श्रीहनुमत्कवचम्
सनत्कुमार उवाच ।
कार्तवीर्यस्य कवचं कथितं ते मुनीश्वर ।
मोहविध्वंसनं जैत्रं मारुतेः कवचं शृणु ॥ १॥
यस्य सन्धारणात्सद्यः सर्वे नश्यन्त्युपद्रवाः ।
भूतप्रेतारिजं दुःखं नाशमेति न संशयः ॥ २॥
एकदाहं गतो द्रष्टुं रामं रमयतां वरम् ।
आनन्दवनिकासंस्थं ध्यायन्तं स्वात्मनः पदम् ॥ ३॥
तत्र रामं रमानाथं पूजितं त्रिदशेश्वरैः ।
नमस्कृत्य तदादिष्टमासनं स्थितवान् पुरः ॥ ४॥
तत्र सर्वं मया वृत्तं रावणस्य वधान्तकम् ।
पृष्टं प्रोवाच राजेन्द्रः श्रीरामः स्वयमादरात् ॥ ५॥
ततः कथान्ते भगवान्मारुतेः कवचं ददौ ।
मह्यं तत्ते प्रवक्ष्यामि न प्रकाश्यं हि कुत्रचित् ॥ ६॥
भविष्यदेतन्निर्द्दिष्टं बालभावेन नारद ।
श्रीरामेणाञ्जनासूनोर्भुक्तिमुक्तिप्रदायकम् ॥ ७॥
अथ कवचम् ।
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यामक्षघ्नः सौम्ये सागरतारकः ॥ ८॥
ऊर्ध्वं पातु कपिश्रेष्ठः केसरिप्रियनन्दनः ।
अधस्ताद्विष्णुभक्तस्तु पातु मध्ये च पावनिः ॥ ९॥
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ।
सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥ १०॥
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ।
नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥ ११॥
कपोलौ कर्णमूले च पातु श्रीरामकिङ्करः ।
नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥ १२॥
पातु कण्ठे तु दैत्यारिः स्कन्धौ पातु सुरारिजित् ।
भुजौ पातु महातेजाः करौ च चरणायुधः ॥ १३॥
नखान्नखायुधः पातु कुक्षौ पातु कपीश्वरः ।
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ॥ १४॥
लङ्कानिभर्जनः पातु पृष्ठदेशे निरन्तरम् ।
नाभिं श्रीरामभक्तस्तु कटिं पात्वनिलात्मजः ॥ १५॥
गुह्यं पातु महाप्राज्ञः सक्थिनी अतिथिप्रियः ।
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ॥ १६॥
जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः ।
अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥ १७॥
अङ्गानि पातु सत्त्वाढ्यः पातु पादाङ्गुलीः सदा ।
मुखाङ्गानि महाशूरः पातु रोमाणि चात्मवान् ॥ १८॥
दिवारात्रौ त्रिलोकेषु सदागतिसुतोऽवतु ।
स्थितं व्रजन्तमासीनं पिबन्तं जक्षतं कपिः ॥ १९॥
लोकोत्तरगुणः श्रीमान् पातु त्र्यम्बकसम्भवः ।
प्रमत्तमप्रमत्तं वा शयानं गहनेऽम्बुनि ॥ २०॥
स्थलेऽन्तरिक्षे ह्यग्नौ वा पर्वते सागरे द्रुमे ।
सङ्ग्रामे सङ्कटे घोरे विराड्रूपधरोऽवतु ॥ २१॥
डाकिनीशाकिनीमारीकालरात्रिमरीचिकाः ।
शयानं मां विभुः पातु पिशाचोरगराक्षसीः ॥ २२॥
दिव्यदेहधरो धीमान्सर्वसत्त्वभयङ्करः ।
साधकेन्द्रावनः शश्वत्पातु सर्वत एव माम् ॥ २३॥
यद्रूपं भीषणं दृष्ट्वा पलायन्ते भयानकाः ।
स सर्वरूपः सर्वज्ञः सृष्टिस्थितिकरोऽवतु ॥ २४॥
स्वयं ब्रह्मा स्वयं विष्णुः साक्षाद्देवो महेश्वरः ।
सूर्यमण्डलगः श्रीदः पातु कालत्रयेऽपि माम् ॥ २५॥
यस्य शब्दमुपाकर्ण्य दैत्यदानवराक्षसाः ।
देवा मनुष्यास्तिर्यञ्चः स्थावरा जङ्गमास्तथा ॥ २६॥
सभया भयनिर्मुक्ता भवन्ति स्वकृतानुगाः ।
यस्यानेककथाः पुण्याः श्रूयन्ते प्रतिकल्पके ॥ २७॥
सोऽवतात्साधकश्रेष्ठं सदा रामपरायणः ।
वैधात्रधातृप्रभृति यत्किञ्चिद्दृश्यतेऽत्यलम् ॥ २८॥
