतोद्यमौ ॥ २९॥
तदा भगवती दत्त्वा प्रत्यक्षं दर्शनं तयोः ।
प्राह प्रीतिभरोद्भ्रान्तौ दृष्ट्वा तौ दुःखितौ भृशम् ॥ ३०॥
देव्युवाच ।
वरं वरय भो राजन् यत्ते मनसि वाञ्छितम् ।
तुष्टाहं तपसा तेऽद्य भक्तोऽसि त्वं मतो मम ॥ ३१॥
वैश्यं प्राह तदा देवी प्रसन्नाहं महामते ।
किं तेऽभीष्टं ददाम्यद्य प्रार्थयाशु मनोगतम् ॥ ३२॥
व्यास उवाच ।
तच्छ्रुत्वा वचनं राजा तामुवाच मुदान्वितः ।
देहि मेऽद्य निजं राज्यं हतशत्रुबलं बलात् ॥ ३३॥
तमुवाच तदा देवी गच्छ राजन् निजं गृहम् ।
शत्रवः क्षीणसत्त्वास्ते गमिष्यन्ति पराजिताः ॥ ३४॥
मन्त्रिणस्ते समागम्य ते पतिष्यन्ति पादयोः ।
कुरु राज्यं महाभाग नगरे स्वं यथासुखम् ॥ ३५॥
कृत्वा राज्यं सुविपुलं वर्षाणामयुतं नृप ।
देहान्ते जन्म सम्प्राप्य सूर्याच्च भविता मनुः ॥ ३६॥
व्यास उवाच ।
वैश्यस्तामप्युवाचेदं कृताञ्जलिपुटः शुचिः ।
न मे गृहेण कार्यं वै न पुत्रेण धनेन वा ॥ ३७॥
सर्वं बन्धकरं मातः स्वप्नवन्नश्वरं स्फुटम् ।
ज्ञानं मे देहि विशदं मोक्षदं बन्धनाशनम् ॥ ३८॥
असारेऽस्मिंश्च संसारे मूढा मज्जन्ति पामराः ।
पण्डिताः सन्तरन्तीह तस्मान्नेच्छन्ति संसृतिम् ॥ ३९॥
व्यास उवाच ।
तदाकर्ण्य महामाया वैश्यं प्राह पुरःस्थितम् ।
वैश्यवर्य तव ज्ञानं भविष्यति न संशयः ॥ ४०॥
इति दत्त्वा वरं ताभ्यां तत्रैवान्तरधीयत ।
अदर्शनं गतायां तु राजा तं मुनिसत्तमम् ॥ ४१॥
प्रणम्य हयमारुह्य गमनाय मनो दधे ।
तदैव तस्य सचिवास्तत्रागत्य नृपं प्रजाः ॥ ४२॥
प्रणेमुर्विनयोपेतास्तमूचुः प्राञ्जलिस्थिताः ।
राजंस्ते शत्रवः सर्वे पापाच्च निहता रणे ॥ ४३॥
राज्यं निष्कण्टकं भूप कुरुष्व पुरमास्थितः ।
तच्छ्रुत्वा वचनं राजा नत्वा तं मुनिसत्तमम् ॥ ४४॥
आपूच्छ्य निर्ययौ तत्र मन्त्रिभिः परिवारितः ।
सम्प्राप्य च निजं राज्यं दारान्स्वजनबान्धवान् ॥ ४५॥
बुभुजे पृथिवीं सर्वां ततः सागरमेखलाम् ।
वैश्योऽपि ज्ञानमासाद्य मुक्तसङ्गः समन्ततः ॥ ४६॥
कालातिवाहनं तत्र मुक्तबन्धश्चकार ह ।
तीर्थेषु विचरन्गायन्भगवत्या गुणानथ ॥ ४७॥
एतत्ते कथितं देव्याश्चरितं परमाद्भुतम् ।
आराधनफलप्राप्तिर्यथावद्भूपवैश्ययोः ॥ ४८॥
दैत्यानां हननं प्रोक्तं प्रादुर्भावस्तथा शुभः ।
एवम्प्रभावा सा देवी भक्तानामभयप्रदा ॥ ४९॥
यः शृणोति नरो नित्यमेतदाख्यानमुत्तमम् ।
सम्प्राप्नोति नरः सत्यं संसारसुखमद्भुतम् ॥ ५०॥
ज्ञानदं मोक्षदं चैव कीर्तिदं सुखदं तथा ।
पावनं श्रवणान्नूनमेतदाख्यानमद्भुतम् ॥ ५१॥
अखिलार्थप्रदं न्नॄणां सर्वधर्मसमावृतम् ।
धर्मार्थकाममोक्षाणां कारणं परमं मतम् ॥ ५२॥
सूत उवाच ।
जनमेजयेन राज्ञासौ पृष्टः सत्यवतीसुतः ।
उवाच संहितां दिव्यां व्यासः सर्वार्थतत्त्ववित् ॥ ५३॥
चरितं चण्डिकायास्तु शुम्भदैत्यवधाश्रितम् ।
कथयामास भगवान्कृष्णः कारुणिको मुनिः ।
इति वः कथितः सारः पुराणानां मुनीश्वराः ॥ ५४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां
संहितायां पञ्चमस्कन्धे सुरथराजसमाधिवैश्ययोर्देवी-
भक्त्येष्टप्राप्तिवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ५.३५॥
॥ इति श्रीमद्देवीभागवते महापुराणे पञ्चमस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide