यमुनास्तोत्रम्
%५४
यमुना शमनामरस्वसा व्रजतीवास्ति निजस्वसा ।
गुरुधाम दिदृक्षुणायनेत्र मयालोकि हि दक्षिणायन ए ॥ १॥
कृष्णभर्तृपरिरम्भणेन या कृष्णभा किमभवत्तथापि वा ।
कृष्णतां गतमघेन मानवं कृष्णतां नयति रातु साऽभवम् ॥ २॥
आदित्यपुत्री तुहिनाद्रिपुत्री कलिन्दपुत्रीति जगत्प्रतीता ।
स्वानुद्दधारापि यमेन नीतान् सा पातु भक्तान् यमुनाघभीतान् ॥ ३॥
प्रालेयाद्रिर्निर्गता कृष्णकान्ता नानादेशान् या पुनानाप्यकान्ता ।
सस्नौ तोये विष्णुपद्या विशुद्धा तन्माहात्म्यं दर्शयन्ती किमद्धा ॥ ४॥
यस्यातटे सन्निकटे सदैवः श्रीकृष्ण आस्ते रतिकृत्सदैव ।
तत्कण्ठगश्रीतुलसीसुगन्धिसुवासितां साऽवतु सूर्यजाता ॥ ५॥
पराशरात्सत्यवत्यां जातो यत्र महायशाः ।
पाराशर्यो वासुदेवपाराशर्योऽजसान्वितः ॥ ६॥
मार्गे कृष्णचतुर्थ्यां तु मार्गे कृष्णप्रियां तु ताम् ।
ददर्श सार्कतनया विनयान्पातु सन्नया ॥ ७॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं यमुनास्तोत्रं सम्पूर्णम् ।