विद्धि व्याप्तं यथा कीशरूपेणानञ्जनेन तत् ।
यो विभुः सोऽहमेषोऽहं स्वीयः स्वयमणुर्बृहत् ॥ २९॥
ऋग्यजुःसामरूपश्च प्रणवस्त्रिवृदध्वरः ।
तस्मै स्वस्मै च सर्वस्मै नतोऽस्म्यात्मसमाधिना ॥ ३०॥
अनेकानन्तब्रह्माण्डधृते ब्रह्मस्वरूपिणे ।
समीरणात्मने तस्मै नतोऽस्म्यात्मस्वरूपिणे ॥ ३१॥
नमो हनुमते तस्मै नमो मारुतसूनवे ।
नमः श्रीरामभक्ताय श्यामाय महते नमः ॥ ३२॥
नमो वानरवीराय सुग्रीवसख्यकारिणे ।
लङ्काविदहनायाथ महासागरतारिणे ॥ ३३॥
सीताशोकविनाशाय राममुद्राधराय च ।
रावणान्तनिदानाय नमः सर्वोत्तरात्मने ॥ ३४॥
मेघनादमखध्वंसकारणाय नमो नमः ।
अशोकवनविध्वंसकारिणे जयदायिने ॥ ३५॥
वायुपुत्राय वीराय आकाशोदरगामिने ।
वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥ ३६॥
ज्वलत्काञ्चनवर्णाय दीर्घलाङ्गूलधारिणे ।
सौमित्रिजयदात्रे च रामदूताय ते नमः ॥ ३७॥
अक्षस्य वधकर्त्रे च ब्रह्मशस्त्रनिवारिणे ।
लक्ष्मणाङ्गमहाशक्तिजातक्षतविनाशिने ॥ ३८॥
रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय नमो नमः ।
ऋक्षवानरवीरौघप्रासादाय नमो नमः ॥ ३९॥
परसैन्यबलघ्नाय शस्त्रास्त्रघ्नाय ते नमः ।
विषघ्नाय द्विषघ्नाय भयघ्नाय नमो नमः ॥ ४०॥
महारिपुभयघ्नाय भक्तत्राणैककारिणे ।
परप्रेरितमन्त्राणां मन्त्राणां स्तम्भकारिणे ॥ ४१॥
var यन्त्राणां स्तम्भकारिणे
पयःपाषाणतरणकारणाय नमो नमः ।
बालार्कमण्डलग्रासकारिणे दुःखहारिणे ॥ ४२॥
नखायुधाय भीमाय दन्तायुधधराय च ।
विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥ ४३॥
प्रतिग्रामस्थितायाथ भूतप्रेतवधार्थिने ।
करस्थशैलशस्त्राय रामशस्त्राय ते नमः ॥ ४४॥
कौपीनवाससे तुभ्यं रामभक्तिरताय च ।
दक्षिणाशाभास्कराय सतां चन्द्रोदयात्मने ॥ ४५॥
कृत्याक्षतव्यथाघ्नाय सर्वक्लेशहराय च ।
स्वाम्याज्ञापार्थसङ्ग्रामसख्यसञ्जयकारिणे ॥ ४६॥
भक्तानां दिव्यवादेषु सङ्ग्रामे जयकारिणे ।
किल्किलारवकाराय घोरशब्दकराय च ॥ ४७॥ var किल्किलाबुबुकाराय
सर्वाग्निव्याधिसंस्तम्भकारिणे भयहारिणे ।
सदा वनफलाहारसन्तृप्ताय विशेषतः ॥ ४८॥
महार्णवशिलाबद्धसेतुबन्धाय ते नमः ।
फलश्रुतिः ।
इत्येतत्कथितं विप्र मारुतेः कवचं शिवम् ॥ ४९॥
यस्मै कस्मै न दातव्यं रक्षणीयं प्रयत्नतः ।
अष्टगन्धैर्विलिख्याथ कवचं धारयेत्तु यः ॥ ५०॥
कण्ठे वा दक्षिणे बाहौ जयस्तस्य पदे पदे ।
किं पुनर्बहुनोक्तेन साधितं लक्षमादरात् ॥ ५१॥
प्रजप्तमेतत्कवचमसाध्यं चापि साधयेत् ॥ ५२॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने
तृतीयपादे हनुमत्कवचनिरूपणं नामाष्टसप्ततितमोऽध्यायः ॥ ७८॥
इस नारदपुराणोक्त मारुतिकवच में हनुमानजी को प्रत्येक श्लोकों के
द्वारा नमस्कार किया गया है और उन्हें राम का बाण कहकर
सम्बोधित भी किया है । इस कल्याणकारी मारुतिकवच का जो भी
साधक प्रतिदिन ब्राह्ममुहूर्त में पाठ करता है, उसकी समस्त
मनोकामनाएँ पूर्ण होती हैं । जो प्राणी इस कवच को अष्टगन्ध
से लिखकर अपने गले या अपनी दाहिनी भुजा में धारण करता है ।
उसे हर कार्य में सफलता प्राप्त होती है । यदि एक लाख बार
श्रद्धा एवं भक्ति से इस कवच का पाठ करके इसे सिद्ध कर
लिया जाय तो असाध्य कार्य भी सिद्ध हो जाते हैं । इसमें संशय
नहीं हैं ।
NA, Kirk Wortman
Naradapurana Purvabhag Adhyaya 78