सर्वेकृता श्रीगणेशस्तुतिः

सर्वेकृता श्रीगणेशस्तुतिः

सर्वे ऊचुः । यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो निर्गुणादप्रमेयाद् गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ ४४॥ यतश्चाविरासीज्जगत् सर्ववेत्तुस्तथाऽब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो दैत्यसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ ४५॥ यतो वह्निभानू भवो भूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः । यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा तं गणेशं नमामो भजामः ॥ ४६॥ यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च । यतः पक्षिकीटा यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥ ४७॥ यतो बुद्धिरज्ञाननाशो मुमुक्षोयतः सम्पदो भक्तसन्तोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥ ४८॥ यतः पुत्रसम्पद् यतो वाञ्छितार्थो यतो भक्तिविद्यास्तथाऽनेकरूपाः । यतः शोकमोहौ यतः काम एव सदा तं गणेशं नमामो भजामः ॥ ४९॥ यतोऽनन्तशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोका हि नाना सदा तं गणेशं नमामो भजामः ॥ ५०॥ यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति ता यं गृह्णन्ति । परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥ ५१॥ इति सर्वेकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ९१ । १.९१ ४४-५१॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 91 . 1.91 44-51.. Proofread by Preeti Bhandare
% Text title            : Sarvekrita Shri Ganesha Stuti 1
% File name             : gaNeshastutiHsarvekRRitA.itx
% itxtitle              : gaNeshastutiH sarvekRitA 1 (gaNeshapurANAntargatA yato.anantashakteranantAshcha jIvA yato nirguNAdaprameyAd guNAste)
% engtitle              : gaNeshastutiH sarvekRRitA 1
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 91 | 1.91 44-51||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org