काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रम्
नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे ।
नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे ॥ ४६॥
अकालप्रलयाद् देव ! वीतिहोत्राज्जगत्पते ।
लीलावतार ! दैत्योभ्यो रक्षिता लीलया त्वया ॥ ४७॥
कस्य सामर्थ्यमेतावद् वह्निं पातुं महाबलम् ।
भूगोलसदृशास्यं को हन्यादन्यो महासुरम् ॥ ४८॥
मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् ।
त्वमेव जननी देव ! त्वमेव जनकोऽविता ॥ ४९॥
महाभाग्यं जनानां मे येन ते सन्निधिः कृतः ।
इति काशिराजकृतं श्रीगणेशपङ्चकस्तोत्रं सम्पूर्णम् ।
- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः १५ । २.१५ ४६-५०॥
- .. shrIgaNeshapurANaM krIDA (uttara)khaNDaH . adhyAyaH 15 . 2.15 46-50..
Proofread by Preeti Bhandare