श्रीहनुमद्व्रतम्
तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेण
विशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये ।
इति सङ्कल्प्य, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतं
करिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियः
सम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थाय
कर्तव्यं सर्वमालोकयति ॥
शौनक उवाच
हनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः ।
कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ १॥
किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् ।
सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ २॥
वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः ।
नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः ।
विचार्य बहुधा तच्च वद नो वदतां वर ॥ ३॥
सूत उवाच
साधु पृष्टं महाभागाः सम्यगेवोच्यते मया ।
बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥
तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ ४॥
पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे ।
तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ ५॥
नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः ।
ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ ६॥
नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् ।
ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ ७॥
तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः ।
अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ ८॥
सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च ।
पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ ९॥
षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ १०॥
पम्पा पूजा ॥
हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् ।
पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम्
तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले ।
पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम्
हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् ।
पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम्
भागीरथि नमस्तुभ्यं सलिलेन सुशोभने ।
अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम्
पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने ।
गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम्
दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा ।
पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम्
शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा ।
पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम्
महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् ।
पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम्
श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् ।
यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम्
कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् ।
यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम्
लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् ।
पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान्
अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् ।
कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम्
कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि ।
नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम्
शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि ।
मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥
तुलसीदामभिश्चापि तथा बिल्वदलैरपि ।
पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणि
अथ अङ्गपूजा ॥
गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि ।
पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि ।
उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि ।
अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि ।
सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि ।
ललिताबाहुरङ्गायै नमः बाहू पूजयामि ।
दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि ।
दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गं
पूजयामि ॥
सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् ।
साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम्
साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति ।
पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम्
शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् ।
साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम्
पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् ।
ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम्
व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् ।
कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम्
प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् ।
पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणं
नमस्ते नमस्ते विशालोज्ज्वलाङ्गे
नमस्ते नमस्ते लसत्सत्तरङ्गे ।
नमस्ते नमस्ते गिरिप्रान्तरङ्गे
नमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारं
अपराधशतं देवि मत्कृतं च दिने दिने ।
क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम्
पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते ।
त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥
मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः ।
सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥
संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा ।
अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥
श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह ।
इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥
कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥
इति पम्पापूजा ॥
देशकालौ स्मृत्वा, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थं
भार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य
(पीठस्य अधोभागे)-अतलाय नमः । वितलाय नमः । सुतलाय नमः ।
रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः ।
तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः ।
तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः ।
तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः ।
सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितचारुरत्नपीठाय नमः ।
(हनुमत् पीठे अलङ्कृतं कलशं निधाय)
ॐ नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् ।
ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसं
कृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥
द्वादशग्रन्थिपूजा -
अञ्जनासूनवे नमः प्रथमग्रन्थिं पूजयामि ।
हनुमते नमः द्वितीयग्रन्थिं पूजयामि ।
वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि ।
महाबलाय नमः चतुर्थग्रन्थिं पूजयामि ।
रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि ।
फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि ।
पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि ।
अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि ।
कपीश्वराय नमः नवमग्रन्थिं पूजयामिः ।
सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि ।
लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि ।
दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि ।
भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि ।
(अङ्ग पूजा)
हनुमते नमः पादौ पूजयामि ।
सुग्रीवसखाय नमः गुल्फौ पूजयामि ।
अङ्गदमित्राय नमः जङ्घे पूजयामि ।
रामदासाय नमः ऊरू पूजयामि ।
अक्षघ्नाय नमः कटिं पूजयामि ।
लङ्कादहनाय नमः वालं पूजयामि ।
रामदासाय नमः नाभिं पूजयामि ।
सागरोल्लङ्घनाय नमः मध्यं पूजयामि ।
लङ्कामर्दनाय नमः केशावलिं पूजयामि ।
सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि ।
सौमित्रिप्राणदाय नमः वक्षः पूजयामि ।
कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि ।
रामाभिषेककारिणे नमः हस्तौ पूजयामि ।
मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि ।
प्रसन्नदवदनाय नमः वदनं पूजयामि ।
पिङ्गनेत्राय नमः नेत्रं पूजयामि ।
श्रुतिपारगाय नमः श्रुतिं पूजयामि ।
ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि ।
मणिकण्ठमालिने नमः शिरः पूजयामि ।
सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि ।
दोरग्रहणम्
अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव ।
वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् ।
व्रतोद्यापनं - यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा,
नित्यकर्म विधायाऽऽचार्य-ब्रह्मऋत्विग्भिः सहोपविश्य,
प्राणानायम्य,
अद्य शुभतिथौ धर्मपत्नीसमेतस्य मम
हनुमद्-व्रतकल्पोक्त-सम्पूर्णफलावाप्तये
धर्मार्थ-काम-मोक्ष-चतुर्विध-पुरुषार्थसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये ।
अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनं
वित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य, एवं
लक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य, ततः त्रयोदशकलशावाहनार्थं
त्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा, ततो
निष्कमात्रसुवर्णेन, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वा
प्राणानायम्य, हनुमद्-व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा,
पुनः प्राणानायम्य, शुभतिथौ धर्मपत्नीसमेतस्य मम
मनोवाञ्छाफलसिद्ध्यर्थं
श्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये ।
इति सङ्कल्प्य,
तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा, मूलमन्त्रेण
शुद्धोदकस्नपनं कृत्वा, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरि
अलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधाय
प्राणप्रतिष्ठां कृत्वा।ततस्त्रयोदशकलशान्
प्रतिमावेष्टितांस्तण्डुलेषु निधाय, कलशपूजां कृत्वा,
तेषु कलशेषु वस्त्राण्यावेष्ट्य, तेषु नानाविधफलानि दत्वा,
कलशपूजां कृत्वा, ततः पीठार्चनं कुर्यात् ॥
पीठस्याधस्तले - अतलाय नमः । वितलाय नमः ।
सुतलाय नमः । रसातलाय नमः । तलातलाय नमः ।
महातलाय नमः । पातालाय नमः ।
तथागाधसर्वतोमुख-सुधाधिभ्यां नमः । तत्र कमठाय नमः ।
तदुपरि - सहस्रफणिफणामण्डित-मणिप्रकाशिताशेषलोकशेषाय नमः ।
अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः ।
दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः ।
मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः ।
तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागे
नवरत्नखचितनूतनपीठाय नमः । (एवं भावयित्वा)
स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् ।
तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥
ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य,
ध्यानम् -
वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं,
कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् ।
सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रं
नित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥
प्रतप्त-जाम्बूनद-दिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् ।
प्रफुल्ल-पङ्केरुह-शोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥
अथ कल्पोक्तप्रकारेण आवाहनादि -षोडशोपचारान् कृत्वा
नमःसर्वहितार्थाय जगदाराध्यकर्मणे ।
अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये ।
इति प्रसन्नार्घ्यं समर्पयामि नमः ।
भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः ।
भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥
उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
एवं रात्रौ प्रथमयामपूजां कृत्वा,
तस्यां रात्र्यां प्रतियामपूजां कुर्वन्,
गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराण-
श्रवणादिभिर्जागरणं कृत्वा, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सह
स्नानं कृत्वा, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य, गृहमागत्य,
पूर्ववत्पूजां कृत्वा, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् ।
क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येण
मूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् ।
पूर्णाहुतिं दत्वा, ब्रह्मणे दक्षिणां दत्वा, तत आचार्यं पूजयित्वा,
प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा, तद्दानसाद्गुण्यार्थं
दक्षिणां दत्वा, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् ।
तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा,
विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य, ऋत्विगादि-
ब्राह्मणान् शतं पञ्चाशत्, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान्
मिष्टान्नभोजनेन सन्तर्प्य, भूरिदानं विभवानुसारेण कुर्यात् ।
एवं कुर्वन् यजमानः कृतार्थो भवति ।
हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान्
प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । इति ॥
From Hanumatstutimanjari, Mahaperiaval Publication
Proofread by PSA Easwaran psaeaswaran at gmail