श्रीयमुनालहरी
वरौवर्तिश्यामा तरणितनया दीनशरणा
पदाप्तानामन्दौ हरणविधिवैदग्धहृदया ।
प्रवृत्ता गोलोकाद्यदमृतसुधारामलहरा
पुनन्ती त्रैलोक्यं पुनरपि निजे धाम्नि विशति ॥ १॥
यदेकः सिद्धिनां किल जननि ! गोलोकसरणिः
प्रवृत्तं सन्तापं प्रशमयितुमारोग्यजनकम् ।
हृदञ्चिप्रोन्नत्यै मदुलहिमसिदाञ्जनमिदं
त्वदीयं कीलालं मम दुरितजालं जरयतु ॥ २॥
तमो दूरीकुर्वन् मद कलहमोहादिकगणं
तिरः कुर्वन् कामं अमुदितकुगर्वं हृदयतः ।
सकृदृष्टिं यातस्तरणितनयेऽयं तव शुभः
प्रवाहो नीराणां मयि विमलतत्वं वितरतु ॥ ३॥
अयि श्रीकृष्णाङ्गप्रचुरतरगन्धाक्तसलिले
रजस्तेऽसत्कर्माङ्कितहृदयसमार्जनकरम् ।
मदीयेऽस्मिंश्चित्ते विविधविषयावासमलिने
चिदानन्दामोदं निगमतिबोधं प्रदिशतु ॥ ४॥
विचित्रं त्वत्तेजो भुवि किमु समर्थाः प्रकटितुं
कवीन्द्रा योगीन्द्रादिविगतमुनीन्द्राः शुभधियः ।
महित्वं तेऽनन्तं तपयति मखादीनपि यत-
स्त्वया स्पृष्टो वायुर्नरक पदहारीनरकदः ॥ ५॥
पलायन्ते यस्या झटिति शुभनामग्रहयतो
भयार्ताः पापानां विविधनिकराः कम्पनयुताः ।
विनिन्दन्तो मर्त्यान् स्वकृतमलनाशाश्रितविधी
नऽतः को वा दक्षस्तवचरण सेवां न हि चरेत् ॥ ६॥
जनः को वा दीनस्त्यजति तव पीताऽम्बरपदै-
र्विचित्रैः कलोल्लैर्निगमसरितस्वौरमसितम् ।
यतः सत्कामानां भवति विमला सिद्धि रनिशं
निशम्यैतां कीर्तिं ह्यहमपि तवोपस्थितिमितः ॥ ७॥
सदा दीनोद्धारे जयति तव तेजोऽमरनुतं
प्रसिद्धं त्रैलोक्ये कविवरगिरा श्लाघितमहो ।
इदानीं दौर्भाग्यं मम तु तदपि न्यूनयति वै
यतस्वं निःस्नेहा भवसि मयि दीने पदमिते ॥ ८॥
अयि श्रीगोविन्दालयकलनि ! मार्त्तण्डतनये !
