परमहंस गीता
ॐ नमो भगवते वासुदेवाय ।
॥ दशमोऽध्यायः ॥
श्रीशुक उवाच -
अथ सिन्धुसौवीरपते रहूगणस्य व्रजत
इक्षुमत्यास्तटे तत्कुलपतिना शिबिका-
वाहपुरुषान्वेषणसमये दैवेनोपसादितः
स द्विजवर उपलब्ध एष पीवा युवा
संहननाङ्गो गोखरवद्धुरं वोढुमलमिति
पूर्वविष्टिगृहीतैः सह गृहीतः प्रसभमतदर्ह
उवाह शिबिकां स महानुभावः ॥ १॥
यदा हि द्विजवरस्येषुमात्रावलोकानुगतेर्न
समाहिता पुरुषगतिस्तदा विषमगतां
स्वशिबिकां रहूगण उपधार्य पुरुषानधिवहत
आह हे वोढारः साध्वतिक्रमत किमिति
विषममुह्यते यानमिति ॥ २॥
अथ त ईश्वरवचः सोपालम्भमुपाकर्ण्यो-
पायतुरीयाच्छङ्कितमनसस्तं विज्ञापयां बभूवुः ॥ ३॥
न वयं नरदेव प्रमत्ता भवन्नियमानुपथाः
साध्वेव वहामः अयमधुनैव नियुक्तोऽपि
न द्रुतं व्रजति नानेन सह वोढुमु ह वयं
पारयाम इति ॥ ४॥
सांसर्गिको दोष एव नूनमेकस्यापि सर्वेषां
सांसर्गिकाणां भवितुमर्हतीति निश्चित्य
निशम्य कृपणवचो राजा रहूगण उपासित-
वृद्धोऽपि निसर्गेण बलात्कृत ईषदुत्थित-
मन्युरविस्पष्टब्रह्मतेजसं जातवेदसमिव
रजसाऽऽवृतमतिराह ॥ ५॥
अहो कष्टं भ्रातर्व्यक्तमुरुपरिश्रान्तो दीर्घ-
मध्वानमेक एव ऊहिवान् सुचिरं नातिपीवा
न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे
नो एवापर एते सङ्घट्टिन इति बहु विप्रलब्धो-
ऽप्यविद्यया रचितद्रव्यगुणकर्माशयस्व-
चरमकलेवरेऽवस्तुनि संस्थानविशेषे-
ऽहंममेत्यनध्यारोपितमिथ्याप्रत्ययो
ब्रह्मभूतस्तूष्णीं शिबिकां पूर्ववदुवाह ॥ ६॥
अथ पुनः स्वशिबिकायां विषमगतायां
प्रकुपित उवाच -
रहूगणः किमिदमरे त्वं
जीवन्मृतो मां कदर्थीकृत्य भर्तृशासन-
मतिचरसि प्रमत्तस्य च ते करोमि
चिकित्सां दण्डपाणिरिव जनताया
यथा प्रकृतिं स्वां भजिष्यस इति ॥ ७॥
एवं बह्वबद्धमपि भाषमाणं नरदेवाभिमानं
रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-
भगवत्प्रियनिकेतं पण्डितमानिनं स भगवान्
ब्राह्मणो ब्रह्मभूतः सर्वभूतसुहृदात्मा
योगेश्वरचर्यायां नातिव्युत्पन्नमतिं स्मयमान
इव विगतस्मय इदमाह ॥ ८॥
ब्राह्मण उवाच -
त्वयोदितं व्यक्तमविप्रलब्धं
भर्तुः स मे स्याद्यदि वीर भारः ।
गन्तुर्यदि स्यादधिगम्यमध्वा
पीवेति राशौ न विदां प्रवादः ॥ ९॥
स्थौल्यं कार्श्यं व्याधय आधयश्च
क्षुत्तृड्भयं कलिरिच्छा जरा च ।
निद्रा रतिर्मन्युरहं मदः शुचो
देहेन जातस्य हि मे न सन्ति ॥ १०॥
जीवन्मृतत्वं नियमेन राजन्
आद्यन्तवद्यद्विकृतस्य दृष्टम् ।
स्वस्वाम्यभावो ध्रुव ईड्य यत्र
तर्ह्युच्यतेऽसौ विधिकृत्ययोगः ॥ ११॥
विशेषबुद्धेर्विवरं मनाक्च
पश्याम यन्न व्यवहारतोऽन्यत् ।
क ईश्वरस्तत्र किमीशितव्यं
तथापि राजन् करवाम किं ते ॥ १२॥
उन्मत्तमत्तजडवत्स्वसंस्थां
गतस्य मे वीर चिकित्सितेन ।
अर्थः कियान् भवता शिक्षितेन
स्तब्धप्रमत्तस्य च पिष्टपेषः ॥ १३॥
श्रीशुक उवाच -
