२ श्रीमद्देवीभागवतमहापुराणे द्वितीयः स्कन्धः
२.१ प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।
सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १॥
माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च ।
विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ २॥
तस्याः पुत्रः कथं व्यासः सती स्वभवने स्थिता ।
ईदृशी सा कथं राज्ञा पुनः शन्तनुना वृता ॥ ३॥
तस्यां पुत्रावुभौ जातौ तत्त्वं कथय सुव्रत ।
विस्तरेण महाभाग कथां परमपावनीम् ॥ ४॥
उत्पत्तिं वद व्यासस्य सत्यवत्यास्तथा पुनः ।
श्रोतुकामाः पुनः सर्वे ऋषयः संशितव्रताः ॥ ५॥
सूत उवाच ।
प्रणम्य परमां शक्तिं चतुर्वर्गप्रदायिनीम् ।
आदिशक्तिं वदिष्यामि कथां पौराणिकीं शुभाम् ॥ ६॥
यस्योच्चारणमात्रेण सिद्धिर्भवति शाश्वती ।
व्याजेनापि हि बीजस्य वाग्भवस्य विशेषतः ॥ ७॥
सम्यक् सर्वात्मना सर्वैः सर्वकामार्थसिद्धये ।
स्मर्तव्या सर्वथा देवी वाञ्छितार्थप्रदायिनी ॥ ८॥
राजोपरिचरो नाम धार्मिकः सत्यसङ्गरः ।
चेदिदेशपतिः श्रीमान् बभूव द्विजपूजकः ॥ ९॥
तपसा तस्य तुष्टेन विमानं स्फाटिकं शुभम् ।
दत्तमिन्द्रेण तत्तस्मै सुन्दरं प्रियकाम्यया ॥ १०॥
तेनारूढस्तु सर्वत्र याति दिव्येन भूपतिः ।
न भूमावुपरिस्थोऽसौ तेनोपरिचरो वसुः ॥ ११॥
विख्यातः सर्वलोकेषु धर्मनित्यः स भूपतिः ।
तस्य भार्या वरारोहा गिरिका नाम सुन्दरी ॥ १२॥
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ।
पृथग्देशेषु राजानः स्थापितास्तेन भूभुजा ॥ १३॥
वसोस्तु पत्नी गिरिका कामान् काले न्यवेदयत् ।
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ॥ १४॥
तदहः पितरश्चैनमूचुर्जहि मृगानिति ।
तच्छ्रुत्वा चिन्तयामास भार्यामृतुमतीं तथा ॥ १५॥
पितृवाक्यं गुरुं मत्वा कर्तव्यमिति निश्चितम् ।
चचार मृगयां राजा गिरिकां मनसा स्मरन् ॥ १६॥
वने स्थितः स राजर्षिश्चित्ते सस्मार भामिनीम् ।
अतीव रूपसम्पन्नां साक्षाच्छ्रियमिवापराम् ॥ १७॥
तस्य रेतः प्रचस्कन्द स्मरतस्तां च कामिनीम् ।
वटपत्रे तु तद्राजा स्कन्नमात्रं समाक्षिपत् ॥ १८॥
इदं वृथा परिस्कन्नं रेतो वै न भवेत्कथम् ।
ऋतुकालं च विज्ञाय मतिं चक्रे नृपस्तदा ॥ १९॥
अमोघं सर्वथा वीर्यं मम चैतन्न संशयः ।
प्रियायै प्रेषयाम्येतदिति बुद्धिमकल्पयत् ॥ २०॥
शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।
अभिमन्त्र्याथ तद्वीर्यं वटपर्णपुटे कृतम् ॥ २१॥
पार्श्वस्थं श्येनमाभाष्य राजोवाच द्विजं प्रति ।
गृहाणेदं महाभाग गच्छ शीघ्रं गृहं मम ॥ २२॥
मत्प्रियार्थमिदं सौम्य गृहीत्वा त्वं गृहं नय ।
गिरिकायै प्रयच्छाशु तस्यास्त्वार्तवमद्य वै ॥ २३॥
सूत उवाच ।
इत्युक्त्वा प्रददौ पर्णं श्येनाय नृपसत्तमः ।
स गृहीत्वोत्पपाताशु गगनं गतिवित्तमः ॥ २४॥
गच्छन्तं गगनं श्येनं धृत्वा चञ्चुपुटे पुटम् ।
तमपश्यदथायान्तं खगं श्येनस्तथापरः ॥ २५॥
आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत्खगम् ।
तुण्डयुद्धमथाकाशे तावुभौ सम्प्रचक्रतुः ॥ २६॥
युद्ध्यतोरपतद्रेतस्तज्जापि यमुनाम्भसि ।
खगौ तौ निर्गतौ कामं पुटके पतिते तदा ॥ २७॥
एतस्मिन्समये काचिदद्रिका नाम चाप्सराः ।
ब्राह्मणं समनुप्राप्तं सन्ध्यावन्दनतत्परम् ॥ २८॥
कुर्वन्ती जलकेलिं सा जले मग्ना चचार सा ।
जग्राह चरणं नारी द्विजस्य वरवर्णिनी ॥ २९॥
प्राणायामपरः सोऽथ दृष्ट्वा तां कामचारिणीम् ।
शशाप भव मत्स्यी त्वं ध्यानविघ्नकरी यतः ॥ ३०॥
सा शप्ता विप्रमुख्येन बभूव यमुनाचरी ।
शफरी रूपसम्पन्ना ह्यद्रिका च वराप्सराः ॥ ३१॥
श्येनपादपरिभ्रष्टं तच्छुक्रमथ वासवी ।
जग्राह तरसाभ्येत्य साद्रिका मत्स्यरूपिणी ॥ ३२॥
अथ कालेन कियता मत्स्यीं तां मत्स्यजीवनः ।
सम्प्राप्ते दशमे मासि बबन्ध तां मनोरमाम् ॥ ३३॥
उदरं विददाराशु स तस्या मत्स्यजीवनः ।
युग्मं विनिःसृतं तस्मादुदरान्मानुषाकृति ॥ ३४॥
बालः कुमारः सुभगस्तथा कन्या शुभानना ।
दृष्ट्वाश्चर्यमिदं सोऽथ विस्मयं परमं गतः ॥ ३५॥
राज्ञे निवेदयामास पुत्रौ द्वौ तु झषोद्भवौ ।
राजापि विस्मयाविष्टः सुतं जग्राह तं शुभम् ॥ ३६॥
स मत्स्यो नाम राजासौ धार्मिकः सत्यसङ्गरः ।
वसुपुत्रो महातेजाः पित्रा तुल्यपराक्रमः ॥ ३७॥
कालिका वसुना दत्ता तरसा जलजीविने ।
नाम्ना कालीति विख्याता तथा मत्स्योदरीति च ॥ ३८॥
मत्स्यगन्धेति नाम्ना वै गणेन समजायत ।
विवर्धमाना दाशस्य गृहे सा वासवी शुभा ॥ ३९॥
ऋषय ऊचुः ।
अद्रिका मुनिना शप्ता मत्स्यी जाता वराप्सराः ।
विदारिता च दाशेन मृता च भक्षिता पुनः ॥ ४०॥
किं बभूव पुनस्तस्या अप्सराया वदस्व तत् ।
शापस्यान्तं कथं सूत कथं स्वर्गमवाप सा ॥ ४१॥
सूत उवाच ।
शप्ता यदा सा मुनिना विस्मिता सम्बभूव ह ।
स्तुतिं चकार विप्रस्य दीनेव रुदती तदा ॥ ४२॥
दयावान्ब्राह्मणः प्राह तां तदा रुदतीं स्त्रियम् ।
मा शोकं कुरु कल्याणि शापान्तं ते वदाम्यहम् ॥ ४३॥
मत्क्रोधशापयोगेन मत्स्ययोनिं गता शुभे ।
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ ४४॥
इत्युक्ता तेन सा प्राप मत्स्यदेहं नदीजले ।
बालकौ जनयित्वा सा मृता मुक्ता च शापतः ॥ ४५॥
सन्त्यज्य रूपं मत्स्यस्य दिव्यरूपमवाप्य च ।
जगामामरमार्गं च शापान्ते वरवर्णिनी ॥ ४६॥
एवं जाता वरा पुत्री मत्स्यगन्धा वरानना ।
पुत्रीव पाल्यमाना सा दाशगेहे व्यवर्धत ॥ ४७॥
मत्स्यगन्धा तदा जाता किशोरी चातिसुप्रभा ।
तस्य कार्याणि कुर्वाणा वासवी चातिसुप्रभा ॥ ४८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे मस्त्यगन्धोत्पत्तिवर्णनं नाम प्रथमोऽध्यायः ॥ २.१॥
२.२ द्वितीयोऽध्यायः । व्यासजन्मवर्णनम् ।
सूत उवाच ।
एकदा तीर्थयात्रायां व्रजन् पाराशरो मुनिः ।
आजगाम महातेजाः कालिन्द्यास्तटमुत्तमम् ॥ १॥
निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा ।
प्रापयस्व परं पारं कालिन्द्या उडुपेन माम् ॥ २॥
दाशः श्रुत्वा मुनेर्वाक्यं कुर्वाणो भोजनं तटे ।
उवाच तां सुतां बालां मत्स्यगन्धां मनोरमाम् ॥ ३॥
उडुपेन मुनिं बाले परं पारं नयस्व ह ।
गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्मिते ॥ ४॥
इत्युक्ता सा तदा पित्रा मत्स्यगन्धाथ वासवी ।
उडुपे मुनिमासीनं संवाहयति भामिनी ॥ ५॥
व्रजन् सूर्यसुतातोये भावित्वाद्दैवयोगतः ।
कामार्तस्तु मुनिर्जातो दृष्ट्वा तां चारुलोचनाम् ॥ ६॥
ग्रहीतुकामः स मुनिर्दृष्ट्वा व्यञ्जितयौवनाम् ।
दक्षिणेन करेणैनामस्पृशद्दक्षिणे करे ॥ ७॥
तमुवाचासितापाङ्गी स्मितपूर्वमिदं वचः ।
कुलस्य सदृशं वः किं श्रुतस्य तपसश्च किम् ॥ ८॥
त्वं वै वसिष्ठदायादः कुलशीलसमन्वितः ।
किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः ॥ ९॥
दुर्लभं मानुषं जन्म भुवि ब्राह्मणसत्तम ।
तत्रापि दुर्लभं मन्ये ब्राह्मणत्वं विशेषतः ॥ १०॥
कुलेन शीलेन तथा श्रुतेन
द्विजोत्तमस्त्वं किल धर्मविच्च ।
अनार्यभावं कथमागतोऽसि
विप्रेन्द्र मां वीक्ष्य च मीनगन्धाम् ॥ ११॥
मदीये शरीरे द्विजामोघबुद्धे ॥
शुभं किं समालोक्य पाणिं ग्रहीतुम् ।
समीपं समायासि कामातुरस्त्वं
कथं नाभिजानासि धर्मं स्वकीयम् ॥ १२॥
अहो मन्दबुद्धिर्द्विजोऽयं ग्रहीष्य-
ञ्जले मग्न एवाद्य मां वै गृहीत्वा ।
मनो व्याकुलं पञ्चबाणातिविद्धं
न कोऽपीह शक्तः प्रतीपं हि कर्तुम् ॥ १३॥
इति सञ्चिन्त्य सा बाला तमुवाच महामुनिम् ।
धैर्यं कुरु महाभाग परं पारं नयामि वै ॥ १४॥
सूत उवाच ।
पराशरस्तु तच्छ्रुत्वा वचनं हितपूर्वकम् ।
करं त्यक्त्वा स्थितस्तत्र सिन्धोः पारं गतः पुनः ॥ १५॥
मत्स्यगन्धां प्रजग्राह मुनिः कामातुरस्तदा ।
वेपमाना तु सा कन्या तमुवाच पुरःस्थितम् ॥ १६॥
दुर्गन्धाहं मुनिश्रेष्ठ कथं त्वं नोपशङ्कसे ।
समानरूपयोः कामसंयोगस्तु सुखावहः ॥ १७॥
इत्युक्तेन तु सा कन्या क्षणमात्रेण भामिनी ।
कृता योजनगन्धा तु सुरूपा च वरानना ॥ १८॥
मृगनाभिसुगन्धां तां कृत्वा कान्तां मनोहराम् ।
जग्राह दक्षिणे पाणौ मुनिर्मन्मथपीडितः ॥ १९॥
ग्रहीतुकामं तं प्राह नाम्ना सत्यवती शुभा ।
मुने पश्यति लोकोऽयं पिता चैव तटस्थितः ॥ २०॥
पशुधर्मो न मे प्रीतिं जनयत्यतिदारुणः ।
प्रतीक्षस्व मुनिश्रेष्ठ यावद्भवति यामिनी ॥ २१॥
रात्रौ व्यवाय उद्दिष्टो दिवा न मनुजस्य हि ।
दिवासङ्गे महान् दोषः पश्यन्ति किल मानवाः ॥ २२॥
कामं यच्छ महाबुद्धे लोकनिन्दा दुरासदा ।
तच्छ्रुत्वा वचनं तस्या युक्तमुक्तमुदारधीः ॥ २३॥
नीहारं कल्पयामास शीघ्रं पुण्यबलेन वै ।
नीहारे च समुत्पन्ने तटेऽतितमसा युते ॥ २४॥
कामिनी तं मुनिं प्राह मृदुपूर्वमिदं वचः ।
कन्याहं द्विजशार्दूल भुक्त्वा गन्तासि कामतः ॥ २५॥
अमोघवीर्यस्त्वं ब्रह्मन् का गतिर्मे भवेदिति ।
पितरं किं ब्रवीम्यद्य सगर्भा चेद्भवाम्यहम् ॥ २६॥
त्वं गमिष्यसि भुक्त्वा मां किं करोमि वदस्व तत् ।
पराशर उवाच ।
कान्तेऽद्य मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ २७॥
वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि ।
सत्यवत्युवाच ।
यथा मे पितरौ लोके न जानीतो हि मानद ॥ २८॥
कन्याव्रतं न मे हन्यात्तथा कुरु द्विजोत्तम ।
पुत्रश्च त्वत्समः कामं भवेदद्भुतवीर्यवान् ॥ २९॥
गन्धोऽयं सर्वदा मे स्याद्यौवनं च नवं नवम् ।
पराशर उवाच ।
शृणु सुन्दरि पुत्रस्ते विष्ण्वंशसम्भवः शुचिः ॥ ३०॥
भविष्यति च विख्यातस्त्रैलोक्ये वरवर्णिनि ।
केनचित्कारणेनाहं जातः कामातुरस्त्वयि ॥ ३१॥
कदापि च न सम्मोहो भूतपूर्वो वरानने ।
दृष्ट्वा चाप्सरसां रूपं सदाहं धैर्यमावहम् ॥ ३२॥
दैवयोगेन वीक्ष्य त्वां कामस्य वशगोऽभवम् ।
तत्किञ्चित्कारणं विद्धि दैवं हि दुरतिक्रमम् ॥ ३३॥
दृष्ट्वाहं चातिदुर्गन्धां त्वां कथं मोहमाप्नुयाम् ।
पुराणकर्ता पुत्रस्ते भविष्यति वरानने ॥ ३४॥
वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये ।
सूत उवाच ।
इत्युक्त्वा तां वशं यातां भुक्त्वा स मुनिसत्तमः ॥ ३५॥
जगाम तरसा स्नात्वा कालिन्दीसलिले मुनिः ।
सापि सत्यवती जाता सद्यो गर्भवती सती ॥ ३६॥
सुषुवे यमुनाद्वीपे पुत्रं काममिवापरम् ।
जातमात्रस्तु तेजस्वी तामुवाच स्वमातरम् ॥ ३७॥
तपस्येव मनः कृत्वा विविशे चातिवीर्यवान् ।
गच्छ मातर्यथाकामं गच्छाम्यहमतः परम् ॥ ३८॥
तपः कर्तुं महाभागे दर्शयिष्यामि वै स्मृतः ।
मातर्यदा भवेत्कार्यं तव किञ्चिदनुत्तमम् ॥ ३९॥
स्मर्तव्योऽहं तदा शीघ्रमागमिष्यामि भामिनि ।
स्वस्ति तेऽस्तु गमिष्यामि त्यक्त्वा चिन्तां सुखं वस ॥ ४०॥
इत्युक्त्वा निर्ययौ व्यासः सापि पित्रन्तिकं गता ।
द्वीपे न्यस्तस्तया बालस्तस्माद्द्वैपायनोऽभवत् ॥ ४१॥
जातमात्रो जगामाशु वृद्धिं विष्ण्वंशयोगतः ।
तीर्थे तीर्थे कृतस्तानश्चचार तप उत्तमम् ॥ ४२॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