त्वयाऽहो वैषम्यं वद जननि ! लब्धं कुत इदम् ।
प्रसूधर्मं यत्त्वं त्यजसि निजबालेषु विषमा-
वरेष्विष्टा मूर्खेष्वितरनयनेति त्वऽघटते ॥ ९॥
इदं त्वद्द्वैषम्यं समुचितपदं नैति कठिनं
यदीच्छा चेत्कर्तुं भवति तवचित्ते हठयुते ।
तदा कार्य्यं चैतत्सततमपरेणैव विधिना
क्वचित्तत्प्रख्यातं तवसहजजातं रविसुते ॥ १०॥
तदेतद्वैषम्यं प्रधयितुमहं नैव विभवे
विशुद्धा लोकन्ते किमु मम लघोः सूचनभरैः ।
यतस्त्वं पुण्यानामतिशय समृद्धिं प्रकुरुषे-
ऽन्यथात्वं पापानामिति जननि ! जागर्तिजगति ॥ ११॥
अबोधे विद्रोहं तमसि च विमोहं वितनुषे
कलेः सैन्ये शोकं विषयिनि विमोकं रविसुते ।
मखादीनां वृद्धिं जगति च समृद्धिं पदगते
तवाहो वैषम्यं कथितुमिह कः स्वाद्विभुरिदम् ॥ १२॥
कृतान्तप्रेष्याणां पधिगमनदुःखं प्रहरसि
विमानानां तत् त्वं वितरसि कलिन्दाचलभवे ।
मलाढ्यानां यज्ञोद्भवफलमुताहो विदधतौ
सुरेन्द्राणां चित्ते गृहरणशङ्का वितनुते ॥ १३॥
इदं त्वद्वैषम्यं क्वनुगतमहो कृष्णरमिते
स्वभावादुत्पन्नं मयि जननि संयाचनपरे ।
यतो मत्पापानां प्रबलतरसम्बदनिचये
क्वतोपेक्षासि त्वं चरितमिदमत्यद्भुतपदम् ॥ १४॥
स्वसारो वर्तन्ते जगति सरलाः स्नेहसहिता
निजानां भ्रातृणां सुखसदनसम्पद्वृतधियः ।
चरित्रं चैतत्ते त्वमसि विषमा भ्रातरि निजे
यतस्तस्यावासं गहनमिव शून्यं प्रकुरुषे ॥ १५॥
अतस्वातो भीतिर्विषमपदतः कर्तुमुचिता
भवानन्दाकाङ्क्षैस्दपि तवदास्यं त्वभिलषे ।
यतो मे त्वङ्गात्रा सह विरोधोऽस्यऽघलिपे
र्निदानादार्य्येऽतस्तव ! जननि पक्षेऽस्मि विबलः ॥ १६॥
अतो द्वेषान्मातर्मयि तवपदालम्बनतया
न जाने विद्वेषं कतिविधमुताहो जनयिता ।
कृतान्तस्त्वङ्माता भयमिति मनो नैव कुरुते
यतस्त्वं किन्तस्मान्मानिजामनुगतं पातुमबला ॥ १७॥
स्वभावाद्वाऽमर्शाद्यमसदनलुण्ठाकतिलके
ममेयं वै मातस्तवपदयुगे प्रार्थनपदी ।
इदानीमारब्धे पितृपतिगृहालुण्ठन- विधौ
मदेनो लेखानां कुरु रचितपत्राऽपहरणम् ॥ १८॥
जनं धर्मात्मानं त्वमसि यदि सन्तारयितुमु-
दयुता संसाराब्धेरहह तव कोऽवास्ति महिमा ।
यदा पापात्मानं विगततरणोपायमबलं
मुनीयासस्तर्हीह त्वयि किल महत्वं स्थितिमियात् ॥ १९॥
शिशूनां बाल्यत्वात्कृतमनुचितं बालचरितं
विलोक्याऽऽमोदन्ते तदपहृतिमाकल्प पितरः ।
अतो मे यत्किञ्चित्कुचरितमपीड्ये तदधुना
स्वकीयाद्वात्सल्यादपहर तथा पालय शिशुम् ॥ २०॥
अथ त्वं मत्पापप्रचयमिह नेवान्तकपदं
नयिष्यस्याऽऽर्य्ये चेद्भवति च तदाऽनर्थपदवी ।