एतावदनुवादपरिभाषया प्रत्युदीर्य मुनिवर
उपशमशील उपरतानात्म्यनिमित्त उपभोगेन
कर्मारब्धं व्यपनयन् राजयानमपि तथोवाह ॥ १४॥
स चापि पाण्डवेय सिन्धुसौवीरपतिस्तत्त्व-
जिज्ञासायां सम्यक् श्रद्धयाधिकृताधिकार-
स्तद्धृदयग्रन्थिमोचनं द्विजवच आश्रुत्य बहु
योगग्रन्थसम्मतं त्वरयावरुह्य शिरसा
पादमूलमुपसृतः क्षमापयन् विगत-
नृपदेवस्मय उवाच ॥ १५॥
कस्त्वं निगूढश्चरसि द्विजानां
बिभर्षि सूत्रं कतमोऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात्क्षेमाय
नश्चेदसि नोत शुक्लः ॥ १६॥
नाहं विशङ्के सुरराजवज्रान्न
त्र्यक्षशूलान्न यमस्य दण्डात् ।
नाग्न्यर्कसोमानिलवित्तपास्त्राच्छङ्के
भृशं ब्रह्मकुलावमानात् ॥ १७॥
तद्ब्रूह्यसङ्गो जडवन्निगूढ-
विज्ञानवीर्यो विचरस्यपारः ।
वचांसि योगग्रथितानि साधो
न नः क्षमन्ते मनसापि भेत्तुम् ॥ १८॥
अहं च योगेश्वरमात्मतत्त्वविदां
मुनीनां परमं गुरुं वै ।
प्रष्टुं प्रवृत्तः किमिहारणं तत्साक्षाद्धरिं
ज्ञानकलावतीर्णम् ॥ १९॥
स वै भवाँल्लोकनिरीक्षणार्थ-
मव्यक्तलिङ्गो विचरत्यपि स्वित् ।
योगेश्वराणां गतिमन्धबुद्धिः
कथं विचक्षीत गृहानुबन्धः ॥ २०॥
दृष्टः श्रमः कर्मत आत्मनो वै
भर्तुर्गन्तुर्भवतश्चानुमन्ये ।
यथासतोदानयनाद्यभावात्समूल
इष्टो व्यवहारमार्गः ॥ २१॥
स्थाल्यग्नितापात्पयसोऽभिताप-
स्तत्तापतस्तण्डुलगर्भरन्धिः ।
देहेन्द्रियास्वाशयसन्निकर्षा-
त्तत्संसृतिः पुरुषस्यानुरोधात् ॥ २२॥
शास्ताभिगोप्ता नृपतिः प्रजानां
यः किङ्करो वै न पिनष्टि पिष्टम् ।
स्वधर्ममाराधनमच्युतस्य
यदीहमानो विजहात्यघौघम् ॥ २३॥
तन्मे भवान् नरदेवाभिमानमदेन
तुच्छीकृतसत्तमस्य ।
कृषीष्ट मैत्री दृशमार्तबन्धो
यथा तरे सदवध्यानमंहः ॥ २४॥
न विक्रिया विश्वसुहृत्सखस्य
साम्येन वीताभिमतेस्तवापि ।
महद्विमानात्स्वकृताद्धि मादृ-
ङ्नङ्क्ष्यत्यदूरादपि शूलपाणिः ॥ २५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे दशमोऽध्यायः ॥ १०॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां प्रथमोऽध्यायः । १
॥ एकादशोऽध्यायः ॥
ब्राह्मण उवाच
अकोविदः कोविदवादवादान्
वदस्यथो नातिविदां वरिष्ठः ।
न सूरयो हि व्यवहारमेनं
तत्त्वावमर्शेन सहामनन्ति ॥ १॥
तथैव राजन्नुरुगार्हमेध-
वितानविद्योरुविजृम्भितेषु ।
न वेदवादेषु हि तत्त्ववादः
प्रायेण शुद्धो नु चकास्ति साधुः ॥ २॥
न तस्य तत्त्वग्रहणाय साक्षा-
द्वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं
न यस्य हेयानुमितं स्वयं स्यात् ॥ ३॥
यावन्मनो रजसा पूरुषस्य
सत्त्वेन वा तमसा वानुरुद्धम् ।
चेतोभिराकूतिभिरातनोति
निरङ्कुशं कुशलं चेतरं वा ॥ ४॥
स वासनात्मा विषयोपरक्तो
गुणप्रवाहो विकृतः षोडशात्मा ।
बिभ्रत्पृथङ्नामभि रूपभेद-
मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५॥
दुःखं सुखं व्यतिरिक्तं च तीव्रं