चकार वेदशाखाश्च प्राप्तं ज्ञात्वा कलेर्युगम् ॥ ४३॥
वेदविस्तारकरणाद्व्यासनामाभवन्मुनिः ।
पुराणसंहिताश्चक्रे महाभारतमुत्तमम् ॥ ४४॥
शिष्यानध्यापयामास वेदान्कृत्वा विभागशः ।
सुमन्तुं जैमिनिं पैलं वैशम्पायनमेव च ॥ ४५॥
असितं देवलं चैव शुकं चैव स्वमात्मजम् ।
सूत उवाच ।
एतच्च कथितं सर्वं कारणं मुनिसत्तमाः ॥ ४६॥
सत्यवत्याः सुतस्यापि समुत्पत्तिस्तथा शुभा ।
संशयोऽत्र न कर्तव्यः सम्भवे मुनिसत्तमाः ॥ ४७॥
महतां चरिते चैव गुणा ग्राह्या मुनेरिति ।
कारणाच्च समुत्पत्तिः सत्यवत्या झषोदरे ॥ ४८॥
पराशरेण संयोगः पुनः शन्तनुना तथा ।
अन्यथा तु मुनेश्चित्तं कथं कामाकुलं भवेत् ॥ ४९॥
अनार्यजुष्टं धर्मज्ञः कृतवान्स कथं मुनिः ।
सकारणेयमुत्पत्तिः कथिताश्चर्यकारिणी ॥ ५०॥
श्रुत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा ।
य एतच्छुभमाख्यानं शृणोति श्रुतिमान्नरः ॥ ५१॥
न दुर्गतिमवाप्नोति सुखी भवति सर्वदा ॥ ५२॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे व्यासजन्मवर्णनं नाम द्वितीयोऽध्यायः ॥ २.२॥
२.३ तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।
ऋषय ऊचुः ।
उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः ।
सत्यवत्यास्तथा सूत विस्तरेण त्वयानघ ॥ १॥
तथाप्येकस्तु सन्देहश्चित्तेऽस्माकं तु संस्थितः ।
न निवर्तति धर्मज्ञ कथितेन त्वयानघ ॥ २॥
माता व्यासस्य या प्रोक्ता नाम्ना सत्यवती शुभा ।
सा कथं नृपतिं प्राप्ता शन्तनुं धर्मवित्तमम् ॥ ३॥
निषादपुत्रीं स कथं धृतवान्नृपतिः स्वयम् ।
धर्मिष्ठः पौरवो राजा कुलहीनामसंवृताम् ॥ ४॥
शन्तनोः प्रथमा पत्नी का ह्यभूत्कथयाधुना ।
भीष्मः पुत्रोऽथ मेधावी वसोरंशः कथं पुनः ॥ ५॥
त्वया प्रोक्तं पुरा सूत राजा चित्राङ्गदः कृतः ।
सत्यवत्याः सुतो वीरो भीष्मेणामिततेजसा ॥ ६॥
चित्राङ्गदे हते वीरे कृतस्तदनुजस्तथा ।
विचित्रवीर्यनामासौ सत्यवत्याः सुतो नृपः ॥ ७॥
ज्येष्ठे भीष्मे स्थिते पूर्वं धर्मिष्ठे रूपवत्यपि ।
कृतवान्स कथं राज्यं स्थापितस्तेन जानता ॥ ८॥
मृते विचित्रवीर्ये तु सत्यवत्यतिदुःखिता ।
वधूभ्यां गोलकौ पुत्रौ जनयामास सा कथम् ॥ ९॥
कथं राज्यं न भीष्माय ददौ सा वरवर्णिनी ।
न कृतस्तु कथं तेन वीरेण दारसङ्ग्रहः ॥ १०॥
अधर्मस्तु कृतः कस्माद्व्यासेनामिततेजसा ।
ज्येष्ठेन भ्रातृभार्यायां पुत्रावुत्पादिताविति ॥ ११॥
पुराणकर्ता धर्मात्मा स कथं कृतवान्मुनिः ।
सेवनं परदाराणां भ्रातुश्चैव विशेषतः ॥ १२॥
जुगुप्सितमिदं कर्म स कथं कृतवान्मुनिः ।
शिष्टाचारः कथं सूत वेदानुमितिकारकः ॥ १३॥
व्यासशिष्योऽसि मेधाविन् सन्देहं छेत्तुमर्हसि ।
श्रोतुकामा वयं सर्वे धर्मक्षेत्रे कृतक्षणाः ॥ १४॥
सूत उवाच ।
इक्ष्वाकुवंशप्रभवो महाभिष इति स्मृतः ।
सत्यवान्धर्मशीलश्च चक्रवर्ती नृपोत्तमः ॥ १५॥
अश्वमेधसहस्रेण वाजपेयशतेन च ।
तोषयामास देवेन्द्रं स्वर्गं प्राप महामतिः ॥ १६॥
एकदा ब्रह्मसदनं गतो राजा महाभिषः ।
सुराः सर्वे समाजग्मुः सेवनार्थं प्रजापतिम् ॥ १७॥
गङ्गा महानदी तत्र संस्थिता सेवितुं विभुम् ।
तस्या वासः समुद्धूतं मारुतेन तरस्विना ॥ १८॥
अधोमुखाः सुराः सर्वे न विलोक्यैव तां स्थिताः ।
राजा महाभिषस्तां तु निःशङ्कः समपश्यत ॥ १९॥
सापि तं प्रेमसंयुक्तं नृपं ज्ञातवती नदी ।
दृष्ट्वा तौ प्रेमसंयुक्तौ निर्लज्जौ काममोहितौ ॥ २०॥
ब्रह्मा चुकोप तौ तूर्णं शशाप च रुषान्वितः ।
मर्त्यलोकेषु भूपाल जन्म प्राप्य पुनर्दिवम् ॥ २१॥
पुण्येन महताविष्टस्त्वमवाप्स्यसि सर्वथा ।
गङ्गां तथोक्तवान्ब्रह्मा वीक्ष्य प्रेमवतीं नृपे ॥ २२॥
विमनस्कौ तु तौ तूर्णं निःसृतौ ब्रह्मणोऽन्तिकात् ।
स नृपांश्चिन्तयित्वाथ भूर्लोके धर्मतत्परान् ॥ २३॥
प्रतीपं चिन्तयामास पितरं पुरुवंशजम् ।
एतस्मिन्समये चाष्टौ वसवः स्त्रीसमन्विताः ॥ २४॥
वसिष्ठस्याश्रमं प्राप्ता रममाणा यदृच्छया ।
पृथ्वादीनां वसूनां च मध्ये कोऽपि वसूत्तमः ॥ २५॥
द्यौर्नामा तस्य भार्याथ नन्दिनीं गां ददर्श ह ।
दृष्ट्वा पतिं सा पप्रच्छ कस्येयं धेनुरुत्तमा ॥ २६॥
द्यौस्तामाह वसिष्ठस्य गौरियं शृणु सुन्दरि ।
दुग्धमस्याः पिबेद्यस्तु नारी वा पुरुषोऽथ वा ॥ २७॥
अयुतायुर्भवेन्नूनं सदैवागतयौवनः ।
तच्छ्रुत्वा सुन्दरी प्राह मृत्युलोकेऽस्ति मे सखी ॥ २८॥
उशीनरस्य राजर्षेः पुत्री परमशोभना ।
तस्या हेतोर्महाभाग सवत्सां गां पयस्विनीम् ॥ २९॥
आनयस्वाश्रमं श्रेष्ठं नन्दिनीं कामदां शुभाम् ।
यावदस्याः पयः पीत्वा सखी मम सदैव हि ॥ ३०॥
मानुषेषु भवेदेका जरारोगविवर्जिता ।
तच्छ्रुत्वा वचनं तस्या द्यौर्जहार च नन्दिनीम् ॥ ३१॥
अवमन्य मुनिं दान्तं पृथ्वाद्यैः सहितोऽनघः ।
हृतायामथ नन्दिन्यां वसिष्ठस्तु महातपाः ॥ ३२॥
आजगामाश्रमपदं फलान्यादाय सत्वरः ।
नापश्यत यदा धेनुं सवत्सां स्वाश्रमे मुनिः ॥ ३३॥
मृगयामास तेजस्वी गह्वरेषु वनेष्वपि ।
नासादिता यदा धेनुश्चुकोपातिशयं मुनिः ॥ ३४॥
वारुणिश्चापि विज्ञाय ध्यानेन वसुभिर्हृताम् ।
वसुभिर्मे हृता धेनुर्यस्मान्मामवमन्य वै ॥ ३५॥
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ।
एवं शशाप धर्मात्मा वसूंस्तान्वारुणिः स्वयम् ॥ ३६॥
श्रुत्वा विमनसः सर्वे प्रययुर्दुःखिताश्च ते ।
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥ ३७॥
प्रसादयन्तस्तमृषिं वसवः शरणं गताः ।
मुनिस्तानाह धर्मात्मा वसून्दीनान्पुरःस्थितान् ॥ ३८॥
अनुसंवत्सरं सर्वे शापमोक्षमवाप्स्यथ ।
येनेयं विहृता धेनुर्नन्दिनी मम वत्सला ॥ ३९॥
तस्माद्द्यौर्मानुषे देहे दीर्घकालं वसिष्यति ।
ते शप्ताः पथि गच्छन्तीं गङ्गां दृष्ट्वा सरिद्वराम् ॥ ४०॥
ऊचुस्तां प्रणताः सर्वे शप्तां चिन्तातुरां नदीम् ।
भविष्यामो वयं देवि कथं देवाः सुधाशनाः ॥ ४१॥
मानुषाणां च जठरे चिन्तेय महती हि नः ।
तस्मात्त्वं मानुषी भूत्वा जनयास्मान्सरिद्वरे ॥ ४२॥
शन्तनुर्नाम राजर्षिस्तस्य भार्या भवानघे ।
जाताञ्जाताञ्जले चास्मान्निक्षिपस्व सुरापगे ॥ ४३॥
एवं शापविनिर्मोक्षो भविता नात्र संशयः ।
तथेत्युक्ताश्च ते सर्वे जग्मुर्लोकं स्वकं पुनः ॥ ४४॥
गङ्गापि निर्गता देवी चिन्त्यमाना पुनः पुनः ।
महाभिषो नृपो जातः प्रतीपस्य सुतस्तदा ॥ ४५॥
शन्तनुर्नाम राजर्षिर्धर्मात्मा सत्यसङ्गरः ।
प्रतीपस्तु स्तुतिं चक्रे सूर्यस्यामिततेजसः ॥ ४६॥
तदा च सलिलात्तस्मान्निःसृता वरवर्णिनी ।
दक्षिणं शालसङ्काशमूरुं भेजे शूभानना ॥ ४७॥
अङ्के स्थितां स्त्रियं चाह मा पृष्ट्वा किं वरानने ।
ममोरावास्थितासि त्वं किमर्थं दक्षिणे शुभे ॥ ४८॥
सा तमाह वरारोहा यदर्थं राजसत्तम ।
स्थितात्म्यङ्के कुरुश्रेष्ठ कामयानां भजस्व माम् ॥ ४९॥
तामवोचदथो राजा रूपयौवनशालिनीम् ।
नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनीम् ॥ ५०॥
स्थिता दक्षिणमूरुं मे त्वमाश्लिष्य च भामिनि ।
अपत्यानां स्नुषाणां च स्थानं विद्धि शुचिस्मिते ॥ ५१॥
स्नुषा मे भव कल्याणि जाते पुत्रेऽतिवाञ्छिते ।
भविष्यति च मे पुत्रस्तव पुण्यान्न संशयः ॥ ५२॥
तथेत्युक्त्वा गता सा वै कामिनी दिव्यदर्शना ।
राजा चापि गृहं प्राप्तश्चिन्तयंस्तां स्त्रियं पुनः ॥ ५३॥
ततः कालेन कियता जाते पुत्रे वयस्विनि ।
वनं जिगमिषू राजा पुत्रं वृत्तान्तमूचिवान् ॥ ५४॥
वृत्तान्तं कथयित्वा तु पुनरूचे निजं सुतम् ।
यदि प्रयाति सा बाला त्वां वने चारुहासिनी ॥ ५५॥
कामयाना वरारोहा तां भजेथा मनोरमाम् ।
न प्रष्टव्या त्वया कासि मन्नियोगान्नराधिप ॥ ५६॥
धर्मपत्नीं च तां कृत्वा भविता त्वं सुखी किल ।
सूत उवाच ।
एवं सन्दिश्य तं पुत्रं भूपतिः प्रीतमानसः ॥ ५७॥
दत्त्वा राज्यश्रियं सर्वां वनं राजा विवेश ह ।
तत्रापि च तपस्तप्त्वा समाराध्य पराम्बिकाम् ॥ ५८॥
जगाम स्वर्गं राजासौ देहं त्यक्त्वा स्वतेजसा ।
राज्यं प्राप महातेजाः शन्तनुः सार्वभौमिकम् ॥ ५९॥
प्रजां वै पालयामास धर्मदण्डो महीपतिः ॥ ६०॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे
प्रतीपसकाशाच्छन्तनुजन्मवर्णनं नाम तृतीयोऽध्यायः ॥ २.३॥
२.४ चतुर्थोऽध्यायः । देवव्रतोत्पतिवर्णनम् ।
सूत उवाच ।
प्रतीपेऽथ दिवं याते शन्तनुः सत्यविक्रमः ।
बभूव मृगयाशीलो निघ्नन्व्याघ्रान्मृगान्नृपः ॥ १॥
स कदाचिद्वने घोरे गङ्गातीरे चरन्नृपः ।
ददर्श मृगशावाक्षीं सुन्दरीं चारुभूषणाम् ॥ २॥
दृष्ट्वा तां नृपतिर्मग्नः पित्रोक्तेयं वरानना ।
रूपयौवनसम्पन्ना साक्षाल्लक्ष्मीरिवापरा ॥ ३॥
पिबन्मुखाम्बुजं तस्या न तृप्तिमगमन्नृपः ।
हृष्टरोमाभवत्तत्र व्याप्तचित्त इवानघ ॥ ४॥
महाभिषं सापि मत्वा प्रेमयुक्ता बभूव ह ।
किञ्चिन्मन्दस्मितं कृत्वा तस्थावग्रे नृपस्य च ॥ ५॥
वीक्ष्य तामसितापाङ्गीं राजा प्रीतमना भृशम् ।
उवाच मधुरं वाक्यं सान्त्वयन् श्लक्ष्णया गिरा ॥ ६॥
देवी वा त्वं च वामोरु मानुषी वा वरानने ।
गन्धर्वी वाथ यक्षी वा नागकन्याप्सरापि वा ॥ ७॥
यासि कासि वरारोहे भार्या मे भव सुन्दरि ।
प्रेमयुक्तस्मितैव त्वं धर्मपत्नी भवाद्य मे ॥ ८॥
सूत उवाच ।
राजा तां नाभिजानाति गङ्गेयमिति निश्चितम् ।
महाभिषं समुत्पन्नं नृपं जानाति जाह्नवी ॥ ९॥
पूर्वप्रेमसमायोगाच्छ्रुत्वा वाचं नृपस्य ताम् ।
उवाच नारी राजानं स्मितपूर्वमिदं वचः ॥ १०॥
स्त्र्युवाच ।
जानामि त्वां नृपश्रेष्ठ प्रतीपतनयं शुभम् ।
का न वाञ्छति चार्वङ्गी भावित्वात्सदृशं पतिम् ॥ ११॥
वाग्बन्धेन नृपश्रेष्ठ वरिष्यामि पतिं किल ।
शृणु मे समयं राजन् वृणोमि त्वां नृपोत्तम ॥ १२॥
यच्च कुर्यामहं कार्यं शुभं वा यदि वाशुभम् ।
न निषेध्या त्वया राजन्न वक्तव्यं तथाप्रियम् ॥ १३॥
यदा च त्वं नृपश्रेष्ठ न करिष्यसि मे वचः ।
तदा मुक्त्या गमिष्यामि यथेष्टदेशं मारिष ॥ १४॥
स्मृत्वा जन्म वसूनां सा प्रार्थनापूर्वकं हृदि ।
महाभिषस्य प्रेमाथ विचिन्त्यैव च जाह्नवी ॥ १५॥
तथेत्युक्ताथ सा देवी चकार नृपतिं पतिम् ।
एवं वृता नृपेणाथ गङ्गा मानुषरूपिणी ॥ १६॥
नृपस्य मन्दिरं प्राप्ता सुभगा वरवर्णिनी ।
नृपतिस्तां समासाद्य चिक्रीडोपवने शुभे ॥ १७॥
सापि तं रमयामास भावज्ञा वै वराङ्गना ।
न बुबोध नृपः क्रीडन्गतान्वर्षगणानथ ॥ १८॥
स तया मृगशावाक्ष्या शच्या शतक्रतुर्यथा ।
सा सर्वगुणसम्पन्ना सोऽपि कामविचक्षणः ॥ १९॥
रेमाते मन्दिरे दिव्ये रमानारायणाविव ।
एवं गच्छति काले सा दधार नृपतेस्तदा ॥ २०॥
गर्भं गङ्गा वसुं पुत्रं सुषुवे चारुलोचना ।
जातमात्रं सुतं वारि चिक्षेपैवं द्वितीयके ॥ २१॥
तृतीयेऽथ चतुर्थेऽथ पञ्चमे षष्ठ एव च ।
सप्तमे वा हते पुत्रे राजा चिन्तापरोऽभवत् ॥ २२॥
किं करोम्यद्य वंशो मे कथं स्यात्सुस्थिरो भुवि ।
सप्त पुत्रा हता नूनमनया पापरूपया ॥ २३॥
निवारयामि यदि मां त्यक्त्वा यास्यति सर्वथा ।
अष्टमोऽयं सुसम्प्राप्तो गर्भो मे मनसीप्सितः ॥ २४॥
न वारयामि चेदद्य सर्वथेयं जले क्षिपेत् ।
