मङ्किगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता
याते वैफल्यमारम्भे किं कुर्याद्द्रविणोत्सुकः ।
एतत्पृष्टः क्षितिभुजा ध्यात्वा शान्तनवोऽवदत् ।
श्रूयतां यद्विनष्टार्थसमये दुःखभेषजम् ॥ १३.७२९॥
मङ्किर्नाम द्विजः पूर्वमीहमानोऽसकृद्धनम् ।
प्रयत्नैरपि न प्राप विधिवैमुख्यहेलाय ॥ १३.७३०॥
क्षीणार्थः सोर्ऽथशेषेण क्रीत्वा चाथ वृषद्वयम् ।
स्वयमुत्कर्षणं चक्रे क्षेत्रे विपुलवाहकः ॥ १३.७३१॥
अत्रान्तरे पृथुग्रीवो निद्राभङ्गात्समुत्थितः ।
जहारोष्ट्रो महाकायस्तौ वृषौ स्कन्धलम्बिनौ ॥ १३.७३२॥
युगोत्क्षेपाल्लम्ब्यमानौ तौ तेन बलशालिना ।
वृषौ विलोक्य शोकार्तो विललाप द्विजात्मजः ॥ १३.७३३॥
अहो नु चित्रवर्णाङ्कौ मम वत्सतरौ प्रियौ ।
कर्षन्विभाति करभो रत्नाढ्याविव भूषणौ ॥ १३.७३४॥
इत्युक्त्वा जातनिर्वेदगाढवैराग्यवासनः ।
तृष्णां निनिन्द सहसा प्रशान्तानुशयज्वरः ॥ १३.७३५॥
दुःखाय बत जन्तूनां तृष्णा परिभवास्पदम् ।
विप्रलब्धो जनः सर्वो यया शोचत्यहर्निशम् ॥ १३.७३६॥
अलब्धं वाञ्छतां वित्तं लब्धं च परिरक्षताम् ।
नष्टं च शोचतां पुंसां कदा दुःखं निवर्तते ॥ १३.७३७॥
कामोर्ऽथेषु विपन्मूलं सन्तोषः परमं सुखम् ।
निष्कामश्च सकामश्च मतौ मे स्वस्थरोगिणौ ॥ १३.७३८॥
सधनश्चिन्त्यते राज्ञा दस्युना स्वजनेन च ।
विकलश्चेति लोकेन निर्धनश्च न गण्यते ॥ १३.७३९॥
तस्मात्सन्त्यक्तकामानां सन्तोषधनशालिनाम् ।
क्षयोदयव्ययायासैर्न चेतः परिभूयते ॥ १३.७४०॥
इदं लब्धमिदं नष्टमिदं लप्स्ये पुनर्धिया ।
इदं चिन्तयतामेव जीर्णमायुः शरीरिणाम् ॥ १३.७४१॥
अधुना लोभमुन्मूल्य स्पृहां दूरे निरस्य च ।
वीतमोहो भवाम्येष मुनिस्तुल्यप्रियाप्रियः ॥ १३.७४२॥
त्यागो हि हन्ति व्यसनं तथा हि जनकः पुरा ।
दह्यमानेऽपि नगरे नाभजद्दुःखविक्रियाम् ॥ १३.७४३॥
इति ध्यात्वा चिरं मङ्किर्निर्वेदाच्छान्तमानसः ।
आशापाशं परित्यज्य परं पदमवाप्तवान् ॥ १३.७४४॥
इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता मङ्किगीता समाप्ता ।