श्रीगणेशद्वादशनामस्तोत्रम्

श्रीगणेशद्वादशनामस्तोत्रम्

ब्रह्मोवाच । सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ ३६॥ धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३७॥ विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ ३८॥ शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ३९॥ कोटिकन्याप्रदानानि कोटियज्ञं व्रतानि च । तपांसि यानि सर्वाणि तीर्थान्यायतनानि च ॥ ४०॥ स्वर्णभारसहस्राणि कोटिदानानि यान्यपि । कृच्छ्राणि तप्तकृच्छ्राणि पराकेन्दुव्रतानि च ॥ ४१॥ शतांशमेषां पुण्यस्य तानि नाम्नां न यान्ति च । इमानि प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ ४२॥ यः पठेन्मानवो भक्त्या विघ्ना नो यान्ति तं नरम् । सिद्ध्यन्ति सर्वकार्याणि मोक्षमन्ते व्रजत्यसौ ॥ ४३॥ तस्य दर्शनतो लोका देवाः पूता भवन्ति च । अत एव मुने ! सर्वाः शाक्ताः शैवाश्च वैष्णवाः ॥ ४४॥ (सौराः) उक्त्वा द्वादश नामानि सर्वकार्याणि कुर्वते । गाणेशा अपि कुर्वन्ति किमत्रापि च कौतुकम् ॥ ४५॥ न सिद्ध्यन्ति हि कार्याणि द्वादशान्यतमस्य ह । उच्चारणं विना ब्रह्मँस्तस्मादेकं समुच्चरेत् ॥ ४६॥ दुष्टानां नास्तिकानां चकार्यं यद् यद्धि सिद्ध्यति । तेऽपि बीजं समुच्चार्यमज्ञानादपि कुर्वते ॥ ४७॥ इति श्रीगणेश द्वादशनामानि स्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीगणेशपुराणं उपासना (पूर्व)खण्ड । अध्याय ९२ । १.९२ ३६-४७॥ - .. shrIgaNeshapurANaM upAsanA (pUrva)khaNDa . adhyAya 92 . 1.92 36-47.. Some of the verses are same as in mudgalapurANa. Proofread by Preeti Bhandare
% Text title            : Shri Ganeshadvadashanama Stotram
% File name             : gaNeshadvAdashanAmastotram2.itx
% itxtitle              : gaNeshadvAdashanAmastotram 2 (gaNeshapurANAntargatA)
% engtitle              : gaNeshadvAdashanAmastotram 2
% Category              : ganesha, gaNeshapurANa, dvAdasha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Preeti Bhandare
% Description/comments  : shrIgaNeshapurANaM upAsanA (pUrva)khaNDaH | adhyAya 92 | 1.92 36-47||
% Indexextra            : (Text)
% Latest update         : April 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org