देवपत्नीकृता श्रीगणेशस्तुतिः

देवपत्नीकृता श्रीगणेशस्तुतिः

देवपत्न्याः ऊचुः नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः । नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे ॥ २॥ नमः सर्वविनाशाय नमस्तेऽनन्तशक्तये । नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये ॥ ३॥ परब्रह्मस्वरूपाय निर्गुणाय नमो नमः । चिदानन्दस्वरूपाय वेदानामप्यगोचर ॥ ४॥ मायाश्रयायामेयाय गुणातीताय ते नमः । सत्यायासत्यरूपाय गुणाविक्षोभकारिणे ॥ ५॥ शरणागतपालाय दैत्यदानवभेदिने । नमो नानावताराय विश्वरक्षणतत्पर ॥ ६॥ अनेकायुधहस्ताय सर्वशत्रुनिबर्हण । अनेकवरदात्रे ते भक्तानां हितकारक ॥ ७॥ क उवाच । एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् । देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः ॥ ८॥ नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि । फलश्रुतिः - गणेश उवाच । ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः ॥ ९॥ स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः । सावित्र्या वचनाज्जाता जलभूताः सुराः शुभाः ॥ १०॥ तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः । निजं स्वरूपं यास्यन्ति स्थित्वांऽशेन तथाविधान् ॥ ११॥ स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम । शमीपत्रैः पूजयन्तू यूयं देवास्तु मामिह ॥ १२॥ येनर्पितं शमीपत्रं भुवनं तेन चार्पितम् । सुवर्णशतभाराणां फलं प्राप्तं न संशयः ॥ १३॥ इति देवपत्नीकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥ - ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः ३७ । २.३७ २-१३॥ - .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 37 . 2.37 2-13.. Proofread by Preeti Bhandare
% Text title            : Devapatnikrita Shri Ganesha Stuti
% File name             : gaNeshastutiHdevapatnIkRRitA.itx
% itxtitle              : gaNeshastutiH devapatnIkRitA (gaNeshapurANAntargatA)
% engtitle              : gaNeshastutiH devapatnIkRRitA
% Category              : ganesha, gaNeshapurANa, stuti
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM krIDA (uttara)khaNDaH | adhyAyaH 37 | 2.37 2-13||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org