श्रीहनुमदाचार्यप्रणीतः श्रीहनुमत्प्रभुस्तवः
आनन्दभाष्यकृद्रामानन्दं रामं तथेश्वरम् ।
गुरुं नत्त्वा च कुर्वेऽहं श्रीहनुमत्प्रभुस्तवम् ॥ १॥
देहेन्द्रियैर्विना जीवान् जडतुल्यान् विलोक्य हि ।
जगतः सर्जकं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ २॥
अन्तर्बहिश्च संव्याप्य सर्जनानन्तरं किल ।
जगतः पालकं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ३॥
जीवाँश्च व्यथितान् दृष्ट्वा तेषां हि कर्मजालतः ।
जगत्संहारकं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ४॥
सर्जकं पद्मयोनेश्च वेदप्रदायकं तथा ।
शास्त्रयोनिमहं बन्दे श्रीरामं हनुमत्प्रभुम् ॥ ५॥
विभूतिद्वयनाथं च दिव्यदेहगुणं तथा ।
आनन्दाम्बुनिधिं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ६॥
सर्वविदं च सर्वेशं सर्वकर्मफलप्रदम् ।
सर्वश्रुत्यन्वितं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ७॥
चिदचिद्द्वारकं सर्वजगन्मूलमथाव्ययम् ।
सर्वशक्तिमहं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ८॥
प्रभाणां सूर्यवच्चाथ विशेषाणां विशिष्टवत् ।
जीवानामंशिनं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ९॥
अशेषचिदचिद्वस्तुवपुष्फं सत्यसङ्गरम् ।
सर्वेषां शेषिणं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ १०॥
सकृत्प्रपत्तिमात्रेण देहिनां दैन्यशालिनाम् ।
सर्वेभ्योऽभयदं वन्दे श्रीरामं हनुमत्प्रभुम् ॥ ११॥
भावानन्दायशिष्यश्रीहनुमदार्यनिर्मितः ।
लोकल्याणकृद् भूयाच्छ्रीहनुमत्प्रभुस्तवः ॥ १२॥
इति श्रीहनुमदाचार्यप्रणीतः श्रीहनुमत्प्रभुस्तवः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey