व्यासाष्टकस्तोत्रं १ भारतमञ्जर्यां क्षेमेन्द्रविरचितम्
नमो ज्ञानानलशिखापुञ्जपिङ्गजटाभृते ।
कृष्णायाकृष्णमहसे कृष्णद्वैपायनाय ते ॥ १९.१३॥
नमस्तेजोमयश्मश्रुप्रभाशबलितत्विषे ।
वक्त्रवागीश्वरीपद्मरजसेवोदितश्रिये ॥ १९.१४॥
नमः सन्ध्यासमाधाननिष्पीतरवितेजसे ।
त्रैलोक्यतिमिरोच्छेददीपप्रतिमचक्षुषे ॥ १९.१५॥
नमः सहस्रशाखाय धर्मोपवनशाखिने ।
सत्त्वप्रतिष्ठापुष्पाय निर्वाणफलशालिने ॥ १९.१६॥
नमः कृष्णाजिनजुषे बोधनन्दनवासिने ।
व्याप्तायेवालिजालेन पुण्यसौरभलिप्सया ॥ १९.१७॥
नमः शशिकलाकारब्रह्मसूत्रांशुशोभिने ।
श्रिताय हंसकान्त्येव सम्पर्कार्कमलौकसः ॥ १९.१८॥
नमो विद्यानदीपूर्णशास्त्राब्धिसकलेन्दवे ।
पीयूषरससाराय कविव्यापारवेधसे ॥ १९.१९॥
नमःसत्यनिवासाय स्वविकाशविलासिने ।
व्यासाय धाम्ने तपसां संसारायासहारिणे ॥ १९.२०॥
इति व्यासाष्टकं कृत्वा महाभारतमञ्जरीम् ।
सचक्रे विबुधानन्दसुधास्यन्दतरङ्गिणीम् ॥ १९.२१॥
समाप्तेयं महाभारतमञ्जरी कृति कवेर्व्यासदासापनाम्नः
प्रकाशेन्द्रसूनोः क्षेमेन्द्रस्य ।
इति भारतमञ्जर्यां क्षेमेन्द्रविरचितं व्यासाष्टकस्तोत्रं सम्पूर्णम् ।
This is in the appendix of 19th parva of
Bharatamanjari after 50th adhyAya.