गमिष्यन्त्यौन्नत्यं विभयपमेनांस्यऽपि नृणां
चरिष्यन्ती लायां स्वरुचि शुभनाशाय यमुने ॥ २१॥
अहं वै नो शक्ता तवदुरितसन्दारऽणविधौ
वदेच्चेदित्येवं कथमपि न कालिन्दि घटते ।
यदेनो मेरोरऽप्यऽसि बलयुता मर्दनविधौ
त्वदग्रे का वार्ता मदघतृणराशेरिति शपे ॥ २२॥
यदा पापाऽऽत्मानस्तवरजकणस्पर्शमऽपि वा-
ऽऽप्य ते मालोके सन्दधति हरिरूपत्वमऽसिताः ।
अयं कृष्णः किम्बा त्विति बहुपरामर्शमनसो
भ्रमन्ति श्रीकष्णानुगसखिगणा द्वापरपराः ॥ २३॥
सशङ्कं लोकन्ते तवमहिमवैचितत्र्यकुतुकं
सुलेखा लेखानां विधिभिरपि लेखा न लिखितुम् ।
समर्था जायन्ते कथमिह तदा लेखविषये
विभुः को वा भूयात्तदवरगुणाविष्टधिषणः ॥ २४॥
भवेन्नास्मिंश्चित्तं किमपि गणनाऽतर्क्यविषये
महिम्नि त्वत्यादाम्बुजमहस आत्मेश्वरि ! यतः ।
भवाब्धिं सन्तीर्णास्तवजलनिकादिभिरहो
महाघा यावन्तो न हि नभसि तारास्तरणिजे ॥ २५॥
भवत्या एतादृक् चरणमहिमा वै समुचितः
पुनन्त्या प्राचीनाऽघगृहहृदयानुत्पथगतान् ।
यतो ब्रह्माण्डानामधिपतिरनन्तोऽपि विवश-।
स्तवप्रेम्णा मातर्दधत ग्रह केलिं तवतटे ॥ २६॥
अथाऽपि श्रीकृष्णालय-विविध-सत्केलिकुतुके
कवीन्द्रास्वत्पादाम्बुजयुगलमेवाविधिधियः ।
गुणन्ति त्वत् कीर्तिं विशदयितुमात्मीयरसनं
ममाप्येवं भावो हृदय उदितो मुग्धमनसः ॥ २७॥
त्वदीये प्रत्यक्षे महिमनिहि विश्वाससहितो
मली को वा न स्यात्तवचरणसेवाभिलषकः ।
यतस्वय्यावासात्कठिन उरगः कालिय इतः
फणासु क्रीडन्तं निगमपदवीगम्यमजितम् ॥ २८॥
अतस्वं गोविन्दं नवहरिणकौशेय वसनं
लसन्तं त्वत्तीरे वृषभदयिता पालनपरम् ।
विहारैः कौमारैः सखिभिरपि सङ्क्रीडनपरं
विभुं मत्याणेशं कुरु झटिति मदृष्ठिविषये ॥ २९॥
क्वता येन क्रीडा लसति तवतीरे कलशिका
जलादाने काले पशुपरमणीनां सुखकरा ।
विचित्रैर्माधुर्यैः सरसवचनैर्भावसहितै-
र्वृतं तं स्वीकर्त्तुं कलय किल मां तत्प्रियसखि ॥ ३०॥
विहारि नियाख्ये तवपुलिन देशस्थल मिते
सखीरूपेणाय्यें रसपतिनिकुञ्जोद्भवसुखम् ।
त्वया प्राप्तं सोऽपि त्वयि वसति साक्षाद्भरिरतः
श्रमः कस्ते मह्यं प्रभुचरण पद्मेक्षणविधौ ॥ ३१॥
त्वयि स्नानान्मातः पशुपतनयाभिः पतिरितो
विर्भुब्रहमादीनां व्रजपदयिता जीवनधनम् ।
पुलिन्दीभिश्चापि प्रभुचरणपङ्केरुहरसो
वने प्राप्तःसाक्षात्दिति तवपदस्नानमहिमा ॥ ३२॥
विलीयन्ते कर्माण्ययि तवपदा वर्चति जने
तदा तस्यार्चायै कलयति विधिं निर्ज्जरगणः ।
तवभ्रातुर्मन्त्रो निजलिपि विनाशं वितनुते