कालोपपन्नं फलमाव्यनक्ति ।
आलिङ्ग्य मायारचितान्तरात्मा
स्वदेहिनं संसृतिचक्रकूटः ॥ ६॥
तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ।
तस्मान्मनो लिङ्गमदो वदन्ति
गुणागुणत्वस्य परावरस्य ॥ ७॥
गुणानुरक्तं व्यसनाय जन्तोः
क्षेमाय नैर्गुण्यमथो मनः स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखाः सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मनः श्रयतेऽन्यत्र तत्त्वम् ॥ ८॥
एकादशासन्मनसो हि वृत्तय
आकूतयः पञ्च धियोऽभिमानः ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमीः ॥ ९॥
गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पाः ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहुः ॥ १०॥
द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकाराः ।
सहस्रशः शतशः कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ ११॥
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य
मायारचितस्य नित्याः ।
आविर्हिताः क्वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ १२॥
क्षेत्रज्ञ आत्मा पुरुषः पुराणः
साक्षात्स्वयंज्योतिरजः परेशः ।
नारायणो भगवान्वासुदेवः
स्वमाययाऽऽत्मन्यवधीयमानः ॥ १३॥
यथानिलः स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेवः
क्षेत्रज्ञ आत्मेदमनुप्रविष्टः ॥ १४॥
न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५॥
न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६॥
भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्तः ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे एकादशोऽध्यायः ॥ ११॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां द्वितीयोऽध्यायः । २
॥ द्वादशोऽध्यायः ॥
रहूगण उवाच
नमो नमः कारणविग्रहाय
स्वरूपतुच्छीकृतविग्रहाय ।
नमोऽवधूतद्विजबन्धुलिङ्ग-
निगूढनित्यानुभवाय तुभ्यम् ॥ १॥
ज्वरामयार्तस्य यथागदं
सन्निदाघदग्धस्य यथा हिमाम्भः ।
कुदेहमानाहिविदष्टदृष्टे-
र्ब्रह्मन्वचस्तेऽमृतमौषधं मे ॥ २॥
तस्माद्भवन्तं मम संशयार्थं
प्रक्ष्यामि पश्चादधुना सुबोधम् ।
अध्यात्मयोगग्रथितं तवोक्त-
माख्याहि कौतूहलचेतसो मे ॥ ३॥
यदाह योगेश्वर दृश्यमानं
क्रियाफलं सद्व्यवहारमूलम् ।
न ह्यञ्जसा तत्त्वविमर्शनाय
भवानमुष्मिन् भ्रमते मनो मे ॥ ४॥
ब्राह्मण उवाच
अयं जनो नाम चलन् पृथिव्यां
यः पार्थिवः पार्थिव कस्य हेतोः ।
तस्यापि चाङ्घ्र्योरधिगुल्फजङ्घा-
जानूरुमध्योरशिरोधरांसाः ॥ ५॥
अंसेऽधि दार्वी शिबिका च यस्यां
सौवीरराजेत्यपदेश आस्ते ।
यस्मिन् भवान् रूढनिजाभिमानो
राजास्मि सिन्धुष्विति दुर्मदान्धः ॥ ६॥
शोच्यानिमांस्त्वमधिकष्टदीनान्
विष्ट्या निगृह्णन् निरनुग्रहोऽसि ।
जनस्य गोप्तास्मि विकत्थमानो
न शोभसे वृद्धसभासु धृष्टः ॥ ७॥
