श्रीस्वधर्माबोधे श्रीयुगलतिलक मन्त्रःसङ्क्षेपतः
ॐ कं केशवाय कीर्त्यै नमो नमः । अङ्गुलचत्वारि ललाटे ॥ १॥
ॐ नान्नारायणाय कीर्त्यै नमो नमः । अङ्गुलदश नाभौ ॥ २॥
ॐ मां माधवाय तुष्ट्यै नमो नमः । अङ्गुलाष्ट हृदये ॥ ३॥
ॐ गो गोविन्दाय तुष्ट्यै नमो नमः । अङ्गुलचतुष्टयं कण्ठे ॥ ४॥
ॐ विं विष्णवे धृत्यै नमो नमः । अङ्गुलदश दक्षिणकुक्षौ ॥ ५॥
ॐ मं मधुसूदनाय शान्त्यै नमो नमः । अङ्गुल अष्टदक्षिणे बाहौ ॥ ६॥
ॐ त्रिं त्रिविक्रमाय क्रियायै नमो नमः ।
अङ्गुलचतुष्टयं दक्षिणकन्धरे ॥ ७॥
ॐ वां वामनाय हृदयाय नमो नमः । अङ्गुलदश वामकुक्षौ ॥ ८॥
ॐ श्रीं श्रीधराय मेधायै नमो नमः । अङ्गुल अष्ट वामबाहौ ॥ ९॥
ॐ हृं हृषीकेशाय मायाविने नमो नमः ।
अङ्गुलचतुष्टयं वामकन्धरे ॥ १०॥
ॐ पद्मनाभाय श्रद्धायै नमो नमः । अङ्गुलचतुष्टयं पृष्ठे ॥ ११॥
ॐ दां दामोदराय लज्जायै नमो नमः । अङ्गुलचतुष्टयं कट्याम् ॥ १२॥
तत्प्रज्ञानतोयेन ॥
ॐ वासुदेवाय श्रियै नमो नमः मूर्ध्नि ॥
ॐ क्लीं रासरसविलासिनौ श्रीराधाकृष्णौ स्वाहा ॥
इति मन्त्रेण द्वादशतिलकमध्ये समासूक्ष्मं मुक्ताकारं धारयेत् ॥
इति श्रीनिम्बादित्यप्रकाशितस्वधर्मोद्बोधोयुग्म तिलकमन्त्रः सम्पूर्तिमगात् ॥
श्रीकृष्णार्पणमस्तु ॥
This is tied to श्रीऊर्ध्वपुण्ड्राणां नारायणादि नामद्वादशस्थानानि
Proofread by Pallasena Narayanaswami ppnswami at gmail.com
From shrI sarasa stotrasangrahaH (Lucknow, 1909) - Page 17.