तमानितुं कृष्णः परिषदिनियुङ्तेऽनुगगणान् ॥ ३३॥
भवत्याः श्रीमातर्मधुचरणपङ्केरुहयशो
जनः को वा शृण्वंस्त्रिदशपुरवद्यो न हि भवेत् ।
सवातः सुश्लोकं विषम हदयानामपि गति-
प्रदं को वा दत्तो भुवि न श्रुणुयाद्वा न हि पठेत् ॥ ३४॥
भवत्यास्तीरस्था द्रुममृगविहङ्गादय उश-
त्ययोमध्याविष्टाः कमठमकराद्या अपिवराः ।
यतो जीवन्तस्ते परमपुरुषानन्दजलाधौ
निमग्नाः सन्तऽन्ते झटिति लयमायान्ति परमे ॥ ३५॥
कदाप्येको यज्ञः क्षिति विबुधशप्तः स्मरवशः
सुरापी मांसाशी श्रुति-सृतिविरोधी तवतटे ।
भमन् दष्टो दैवात्पथिगतभुजङ्गेन सहसा
मृतो रेणुस्पर्शाद्धरिमित इति त्वत्पदमहः ॥ ३६॥
मृतेऽरण्ये दुष्टे भसक उरुदुर्गन्धि-क्वमिले
त्वदप्सु, स्नात्वाऽन्यैः क्वतसमर उड्डीयपतितः ।
वटः कश्चिद्दैवात्तवजलरजःश्लिष्टपतन-
स्ततः स्पर्शामुक्तो भसक इति ते देविमहिमा ॥ ३७॥
यदार्येते रोधद्वयलसितपादाशनलता
विता नराच्छन्नं दिनमणिविभा-तापरहितम् ।
घनश्यामाङ्गा भज्जित-मरकताभं शिक्करं
मदीय स्नानाय प्रतिदिनमिदं वारि भवतात् ॥ ३८॥
मदीयेऽस्मिंश्चित्ते गगनमणि-कन्ये रुचिरियं
वसंस्त्वत्तीरे श्रीपरमपदगोवर्धनधरम् ।
स्मरेयं गोविन्दं सकलमपहायांशु विषयं
त्वयेत्यार्ये पाल्या कुरु मयि कृपां दीन उचिताम् ॥ ३९॥
ततो वृन्दारण्ये तवपुलिन सद् वृक्षकालिते
निकुञ्जे कीडन्तं स्वपदरमणीभिः परिवृतम् ।
हरिं राधायुक्तं कनकमणिसिंहासनयुतं
निरीक्षन्नर्चिष्ये तवचरण जाऽनुग्रहलवात् ॥ ४०॥
कदाहं स्यां मातस्तवचरण पङ्केरुहक्वपा
भराद्वर्ये नित्यं निगम शुभसारैयाशरणः ।
परानन्दाऽऽपुष्टः परिहृतमवानन्दनिकरः
प्रसीद श्रीकृष्णे कुरु मयि दयां कृष्णदयिते ॥ ४१॥
इदानीं सन्देहो भवति मयि कालिन्दिरविजे
स्वभावादुत्पन्नं विविधजनतोद्धारक गुणम् ।
अथादयाहो मातर्गतमहह किं विस्मृतिपदं
यदङ्घ्याव्यामोदं वितरसि न मे दीनगतिदे ॥ ४२॥
त्वदङ्घ्यज्जालम्बाद्धिगतसुरभीतीरविसुते
ह्ययं चिन्ताहीनो निजभवसमुद्धारविषये ।
इदानीं मत्त्यागो यदि बतविधेयो जननि ते
तदा मे स्याङ्गानिस्तव तु यशसामन्त विषयः ॥ ४३॥
पुनन्ती त्वं लोकांस्यजसि निजतोका निति शुभे
चरित्रं को ब्रूयात् क्षम मयि सहस्त्रांशुतनये ।
कथं मे त्वं पुत्रो भवसि वद चेच्छङकस इति
स्वयं प्राप्तोऽपि स्यात्सुत इति दृढाऽस्ति श्रुतिरिह ॥ ४४॥
सुता नो जायन्ते जगति मलमूत्रादिरहिता-
स्तथा नो मातापि श्रुतिपथमिता ग्लानिसहिता ।
सदाचारश्चैकं जयति नु तिरस्कृत्य तमहो