यदा क्षितावेव चराचरस्य
विदाम निष्ठां प्रभवं च नित्यम् ।
तन्नामतोऽन्यद्व्यवहारमूलं
निरूप्यतां सत्क्रिययानुमेयम् ॥ ८॥
एवं निरुक्तं क्षितिशब्दवृत्त
मसन्निधानात्परमाणवो ये ।
अविद्यया मनसा कल्पितास्ते
येषां समूहेन कृतो विशेषः ॥ ९॥
एवं कृशं स्थूलमणुर्बृहद्यदसच्च
सज्जीवमजीवमन्यत् ।
द्रव्यस्वभावाशयकालकर्म-
नाम्नाजयावेहि कृतं द्वितीयम् ॥ १०॥
ज्ञानं विशुद्धं परमार्थमेक-
मनन्तरं त्वबहिर्ब्रह्म सत्यम् ।
प्रत्यक्प्रशान्तं भगवच्छब्दसंज्ञं
यद्वासुदेवं कवयो वदन्ति ॥ ११॥
रहूगणैतत्तपसा न याति
न चेज्यया निर्वपणाद्गृहाद्वा ।
न छन्दसा नैव जलाग्निसूर्यैर्विना
महत्पादरजोऽभिषेकम् ॥ १२॥
यत्रोत्तमश्लोकगुणानुवादः
प्रस्तूयते ग्राम्यकथाविघातः ।
निषेव्यमाणोऽनुदिनं मुमुक्षोर्मतिं
सतीं यच्छति वासुदेवे ॥ १३॥
अहं पुरा भरतो नाम राजा
विमुक्तदृष्टश्रुतसङ्गबन्धः ।
आराधनं भगवत ईहमानो
मृगोऽभवं मृगसङ्गाद्धतार्थः ॥ १४॥
सा मां स्मृतिर्मृगदेहेऽपि वीर
कृष्णार्चनप्रभवा नो जहाति ।
अथो अहं जनसङ्गादसङ्गो
विशङ्कमानोऽविवृतश्चरामि ॥ १५॥
तस्मान्नरोऽसङ्गसुसङ्गजात-
ज्ञानासिनेहैव विवृक्णमोहः ।
हरिं तदीहाकथनश्रुताभ्यां
लब्धस्मृतिर्यात्यतिपारमध्वनः ॥ १६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे ब्राह्मणरहूगणसंवादे द्वादशोऽध्यायः ॥ १२॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां तृतीयोऽध्यायः । ३
॥ त्रयोदशोऽध्यायः ॥
ब्राह्मण उवाच
दुरत्ययेऽध्वन्यजया निवेशितो
रजस्तमःसत्त्वविभक्तकर्मदृक् ।
स एष सार्थोऽर्थपरः परिभ्रमन्
भवाटवीं याति न शर्म विन्दति ॥ १॥
यस्यामिमे षण्नरदेव दस्यवः
सार्थं विलुम्पन्ति कुनायकं बलात् ।
गोमायवो यत्र हरन्ति सार्थिकं
प्रमत्तमाविश्य यथोरणं वृकाः ॥ २॥
प्रभूतवीरुत्तृणगुल्मगह्वरे
कठोरदंशैर्मशकैरुपद्रुतः ।
क्वचित्तु गन्धर्वपुरं प्रपश्यति
क्वचित्क्वचिच्चाशु रयोल्मुकग्रहम् ॥ ३॥
निवासतोयद्रविणात्मबुद्धि-
स्ततस्ततो धावति भो अटव्याम् ।
क्वचिच्च वात्योत्थितपांसुधूम्रा
दिशो न जानाति रजस्वलाक्षः ॥ ४॥
अदृश्यझिल्लीस्वनकर्णशूल
उलूकवाग्भिर्व्यथितान्तरात्मा ।
अपुण्यवृक्षान् श्रयते क्षुधार्दितो
मरीचितोयान्यभिधावति क्वचित् ॥ ५॥
क्वचिद्वितोयाः सरितोऽभियाति
परस्परं चालषते निरन्धः ।
आसाद्य दावं क्वचिदग्नितप्तो
निर्विद्यते क्व च यक्षैर्हृतासुः ॥ ६॥
शूरैर्हृतस्वः क्व च निर्विण्णचेताः
शोचन्विमुह्यन्नुपयाति कश्मलम् ।
क्वचिच्च गन्धर्वपुरं प्रविष्टः
प्रमोदते निर्वृतवन्मुहूर्तम् ॥ ७॥
चलन् क्वचित्कण्टकशर्कराङ्घ्रि-
र्नगारुरुक्षुर्विमना इवास्ते ।
पदे पदेऽभ्यन्तरवह्निनार्दितः
कौटुम्बिकः क्रुध्यति वै जनाय ॥ ८॥
क्वचिन्निगीर्णोऽजगराहिना जनो
नावैति किञ्चिद्विपिनेऽपविद्धः ।
दष्टः स्म शेते क्व च दन्दशूकै-