भविता वा न वा चाग्रे संशयोऽयं ममाद्भुतः ॥ २५॥
सम्भवेऽपि च दृष्टेयं रक्षयेद्वा न रक्षयेत् ।
एवं संशयिते कार्ये किं कर्तव्यं मयाधुना ॥ २६॥
वंशस्य रक्षणार्थं हि यत्नः कार्यः परो मया ।
ततः काले यदा जातः पुत्रोऽयमष्टमो वसुः ॥ २७॥
मुनेर्येन हृता धेनुर्नन्दिनी स्त्रीजितेन हि ।
तं दृष्ट्वा नृपतिः पुत्रं तामुवाच पतन्पदे ॥ २८॥
दासोऽस्मि तव तन्वङ्गि प्रार्थयामि शुचिस्मिते ।
पुत्रमेकं पुषाम्येनं देहि जीवितमद्य मे ॥ २९॥
हिंसिताः सप्त पुत्रा मे करभोरु त्वया शुभाः ।
अष्टमं रक्ष सुश्रोणि पतामि तव पादयोः ॥ ३०॥
अन्यद्वै प्रार्थितं तेऽद्य ददाम्यथ च दुर्लभम् ।
वंशो मे रक्षणीयोऽद्य त्वया परमशोभने ॥ ३१॥
अपुत्रस्य गतिर्नास्ति स्वर्गे वेदविदो विदुः ।
तस्मादद्य वरारोहे प्रार्थयाम्यष्टमं सुतम् ॥ ३२॥
इत्युक्तापि गृहीत्वा तं यदा गन्तुं समुत्सुका ।
तदातिकुपितो राजा तामुवाचातिदुःखितः ॥ ३३॥
पापिष्ठे किं करोम्यद्य निरयान्न बिभेषि किम् ।
कासि पापकराणां त्वं पुत्री पापरता सदा ॥ ३४॥
यथेच्छं गच्छ वा तिष्ठ पुत्रो मे स्थीयतामिह ।
किं करोमि त्वया पापे वंशान्तकरयानया ॥ ३५॥
एवं वदति भूपाले सा गृहीत्वा सुतं शिशुम् ।
गच्छन्ती वचनं कोपसंयुता तमुवाच ह ॥ ३६॥
पुत्रकामा सुतं त्वेनं पालयामि वने गता ।
समयो मे गमिष्यामि वचनं ह्यन्यथाकृतम् ॥ ३७॥
गङ्गां मां वै विजानीहि देवकार्यार्थमागताम् ।
वसवस्तु पुरा शप्ता वसिष्ठेन महात्मना ॥ ३८॥
व्रजन्तु मानुषीं योनिं स्थितां चिन्तातुरास्तु माम् ।
दृष्ट्वेदं प्रार्थयामासुर्जननी नो भवानघे ॥ ३९॥
तेभ्यो दत्त्वा वरं जाता पत्नी ते नृपसत्तम ।
देवकार्यार्थसिद्ध्यर्थं जानीहि सम्भवो मम ॥ ४०॥
सप्त ते वसवः पुत्रा मुक्ताः शापादृषेस्तु ते ।
कियन्तं कालमेकोऽयं तव पुत्रो भविष्यति ॥ ४१॥
गङ्गादत्तमिमं पुत्रं गृहाण शन्तनो स्वयम् ।
वसुं देवं विदित्वैनं सुखं भुङ्क्ष्व सुतोद्भवम् ॥ ४२॥
गाङ्गेयोऽयं महाभाग भविष्यति बलाधिकः ।
अद्य तत्र नयाम्येनं यत्र त्वं वै मया वृतः ॥ ४३॥
दास्यामि यौवनप्राप्तं पालयित्वा महीपते ।
न मातृरहितः पुत्रो जीवेन्न च सुखी भवेत् ॥ ४४॥
इत्युक्त्वान्तर्दधे गङ्गा तं गृहीत्वा च बालकम् ।
राजा चातीव दुःखार्तः संस्थितो निजमन्दिरे ॥ ४५॥
भार्याविरहजं दुःखं तथा पुत्रस्य चाद्भुतम् ।
सर्वदा चिन्तयन्नास्ते राज्यं कुर्वन्महीपतिः ॥ ४६॥
एवं गच्छति कालेऽथ नृपतिर्मृगयां गतः ।
निघ्नन्मृगगणान्बाणैर्महिषान्सूकरानपि ॥ ४७॥
गङ्गातीरमनुप्राप्तः स राजा शन्तनुस्तदा ।
नदीं स्तोकजलां दृष्ट्वा विस्मितः स महीपतिः ॥ ४८॥
तत्रापश्यत्कुमारं तं मुञ्चन्तं विशिखान्बहून् ।
आकृष्य च महाचापं क्रीडन्तं सरितस्तटे ॥ ४९॥
तं वीक्ष्य विस्मितो राजा न स्म जानाति किञ्चन ।
नोपलेभे स्मृतिं भूपः पुत्रोऽयं मम वा न वा ॥ ५०॥
दृष्ट्वाप्यमानुषं कर्म बाणेषु लघुहस्तताम् ।
विद्यां वाप्रतिमां रूपं तस्य वै स्मरसन्निभम् ॥ ५१॥
पप्रच्छ विस्मितो राजा कस्य पुत्रोऽसि चानघ ।
नोवाच किञ्चिद्वीरोऽसौ मुञ्चञ्छिलीमुखानथ ॥ ५२॥
अन्तर्धानं गतः सोऽथ राजा चिन्तातुरोऽभवत् ।
कोऽयं मम सुतो बालः किं करोमि व्रजामि कम् ॥ ५३॥
गङ्गां तुष्टाव भूपालः स्थितस्तत्र समाहितः ।
दर्शनं सा ददौ चाथ चारुरूपा यथा पुरा ॥ ५४॥
दृष्ट्वा तां चारुसर्वाङ्गीं बभाषे नृपतिः स्वयम् ।
कोऽयं गङ्गे गतो बालो मम त्वं दर्शयाधुना ॥ ५५॥
गङ्गोवाच ।
पुत्रोऽयं तव राजेन्द्र रक्षितश्चाष्टमो वसुः ।
ददामि तव हस्ते तु गाङ्गेयोऽयं महातपाः ॥ ५६॥
कीर्तिकर्ता कुलस्यास्य भविता तव सुव्रत ।
पाठितस्त्वखिलान्वेदान्धनुर्वेदं च शाश्वतम् ॥ ५७॥
वसिष्ठस्याश्रमे दिव्ये संस्थितोऽयं सुतस्तव ।
सर्वविद्याविधानज्ञः सर्वार्थकुशलः शुचिः ॥ ५८॥
यद्वेद जामदग्न्योऽसौ तद्वेदायं सुतस्तव ।
गृहाण गच्छ राजेन्द्र सुखी भव नराधिप ॥ ५९॥
इत्युक्त्वान्तर्दधे गङ्गा दत्त्वा पुत्रं नृपाय वै ।
नृपतिस्तु मुदा युक्तो बभूवातिसुखान्वितः ॥ ६०॥
समालिङ्ग्य सुतं राजा समाघ्राय च मस्तकम् ।
समारोप्य रथे पुत्रं स्वपुरं स प्रचक्रमे ॥ ६१॥
गत्वा गजाह्वयं राजा चकारोत्सवमुत्तमम् ।
दैवज्ञं च समाहूय पप्रच्छ च शुभं दिनम् ॥ ६२॥
समाहृत्य प्रजाः सर्वाः सचिवान्सर्वशः शुभान् ।
यौवराज्येऽथ गाङ्गेयं स्थापयामास पार्थिवः ॥ ६३॥
कृत्वा तं युवराजानं पुत्रं सर्वगुणान्वितम् ।
सुखमास स धर्मात्मा न सस्मार च जाह्नवीम् ॥ ६४॥
सूत उवाच ।
एतद्वः कथितं सर्वं कारणं वसुशापजम् ।
गाङ्गेयस्य तथोत्पत्तिं जाह्नव्याः सम्भवं तथा ॥ ६५॥
गङ्गावतरणं पुण्यं वसूनां सम्भवं तथा ।
यः शृणोति नरः पापान्मुच्यते नात्र संशयः ॥ ६६॥
पुण्यं पवित्रमाख्यानं कथितं मुनिसत्तमाः ।
यथा मया श्रुतं व्यासात्पुराणं वेदसम्मितम् ॥ ६७॥
श्रीमद्भागवतं पुण्यं नानाख्यानकथान्वितम् ।
द्वैपायनमुखोद्भूतं पञ्चलक्षणसंयुतम् ॥ ६८॥
शृण्वतां सर्वपापघ्नं शुभदं सुखदं तथा ।
इतिहासमिमं पुण्यं कीर्तितं मुनिसत्तमाः ॥ ६९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे देवव्रतोत्पत्तिवर्णनं नाम चतुर्थोऽध्यायः ॥ २.४॥
२.५ पञ्चमोऽध्यायः । देवव्रतप्रतिज्ञावर्णनम् ।
ऋषय ऊचुः ।
वसूनां सम्भवः सूत कथितः शापकारणात् ।
गाङ्गेयस्य तथोत्पत्तिः कथिता लोमहर्षणे ॥ १॥
माता व्यासस्य धर्मज्ञ नाम्ना सत्यवती सती ।
कथं शन्तनुना प्राप्ता भार्या गन्धवती शुभा ॥ २॥
तन्ममाचक्ष्व विस्तारं दाशपुत्री कथं धृता ।
राज्ञा धर्मवरिष्ठेन संशयं छिन्धि सुव्रत ॥ ३॥
सूत उवाच ।
शन्तनुर्नाम राजर्षिर्मृगयानिरतः सदा ।
वनं जगाम निघ्नन्वै मृगांश्च महिषान् रुरून् ॥ ४॥
चत्वार्येव तु वर्षाणि पुत्रेण सह भूपतिः ।
रममाणः सुखं प्राप कुमारेण यथा हरः ॥ ५॥
एकदा विक्षिपन्बाणान्विनिघ्नन्खड्गसूकरान् ।
स कदाचिद्वनं प्राप्तः कालिन्दीं सरितां वराम् ॥ ६॥
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ।
तस्य प्रभवमन्विच्छन्सजञ्चचार वनं तदा ॥ ७॥
न मन्दारस्य गन्धोऽयं मृगनाभिमदस्य न ।
चम्पकस्य न मालत्या न केतक्या मनोहरः ॥ ८॥
न चानुभूतपूर्वोऽयं वाति गन्धवहः शुभः ।
कुतोऽयमेति वायुर्वै मम घ्राणविमोहनः ॥ ९॥
इति सञ्चिन्त्यमानोऽसौ बभ्राम वनमण्डलम् ।
मोहितो गन्धलोभेन शन्तनुः पवनानुगः ॥ १०॥
स ददर्श नदीतीरे संस्थितां चारुदर्शनाम् ।
शृङ्गाररहितां कान्तां सुस्थितां मलिनाम्बराम् ॥ ११॥
दृष्ट्वा तामसितापाङ्गीं विस्मितः स महीपतिः ।
अस्या देहस्य गन्धोऽयमिति सञ्जातनिश्चयः ॥ १२॥
तदद्भुतं रूपमतीव सुन्दरं
तथैव गन्धोऽखिललोकसम्मतः ।
वयश्च तादृङ् नवयौवनं शुभं
दृष्ट्वैव राजा किल विस्मितोऽभवत् ॥ १३॥
केयं कुतो वा समुपागताधुना
देवाङ्गना वा किमु मानुषी वा ।
गन्धर्वपुत्री किल नागकन्या
जाने कथं गन्धवतीं नु कामिनीम् ॥ १४॥
सञ्चिन्त्य चैवं मनसा नृपोऽसौ
न निश्चयं प्राप यदा ततः स्वयम् ।
गङ्गां स्मरन्कामवशं गतोऽथ
पप्रच्छ कान्तां तटसंस्थितां च ॥ १५॥
कासि प्रिये कस्य सुतासि कस्मा-
दिह स्थिता त्वं विजने वरोरु ।
एकाकिनी किं वद चारुनेत्रे
विवाहिता वा न विवाहितासि ॥ १६॥
सञ्जातकामोऽहमरालनेत्रे
त्वां वीक्ष्य कान्तां च मनोरमां च ।
ब्रूहि प्रिये यासि चिकीर्षसि त्वं
किं चेति सर्वं मम विस्तरेण ॥ १७॥
इत्येवमुक्ता सुदती नृपेण
प्रोवाच तं सस्मितमम्बुजेक्षणा ।
दाशस्य पुत्रीं त्वमवेहि राजन्
कन्यां पितुः शासनसंस्थितां च ॥ १८॥
तरीमिमां धर्मनिमित्तमेव
संवाहयामीह जले नृपेन्द्र ।
पिता गृहे मेऽद्य गतोऽस्ति कामं
सत्यं ब्रवीम्यर्थपते तवाग्रे ॥ १९॥
इत्येवमुक्त्वा विरराम बाला
कामातुरस्तां नृपतिर्बभाषे ।
कुरुप्रवीरं कुरु मां पतिं त्वं
वृथा न गच्छेन्ननु यौवनं ते ॥ २०॥
न चास्ति पत्नी मम वै द्वितीया
त्वं धर्मपत्नी भव मे मृगाक्षि ।
दासोऽस्मि तेऽहं वशगः सदैव
मनोभवस्तापयति प्रिये माम् ॥ २१॥
गता प्रिया मां परिहृत्य कान्ता
नान्या वृताहं विधुरोऽस्मि कान्ते ।
त्वां वीक्ष्य सर्वावयवातिरम्यां
मनो हि जातं विवशं मदीयम् ॥ २२॥
श्रुत्वामृतास्वादरसं नृपस्य
वचोऽतिरम्यं खलु दाशकन्या ।
उवाच तं सात्त्विकभावयुक्ता
कृत्वातिधैर्यं नृपतिं सुगन्धा ॥ २३॥
यदात्थ राजन् मयि तत्तथैव
मन्येऽहमेतत्तु यथा वचस्ते ।
नास्मि स्वतन्त्रा त्वमवेहि कामं
दाता पिता मेऽर्थय तं त्वमाशु ॥ २४॥
न स्वैरिणीहास्म्यपि दाशपुत्री
पितुर्वशेऽहं सततं चरामि ।
स चेद्ददाति प्रथितः पिता मे
गृहाण पाणिं वशगास्मि तेऽहम् ॥ २५॥
मनोभवस्त्वां नृप किं दुनोति
यथा पुनर्मां नवयौवनां च ।
दुनोति तत्रापि हि रक्षणीया
धृतिः कुलाचारपरम्परासु ॥ २६॥
सूत उवाच ।
इत्याकर्ण्य वचस्तस्या नृपति काममोहितः ।
गतो दाशपतेर्गेहं तस्या याचनहेतवे ॥ २७॥
दृष्ट्वा नृपतिमायान्तं दाशोऽतिविस्मयं गतः ।
प्रणामं नृपतेः कृत्वा कृताञ्जलिरभाषत ॥ २८॥
दाश उवाच ।
दासोऽस्मि तव भूपाल कृतार्थोऽहं तवागमे ।
आज्ञां देहि महाराज यदर्थमिह चागमः ॥ २९॥
राजोवाच ।
धर्मपत्नीं करिष्यामि सुतामेतां तवानघ ।
त्वया चेद्दीयते मह्यं सत्यमेतद्ब्रवीमि ते ॥ ३०॥
दाश उवाच ।
कन्यारत्नं मदीयं चेद्यत्त्वं प्रार्थयसे नृप ।
दातव्यं तु प्रदास्यामि न त्वदेयं कदाचन ॥ ३१॥
तस्याः पुत्रो महाराज त्वदन्ते पृथिवीपतिः ।
सर्वथा चाभिषेक्तव्यो नान्यः पुत्रस्तवेति वै ॥ ३२॥
सूत उवाच ।
श्रुत्वावाक्यं तु दाशस्य राजा चिन्तातुरोऽभवत् ।
गाङ्गेयं मनसा कृत्वा नोवाच नृपतिस्तदा ॥ ३३॥
कामातुरो गृहं प्राप्तश्चिन्ताविष्टो महीपतिः ।
न सस्नौ बुभुजे नाथ न सुष्वाप गृहं गतः ॥ ३४॥
चिन्तातुरं तु तं दृष्ट्वा पुत्रो देवव्रतस्तदा ।
गत्वापृच्छन्महीपालं तदसन्तोषकारणम् ॥ ३५॥
दुर्जयः कोऽस्ति शत्रुस्ते करोमि वशगं तव ।
का चिन्ता नृपशार्दूल सत्यं वद नृपोत्तम ॥ ३६॥
किं तेन जातेन सुतेन राजन्
दुःखं न जानाति न नाशयेद्यः ।
ऋणं ग्रहीतुं समुपागतोऽसौ
प्राग्जन्मजं नात्र विचारणास्ति ॥ ३७॥
विमुच्य राज्यं रघुनन्दनोऽपि
ताताज्ञया दाशरथिस्तु रामः ।
वनं गतो लक्ष्मणजानकीभ्यां
सहैव शैलं किल चित्रकूटम् ॥ ३८॥
सुतो हरिश्चन्द्रनृपस्य राजन्
यो रोहितश्चेति प्रसिद्धनामा ।
क्रीतोऽथ पित्रा विपणोद्यतश्च
दासार्पितो विप्रगृहे तु नूनम् ॥ ३९॥
तथाजिगर्तस्य सुतो वरिष्ठो
नाम्ना शुनःशेप इति प्रसिद्धः ।
क्रीतस्तु पित्राप्यथ यूपबद्धः
सम्मोचितो गाधिसुतेन पश्चात् ॥ ४०॥
पित्राज्ञया जामदग्न्येन पूर्वं
छिन्नं शिरो मातुरिति प्रसिद्धम् ।
अकार्यमप्याचरितं च तेन
गुरोरनुज्ञा च गरीयसी कृता ॥ ४१॥
इदं शरीरं तव भूपते न
क्षमोऽस्मि नूनं वद किं करोम्यहम् ।
न शोचनीयं मयि वर्तमाने-
ऽप्यसाध्यमर्थं प्रतिपादयाम्यदः ॥ ४२॥
प्रब्रूहि राजंस्तव कास्ति चिन्ता
निवारयाम्यद्य धनुर्गृहीत्वा ।
देहेन मे चेच्चरितार्थता वा
भवत्वमोघा भवतश्चिकीर्षा ॥ ४३॥
धिक् तं सुतं यः पितुरीप्सितार्थं
