श्रीमारुतिस्तवः अथवा नमःपञ्चाशिका
ससीतं राघवं नत्त्वा मारुतिं स्वगुरुं तथा ।
श्रीमारुतिप्रसादाय कुर्वे श्रीमारुतिस्तवम् ॥ १॥
नमस्ते रामदूताय रामभक्ताय ते नमः ।
श्रीहनूमन् नमस्तुभ्यं मारुते ते नमो नमः ॥ २॥
नमस्ते वायुपुत्राय अञ्जनासूनवे नमः ।
कपीन्द्राय नमस्तुभ्यं मारुते ते नमो नमः ॥ ३॥
गदाधारिन् नमस्तुभ्यमद्रिधारक ते नमः ।
विघ्नहारिन् नमस्तेऽस्तु मारुते ते नमो नमः ॥ ४॥
नमः सुखप्रदात्रे ते दुःखहारक ते नमः ।
नमो रामकृपापात्र मारुते ते नमो नमः ॥ ५॥
ज्ञानप्रद नमस्तुभ्यं भक्तिदायक ते नमः ।
भक्तिप्रद नमस्तुभ्यं मारुते ते नमो नमः ॥ ६॥
नमो लङ्घितपाथोधे लङ्कादाहक ते नमः ।
नमः सीताशुचो हर्त्रे मारुते ते नमो नमः ॥ ७॥
नमो राक्षसहन्त्रे च भक्तानां रक्षिणे नमः ।
नमस्तारकदात्रे च मारुते ते नमो नमः ॥ ८॥
नमो रामरहस्यज्ञ वेदान्तवेदिने नमः ।
नमो दयानिधानाय मारुते ते नमो नमः ॥ ९॥
नमो बलसमुद्राय मनोवेगाय ते नमः ।
महावीर नमस्तुभ्यं मारुते ते नमो नमः ॥ १०॥
नमस्ते मैथिलीशिष्य ब्रह्मणो गुरुवे नमः ।
नमः श्रीरामदासाय मारुते ते नमो नमः ॥ ११॥
आचार्यवासवश्रीमद्राघवानन्दनिर्मितः ।
मारुतेर्हि प्रसादाय भवतान्मारुतिस्तवः ॥ १२॥
इति दुर्वादध्वान्तमार्त्तण्ड जगद्गुरु श्रीराघवानन्दाचार्य
सिद्धसंराट्प्रणीता श्रीमारुतिस्तवः (नमःपञ्चाशिका) सम्पूर्णः ।
Proofread by Mrityunjay Pandey