रन्धोऽन्धकूपे पतितस्तमिस्रे ॥ ९॥
कर्हि स्म चित्क्षुद्ररसान् विचिन्वं-
स्तन्मक्षिकाभिर्व्यथितो विमानः ।
तत्रातिकृच्छ्रात्प्रतिलब्धमानो
बलाद्विलुम्पन्त्यथ तं ततोऽन्ये ॥ १०॥
क्वचिच्च शीतातपवातवर्ष-
प्रतिक्रियां कर्तुमनीश आस्ते ।
क्वचिन्मिथो विपणन् यच्च किञ्चि-
द्विद्वेषमृच्छत्युत वित्तशाठ्यात् ॥ ११॥
क्वचित्क्वचित्क्षीणधनस्तु तस्मिन्
शय्यासनस्थानविहारहीनः ।
याचन् परादप्रतिलब्धकामः
पारक्यदृष्टिर्लभतेऽवमानम् ॥ १२॥
अन्योन्यवित्तव्यतिषङ्गवृद्ध-
वैरानुबन्धो विवहन् मिथश्च ।
अध्वन्यमुष्मिन्नुरुकृच्छ्रवित्त-
बाधोपसर्गैर्विहरन् विपन्नः ॥ १३॥
तांस्तान् विपन्नान् स हि तत्र तत्र
विहाय जातं परिगृह्य सार्थः ।
आवर्ततेऽद्यापि न कश्चिदत्र
वीराध्वनः पारमुपैति योगम् ॥ १४॥
मनस्विनो निर्जितदिग्गजेन्द्रा
ममेति सर्वे भुवि बद्धवैराः ।
मृधे शयीरन् न तु तद्व्रजन्ति
यन्न्यस्तदण्डो गतवैरोऽभियाति ॥ १५॥
प्रसज्जति क्वापि लता भुजाश्रय-
स्तदाश्रयाव्यक्तपदद्विजस्पृहः ।
क्वचित्कदाचिद्धरिचक्रतस्त्रसन्
सख्यं विधत्ते बककङ्कगृध्रैः ॥ १६॥
तैर्वञ्चितो हंसकुलं समाविश-
न्नरोचयन् शीलमुपैति वानरान् ।
तज्जातिरासेन सुनिर्वृतेन्द्रियः
परस्परोद्वीक्षणविस्मृतावधिः ॥ १७॥
द्रुमेषु रंस्यन् सुतदारवत्सलो
व्यवायदीनो विवशः स्वबन्धने ।
क्वचित्प्रमादाद्गिरिकन्दरे पतन्
वल्लीं गृहीत्वा गजभीत आस्थितः ॥ १८॥
अतः कथञ्चित्स विमुक्त आपदः
पुनश्च सार्थं प्रविशत्यरिन्दम ।
अध्वन्यमुष्मिन्नजया निवेशितो
भ्रमञ्जनोऽद्यापि न वेद कश्चन ॥ १९॥
रहूगण त्वमपि ह्यध्वनोऽस्य
सन्न्यस्तदण्डः कृतभूतमैत्रः ।
असज्जितात्मा हरिसेवया शितं
ज्ञानासिमादाय तरातिपारम् ॥ २०॥
राजोवाच
अहो नृजन्माखिलजन्मशोभनं
किं जन्मभिस्त्वपरैरप्यमुष्मिन् ।
न यद्धृषीकेशयशःकृतात्मनां
महात्मनां वः प्रचुरः समागमः ॥ २१॥
न ह्यद्भुतं त्वच्चरणाब्जरेणुभि-
र्हतांहसो भक्तिरधोक्षजेऽमला ।
मौहूर्तिकाद्यस्य समागमाच्च मे
दुस्तर्कमूलोऽपहतोऽविवेकः ॥ २२॥
नमो महद्भ्योऽस्तु नमः शिशुभ्यो
नमो युवभ्यो नम आवटुभ्यः ।
ये ब्राह्मणा गामवधूतलिङ्गा-
श्चरन्ति तेभ्यः शिवमस्तु राज्ञाम् ॥ २३॥
श्रीशुक उवाच
इत्येवमुत्तरामातः स वै ब्रह्मर्षिसुतः
सिन्धुपतय आत्मसतत्त्वं विगणयतः
परानुभावः परमकारुणिकतयोपदिश्य
रहूगणेन सकरुणमभिवन्दितचरण
आपूर्णार्णव इव निभृतकरणोर्म्याशयो
धरणिमिमां विचचार ॥ २४॥
सौवीरपतिरपि सुजनसमवगतपरमात्म-
सतत्त्व आत्मन्यविद्याध्यारोपितां च
देहात्ममतिं विससर्ज एवं हि नृप भगव-
दाश्रिताश्रितानुभावः ॥ २५॥
राजोवाच
यो ह वा इह बहुविदा महाभागवत
त्वयाभिहितः परोक्षेण वचसा जीवलोक-
भवाध्वा स ह्यार्य मनीषया कल्पितविषयो नाञ्जसाव्युत्पन्नलोकसमधिगमः अथ
तदेवैतद्दुरवगमं समवेतानुकल्पेन