क्षमोऽपि सन्न प्रतिपादयेद्यः ।
जातेन किं तेन सुतेन कामं
पितुर्न चिन्तां हि समुद्धरेद्यः ॥ ४४॥
सूत उवाच ।
निशम्येति वचस्तस्य पुत्रस्य शन्तनुर्नृपः ।
लज्जमानस्तु मनसा तमाह त्वरितं सुतम् ॥ ४५॥
राजोवाच ।
चिन्ता मे महती पुत्र यस्त्वमेकोऽसि मे सुतः ।
शूरोऽतिबलवान्मानी सङ्ग्रामेष्वपराङ्मुखः ॥ ४६॥
एकापत्यस्य मे तात वृथेदं जीवितं किल ।
मृते त्वयि मृधे क्वापि किं करोमि निराश्रयः ॥ ४७॥
एषा मे महती चिन्ता तेनाद्य दुःखितोऽत्म्यहम् ।
नान्या चिन्तास्ति मे पुत्र यां तवाग्रे वदाम्यहम् ॥ ४८॥
सूत उवाच ।
तदाकर्ण्याथ गाङ्गेयो मन्त्रिवृद्धानपृच्छत ।
न मां वदति भूपालो लज्जयाद्य परिप्लुतः ॥ ४९॥
वित्त वार्तां नृपस्याद्य पृष्ट्वा यूयं विनिश्चयात् ।
सत्यं ब्रुवन्तु मां सर्वं तत्करोमि निराकुलः ॥ ५०॥
तच्छ्रुत्वा ते नृपं गत्वा संविज्ञाय च कारणम् ।
शशंसुर्विदितार्थस्तु गाङ्गेयस्तदचिन्तयत् ॥ ५१॥
सहितस्तैर्जगामाशु दाशस्य सदनं तदा ।
प्रेमपूर्वमुवाचेदं विनम्रो जाह्नवीसुतः ॥ ५२॥
गाङ्गेय उवाच ।
पित्रे देहि सुतां तेऽद्य प्रार्थयामि सुमध्यमाम् ।
माता मेऽस्तु सुतेयं ते दासोऽत्म्यस्याः परन्तप ॥ ५३॥
दाश उवाच ।
त्वं गृहाण महाभाग पत्नीं कुरु नृपात्मज ।
पुत्रोऽस्या न भवेद्राजा वर्तमाने त्वयीति वै ॥ ५४॥
गाङ्गेय उवाच ।
मातेयं मम दाशेयी राज्यं नैव करोम्यहम् ।
पुत्रोऽस्याः सर्वथा राज्यं करिष्यति न संशयः ॥ ५५॥
दाश उवाच ।
सत्यं वाक्यं मया ज्ञातं पुत्रस्ते बलवान्भवेत् ।
सोऽपि राज्यं बलान्नूनं गृह्णीयादिति निश्चयः ॥ ५६॥
गाङ्गेय उवाच ।
न दारसङ्ग्रहं नूनं करिष्यामि हि सर्वथा ।
सत्यं मे वचनं तात मया भीष्मं व्रतं कृतम् ॥ ५७॥
सूत उवाच ।
एवं कृतां प्रतिज्ञां तु निशम्य झषजीवकः ।
ददौ सत्यवतीं तस्मै राज्ञे सर्वाङ्गशोभनाम् ॥ ५८॥
अनेन विधिना तेन वृता सत्यवती प्रिया ।
न जानाति परं जन्म व्यासस्य नृपसत्तमः ॥ ५९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे देवव्रतप्रतिज्ञावर्णनं नाम पञ्चमोऽध्यायः ॥ २.५॥
२.६ षष्ठोऽध्यायः । युधिष्ठिरादीनामुत्पत्तिवर्णनम् ।
सूत उवाच ।
एवं सत्यवती तेन वृता शन्तनुना किल ।
द्वौ पुत्रौ च तया जातौ मृतौ कालवशादपि ॥ १॥
व्यासवीर्यात्तु सञ्जातो धृतराष्ट्रोऽन्ध एव च ।
मुनिं दृष्ट्वाथ कामिन्या नेत्रसम्मीलने कृते ॥ २॥
श्वेतरूपा यतो जाता दृष्ट्वा व्यासं नृपात्मजा ।
व्यासकोपात्समुत्पन्नः पाण्डुस्तेन न संशयः ॥ ३॥
सन्तोषितस्तया व्यासो दास्या कामकलाविदा ।
विदुरस्तु समुत्पन्नो धर्मांशः सत्यवाक् शुचिः ॥ ४॥
राज्ये संस्थापितः पाण्डुः कनीयानपि मन्त्रिभिः ।
अन्धत्वाद्धृतराष्ट्रोऽसौ नाधिकारे नियोजितः ॥ ५॥
भीष्मस्यानुमते राज्यं प्राप्तः पाण्डुर्महाबलः ।
विदुरोऽप्यथ मेधावी मन्त्रकार्ये नियोजितः ॥ ६॥
धृतराष्ट्रस्य द्वे भार्ये गान्धारी सौबली स्मृता ।
द्वितीया च तथा वैश्या गार्हस्त्येषु प्रतिष्ठिता ॥ ७॥
पाण्डोरपि तथा पत्न्यौ द्वे प्रोक्ते वेदवादिभिः ।
शौरसेनी तथा कुन्ती माद्री च मद्रदेशजा ॥ ८॥
गान्धारी सुषुवे पुत्रशतं परमशोभनम् ।
वैश्याप्येकं सुतं कान्तं युयुत्सुं सुषुवे प्रियम् ॥ ९॥
कुन्ती तु प्रथमं कन्या सूर्यात्कर्णं मनोहरम् ।
सुषुवे पितृगेहस्था पश्चात्पाण्डुपरिग्रहः ॥ १०॥
ऋषय ऊचुः ।
किमेतत्सूत चित्रं त्वं भाषसे मुनिसत्तम ।
जनितश्च सुतः पूर्वं पाण्डुना सा विवाहिता ॥ ११॥
सूर्यात्कर्णः कथं जातः कन्यायां वद विस्तरात् ।
कन्या कथं पुनर्जाता पाण्डुना सा विवाहिता ॥ १२॥
सूत उवाच ।
शूरसेनसुता कुन्ती बालभावे यदा द्विजाः ।
कुन्तिभोजेन राज्ञा तु प्रार्थिता कन्यका शुभा ॥ १३॥
कुन्तिभोजेन सा बाला पुत्री तु परिकल्पिता ।
सेवनार्थं तु दीप्तस्य विहिता चारुहासिनी ॥ १४॥
दुर्वासास्तु मुनिः प्राप्तश्चातुर्मास्ये स्थितो द्विजः ।
परिचर्या कृता कुन्त्या मुनिस्तोषं जगाम ह ॥ १५॥
ददौ मन्त्रं शुभं तस्यै येनाहूतः सुरः स्वयम् ।
समायाति तथा कामं पूरयिष्यति वाञ्छितम् ॥ १६॥
गते मुनौ ततः कुन्ती निश्चयार्थं गृहे स्थिता ।
चिन्तयामास मनसा कं सुरं समचिन्तये ॥ १७॥
उदितश्च तदा भानुस्तया दृष्टो दिवाकरः ।
मन्त्रोच्चारं तया कृत्वा चाहूतस्तिग्मगुस्तदा ॥ १८॥
मण्डलान्मानुषं रूपं कृत्वा सर्वातिपेशलम् ।
अवातरत्तदाकाशात्समीपे तत्र मन्दिरे ॥ १९॥
दृष्ट्वा देवं समायान्तं कुन्ती भानुं सुविस्मिता ।
वेपमाना रजोदोषं प्राप्ता सद्यस्तु भामिनी ॥ २०॥
कृताञ्जलिः स्थिता सूर्यं बभाषे चारुलोचना ।
सुप्रीता दर्शनेनाद्य गच्छ त्वं निजमण्डलम् ॥ २१॥
सूर्य उवाच ।
आहूतोऽस्मि कथं कुन्ति त्वया मन्त्रबलेन वै ।
न मां भजसि कस्मात्त्वं समाहूय पुरोगतम् ॥ २२॥
कामार्तोऽस्म्यसितापाङ्गि भज मां भावसंयुतम् ।
मन्त्रेणाधीनतां प्राप्प्तं क्रीडितुं नय मामिति ॥ २३॥
कुन्त्युवाच ॥
कन्यास्म्यहं तु धर्मज्ञ सर्वसाक्षिन्नमाम्यहम् ।
तवाप्यहं न दुर्वाच्या कुलकन्यास्मि सुव्रत ॥ २४॥
सूर्य उवाच ।
लज्जा मे महती चाद्य यदि गच्छाम्यहं वृथा ।
वाच्यतां सर्वदेवानां यास्याम्यत्र न संशयः ॥ २५॥
शप्स्यामि तं द्विजं चाद्य येन मन्त्रः समर्पितः ।
त्वां चापि सुभृशं कुन्ति नोचेन्मां त्वं भजिष्यसि ॥ २६॥
कन्याधर्मः स्थिरस्ते स्यान्न ज्ञास्यन्ति जनाः किल ।
मत्समस्तु तथा पुत्रो भविता ते वरानने ॥ २७॥
इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् ।
भुक्त्वा जगाम देवेशो वरं दत्त्वातिवाञ्छितम् ॥ २८॥
गर्भं दधार सुश्रोणी सुगुप्ते मन्दिरे स्थिता ।
धात्री वेद प्रिया चैका न माता न जनस्तथा ॥ २९॥
गुप्तः सद्मनि पुत्रस्तु जातश्चातिमनोहरः ।
कवचेनातिरम्येण कुण्डलाभ्यां समन्वितः ॥ ३०॥
द्वितीय इव सूर्यस्तु कुमार इव चापरः ।
करे कृत्वाथ धात्रेयी तामुवाच सुलज्जिताम् ॥ ३१॥
कां चिन्तां करभोरु त्वमाधत्सेऽद्य स्थितास्म्यहम् ।
मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत् ॥ ३२॥
किं करोमि सुतार्ताहं त्यजे त्वां प्राणवल्लभम् ।
मन्दभाग्या त्यजामि त्वां सर्वलक्षणसंयुतम् ॥ ३३॥
पातुत्वां सगुणागुणा भगवती
सर्वेश्वरी चाम्बिका
स्तन्यं सैव ददातु विश्वजननी
कात्यायनी कामदा ।
द्रक्ष्येऽहम्मुखपङ्कजं सुललितं
प्राणप्रियार्हं कदा
त्यक्त्वा त्वां विजने वने रविसुतं
दुष्टा यथा स्वैरिणी ॥ ३४॥
पूर्वस्मिन्नपि जन्मनि त्रिजगतां
माता न चाराधिता
न ध्यातं पदपङ्कजं सुखकरं
देव्याः शिवायाश्चिरम् ।
तेनाहं सुत दुर्भगास्मि सततं
त्यक्त्वा पुनस्त्वां वने
तप्स्यामि प्रिय पातकं स्मृतवती
बुद्ध्या कृतं यत्स्वयम् ॥ ३५॥
सूत उवाव
इत्युक्त्या तं सुतं कुन्ती मञ्जूषायां धृतं किल ।
धात्रीहस्ते ददौ भीता जनदर्शनतस्तथा ॥ ३६॥
स्नात्वा त्रस्ता तदा कुन्ती पितृवेश्मन्युवास सा ।
मञ्जूषा वहमाना च प्राप्ता ह्यधिरथेन वै ॥ ३७॥
राधा सूतस्य भार्या वै तयासौ प्रार्थितः सुतः ।
कर्णोऽभूद्बलवान्वीरः पालितः सूतसद्मनि ॥ ३८॥
कुन्ती विवाहिता कन्या पाण्डुना सा स्वयम्वरे ।
माद्री चैवापरा भार्या मद्रराजसुता शुभा ॥ ३९॥
मृगयां रममाणस्तु वने पाण्डुर्महाबलः ।
जघान मृगबुद्ध्या तु रममाणं मुनिं वने ॥ ४०॥
शप्तस्तेन तदा पाण्डुर्मुनिना कुपितेन च ।
स्त्रीसङ्गं यदि कर्तासि तदा ते मरणं धुवम् ॥ ४१॥
इति शप्तस्तु मुनिना पाण्डुः शोकसमन्वितः ।
त्यक्त्वा राज्यं वने वासं चकार भृशदुःखितः ॥ ४२॥
कुन्ती माद्री च भार्ये द्वे जग्मतुः सह सङ्गते ।
सेवनार्थं सतीधर्मं संश्रिते मुनिसत्तमाः ॥ ४३॥
गङ्गातीरे स्थितः पाण्डुर्मुनीनामाश्रमेषु च ।
शृण्वानो धर्मशास्त्राणि चकार दुश्चरं तपः ॥ ४४॥
कथायां वर्तमानायां कदाचिद्धर्मसंश्रितम् ।
अशृणोद्वचनं राजा सुपृष्टं मुनिभाषितम् ॥ ४५॥
अपुत्रस्य गतिर्नास्ति स्वर्गे गन्तुं परन्तप ।
येन केनाप्युपायेन पुत्रस्य जननं चरेत् ॥ ४६॥
अंशजः पुत्रिकापुत्रः क्षेत्रजो गोलकस्तथा ।
कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ॥ ४७॥
दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः ।
उत्तरोत्तरतः पुत्रा निकृष्टा इति निश्चयः ॥ ४८॥
इत्याकर्ण्य तदा प्राह कुन्तीं कमललोचनाम् ।
सुतमुत्पादयाशु त्वं मुनिं गत्वा तपोऽन्वितम् ॥ ४९॥
ममाज्ञया न दोषस्ते पुरा राज्ञा महात्मना ।
वसिष्ठाज्जनितः पुत्रः सौदासेनेति मे श्रुतम् ॥ ५०॥
तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः ।
दत्तो दुर्वाससा पूर्वं सिद्धिदः सर्वथा प्रभो ॥ ५१॥
निमन्त्रयेऽहं यं देवं मन्त्रेणानेन पार्थिव ।
आगच्छेत्सर्वथासौ वै मम पार्श्वं निमन्त्रितः ॥ ५२॥
भर्तुर्वाक्येन सा तत्र स्मृत्वा धर्मं सुरोत्तमम् ।
सङ्गम्य सुषुवे पुत्रं प्रथमं च युधिष्ठिरम् ॥ ५३॥
वायोर्वृकोदरं पुत्रं जिष्णुं चैव शतक्रतोः ।
वर्षे वर्षे त्रयः पुत्राः कुन्त्या जाता महाबलाः ॥ ५४॥
माद्री प्राह पतिं पाण्डुं पुत्रं मे कुरु सत्तम ।
किं करोमि महाराज दुःखं नाशय मे प्रभो ॥ ५५॥
प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता ।
एकपुत्रप्रबन्धेन माद्री पतिमते स्थिता ॥ ५६॥
स्मृत्वा तदाश्विनौ देवौ मद्रराजसुता सुतौ ।
नकुलः सहदेवश्च सुषुवे वरवर्णिनी ॥ ५७॥
एवं ते पाण्डवाः पञ्च क्षेत्रोत्पन्ताः सुरात्मजाः ।
वर्षवर्षान्तरे जाता वने तस्मिन्द्विजोत्तमाः ॥ ५८॥
एकस्मिन्समये पाण्डुर्माद्रीं दृष्ट्वाथ निर्जने ।
आश्रमे चातिकामार्तो जग्राहागतवैशसः ॥ ५९॥
मा मा मा मेति बहुधा निषिद्धोऽपितया भृशम् ।
आलिलिङ्ग प्रियां दैवात्पपात धरणीतले ॥ ६०॥
यथा वृक्षगता वल्ली छिन्ने पतति वै द्रुमे ।
तथा सा पतिता बाला कुर्वन्ती रोदनं बहु ॥ ६१॥
प्रत्यागता तदा कुन्ती रुदती बालकास्तथा ।
मुनयश्च महाभागाः श्रुत्वा कोलाहलं तदा ॥ ६२॥
मृतः पाण्डुस्तदा सर्वे मुनयः संशितव्रताः ।
सहाग्निभिर्विधिं कृत्वा गङ्गातीरे तदादहन् ॥ ६३॥
चक्रे सहैव गमनं माद्री दत्त्वा सुतौ शिशू ।
कुन्त्यै धर्मं पुरस्कृत्य सतीनां सत्यकामतः ॥ ६४॥
जलदानादिकं कृत्वा मुनयस्तत्र वासिनः ।
पञ्चपुत्रयुतां कुन्तीमनयन्हस्तिनापुरम् ॥ ६५॥
तां प्राप्तां च समाज्ञाय गाङ्गेयो विदुरस्तथा ।
नगरीं धृतराष्ट्रस्य सर्वे तत्र समाययुः ॥ ६६॥
पप्रच्छुश्च जनाः सर्वे कस्य पुत्रा वरानने ।
पाण्डोः शापं समाज्ञाय कुन्ती दुःखान्विता तदा ॥ ६७॥
तानुवाच सुराणां वै पुत्राः कुरुकुलोद्भवाः ।
विश्वासार्थं समाहूताः कुन्त्या सर्वे सुरास्तदा ॥ ६८॥
आगत्य खे तदा तैस्तु कथितं नः सुताः किल ।
भीष्मेण सत्कृतं वाक्यं देवानां सत्कृताः सुताः ॥ ६९॥
गता नागपुरं सर्वे तानादाय सुतान्वधूम् ।
भीष्मादयः प्रीतचित्ताः पालयामासुरर्थतः ॥ ७०॥
एवं पार्थाः समुत्पन्ना गाङ्गेयेनाथ पालिताः ॥ ७१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे युधिष्ठिरादीनामुत्पत्तिवर्णनं नाम षष्ठोऽध्यायः ॥ २.६॥
