श्रीयोगाम्बाष्टकम्
उद्यद्भानुसहस्रकोटिविलसद्देहप्रभोद्भासितां
मुक्ताहारविभूषितामगसुतां कौसुम्भवस्त्रान्विताम् ।
हस्तस्थाक्षसुपुस्तकाभयवरां चन्द्रार्धचूडां शिवां
श्रीमदुकुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ १॥
सम्फुल्लत्कमलाननां करधृताम्भोजाभयाभीष्टदां
पार्श्वस्थद्विरदेन्द्रवत्ससहितामाकर्णपूर्णेक्षणाम् ।
कुम्भाकारकुचातिभारनमितश्रीमध्यभागां शिवां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ २॥
तप्तस्वर्णतनुप्रभां दरहसां कल्हारमध्यस्थितां
काञ्चीनूपुरकङ्कणाङ्गदलसद्ग्रैवेयहारोज्ज्वलाम् ।
शुण्डादण्डसमानहस्तचतुरां चन्द्रार्धचूडां शिवां
श्रीमद्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ३॥
दीप्यत्कोमलसत्प्रवाललतिकां चित्रप्रभाभासुरां
मत्तेपापृथुकुम्भसत्कुचनतां पूर्णेन्दुबिम्बाननाम् ।
हस्तैश्शूलकपालकार्मुककशान् सम्बिभ्रतीं त्रीक्षणां
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ४॥
रक्ताङ्गीं मृगनाभिबिन्दुविलसद्बालेन्दुफालां परां
शोणासृग्वसनां पयोधरनतां काश्मीरपङ्काञ्जिताम् ।
हस्तस्थाशुगकार्मुकाङ्कुशकशान् सम्बिभ्रतीं श्रीमतीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ५॥
नानारत्नसुवर्णभूषणगणैराढ्यां सुकौशेयिनीं
वक्षोजस्तबकादिचञ्चललतागात्रीं त्रिनेत्रां पराम् ।
हस्तैरिक्षुधनुस्सुमाशुगकशान् सम्बिभ्रतीं शङ्करीं
श्रीमत्कुन्दवनालयमनुदिनं ध्यायामि योगाम्बिकाम् ॥ ६॥
दुग्धाम्भोनिधिमध्यमे सुरतरोर्व्यूहावृते मन्दिरे
चिन्तारत्नमयेऽब्जसम्भवमुखैस्संसेव्यमानेऽमरैः ।
पञ्चब्रह्ममयेऽतुलेऽतिरुचिरे मञ्चे सुखाध्यासिनीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ७॥
त्वं माता जनकः शिवो मम गुरुर्दैवं सुहृत्सद्धनं
सर्वेषामपि जीवनं तनुभृतां सर्वैर्मुनीन्द्रैर्भृशम् ।
सन्ध्येयं शरणं भवाब्धिपदतामन्तर्बहिर्व्यापिनीं
श्रीमत्कुन्दवनालयामनुदिनं ध्यायामि योगाम्बिकाम् ॥ ८॥
मर्त्यो यः पठति स्तवं सुफलदं रौक्षायणार्षीरितं
जिह्वाग्रे निवसेद्धिताय मुदिता ब्राह्मीन्दिरा मन्दिरे ।
शर्वाणी हृदयाम्बुजे नृपतयो दासा महीमण्डले
सर्वार्थाननुभूय सर्वमहितं प्रायात् पदं शाङ्करम् ॥ ९॥
इति रौक्षायणकृतं श्रीयोगाम्बाष्टकं सम्पूर्णम् ।
Proofread by Mohan Chettoor, NA