निर्दिश्यतामिति ॥ २६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे त्रयोदशोऽऽध्यायः ॥ १३॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां चतुर्थोऽध्यायः । ४
॥ चतुर्दशोऽध्यायः ॥
स होवाच
य एष देहात्ममानिनां सत्त्वादिगुण-
विशेषविकल्पितकुशलाकुशलसमवहार-
विनिर्मितविविधदेहावलिभिर्वियोग-
संयोगादि अनादिसंसारानुभवस्य
द्वारभूतेन षडिन्द्रियवर्गेण तस्मिन्
दुर्गाध्ववदसुगमेऽध्वन्यापतित ईश्वरस्य
भगवतो विष्णोर्वशवर्तिन्या मायया
जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः
स्वदेहनिष्पादितकर्मानुभवः श्मशानव-
दशिवतमायां संसाराटव्यां गतो नाद्यापि
विफलबहुप्रतियोगेहस्तत्तापोपशमनीं
हरिगुरुचरणारविन्दमधुकरानुपदवी-
मवरुन्धे ॥ १॥
यस्यामु ह वा एते षडिन्द्रियनामानः
कर्मणा दस्यव एव ते तद्यथा पुरुषस्य
धनं यत्किञ्चिद्धर्मौपयिकं बहु कृच्छ्राधिगतं साक्षात्परमपुरुषाराधनलक्षणो योऽसौ
धर्मस्तं तु साम्पराय उदाहरन्ति । तद्धर्म्यं
धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राण-
सङ्कल्पव्यवसायगृहग्राम्योपभोगेन
कुनाथस्याजितात्मनो यथा सार्थस्य
विलुम्पन्ति ॥ २॥
अथ च यत्र कौटुम्बिका दारापत्यादयो
नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि
कदर्यस्य कुटुम्बिन उरणकवत्संरक्ष्यमाणं
मिषतोऽपि हरन्ति ॥ ३॥
यथा ह्यनुवत्सरं कृष्यमाणमप्यदग्धबीजं
क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भि-
र्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं
यस्मिन् न हि कर्माण्युत्सीदन्ति यदयं
कामकरण्ड एष आवसथः ॥ ४॥
तत्र गतो दंशमशकसमापसदैर्मनुजैः
शलभशकुन्ततस्करमूषकादिभिरुपरुध्य-
मानबहिःप्राणः क्वचित्परिवर्तमानो-
ऽस्मिन्नध्वन्यविद्याकामकर्मभिरुपरक्त-
मनसानुपपन्नार्थं नरलोकं गन्धर्वनगर-
मुपपन्नमिति मिथ्यादृष्टिरनुपश्यति ॥ ५॥
तत्र च क्वचिदातपोदकनिभान् विषया-
नुपधावति पानभोजनव्यवायादि
व्यसनलोलुपः ॥ ६॥
क्वचिच्चाशेषदोषनिषदनं पुरीषविशेषं
तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित्स-
त्यग्निकामकातर इवोल्मुकपिशाचम् ॥ ७॥
अथ कदाचिन्निवासपानीयद्रविणा-
द्यनेकात्मोपजीवनाभिनिवेश एतस्यां
संसाराटव्यामितस्ततः परिधावति ॥ ८॥
क्वचिच्च वात्यौपम्यया प्रमदयाऽऽरोह-
मारोपितस्तत्कालरजसा रजनीभूत
इवासाधुमर्यादो रजस्वलाक्षोऽपि
दिग्देवता अतिरजस्वलमतिर्न विजानाति ॥ ९॥
क्वचित्सकृदवगतविषयवैतथ्यः स्वयं
पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव
मरीचितोयप्रायांस्तानेवाभिधावति ॥ १०॥
क्वचिदुलूकझिल्लीस्वनवदतिपरुषरभसाटोपं
प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्त्सितेना-
तिव्यथितकर्णमूलहृदयः ॥ ११॥
स यदा दुग्धपूर्वसुकृतस्तदा कारस्कर-
काकतुण्डाद्यपुण्यद्रुमलताविषोदपानव-
दुभयार्थशून्यद्रविणान् जीवन्मृतान् स्वयं
जीवन् म्रियमाण उपधावति ॥ १२॥