२.७ सप्तमोऽध्यायः । पाण्डवानां कथानकं मृतानां दर्शनवर्णनम् ।
सूत उवाच ।
पञ्चानां द्रौपदी भार्या सा मान्या सा पतिव्रता ।
पञ्च पुत्रास्तु तस्याः स्युर्भर्तृभ्योऽतीव सुन्दराः ॥ १॥
अर्जुनस्य तथा भार्या कृष्णस्य भगिनी शुभा ।
सुभद्रा या हृता पूर्वं जिष्णुना हरिसम्मते ॥ २॥
तस्यां जातो महावीरो निहतोऽसौ रणाजिरे ।
अभिमन्युर्हतास्तत्र द्रौपद्याश्च सुताः किल ॥ ३॥
अभिमन्योर्वरा भार्या वैराटी चातिसुन्दरी ।
कुलान्ते सुषुवे पुत्रं मृतो बाणाग्निना शिशुः ॥ ४॥
जीवितः स तु कृष्णेन भागिनेयसुतः स्वयम् ।
द्रौणिबाणाग्निनिर्दग्धः प्रतापेनाद्भुतेन च ॥ ५॥
परिक्षीणेषु वंशेषु जातो यस्माद्वरः सुतः ।
तस्मात्परीक्षितो नाम विख्यातः पृथिवीतले ॥ ६॥
निहतेषु च पुत्रेषु धृतराष्ट्रोऽतिदुःखितः ।
तस्थौ पाण्डवराज्ये च भीमवाग्बाणपीडितः ॥ ७॥
गान्धारी च तथातिष्ठत् पुत्रशोकातुरा भृशम् ।
सेवां तयोर्दिवारात्रं चकारार्तो युधिष्ठिरः ॥ ८॥
विदुरोऽप्यतिधर्मात्मा प्रज्ञानेत्रमबोधयत् ।
युधिष्ठिरस्यानुमते भ्रातृपार्श्वे व्यतिष्ठत ॥ ९॥
धर्मपुत्रोऽपि धर्मात्मा चकार सेवनं पितुः ।
पुत्रशोकोद्भवं दुःखं तस्य विस्मारयन्निव ॥ १०॥
यथा शृणोति वृद्धोऽसौ तथा भीमोऽतिरोषितः ।
वारबाणेनाहनत्तं तु श्रावयन्संस्थिताञ्जनान् ॥ ११॥
मया पुत्रा हताः सर्वे दुष्टस्यान्धस्य ते रणे ।
दुःशासनस्य रुधिरं पीतं हृद्यं तथा भृशम् ॥ १२॥
भुनक्ति पिण्डमन्धोऽयं मया दत्तं गतत्रपः ।
ध्वाङ्क्षवद्वा श्ववच्चापि वृथा जीवत्यसौ जनः ॥ १३॥
एवंविधानि रूक्षाणि श्रावयत्यनुवासरम् ।
आश्वासयति धर्मात्मा मूर्खोऽयमिति च ब्रुवन् ॥ १४॥
अष्टादशैव वर्षाणि स्थित्वा तत्रैव दुःखितः ।
धृतराष्ट्रो वने यानं प्रार्थयामास धर्मजम् ॥ १५॥
अयाचत धर्मपुत्रं धृतराष्ट्रो महीपतिः ।
पुत्रेभ्योऽहं ददाम्यद्य निर्वापं विधिपूर्वकम् ॥ १६॥
वृकोदरेण सर्वेषां कृतमत्रौर्ध्वदैहिकम् ।
न कृतं मम पुत्राणां पूर्ववैरमनुस्मरन् ॥ १७॥
ददासि चेद्धनं मह्यं कृत्वा चैवोर्ध्वदैहिकम् ।
गमिष्येऽहं वनं तप्तुं तपः स्वर्गफलप्रदम् ॥ १८॥
एकान्ते विदुरेणोक्तो राजा धर्मसुतः शुचिः ।
धनं दातुं मनश्चक्रे धृतराष्ट्राय चार्थिने ॥ १९॥
समाहूय निजान्मर्वानुवाच पृथिवीपतिः ।
धनं दास्ये महाभागाः पित्रे निर्वापकामिने ॥ २०॥
तच्छ्रुत्वा वचनं भ्रातुर्न्येष्ठस्यामिततेजसः ।
सङ्ग्रहेऽस्य महाबाहुर्मारुतिः कुपितोऽब्रवीत् ॥ २१॥
धनं देयं महाभाग दुर्योधनहिताय किम् ।
अन्धोऽपि सुखमाप्नोति मूर्खत्वं किमतः परम् ॥ २२॥
तव दुर्मन्त्रितेनाथ दुःखं प्राप्ता वने वयम् ।
द्रौपदी च महाभागा समानीता दुरात्मना ॥ २३॥
विराटभवने वासः प्रसादात्तव सुव्रत ।
दासत्वं च कृतं सर्वैर्मत्स्यस्यामितविक्रमैः ॥ २४॥
देविता त्वं न चेज्ज्येष्ठः प्रभवेत्सङ्क्षयः कथम् ।
सूपकारो विराटस्य हत्वाभूवं तु मागधम् ॥ २५॥
बृहन्नला कथं जिष्णुर्भवेद्बालस्य नर्तकः ।
कृत्वा वेषं महाबाहुर्योषाया वासवात्मजः ॥ २६॥
गाण्डीवशोभितौ हस्तौ कृतौ कङ्कणशोभितौ ।
मानुषं च वपुः प्राप्य किं दुःखं स्यादतः परम् ॥ २७॥
दृष्ट्वा वेणीं कृतां मूर्ध्नि कज्जलं लोचने तथा ।
असिं गृहीत्वा तरसा छेद्म्यहं नान्यथा सुखम् ॥ २८॥
अपृष्ट्वा च महीपालं निक्षिप्तोऽग्निर्मया गृहे ।
दग्धुकामश्च पापात्मा निर्दग्धोऽसौ पुरोचनः ॥ २९॥
कीचका निहताः सर्वे त्वामपृष्ट्वा जनाधिप ।
न तथा निहताः सर्वे सभार्या धृतराष्ट्रजाः ॥ ३०॥
मूर्खत्वं तव राजेन्द्र गन्धर्वेभ्यश्च मोचिताः ।
दुर्योधनादयः कामं शत्रवो निगडीकृताः ॥ ३१॥
दुर्योधनहितायाद्य धनं दातुं त्वमिच्छसि ।
नाहं ददे महीपाल सर्वथा प्रेरितस्त्वया ॥ ३२॥
इत्युक्त्वा निर्गते भीमे त्रिभिः परिवृतो नृपः ।
ददौ वित्तं सुबहुलं धृतराष्ट्राय धर्मजः ॥ ३३॥
कारयामास विधिवत्पुत्राणां चौर्ध्वदैहिकम् ।
ददौ दानानि विप्रेभ्यो धृतराष्ट्रोऽम्बिकासुतः ॥ ३४॥
कृत्वौर्ध्वदैहिकं सर्वं गान्धारीसहितो नृपः ।
प्रविवेश वनं तूर्णं कुन्त्या च विदुरेण च ॥ ३५॥
सञ्जयेन परिज्ञातो निर्गतोऽसौ महामतिः ।
पुत्रैर्निवार्यमाणापि शूरसेनसुता गता ॥ ३६॥
विलपन्भीमसेनोऽपि तथान्ये चापि कौरवाः ।
गङ्गातीरात्परावृत्य ययुः सर्वे गजाह्वयम् ॥ ३७॥
ते गत्वा जाह्नवीतीरे शतयूपाश्रमं शुभम् ।
कृत्वा तृणैः कुटीं तत्र तपस्तेपुः समाहिताः ॥ ३८॥
गतान्यब्दानि षट् तेषां यदा याता हि तापसाः ।
युधिष्ठिरस्तु विरहादनुजानिदमब्रवीत् ॥ ३९॥
स्वप्ने दृष्टा मया कुन्ती दुर्बला वनसंस्थिता ।
मनो मे जायते द्रष्टुं मातरं पितरौ तथा ॥ ४०॥
विदुरं च महात्मानं सञ्जयं च महामतिम् ।
रोचते यदि वः सर्वान् व्रजाम इति मे मतिः ॥ ४१॥
ततस्ते भ्रातरः सर्वे सुभद्रा द्रौपदी तथा ।
वैराटी च महाभागा तथा नागरिको जनः ॥ ४२॥
प्राप्ताः सर्वजनैः सार्धं पाण्डवा दर्शनोत्सुकाः ।
शतयूपाश्रमं प्राप्य ददृशुः सर्व एव ते ॥ ४३॥
विदुरो न यदा दृष्टो धर्मस्तं पृष्टवांस्तदा ।
क्वास्ते स विदुरो धीमांस्तमुवाचाम्बिकासुतः ॥ ४४॥
विरक्तश्चरते क्षत्ता निरीहो निष्परिग्रहः ।
कुतोऽप्येकान्तसंवासी ध्यायतेऽन्तः सनातनम् ॥ ४५॥
गङ्गां गच्छन्द्वितीयेऽह्नि वने राजा युधिष्ठिरः ।
ददर्श विदुरं क्षामं तपसा संशितव्रतम् ॥ ४६॥
दृष्ट्वोवाच महीपालो वन्देऽहं त्वां युधिष्ठिरः ।
तस्थौ श्रुत्वा च विदुरः स्थाणुभूत इवानघः ॥ ४७॥
क्षणेन विदुरस्यास्यान्निःसृतं तेज अद्भुतम् ।
लीनं युधिष्ठिरस्यास्ये धर्मांशत्वात्परस्परम् ॥ ४८॥
क्षत्ता जहौ तदा प्राणाञ्छुशोचाति युधिष्ठिरः ।
दाहार्थं तस्य देहस्य कृतवानुद्यमं नृपः ॥ ४९॥
शृण्वतस्तु तदा राज्ञो वागुवाचाशरीरिणी ।
विरक्तोऽयं न दाहार्हो यथेष्टं गच्छ भूपते ॥ ५०॥
श्रुत्वा ते भ्रातरः सर्वे सस्नुर्गङ्गाजलेऽमले ।
गत्वा निवेदयामासुर्धृतराष्ट्राय विस्तरात् ॥ ५१॥
स्थितास्तत्राश्रमे सर्वे पाण्डवा नागरैः सह ।
तत्र सत्यवतीसूनुर्नारदश्च समागतः ॥ ५२॥
मुनयोऽन्ये महात्मानश्चागता धर्मनन्दनम् ।
कुन्ती प्राह तदा व्यासं संस्थितं शुभदर्शनम् ॥ ५३॥
कृष्ण कर्णस्तु पुत्रो मे जातमात्रस्तु वीक्षितः ।
मनो मे तप्यतेऽत्यर्थं दर्शयस्व तपोधन ॥ ५४॥
समर्थोऽसि महाभाग कुरु मे वाञ्छितं प्रभो ।
गान्धार्युवाच ।
दुर्योधनो रणेऽगच्छद्वीक्षितो न मया मुने ॥ ५५॥
तं दर्शय मुनिश्रेष्ठ पुत्रं मे त्वं सहानुजम् ।
सुभद्रोवाच ।
अभिमन्युं महावीरं प्राणादप्यधिकं प्रियम् ॥ ५६॥
द्रष्टुकामास्मि सर्वज्ञ दर्शयाद्य तपोधन ।
सूत उवाच ।
एवंविधानि वाक्यानि श्रुत्वा सत्यवतीसुतः ॥ ५७॥
प्राणायामं ततः कृत्वा दध्यौ देवीं सनातनीम् ।
सन्ध्याकालेऽथ सम्प्राप्ते गङ्गायां मुनिसत्तमः ॥ ५८॥
सर्वांस्तांश्च समाहूय युधिष्ठिरपुरोगमान् ।
तुष्टाव विश्वजननीं स्नात्वा पुण्यसरिज्जले ॥ ५९॥
प्रकृतिं पुरुषारामां सगुणां निर्गुणां तथा ।
देवदेवीं ब्रह्मरूपां मणिद्वीपाधिवासिनीम् ॥ ६०॥
यदा न वेधा न च विष्णुरीश्वरो
न वासवो नैव जलाधिपस्तथा ।
न वित्तपो नैव यमश्च पावक-
स्तदासि देवि त्वमहं नमामि ताम् ॥ ६१॥
जलं न वायुर्न धरा न चाम्बरं
गुणा न तेषां च न चेन्द्रियाण्यहम् ।
मनो न बुद्धिर्न च तिग्मगुः शशी
तदासि देवि त्वमहं नमामि ताम् ॥ ६२॥
इमं जीवलोकं समाधाय चित्ते
गुणैर्लिङ्गकोशं च नीत्वा समाधौ ।
स्थिता कल्पकालं नयस्यात्मतन्त्रा
न कोऽप्यस्ति वेत्ता विवेकं गतोऽपि ॥ ६३॥
प्रार्थयत्येष मां लोको मृतानां दर्शनं पुनः ।
नाहं क्षमोऽस्मि मातस्त्वं दर्शयाशु जनान्मृतान् ॥ ६४॥
सूत उवाच ।
एवं स्तुता तदा देवी माया श्रीभुवनेश्वरी ।
स्वर्गादाहूय सर्वान्वै दर्शयामास पार्थिवान् ॥ ६५॥
दृष्ट्वा कुन्ती च गान्धारी सुभद्रा च विराटजा ।
पाण्डवा मुमुदुः सर्वे वीक्ष्य प्रत्यागतान्स्वकान् ॥ ६६॥
पुनर्विसर्जितास्तेन व्यासेनामिततेजसा ।
स्मृत्वा देवीं महामायामिन्द्रजालमिवोद्यतम् ॥ ६७॥
तदा पृष्ट्वा ययुः सर्वे पाण्डवा मुनयस्तथा ।
राजा नागपुरं प्राप्तः कुर्वन् व्यासकथां पथि ॥ ६८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे
पाण्डवानां कथानकं मृतानां दर्शनवर्णनं नाम सप्तमोऽध्यायः ॥ २.७॥
२.८ अष्टमोऽध्यायः । रुरुचरित्रवर्णनम् ।
सूत उवाच ।
ततो दिने तृतीये च धृतराष्ट्रः स भूपतिः ।
दावाग्निना वने दग्धः सभार्यः कुन्तिसंयुतः ॥ १॥
सञ्जयस्तीर्थयात्रायां गतस्त्यक्त्वा महीपतिम् ।
श्रुत्वा युधिष्ठिरो राजा नारदाद्दुःखमाप्तवान् ॥ २॥
षट्त्रिंशेऽथ गते वर्षे कौरवाणां क्षयात्पुनः ।
प्रभासे यादवाः सर्वे विप्रशापात्क्षयं गताः ॥ ३॥
ते पीत्वा मदिरां मत्ताः कृत्वा युद्धं परस्परम् ।
क्षयं प्राप्ता महात्मानः पश्यतो रामकृष्णयोः ॥ ४॥
देहं तत्याज रामस्तु कृष्णः कमललोचनः ।
व्याधबाणहतः शापं पालयन्भगवान्हरिः ॥ ५॥
वसुदेवस्तु तच्छ्रुत्वा देहत्यागं हरेरथ ।
जहौ प्राणाञ्छुचीन्कृत्वा चित्ते श्रीभुवनेश्वरीम् ॥ ६॥
अर्जुनस्तु ततो गत्वा प्रभासे चातिदुःखितः ।
संस्कारं तत्र सर्वेषां यथायोग्यं चकार ह ॥ ७॥
समीक्ष्याथ हरेर्देहं कृत्वा काष्ठस्य सञ्चयम् ।
अष्टाभिः सह पत्नीभिर्दाहयामास पार्थिवः ॥ ८॥
देहं रामस्य रेवत्या सह दग्ध्वा विभावसौ ।
अर्जुनो द्वारकामेत्य पुरान्निष्क्रामयज्जनम् ॥ ९॥
पुरी सा वासुदेवस्य प्लावितोदधिना ततः ।
अर्जुनः सर्वलोकान्वै गृहीत्वा निर्गतस्तदा ॥ १०॥
कृष्णपत्न्यस्तदा मार्गे चौराभीरैश्च लुण्ठिता ।
धनं सर्वं गृहीतं च निस्तेजश्चार्जुनोऽभवत् ॥ ११॥
इन्द्रप्रस्थे समागत्य वज्रो राजा कृतस्तदा ।
अनिरुद्धसुतो नाम्ना पार्थेनामिततेजसा ॥ १२॥
व्यासाय कथितं दुःखं तेनोक्तोऽसौ महारथः ।
पुनर्यदा हरिस्त्वञ्च भवितासि महामते ॥ १३॥
तदा तेजस्तवात्युग्रं भविष्यति पुनर्युगे ।
तच्छ्रुत्वा वचनं पार्थो गत्वा नागपुरेऽर्जुनः ॥ १४॥
दुःखितो धर्मराजानं वृत्तान्तं सर्वमब्रवीत् ।
देहत्यागं हरेः श्रुत्वा यादवानां क्षयं तथा ॥ १५॥
गमनाय मतिं चक्रे राजा हैमाचलं प्रति ।
षट्त्रिंशद्वार्षिकं राज्ये स्थापयित्वोत्तरासुतम् ॥ १६॥
निर्जगाम वनं राजा द्रौपद्या भ्रातृभिः सह ।
षट्त्रिंशच्चैव वर्षाणि कृत्वा राज्यं गजाह्वये ॥ १७॥
गत्वा हिमाचले षट् ते जहुः प्राणान्पृथासुताः ।
परीक्षिदपि राजर्षिः प्रजाः सर्वाः सुधार्मिकः ॥ १८॥
अपालयच्च राजेन्द्रः षष्टिवर्षाण्यतन्द्रितः ।
बभूव मृगयाशीलो जगाम च वनं महत् ॥ १९॥
विद्धं मृगं विचिन्वानो मध्याह्ने भूपतिः स्वयम् ।
तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥ २०॥
राजा घर्मेण सन्तप्तो ददर्श मुनिमन्तिके ।
ध्याने स्थितं मुनिं राजा जलं पप्रच्छ चातुरः ॥ २१॥
नोवाच किञ्चिन्मौनस्थश्चुकोप नृपतिस्तदा ।
मृतं सर्पं तदादाय धनुष्कोट्या तृषातुरः ॥ २२॥
कलिनाविष्टचित्तस्तु कण्ठे तस्य न्यवेशयत् ।
आरोपिते तथा सर्पे नोवाच मुनिसत्तमः ॥ २३॥
न चचाल समाधिस्थो राजापि स्वगृहं गतः ।
तस्य पुत्रोऽतितेजस्वी गविजातो महातपाः ॥ २४॥
महाशक्तोऽथ शुश्राव क्रीडमानो वनान्तिके ।
मित्राण्याहुश्च तत्पुत्रं पितुः कण्ठे तवाधुना ॥ २५॥
लम्भितोऽस्ति मृतः सर्पः केनापीति मुनीश्वर ।
तेषां तद्वचनं श्रुत्वा चुकोपातिशयं तदा ॥ २६॥
शशाप नृपतिं क्रुद्धो गृहीत्वाशु करे जलम् ।
पितुः कण्ठेऽद्य मे येन विनिक्षिप्तो मृतोरगः ॥ २७॥
तक्षकः सप्तरात्रेण तं दशेत्पापपूरुषम् ।
मुनेः शिष्योऽथ राजानं समुपेत्य गृहे स्थितम् ॥ २८॥
शापं निवेदयामास मुनिपुत्रेण चार्पितम् ।
अभिमन्युसुतः श्रुत्वा शापं दत्तं द्विजेन वै ॥ २९॥
अनिवार्यं च विज्ञाय मन्त्रिवृद्धानुवाच ह ।
शप्तोऽहं द्विजरूपेण मम द्वेषादसंशयम् ॥ ३०॥
किं विधेयं मयामात्या उपायश्चिन्त्यतामिह ।
मृत्युः किलानिवार्योऽसौ वदन्ति वेदवादिनः ॥ ३१॥
यत्नस्तथापि शास्त्रोक्तः कर्तव्यः सर्वथा बुधैः ।
उपायवादिनः केचित्प्रवदन्ति मनीषिणः ॥ ३२॥
विज्ञोपायेन सिध्यन्ति कार्याणि नेतरस्य च ।
मणिमन्त्रौषधीनां वै प्रभावाः खलु दुर्विदः ॥ ३३॥
न भवेदिति किं तैस्तु मणिमद्भिः सुसाधितैः ।
सर्पदष्टा पुरा भार्या मुनेः सञ्जीविता मृता ॥ ३४॥
दत्त्वार्धमायुषस्तेन मुनिना सा वराप्सराः ।
भवितव्ये न विश्वासः कर्तव्यः सर्वथा बुधैः ॥ ३५॥
प्रत्यक्षं तत्र दृष्टान्तं पश्यन्तु सचिवाः किल ।
दिवि कोऽपि पृथिव्यां वा दृश्यते पुरुषः क्वचित् ॥ ३६॥
दैवे मतिं समाधाय यस्तिष्ठेत्तु निरुद्यमः ।
विरक्तस्तु यतिर्भूत्वा भिक्षार्थं याति सर्वथा ॥ ३७॥
गृहस्थानां गृहे काममाहूतो वाथवान्यथा ।
यदृच्छयोपपन्नं च क्षिप्तं केनापि वा मुखे ॥ ३८॥
उद्यमेन विना चास्यादुदरे संविशेत्कथम् ।
प्रयत्नश्चोद्यमे कार्यो यदा सिद्धिं न याति चेत् ॥ ३९॥
तदा दैवं स्थितं चेति चित्तमालम्बयेद्बुधः ।
मन्त्रिण ऊचुः ।
को मुनिर्येन दत्त्वार्धमायुषो जीविता प्रिया ॥ ४०॥
कथं मृता महाराज तन्नो ब्रूहि सविस्तरम् ।
राजोवाच ।
भृगोर्भार्या वरारोहा पुलोमा नाम सुन्दरी ॥ ४१॥
तस्यां तु च्यवनो नाम मुनिर्जातोऽतिविश्रुतः ।
च्यवनस्य च शर्यातेः सुकन्या नाम सुन्दरी ॥ ४२॥
तस्यां जज्ञे सुतः श्रीमान्प्रमतिर्नाम विश्रुतः ।
प्रमतेस्तु प्रिया भार्या प्रतापी नाम विश्रुता ॥ ४३॥
रुरुर्नाम सुतो जातस्तथा परमतापसः ।
तस्मिंश्च समये कश्चित्स्थूलकेशश्च विश्रुतः ॥ ४४॥
बभूव तपसा युक्तो धर्मात्मा सत्यसम्मतः ।
एतस्मिन्नन्तरे मान्या मेनका च वराप्सराः ॥ ४५॥
क्रीडां चक्रे नदीतीरे त्रिषु लोकेषु सुन्दरी ।
गर्भं विश्वावसोः प्राप्य निर्गता वरवर्णिनी ॥ ४६॥
स्थलकेशाश्रमे गत्वा विससर्ज वराप्सराः ।
कन्यकां च नदीतीरे त्रिषु लोकेषु सुन्दरीम् ॥ ४७॥
दृष्ट्वानाथां तदा कन्यां जग्राह मुनिसत्तमः ।
पुपोष स्थूलकेशस्तु नाम्ना चक्रे प्रमद्वराम् ॥ ४८॥
सा काले यौवनं प्राप्ता सर्वलक्षणसंयुता ।
रुरुर्दृष्ट्वाथ तां बालां कामबाणार्दितो ह्यभूत् ॥ ४९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे रुरुचरित्रवर्णनं नामाष्टमोऽध्यायः ॥ २.८॥
२.९ नवमोऽध्यायः । परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनम् ।
परीक्षिदुवाच ।
कामार्तः स मुनिर्गत्वा रुरुः सुप्तो निजाश्रमे ।
पिता पप्रच्छ दीनं तं किं रुरो विमना असि ॥ १॥
स तमाहातिकामार्तः स्थूलकेशस्य चाश्रमे ।
कन्या प्रमद्वरा नाम सा मे भार्या भवेदिति ॥ २॥
स गत्वा प्रमतिस्तूर्णं स्थूलकेशं महामुनिम् ।
प्रमुह्य सुमुखं कृत्वा ययाचे तां वराननाम् ॥ ३॥
ददौ वाचं स्थूलकेशः प्रदास्यामि शुभेऽहनि ।
विवाहार्थं च सम्भारं रचयामासतुर्वने ॥ ४॥
प्रमतिः स्थूलकेशश्च विवाहार्थं समुद्यतौ ।
बभूवतुर्महात्मानौ समीपस्थौ तपोवने ॥ ५॥
तस्मिन्नवसरे कन्या रममाणा गृहाङ्गणे ।
प्रसुप्तं पन्नगं पादेनास्पृशच्चारुलोचना ॥ ६॥
दष्टा तु पन्नगेनाथ सा ममार वराङ्गना ।
कोलाहलस्तदा जातो मृतां दृष्ट्वा प्रमद्वराम् ॥ ७॥
मिलिता मुनयः सर्वे चुक्रुशुः शोकसंयुताः ।
भूमौ तां पतितां दृष्ट्वा पिता तस्यातिदुःखितः ॥ ८॥
रुरोद विगतप्राणां दीप्यमानां सुतेजसा ।
रुरुः श्रुत्वा तदाक्रन्दं दर्शनार्थं समागतः ॥ ९॥
ददर्श पतितां तत्र सजीवामिव कामिनीम् ।
रुदन्तं स्थूलकेशं च दृष्ट्वान्यानृषिसत्तमान् ॥ १०॥
रुरुः स्थानाद्बहिर्गत्वा रुरोद विरहाकुलः ।
अहो दैवेन सर्पोऽयं प्रेषितः परमाद्भुतः ॥ ११॥
मम शर्मविघाताय दुःखहेतुरयं किल ।
किं करोमि क्व गच्छामि मृता मे प्राणवल्लभा ॥ १२॥
न वै जीवितुमिच्छामि वियुक्तः प्रिययानया ।
नालिङ्गिता वरारोहा न मया चुम्बिता मुखे ॥ १३॥
न पाणिग्रहणं प्राप्तं मन्दभाग्येन सर्वथा ।
लाजाहोमस्तथा चाग्नौ न कृतस्त्वनया सह ॥ १४॥
मानुष्यं धिगिदं कामं गच्छन्त्वद्य ममासवः ।
दुःखितस्य न वा मृत्युर्वाञ्छितः समुपैति हि ॥ १५॥
सुखं तर्हि कथं दिव्यमाप्यते भुवि वाञ्छितम् ।
प्रपतामि ह्रदे घोरे पावके प्रपताम्यहम् ॥ १६॥
विषमद्मि गले पाशं कृत्वा प्राणांस्त्यजाम्यहम् ।
विलप्यैवं रुरुस्तत्र विचार्य मनसा पुनः ॥ १७॥
उपायं चिन्तयामास स्थितस्तस्मिन्नदीतटे ।
मरणात्किं फलं मे स्यादात्महत्या दुरत्यया ॥ १८॥
दुःखितश्च पिता मे स्याज्जननी चातिदुःखिता ।
दैवस्तुष्टो भवेत्कामं दृष्ट्वा मां त्यक्तजीवितम् ॥ १९॥
सर्वः प्रमुदितश्च स्यान्मत्क्षये नात्र संशयः ।
उपकारः प्रियायाः कः परलोके भवेदपि ॥ २०॥
मृते मय्यात्मघातेन विरहात्पीडितेऽपि च ।
परलोके प्रिया सापि न मे स्यादात्मघातिनः ॥ २१॥
एतदर्थं मृते दोषा मयि नैवामृते पुनः ।
विमृश्यैव रुरुस्तत्र स्नात्वाचम्य शुचिः स्थितः ॥ २२॥
अब्रवीद्वचनं कृत्वा जलं पाणावसौ मुनिः ।
यन्मया सुकृतं किञ्चित्कृतं देवार्चनादिकम् ॥ २३॥
गुरवः पूजिता भक्त्या हुतं जप्तं तपः कृतम् ।
अधीतास्त्वखिला वेदा गायत्री संस्कृता यदि ॥ २४॥
रविराराधितस्तेन सञ्जीवतु मम प्रिया ।
यदि जीवेन्न मे कान्ता त्यजे प्राणानहं ततः ॥ २५॥
इत्युक्त्वा तज्जलं भूमौ चिक्षेपाराध्य देवताः ।
राजोवाच ।
एवं विलपतस्तस्य भार्यया दुःखितस्य च ॥ २६॥
देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं ततः ।
देवदूत उवाच ।
माकार्षीः साहसं ब्रह्मन्कथं जीवेन्मृता प्रिया ॥ २७॥
गतायुरेषा सुश्रोणी गन्धर्वाप्सरसोः सुता ।
अन्यां कामय चार्वङ्गीं मृतेयं चाविवाहिता ॥ २८॥
किं रोदिषि सुदुर्बुद्धे का प्रीतिस्तेऽनया सह ।
रुरुरुवाच ।
देवदूत न चान्यां वै वरिष्याम्यहमङ्गनाम् ॥ २९॥
यदि जीवेन्न जीवेद्वा मर्तव्यं चाधुना मया ।
राजोवाच ।
विदित्वेति हठं तस्य देवदूतो मुदान्वितः ॥ ३०॥
उवाच वचनं तथ्यं सत्यं चातिमनोहरम् ।
उपायं शृणु विप्रेन्द्र विहितं यत्सुरैः पुरा ॥ ३१॥
आयुषोऽर्धप्रदानेन जीवयाशु प्रमद्वराम् ।
रुरुरुवाच ।
आयुषोऽर्धं प्रयच्छामि कन्यायै नात्र संशयः ॥ ३२॥
अद्य प्रत्यावृतप्राणा प्रोत्तिष्ठतु मम प्रिया ।
विश्वावसुस्तदा तत्र विमानेन समागतः ॥ ३३॥
ज्ञात्वा पुत्रीं मृतां चाशु स्वर्गलोकात्प्रमद्वराम् ।
ततो गन्धर्वराजश्च देवदूतश्च सत्तमः ॥ ३४॥
धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ।
धर्मराज रुरोः पत्नी सुता विश्वावसोस्तथा ॥ ३५॥
मृता प्रमद्वरा कन्या दष्टा सर्पेण चाधुना ।
सा रुरोरायुषोऽर्धेन मर्तुकामस्य सूर्यज ॥ ३६॥
समुत्तिष्ठतु तन्वङ्गी व्रतचर्याप्रभावतः ।
धर्म उवाच ।
विश्वावसुसुतां कन्यां देवदूत यदीच्छसि ॥ ३७॥
उत्तिष्ठत्वायुषोऽर्धेन रुरुं गत्वा त्वमर्पय ।
राजोवाच ।
एवमुक्तस्ततो गत्वा जीवयित्वा प्रमद्वराम् ॥ ३८॥
रुरोः समर्पयामास देवदूतस्त्वरान्वितः ।
ततः शुभेऽह्नि विधिना रुरुणापि विवाहिता ॥ ३९॥
इत्थं चोपाययोगेन मृताप्युज्जीविता तदा ।
उपायस्तु प्रकर्तव्यः सर्वथा शास्त्रसम्मतः ॥ ४०॥
मणिमन्त्रौषधीभिश्च विधिवत्प्राणरक्षणे ।
इत्युक्त्वा सचिवान् राजा कल्पयित्वा सुरक्षकान् ॥ ४१॥
कारयित्वाथ प्रासादं सप्तभूमिकमुत्तमम् ।
आरुरोहोत्तरासूनुः सचिवैः सह तत्क्षणम् ॥ ४२॥
मणिमन्त्रधराः शूराः स्थापितास्तत्र रक्षणे ।
प्रेषयामास भूपालो मुनिं गौरमुखं ततः ॥ ४३॥
प्रसादार्थं सेवकस्य क्षमस्वेति पुनः पुनः ।
ब्राह्मणान्सिद्धमन्त्रज्ञान् रक्षणार्थमितस्ततः ॥ ४४॥
मन्त्रिपुत्रः स्थितस्तत्र स्थापयामास दन्तिनः ।
न कश्चिदारुहेत्तत्र प्रासादे चातिरक्षिते ॥ ४५॥
वातोऽपि न चरेत्तत्र प्रवेशे विनिवार्यते ।
भक्ष्यभोज्यादिकं राजा तत्रस्थश्च चकार सः ॥ ४६॥
स्तानसन्ध्यादिकं कर्म तत्रैव विनिवर्त्य च ।
राजकार्याणि सर्वाणि तत्रस्थश्चाकरोन्नृपः ॥ ४७॥
मन्त्रिभिः सह सम्मन्त्र्य गणयन्दिवसानपि ।
कश्चिच्च कश्यपो नाम ब्राह्मणो मन्त्रिसत्तमः ॥ ४८॥
शुश्राव च तथा शापं प्राप्तं राज्ञा महात्मना ।
स धनार्थी द्विजश्रेष्ठः कश्यपः समचिन्तयत् ॥ ४९॥
व्रजामि तत्र यत्रास्ते शप्तो राजा द्विजेन ह ।
इति कृत्वा मतिं विप्रः स्वगृहान्निःसृतः पथि ॥ ५०॥
कश्यपो मन्त्रविद्विद्वान्धनार्थी मुनिसत्तमः ॥ ५१॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वितीयस्कन्धे
परीक्षिद्राज्ञो गुप्तगृहे वासवर्णनं नाम नवमोऽध्यायः ॥ २.९॥
२.१० दशमोऽध्यायः । परीक्षिन्मरणम् ।
सूत उवाच ।
तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।
शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १॥
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः ।
अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ २॥
तमपृच्छत्पन्नगोऽसौ ब्राह्मणं मन्त्रवादिनम् ।
क्व भवांस्त्वरितो याति किञ्च कार्यं चिकीर्षति ॥ ३॥
कश्यप उवाच ।
परीक्षितं नृपश्रेष्ठं तक्षकश्च प्रधक्ष्यति ।
तत्राहं त्वरितो यामि नृपं कर्तुमपज्वरम् ॥ ४॥
मन्त्रोऽस्ति मम विप्रेन्द्र विषनाशकरः किल ।
जीवयिष्याम्यहं तं वै जीवितव्येऽधुना किल ॥ ५॥
तक्षक उवाच ।
अहं स पन्नगो ब्रह्मंस्तं धक्ष्यामि महीपतिम् ।
निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ॥ ६॥
कश्यप उवाच ।
अहं दष्टं त्वया सर्प नृपं शप्तं द्विजेन वै ।
जीवयिष्याम्यसन्देहं कामं मन्त्रबलेन वै ॥ ७॥
तक्षक उवाच ।
यदि त्वं जीवितुं यासि मया दष्टं नृपोत्तमम् ।
मन्त्रशक्तिबलं विप्र दर्शय त्वं ममानघ ॥ ८॥
धक्ष्याम्येनं च न्यग्रोधं विषदंष्ट्राभिरद्य वै ।
कश्यप उवाच ।
जीवयिष्ये त्वया दष्टं दग्धं वा पन्नगोत्तम ॥ ९॥
सूत उवाच ।
अदशत्पन्नगो वृक्षं भस्मसाच्च चकार तम् ।
उवाच कश्यपं भूयो जीवयैनं द्विजोत्तम ॥ १०॥
दृष्ट्वा भस्मीकृतं वृक्षं पन्नगेन विषाग्निना ।
सर्वं भस्म समाहृत्य कश्यपो वाक्यमब्रवीत् ॥ ११॥
पश्य मन्त्रबलं मेऽद्य न्यग्रोधं पन्नगोत्तम ।
जीवयाम्यद्य वृक्षं वै पश्यतस्ते महाविष ॥ १२॥
इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः ।
सिषेच भस्मराशिं तं मन्त्रितेनैव वारिणा ॥ १३॥