एकदासत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः
स्खलनवदुभयतोऽपि दुःखदं पाखण्ड-
मभियाति ॥ १३॥
यदा तु परबाधयान्ध आत्मने नोपनमति
तदा हि पितृपुत्रबर्हिष्मतः पितृपुत्रान् वा स खलु
भक्षयति ॥ १४॥
क्वचिदासाद्य गृहं दाववत्प्रियार्थविधुर-
मसुखोदर्कं शोकाग्निना दह्यमानो भृशं
निर्वेदमुपगच्छति ॥ १५॥
क्वचित्कालविषमितराजकुलरक्षसापहृत-
प्रियतमधनासुः प्रमृतक इव विगतजीव-
लक्षण आस्ते ॥ १६॥
कदाचिन्मनोरथोपगतपितृपितामहाद्यस-
त्सदिति स्वप्ननिर्वृतिलक्षणमनुभवति ॥ १७॥
क्वचिद्गृहाश्रमकर्मचोदनातिभरगिरि-
मारुरुक्षमाणो लोकव्यसनकर्षितमनाः
कण्टकशर्कराक्षेत्रं प्रविशन्निव सीदति ॥ १८॥
क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना
गृहीतसारः स्वकुटुम्बाय क्रुध्यति ॥ १९॥
स एव पुनर्निद्राजगरगृहीतोऽन्धे तमसि
मग्नः शून्यारण्य इव शेते नान्यत्किञ्चन
वेद शव इवापविद्धः ॥ २०॥
कदाचिद्भग्नमानदंष्ट्रो दुर्जनदन्दशूकै-
रलब्धनिद्राक्षणो व्यथितहृदयेनानु-
क्षीयमाणविज्ञानोऽन्धकूपेऽन्धवत्पतति ॥ २१॥
कर्हि स्म चित्काममधुलवान् विचिन्वन्
यदा परदारपरद्रव्याण्यवरुन्धानो राज्ञा
स्वामिभिर्वा निहतः पतत्यपारे निरये ॥ २२॥
अथ च तस्मादुभयथापि हि कर्मास्मि-
न्नात्मनः संसारावपनमुदाहरन्ति ॥ २३॥
मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिनत्ति
तस्मादपि विष्णुमित्र इत्यनवस्थितिः ॥ २४॥
क्वचिच्च शीतवाताद्यनेकाधिदैविक-
भौतिकात्मीयानां दशानां प्रतिनिवारणे-
ऽकल्पो दुरन्तचिन्तया विषण्ण आस्ते ॥ २५॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मन्येभ्यो वा काकिणिकामात्रमप्यपहरन्
यत्किञ्चिद्वा विद्वेषमेति वित्तशाठ्यात् ॥ २६॥
अध्वन्यमुष्मिन्निम उपसर्गास्तथा
सुखदुःखरागद्वेषभयाभिमानप्रमादोन्माद-
शोकमोहलोभमात्सर्येर्ष्यावमानक्षुत्पिपासा-धिव्याधिजन्मजरामरणादयः ॥ २७॥
क्वापि देवमायया स्त्रिया भुजलतोपगूढः
प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भा-
कुलहृदयस्तदाश्रयावसक्तसुतदुहितृकलत्र-
भाषितावलोकविचेष्टितापहृतहृदय आत्मान-
मजितात्मापारेऽन्धे तमसि प्रहिणोति ॥ २८॥
कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रा-
त्परमाण्वादि द्विपरार्धापवर्गकालोपलक्षणा-
त्परिवर्तितेन वयसा रंहसा हरत आब्रह्म-
तृणस्तम्बादीनां भूतानामनिमिषतो मिषतां
वित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं
साक्षाद्भगवन्तं यज्ञपुरुषमनादृत्य पाखण्ड-
देवताः कङ्कगृध्रबकवटप्राया आर्यसमय-
परिहृताः साङ्केत्येनाभिधत्ते ॥ २९॥
यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो
ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादि
श्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्या-
राधनमेव तदरोचयन् शूद्रकुलं भजते निगमा-