तद्वारिसेचनाज्जातो न्यग्रोधः पूर्ववच्छुभः ।
विस्मयं तक्षकः प्राप्तो दृष्ट्वा तं जीवितं नगम् ॥ १४॥
तमाह कश्यपं नागः किमर्थं ते परिश्रमः ।
सम्पादयामि तं कामं ब्रूहि वाडव वाञ्छितम् ॥ १५॥
कश्यप उवाच ।
वित्तार्थी नृपतिं मत्वा शप्तं पन्नग निःसृतः ।
गृहादहं चोपकर्तुं विद्यया नृपसत्तमम् ॥ १६॥
तक्षक उवाच ।
वित्तं गृहाण विप्रेन्द्र यावदिच्छसि पार्थिवात् ।
ददामि स्वगृहं याहि सकामोऽहं भवाम्यतः ॥ १७॥
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य कश्यपः परमार्थवित् ।
चिन्तयामास मनसा किं करोमि पुनः पुनः ॥ १८॥
धनं गहीत्वा स्वगृहं प्रयामि यद्यहं पुनः ।
भविष्यति न मे कीर्तिर्लोके लोभसमाश्रयात् ॥ १९॥
जीवितेऽथ नृपश्रेष्ठे कीर्तिः स्यादचला मम ।
धनप्राप्तिश्च बहुधा भवेत्पुण्यं च जीवनात् ॥ २०॥
रक्षणीयं यशः कामं धिग्धनं यशसा विना ।
सर्वस्वं रघुणा पूर्वं दत्तं विप्राय कीर्तये ॥ २१॥
हरिश्चन्द्रेण कर्णेन कीर्त्यर्थं बहुविस्तरम् ।
उपेक्षेयं कथं भूपं दह्यमानं विषाग्निना ॥ २२॥
जीवितेऽद्य मया राज्ञि सुखं सर्वजनस्य च ।
अराजके प्रजानाशो भविता नात्र संशयः ॥ २३॥
प्रजानाशस्य पापं मे भविष्यति मृते नृपे ।
अपकीर्तिश्च लोकेषु धनलोभाद्भविष्यति ॥ २४॥
इति सञ्चिन्त्य मनसा ध्यानं कृत्वा स कश्यपः ।
गतायुषं च नृपतिं ज्ञातवाम्बुद्धिमत्तरः ॥ २५॥
आसन्नमृत्युं राजानं ज्ञात्वा ध्यानेन कश्यपः ।
गृहं ययौ स धर्मात्मा धनमादाय तक्षकात् ॥ २६॥
निवर्त्य कश्यपं सर्पः सप्तमे दिवसे नृपम् ।
हन्तुकामो जगामाशु नगरं नागसाह्वयम् ॥ २७॥
शुश्राव नगरस्यान्ते प्रासादस्थं परीक्षितम् ।
मणिमन्त्रौषधैः कामं रक्ष्यमाणमतन्द्रितम् ॥ २८॥
चिन्ताविष्टस्तदा नागो विप्रशापभयाकुलः ।
चिन्तयामास योगेन प्रविशेयं गृहं कथम् ॥ २९॥
वञ्जयामि कथं चैनं राजानं पापकारिणम् ।
विप्रशापाद्धतं मूढं विप्रपीडाकरं शठम् ॥ ३०॥
पाण्डवानां कुले जातः कोऽपि नैतादृशो भवेत् ।
तापसस्य गले येन मृतः सर्पो निवेशितः ॥ ३१॥
कृत्वा विगर्हितं कर्म जानन्कालगतिं नृपः ।
रक्षकान्भवने कृत्वा प्रासादमभिगम्य च ॥ ३२॥
मृत्युं वञ्चयते राजा वर्ततेऽद्य निराकुलः ।
तं कथं धक्षयिष्यामि विप्रवाक्येन चोदितः ॥ ३३॥
न जानाति च मन्दात्मा मरणं ह्यनिवर्तनम् ।
तेनासौ रक्षकान्स्थाप्य सौधारूढोऽद्य मोदते ॥ ३४॥
यदि वै विहितो मृत्युर्दैवेनामिततेजसा ।
स कथं परिवर्तेत कृतैर्यत्नैस्तु कोटिभिः ॥ ३५॥
पाण्डवस्य च दायादो जानन्मृत्युं गतं नृपः ।
जीवने मतिमास्थाय स्थितः स्थाने निराकुलः ॥ ३६॥
दानपुण्यादिकं राजा कर्तुमर्हति सर्वथा ।
धर्मेण हन्यते व्याधिर्येनायुः शाश्वतं भवेत् ॥ ३७॥
नोचेन्मृत्युविधिं कृत्वा स्नानदानादिकाः क्रियाः ।
मरणं स्वर्गलोकाय नरकायान्यथा भवेतू ॥ ३८॥
द्विजपीडाकृतं पापं पृथग्वास्य च भूपतेः ।
विप्रशापस्तथा घोर आसन्ने मरणे किल ॥ ३९॥
न कोऽपि ब्राह्मणः पार्श्वे य एनं प्रतिबोधयेत् ।
वेधसा विहितो मृत्युरनिवार्यस्तु सर्वथा ॥ ४०॥
इति सञ्चिन्त्य सर्पोऽसौ स्वान्नागान्निकटे स्थितान् ।
कृत्वा तापसवेषांस्तान्प्राहिणोत्सुभुजङ्गमान् ॥ ४१॥
फलमूलादिकं गृह्य राज्ञे नागोऽथ तक्षकः ।
स्वयं च कीटरूपेण फलमध्ये ससार ह ॥ ४२॥
निर्गतास्ते तदा नागाः फलान्यादाय सत्वराः ।
ते राजभवनं प्राप्य स्थिताः प्रासादसन्निधौ ॥ ४३॥
रक्षकास्तापसान्दृष्ट्वा पप्रच्छुस्तच्चिकीर्षितम् ।
ऊचुस्ते भूपतिं द्रष्टुं प्राप्ताः स्मोऽद्य तपोवनात् ॥ ४४॥
अभिमन्युसुतं वीरं कुलार्कं चारुदर्शनम् ।
परिवर्धयितुं प्राप्ता मन्त्रैराथर्वणैस्तथा ॥ ४५॥
निवेदयध्वं राजानं दर्शनार्थागतान्मुनीन् ।
कृत्वाभिषेकान्यास्यामो दत्त्वा मिष्टफलानिच ॥ ४६॥
भारतानां कुले वापि न दृष्टा द्वाररक्षकाः ।
न श्रुतं तापसानां तु राज्ञोऽसन्दर्शनं किल ॥ ४७॥
आरोहामो वयं तत्र यत्र राजा परीक्षितः ।
आशीर्भिर्वर्धयित्वैनं दत्ताज्ञाः प्रव्रजामहे ॥ ४८॥
सूत उवाच ।
इत्याकर्ण्य वचस्तेषां तापसानां तु रक्षकाः ।
प्रत्यूचुस्तान् द्विजान्मत्वा निदेशं भूपतेर्यथा ॥ ४९॥
नाद्य वो दर्शनं विप्रा राज्ञः स्यादिति नो मतिः ।
श्वः सर्वतापसैरत्र त्वागन्तव्यं नृपालये ॥ ५०॥
अनारोहस्तु प्रासादो विप्राणां मुनिसत्तमाः ।
विप्रशापभयाद्राज्ञा विहितोऽस्ति न संशयः ॥ ५१॥
तदोचुस्तानथो विप्राः फलमूलजलानि च ।
विप्राशिषश्च राज्ञेऽथ ग्राहयन्तु सुरक्षकाः ॥ ५२॥
ते गत्वा नृपतिं प्रोचुस्तापसानागताञ्जनाः ।
राजोवाचानयध्वं वै फलमूलादिकं च यत् ॥ ५३॥
पृच्छध्वं तापसान्कार्यं प्रातरागमनं पुनः ।
प्रणामं कथयध्वं मे नाद्य सन्दर्शनं मम ॥ ५४॥
ते गत्वाथ समादाय फलमूलादिकं च यत् ।
राज्ञे समर्पयामासुर्बहुमानपुरःसरम् ॥ ५५॥
गतेषु तेषु नागेषु विप्रवेषावृतेषु च ।
फलान्यादाय राजासौ सचिवानिदमब्रवीत् ॥ ५६॥
सुहृदो भक्षयन्त्वद्य फलान्येतानि सर्वशः ।
अद्म्यहं चैकमेतद्वै फलं विप्रार्पितं महत् ॥ ५७॥
इत्युक्त्वा तत्फलं दत्त्वा सुहृद्भ्यश्चोत्तरासुतः ।
करे कृत्वा फलं पक्वं ददार नृपतिः स्वयम् ॥ ५८॥
विदारितं फलं राज्ञा तत्र कृमिरभूदणुः ।
स कृष्णनयनस्ताम्रो दृष्टो भूपतिना स्वयम् ॥ ५९॥
तं दृष्ट्वा नृपतिः प्राह सचिवान्विस्मितानथ ।
अस्तमभ्येति सविता विषादद्य न मे भयम् ॥ ६०॥
अङ्गीकरोमि तं शापं कृमिको मां दशत्वयम् ।
एवमुक्त्वा स राजेन्द्रो ग्रीवायां संन्यवेशयत् ॥ ६१॥
अस्तं याते दिवानाथे धृतः कण्ठेऽथ कीटकः ।
तक्षकस्तु तदा जातः कालरूपी भयानकः ॥ ६२॥
राजा संवेष्टितस्तेन दष्टश्चापि महीपतिः ।
मन्त्रिणो विस्मयं प्राप्ता रुरुदुर्भृशदुःखिताः ॥ ६३॥
घोररूपमहिं वीक्ष्य दुद्रुवुस्ते भयार्दिताः ।
चुक्रुशू रक्षकाः सर्वे हाहाकारो महानभूत् ॥ ६४॥
वेष्टितो भोगिभोगेन विनष्टबहुपौरुषः ।
नोवाच नृपतिः किञ्चिन्न चचालोत्तरासुतः ॥ ६५॥
उत्थिताग्निशिखा घोरा विषजा तक्षकाननात् ।
प्रजज्वाल नृपं त्वाशु गतप्राणं चकार ह ॥ ६६॥
हत्वाशु जीवितं राज्ञस्तक्षको गगने गतः ।
जगद्दग्धं तु कुर्वाणं ददृशुस्तं जना इह ॥ ६७॥
स पपात गतप्राणो राजा दग्ध इव द्रुमः ।
चुकुशुश्च जनाः सर्वे मृतं दृष्ट्वा नराधिपम् ॥ ६८॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे परीक्षिन्मरणं नाम दशमोऽध्यायः ॥ २.१०॥
२.११ एकादशोऽध्यायः । सर्पसत्रवर्णनम् ।
सूत उवाच ।
गतप्राणं तु राजानं बालं पुत्रं समीक्ष्य च ।
चक्रुश्च मन्त्रिणः सर्वे परलोकस्य सत्क्रियाः ॥ १॥
गङ्गातीरे दग्धदेहं भस्मप्रायं महीपतिम् ।
अगुरुभिश्चाभियुक्तायां चितायामध्यरोपयन् ॥ २॥
दुर्मरणे मृतस्यास्य चकुश्चैवौर्ध्वदैहिकीम् ।
क्रियां पुरोहितास्तस्य वेदमन्त्रैर्विधानतः ॥ ३॥
ददुर्दानानि विप्रेभ्यो गाः सुवर्णं यथोचितम् ।
अन्नं बहुविधं तत्र वस्त्राणि विविधानि च ॥ ४॥
सुमुहूर्ते सुतं बालं प्रजानां प्रीतिवर्धनम् ।
सिंहासने शुभे तत्र मन्त्रिणः संन्यवेशयन् ॥ ५॥
पौरा जानपदा लोकाश्चक्रुस्तं नृपतिं शिशुम् ।
जनमेजयनामानं राजलक्षणसंयुतम् ॥ ६॥
धात्रेयी शिक्षयामास राजचिह्नानि सर्वशः ।
दिने दिने वर्धमानः स बभूव महामतिः ॥ ७॥
प्राप्ते चैकादशे वर्षे तस्मै कुलपुरोहितः ।
यथोचितां ददौ विद्यां जग्राह स यथोचिताम् ॥ ८॥
धनुर्वेदं कृपः पूर्णं ददावस्मै सुसंस्कृतम् ।
अर्जुनाय यथा द्रोणः कर्णाय भार्गवो यथा ॥ ९॥
सम्प्राप्तविद्यो बलवान्वभूव दुरतिक्रमः ।
धनुर्वेदे तथा वेदे पारगः परमार्थवित् ॥ १०॥
धर्मशास्त्रार्थकुशलः सत्यवादी जितेन्द्रियः ।
चकार राज्यं धर्मात्मा पुरा धर्मसुतो यथा ॥ ११॥
ततः सुवर्णवर्माख्यो राजा काशिपतिः किल ।
वपुष्टमां शुभा कन्यां ददौ पारीक्षिताय च ॥ १२॥
स तां प्राप्यासितापाङ्गीं मुमुदे जनमेजयः ।
काशिराजसुतां कान्तां प्राप्य राजा यथा पुरा ॥ १३॥
विचित्रवीर्यो मुमुदे सुभद्रां च यथार्जुनः ।
विजहार महीपालो वनेषूपवनेषु च ॥ १४॥
तया कमलपत्राक्ष्या शच्या शतक्रतुर्यथा ।
प्रजास्तस्य सुसन्तुष्टा बभूवुः सुखलालिताः ॥ १५॥
मन्त्रिणः कर्मकुशलाश्चक्रुः कार्याणि सर्वशः ।
एतस्मिन्नेव काले तु मुनिरुत्तङ्कनामकः ॥ १६॥
तक्षकेण परिक्लिष्टो हस्तिनापुरमभ्यगात् ।
वैरस्यापचितिं कोऽस्य प्रकुर्यादिति चिन्तयन् ॥ १७॥
परीक्षितसुतं मत्वा तं नृपं समुपागतः ।
कार्याकार्यं न जानासि समये नृपसत्तम ॥ १८॥
अकर्तव्यं करोष्यद्य कर्तव्यं न करोषि वै ।
किं त्वां सम्प्रार्थयाम्यद्य गतामर्षं निरुद्यमम् ॥ १९॥
अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् ।
जनमेजय उवाच ।
किं वैरं न मया ज्ञातं न किं प्रतिकृतं मया ॥ २०॥
तद्वद त्वं महाभाग करोमि यदनन्तरम् ।
उत्तङ्क उवाच ।
पिता ते निहतो भूप तक्षकेण दुरात्मना ॥ २१॥
मन्त्रिणस्त्वं समाहूय पृच्छ स्वपितृनाशनम् ।
सूत उवाच ।
तच्छ्रुत्वा वचनं राजा पप्रच्छ मन्त्रिसत्तमान् ॥ २२॥
ऊचुस्ते द्विजशापेन दष्टः सर्पेण वै मृतः ।
जनमेजय उवाच ।
शापोऽत्र कारणं राज्ञः शप्तस्य मुनिना किल ॥ २३॥
तक्षकस्य तु को दोषो ब्रूहि मे मुनिसत्तम ।
उत्तङ्क उवाच ।
तक्षकेण धनं दत्त्वा कश्यपः सन्निवारितः ॥ २४॥
न स किं तक्षको वैरी पितृहा तव भूपते ।
भार्या रुरोः पुरा भूप दष्टा सर्पेण सा मृता ॥ २५॥
अविवाहिता तु मुनिना जीविता च पुनः प्रिया ।
रुरुणापि कृता तत्र प्रतिज्ञा चातिदारुणा ॥ २६॥
यं यं सर्पं प्रपश्यामि तं तं हन्म्यायुधेन वै ।
एवं कृत्वा प्रतिज्ञां स शस्त्रपाणी रुरुस्तदा ॥ २७॥
व्यचरत्पृथिवीं राजन्निघ्नन्सर्पान्यतस्ततः ।
एकदा स वने घोरं डुण्डुभं जरसान्वितम् ॥ २८॥
अपश्यद्दण्डमुद्यम्य हन्तुं तं समुपाययौ ।
अभ्यहन्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ॥ २९॥
नापराध्नोमि ते विप्र कस्मान्मामभिहंसि वै ।
रुरुरुवाच ।
प्राणप्रिया मे दयिता दष्टा सर्पेण सा मृता ॥ ३०॥
प्रतिज्ञेयं तदा सर्प दुःखितेन मया कृता ।
डुण्डुभ उवाच ।
नाहं दशामि तेऽन्ये वै ये दशन्ति भुजङ्गमाः ॥ ३१॥
शरीरसमयोगेन न मां हिंसितुमर्हसि ।
उत्तङ्क उवाच ।
श्रुत्वा तां मानुषीं वाणीं सर्पेणोक्तां मनोहराम् ॥ ३२॥
रुरुः पप्रच्छ कोऽसि त्वं कस्माद्डुण्डुभतां गतः ।
सर्प उवाच ।
ब्राह्मणोऽहं पुरा विप्र सखा मे खगमाभिधः ॥ ३३॥
विप्रो धर्मभृतां श्रेष्ठः सत्यवादी जितेन्द्रियः ।
स मया वञ्जितो मौर्ख्यात्सर्पं कृत्वा च तार्णकम् ॥ ३४॥
भयं च प्रापितोऽत्यर्थमग्निहोत्रगृहे स्थितः ।
तेन भीतेन शप्तोऽहं विह्वलेनातिवेपिना ॥ ३५॥
भव सर्पो मन्दबुद्धे येनाहं धर्षितस्त्वया ।
मया प्रसादितोऽत्यर्थं सर्पेणासौ द्विजोत्तमः ॥ ३६॥
मामुवाचाथ तत्क्रोधात्किञ्चिच्छान्तिमवाप्य च ।
रुरुस्ते मोचिता शापस्यास्य सर्प भविष्यति ॥ ३७॥
प्रमतेस्तु सुतो नूनमिति मां सोऽब्रवीद्वचः ।
सोऽहं सर्पो रुरुस्त्वं च शृणु मे परमं वचः ॥ ३८॥
अहिंसा परमो धर्मो विप्राणां नात्र संशयः ।
दया सर्वत्र कर्तव्या ब्राह्मणेन विजानता ॥ ३९॥