चारेऽशुद्धितो यस्य मिथुनीभावः कुटुम्बभरणं
यथा वानरजातेः ॥ ३०॥
तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपण-
बुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव
विस्मृतकालावधिः ॥ ३१॥
क्वचिद्द्रुमवदैहिकार्थेषु गृहेषु रंस्यन् यथा
वानरः सुतदारवत्सलो व्यवायक्षणः ॥ ३२॥
एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि
गिरिकन्दरप्राये ॥ ३३॥
क्वचिच्छीतवाताद्यनेकदैविकभौतिका-
त्मीयानां दुःखानां प्रतिनिवारणेऽकल्पो
दुरन्तविषयविषण्ण आस्ते ॥ ३४॥
क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धन-
मुपयाति वित्तशाठ्येन ॥ ३५॥
क्वचित्क्षीणधनः शय्यासनाशनाद्युपभोग-
विहीनो यावदप्रतिलब्धमनोरथोपगतादाने-
ऽवसितमतिस्ततस्ततोऽवमानादीनि
जनादभिलभते ॥ ३६॥
एवं वित्तव्यतिषङ्गविवृद्धवैरानुबन्धोऽपि
पूर्ववासनया मिथ उद्वहत्यथापवहति ॥ ३७॥
एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्ग-
बाधित आपन्नविपन्नो यत्र यस्तमु ह
वावेतरस्तत्र विसृज्य जातं जातमुपादाय
शोचन्मुह्यन्बिभ्यद्विवदन् क्रन्दन्संहृष्यन्
गायन्नह्यमानः साधुवर्जितो नैवावर्तते-
ऽद्यापि यत आरब्ध एष नरलोकसार्थो
यमध्वनः पारमुपदिशन्ति ॥ ३८॥
यदिदं योगानुशासनं न वा एतदवरुन्धते
यन्न्यस्तदण्डा मुनय उपशमशीला
उपरतात्मानः समवगच्छन्ति ॥ ३९॥
यदपि दिगिभजयिनो यज्विनो ये वै राजर्षयः
किं तु परं मृधे शयीरन्नस्यामेव ममेयमिति
कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः ॥ ४०॥
कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चि-
न्नरकाद्विमुक्तः पुनरप्येवं संसाराध्वनि वर्तमानो
नरलोकसार्थमुपयाति एवमुपरिगतोऽपि ॥ ४१॥
तस्येदमुपगायन्ति -
आर्षभस्येह राजर्षेर्मनसापि महात्मनः ।
नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ ४२॥
यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदिस्पृशः ।
जहौ युवैव मलवदुत्तमश्लोकलालसः ॥ ४३॥
यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान्
प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् ।
नैच्छन्नृपस्तदुचितं महतां मधुद्विट्
सेवानुरक्तमनसामभवोऽपि फल्गुः ॥ ४४॥
यज्ञाय धर्मपतये विधिनैपुणाय
योगाय साङ्ख्यशिरसे प्रकृतीश्वराय ।
नारायणाय हरये नम इत्युदारं
हास्यन् मृगत्वमपि यः समुदाजहार ॥ ४५॥
य इदं भागवतसभाजितावदातगुणकर्मणो
राजर्षेर्भरतस्यानुचरितं स्वस्त्ययनमायुष्यं
धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणो-
त्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष
आत्मन आशास्ते न काञ्चन परत इति ॥ ४६॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणं नाम
चतुर्दशोऽध्यायः ॥ १४॥
इति श्रीमद्भागवते महापुराणे परमहंसगीतायां पञ्चमोऽअध्यायः । ५