यज्ञादन्यत्र विप्रेन्द्र न हिंसा याज्ञिको मता ।
सूत उवाच ।
सर्पयोनेर्विनिर्मुक्तो बाह्मणोऽसौ रुरुस्ततः ॥ ४०॥
कृत्वा तस्य च शापान्तं परित्यक्तं च हिंसनम् ।
विवाहिता तेन बाला मृता सज्जीविता पुनः ॥ ४१॥
कदनं सर्वसर्पाणां कृतं वैरमनुस्मरन् ।
त्वं तु वैरं समुत्सृज्य वर्तसे पन्नगेष्वथ ॥ ४२॥
विमन्युर्भरतश्रेष्ठ पितृघातकरेषु वै ।
अन्तरिक्षे मृतस्तातः स्नानदानविवर्जितः ॥ ४३॥
तस्योद्धारं च राजेन्द्र कुरु हत्वाथ पन्नगान् ।
पितुर्वैरं न जानाति जीवन्नेव मृतो हि सः ॥ ४४॥
दुर्गतिस्ते पितुस्तावद्यावत्तान्न हनिष्यसि ।
अम्बामखमिषं कृत्वा कुरु यज्ञं नृपोत्तम ॥ ४५॥
सर्पसत्रं महाराज पितुर्वैरमनुस्मरन् ।
सूत उवाच ।
इति तस्य वचः श्रुत्वा राजा जन्मेजयस्तदा ॥ ४६॥
नेत्राभ्यामश्रुपातं च चकारातीव दुःखितः ।
धिङ्मामस्तु सुदुर्बुद्धेर्वृथा मानकरस्य वै ॥ ४७॥
पिता यस्य गतिं घोरां प्राप्तः पन्नगपीडितः ।
अद्याहं मखमारभ्य करोम्यपचितिं पितुः ॥ ४८॥
हत्वा सर्पानसन्दिग्धो दीप्यमाने विभावसौ ।
आहूय मन्त्रिणः सर्वान् राजा वचनमब्रवीत् ॥ ४९॥
कुर्वन्तु यज्ञसम्भारं यथार्हं मन्त्रिसत्तमाः ।
गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ॥ ५०॥
कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम् ।
वेदी यज्ञस्य कर्तव्या ममाद्य सचिवाः खलु ॥ ५१॥
तदङ्गत्वे विधेयो वै सर्पसत्रः सुविस्तरः ।
तक्षकस्तु पशुस्तत्र होतोत्तङ्को महामुनिः ॥ ५२॥
शीघ्रमाहूयतां विप्राः सर्वज्ञा वेदपारगाः ।
सूत उवाच ।
मन्त्रिणस्तु तदा चक्रुर्भूपवाक्यैर्विचक्षणाः ॥ ५३॥
यज्ञस्य सर्वसम्भारं वेदीं यज्ञस्य विस्तृताम् ।
हवने वर्तमाने तु सर्पाणां तक्षको गतः ॥ ५४॥
इन्द्रं प्रति भयार्तोऽहं त्राहि मामिति चाब्रवीत् ।
भयभीतं समाश्वास्य स्वासने सन्निवेश्य च ॥ ५५॥
ददावभयमत्यर्थं निर्भयो भव पन्नग ।
तमिन्द्रशरणं ज्ञात्वा मुनिर्दत्ताभयं तथा ॥ ५६॥
उत्तङ्कोऽह्वयदुद्विग्नः सेन्द्रं कृत्वा निमन्त्रणम् ।
स्मृतस्तदा तक्षकेण यायावरकुलोद्भवः ॥ ५७॥
आस्तीको नाम धर्मात्मा जरत्कारुसुतो मुनिः ।
तत्रागत्य मुनेर्बालस्तुष्टाव जनमेजयम् ॥ ५८॥
राजा तमर्चयामास दृष्ट्वा बालं सुपण्डितम् ।
अर्चयित्वा नृपस्तं तु छन्दयामास वाञ्छितैः ॥ ५९॥
स तु वव्रे महाभाग यज्ञोऽयं विरमत्विति ।
सत्यबद्धो नृपस्तेन प्रार्थितश्च पुनस्तथा ॥ ६०॥
होमं निवर्तयामास सर्पाणां मुनिवाक्यतः ।
भारतं श्रावयामास वैशम्पायन विस्तरात् ॥ ६१॥
श्रुत्वापि नृपतिः कामं न शान्तिमभिजग्मिवान् ।
व्यासं पप्रच्छ भूपालो मम शान्तिः कथं भवेत् ॥ ६२॥
मनोऽतिदह्यते कामं किं करोमि वदस्व मे ।
पिता मे दुर्भगस्यैव मृतः पार्थसुतात्मजः ॥ ६३॥
क्षत्रियाणां महाभाग सङ्ग्रामे मरणं वरम् ।
रणे वा मरणं व्यास गृहे वा विधिपूर्वकम् ॥ ६४॥
मरणं न पितुर्मेऽभूदन्तरिक्षे मृतोऽवशः ।
शान्त्युपायं वदस्वात्र त्वं च सत्यवतीसुत ॥ ६५॥
यथा स्वर्गं व्रजेदाशु पिता मे दुर्गतिं गतः ॥ ६६॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे सर्पसत्रवर्णनं नामैकादशोऽध्यायः ॥ २.११॥
२.१२ द्वादशोऽध्यायः । श्रोतृप्रवक्तृप्रसङ्गः ।
सूत उवाच ।
तच्छ्रुत्वा वचनं तस्य व्यासः सत्यवतीसुतः ।
उवाच वचनं तत्र सभायां नृपतिं च तम् ॥ १॥
व्यास उवाच ।
शृणु राजन् प्रवक्ष्यामि पुराणं गुह्यमद्भुतम् ।
पुण्यं भागवतं नाम नानाख्यानयुतं शिवम् ॥ २॥
अध्यापितं मया पूर्वं शुकायात्मसुताय वै ।
श्रावयामि नृप त्वां हि रहस्यं परमं मम ॥ ३॥
धर्मार्थकाममोक्षाणां कारणं श्रवणात्किल ।
शुभद सुखदं नित्यं सर्वागमसमुद्धृतम् ॥ ४॥
जनमेजय उवाच ।
आस्तीकोऽयं सुतः कस्य विघ्नार्थं कथमागतः ।
प्रयोजनं किमत्रास्य सर्पाणां रक्षणे प्रभो ॥ ५॥
कथयैतन्महाभाग विस्तरेण कथानकम् ।
पुराणं च तथा सर्वं विस्तराद्वद सुव्रत ॥ ६॥
व्यास उवाच ।
जरत्कारुर्मुनिः शान्तो न चकार गृहाश्रमम् ।
तेन दृष्टा वने गर्ते लम्बमाना स्वपूर्वजाः ॥ ७॥
ततस्तमाहुः कुरु पुत्र दारा-
न्यथा च नः स्यात्परमा हि तृप्तिः ।
स्वर्गे व्रजामः खलु दुःखमुक्ता
वयं सदाचारयुते सुते वै ॥ ८॥
स तानुवाचाथ लभे समाना-
मयाचितां चातिवशानुगां च ।
तदा गृहारम्भमहं करोमि
ब्रवीमि तथ्यं मम पूर्वजा वै ॥ ९॥
इत्युक्त्वा ताञ्जरत्कारुर्गतस्तीर्थान्प्रति द्विजः ।
तदैव पन्नगाः शप्ता मात्राग्नौ निपतन्त्विति ॥ १०॥
कश्यपस्य मुनेः पत्न्यौ कद्रूश्च विनता तथा ।
दृष्ट्वादित्यरथे चाश्वमूचतुश्च परस्परम् ॥ ११॥
तं दृष्ट्वा च तदा कद्रूर्विनतामिदमब्रवीत् ।
किंवर्णोऽयं हयो भद्रे सत्यं प्रब्रूहि माचिरम् ॥ १२॥
विनतोवाच ।
श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे ।
ब्रूहि वर्णं त्वमप्यस्य ततस्तु विपणावहे ॥ १३॥
कद्रुरुवाच ।
कृष्णवर्णमहं मन्ये हयमेनं शुचिस्मिते ।
एहि सार्धं मया दिव्यं दासीभावाय भामिनि ॥ १४॥
सूत उवाच ।
कद्रूश्च स्वसुतानाह सर्वान्सर्पान्वशे स्थितान् ।
बालाञ्छ्यामान्प्रकुर्वन्तु यावतोऽश्वशरीरके ॥ १५॥
नेति केचन तत्राहुस्तानथासौ शशाप ह ।
जनमेजयस्य यज्ञे वै गमिष्यथ हुताशनम् ॥ १६॥
अन्ये चक्रुर्हयं सर्पाः कर्बुरं वर्णभोगकैः ।
वेष्टयित्वास्य पुच्छं तु मातुः प्रियचिकीर्षया ॥ १७॥
भगिन्यौ च सुसंयुक्ते गत्वा ददृशतुर्हयम् ।
कर्बुरं तं हयं दृष्ट्वा विनता चातिदुःखिता ॥ १८॥
तदाजगाम गरुडः सुतस्तस्या महाबलः ।
स दृष्ट्वा मातरं दीनामपृच्छत्पन्नगाशनः ॥ १९॥
मातः कथं सुदीनासि रुदितेव विभासि मे ।
जीवमाने मयि सुते तथान्ये रविसारथौ ॥ २०॥
दुःखितासि ततो वां धिग्जीवितं चारुलोचने ।
किं जातेन सुतेनाथ यदि माता सुदुःखिता ॥ २१॥
शंस मे कारणं मातः करोमि विगतज्वराम् ।
विनतोवाच ।
सपत्न्या दास्यहं पुत्र किं ब्रवीमि वृथा क्षता ॥ २२॥
वह मां सा ब्रवीत्यद्य तेनास्मि दुःखिता सुत ।
गरुड उवाच ।
वहिष्येऽहं तत्र किल यत्र सा गन्तुमुत्सुका ॥ २३॥
मा शोकं कुरु कल्याणि निश्चिन्तां त्वां करोम्यहम् ।
व्यास उवाच ।
इत्युक्ता सा गता पार्श्वं कद्रोश्च विनता तदा ॥ २४॥
दासीभावमपाकर्तुं गरुडोऽपि महाबलः ।
उवाह तां सपुत्रां वै सिन्धोः पारं जगाम ह ॥ २५॥
गत्वा तां गरुडः प्राह ब्रूहि मातर्नमोऽस्तु ते ।
कथं मुच्येत मे माता दासीभावादसंशयम् ॥ २६॥
कद्रूरुवाच ।
अमृतं देवलोकात्त्वं बलादानीय मे सुतान् ।
समर्पय सुताद्याशु मातरं मोचयाबलाम् ॥ २७॥
व्यास उवाच ।
इत्युक्तः प्रययौ शीघ्रमिन्द्रलोकं महाबलः ।
कृत्वा युद्धं जहाराशु सुधाकुम्भं खगोत्तमः ॥ २८॥
समानीयामृतं मात्रे वैनतेयः समर्पयत् ।
मोचिता विनता तेन दासीभावादसंशयम् ॥ २९॥
अमृतं सञ्जहारेन्द्रः स्नातुं सर्पा यदा गताः ।
दासीभावाद्विनिर्मुक्ता विनता विपतेर्बलात् ॥ ३०॥
तत्रास्तीर्णाः कुशास्तैस्तु लीढाः पन्नगनामकैः ।
द्विजिह्वास्ते सुसम्पन्नाः कुशाग्रस्पर्शमात्रतः ॥ ३१॥
मात्रा शप्ताश्च ये नागा वासुकिप्रमुखाः शुचा ।
ब्रह्माणं शरणं गत्वा ते होचुः शापजं भयम् ॥ ३२॥
तानाह भगवान्ब्रह्मा जरत्कारुर्महामुनिः ।
वासुकेर्भगिनीं तस्मै अर्पयध्वं सनामिकाम् ॥ ३३॥
तस्यां यो जायते पुत्रः स वस्त्राता भविष्यति ।
आस्तीक इति नामासौ भविता नात्र संशयः ॥ ३४॥
वासुकिस्तु तदाकर्ण्य वचनं ब्रह्मणः शिवम् ।
वनं गत्वा सुतां तस्मै ददौ विनयपूर्वकम् ॥ ३५॥
सनामां तां मुनिर्ज्ञात्वा जरत्कारुरुवाच तम् ।
अप्रियं मे यदा कुर्यात्तदा तां सन्त्यजाम्यहम् ॥ ३६॥
वाग्बन्धं तादृशं कृत्वा मुनिर्जग्राह तां स्वयम् ।
दत्त्वा च वासुकिः कामं भवनं स्वं जगाम ह ॥ ३७॥
कृत्वा पर्णकुटीं शुभ्रां जरत्कारुर्महावने ।
तया सह सुखं प्राप रममाणः परन्तप ॥ ३८॥
एकदा भोजनं कृत्वा सुप्तोऽसौ मुनिसत्तमः ।
भगिनी वासुकेस्तत्र संस्थिता वरवर्णिनी ॥ ३९॥
न सम्बोधयितव्योऽहं त्वया कान्ते कथञ्चन ।
इत्युक्त्वा तु गतो निद्रां मुनिस्तां सुदतीं तदा ॥ ४०॥
रविरस्तगिरिं प्राप्तः सन्ध्याकाल उपस्थिते ।
किं करोमि न मे शान्तिस्त्यजेन्मां बोधितः पुनः ॥ ४१॥
धर्मलोपभयाद्भीता जरत्कारुरचिन्तयत् ।
नोचेत्प्रबोथयाम्येनं सन्ध्याकालो वृथा व्रजेत् ॥ ४२॥
धर्मनाशाद्वरं त्यागस्तथापि मरणं ध्रुवम् ।
धर्महानिर्नराणां हि नरकाय भवेत्पुनः ॥ ४३॥
इति सञ्चिन्त्य सा बाला तं मुनिं प्रत्यबोधयत् ।
सन्ध्याकालोऽपि सञ्जात उत्तिष्ठोत्तिष्ठसुव्रत ॥ ४४॥
उत्थितोऽसौ मुनिः कोपात्तामुवाच व्रजाम्यहम् ।
त्वं तु भ्रातृगृहं याहि निद्राविच्छेदकारिणी ॥ ४५॥
वेपमानाब्रवीद्वाक्यमित्युक्ता मुनिना तदा ।
भ्रात्रा दत्ता यदर्थं तत्कथं स्यादमितप्रभ ॥ ४६॥
मुनिः प्राह जरत्कारुं तदस्तीति निराकुलः ।
गता सा मुनिना त्यक्ता वासुकेः सदनं तदा ॥ ४७॥
पृष्टा भ्रात्राब्रवीद्वाक्यं यथोक्तं पतिना तदा ।
अस्तीत्युक्त्वा च हित्वा मां गतोऽसौ मुनिसत्तमः ॥ ४८॥
वासुकिस्तु तदाकर्ण्य सत्यावाङ्मुनिरित्युत ।
विश्वासं च परं कृत्वा भगिनीं तां समाश्रयत् ॥ ४९॥
ततः कालेन कियता जातोऽसौ मुनिबालकः ।
आस्तीक इति नामासौ विख्यातः कुरुसत्तम ॥ ५०॥
तेनायं रक्षितो यज्ञस्तव पार्थिवसत्तम ।
मातृपक्षस्य रक्षार्थं मुनिना भावितात्मना ॥ ५१॥
भव्यं कृतं महाराज मानितोऽयं त्वया मुनिः ।
यायावरकुलोत्पनो वासुकेर्भगिनीसुतः ॥ ५२॥
स्वस्ति तेऽस्तु महाबाहो भारतं सकलं श्रुतम् ।
दानानि बहु दत्तानि पूजिता मुनयस्तथा ॥ ५३॥
कृतेन सुकृतेनापि न पिता स्वर्गतिं गतः ।
पावितं न कुलं कृत्स्नं त्वया भूपतिसत्तम ॥ ५४॥
देव्याश्चायतनं भूप विस्तीर्णं कुरु भक्तितः ।
येन वै सकला सिद्धिस्तव स्याज्जनमेजय ॥ ५५॥
पूजिता परया भक्त्या शिवा सकलदा सदा ।
कुलवृद्धिं करोत्येव राज्यं च सुस्थिरं सदा ॥ ५६॥
देवीमखं विधानेन कृत्वा पार्थिवसत्तम ।
श्रीमद्भागवतं नाम पुराणं परमं शृणु ॥ ५७॥
त्वामहं श्रावयिष्यामि कथां परमपावनीम् ।
संसारतारिणीं दिव्यां नानारससमाहृताम् ॥ ५८॥
न श्रोतव्यं परं चास्मात्पुराणाद्विद्यते भुवि ।
नाराध्यं विद्यते राजन्देवीपादाम्बुजादृते ॥ ५९॥
ते सभाग्याः कृतप्रज्ञा धन्यास्ते नृपसत्तम ।
येषां चित्ते सदा देवी वसति प्रेमसङ्कुले ॥ ६०॥
सुदुःखितास्ते दृश्यन्ते भुवि भारत भारते ।
नाराधिता महामाया यैर्जनैश्च सदाम्बिका ॥ ६१॥
ब्रह्मादयः सुराः सर्वे यदाराधनतत्पराः ।
वर्तन्ते सर्वदा राजंस्तां न सेवेत को जनः ॥ ६२॥
य इदं शृणुयान्नित्यं सर्वान्कामानवाप्नुयात् ।
भगवत्या समाख्यातं विष्णवे यदनुत्तमम् ॥ ६३॥
तेन श्रुतेन ते राजंश्चित्ते शान्तिर्भविष्यति ।
पितॄणां चाक्षयः स्वर्गः पुराणश्रवणाद्भवेत् ॥ ६४॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वितीयस्कन्धे श्रोतृप्रवक्तृप्रसङ्गो नाम द्वादशोऽध्यायः ॥ २.१२॥
॥ इति श्रीमद्देवीभागवते महापुराणे द्वितीयस्कन्धः समाप्तः ॥
Encoded and proofread by Vishwas Bhide