कथं मत्तो ग्लानिं कुरुष इह मातर्मलिनतः ॥ ४५॥
अयि श्रीगोविन्दप्रियसखिसहस्रांशुतनये
तमीनाशो न स्वाद्यदि तवपितुः कः करगुणः ।
तथा त्वत्पादानाऽऽश्रयिण इह मेऽन्तःकरणत-
स्तमोलोपो न स्यात् किमु तवयशस्तर्हि भविता ॥ ४६॥
तवालम्बान्मातर्मदकलहमोहादिकखलान्
कदर्थीकृत्येभं भवनिधिमहं तर्त्तुमबलः ।
समोहे हे कृष्णे मम पणमिमं पालय शिशो-
र्निरीक्षन् कीर्तिं स्वामपि जननि मा हासय रिपून् ॥ ४७॥
नमस्ते कालिन्दि प्रभुचरणपङ्केरुहरज-
स्तुलस्यामोदान्भोविविधगमनाऽऽनन्दरसदे ।
तरङ्गैः प्रोत्तुङ्गैः कलिकलुषभङ्गैः शिवतमै-
र्मदन्गम्मार्जन्ती मम मन दूने प्रेरय निजे ॥ ४८॥
क्वचिद्गोभिर्वत्सैः क्वचिदपि मयूरादिनिकरैः
क्वचिद्वास्नातीनां पशुपरमणीनां नवगणैः ।
क्वचिद्वेदाभ्याऽऽगमजपपरैर्ब्राह्मणगणै-
र्व्रजे याति शोभा मम हृदयलोभाय भवतात् ॥ ४९॥
कपालुत्वं ते वा इह जगति को वा निगदितुं
समर्थः सम्भूयात्कविसदसि साहित्यचतुरः ।
सुनीतिर्वालो यत्तवतटनिवासेन झटिति
प्रपेदे श्रीकृष्णं त्विति खलु न को वेत्ति यमुने ॥ ५०॥
पयोदाभे मातस्तव शुभपयःपान विधिनाऽ-
म्बरीषो दुर्वासः कृतकठिनपाशादपि दृढः ।
भयं नैक प्राधिषदपि हरिचक्राऽविततनु-
र्ह्यतः को वा न स्यात्ततवसलिलपानाऽर्पितमनाः ॥ ५१॥
कृतान्तस्त्वांङ्गाता तवदपकृतालम्बनजनान्
समर्चन्नानन्दं भजति च पयःपाननिरतान् ।
कथं वा नो कुर्याद्यदुचितमिदं धर्मपथगः
स्वसुपुन्नान् यस्माद्यजतिविभवैर्मातुलगणः ॥ ५२॥
उषो मज्जन्तीनां व्रजपदयितानां तनुगतैः
सुरागैरामोदैः शिवशिवकरैः पिञ्जचररुचि ।
त्वदीयं कीलालं त्रिदशनिकरैः प्रार्थमनिषं कथं
न स्यान्मातर्बुधजनमनोहारि यमुने ॥ ५३॥
मधोः पुर्य्याः प्राच्यां दिशि लसति भूयोजन मिते
विचित्रे रायाख्ये नगर उरु कालात् स्वपितृभिः ।
कृतं वासं त्यक्त्वा तवजलनिधानैकविधिना
स्वमुक्ते संसिध्ययाऽहमुशतिवृन्दावन इतः ॥ ५४॥
खलो वा नीचो वा निगमविमुखो वा शठमति-
र्मन्दो वा क्रोधो वा कलिमलरतो वा विषयधीः ।
अहं याहक् तादृक् तवचरणपङ्केरुहरजः
प्रपन्नोऽहं मातस्विह यदुचितं तत्कुरु हितम् ॥ ५५॥
नमस्ते कृष्णायै दिनमणिसुतायै भवकृते
नमः श्रीकालिन्द्यैः जनशरणदात्र्यै शुभभुवे ।
नमः संशुद्धायै यदुपतिगृहिण्यैः किल नमो
नमस्ते श्रीवृन्दावमपुलिनकेल्यायऽयि नमः ॥ ५६॥
स्वान्तः सुखाय यमुनालहरीकृतेयं
श्लोकैसचिश्च्छिखरिणीत्यभिधानवृत्तैः ।
प्रेम्णाऽर्पिता रविसुतापदयोश्च दुर्गा
दत्ताऽभिधेन कविनन्दकिशोरजेन ॥ ५७॥
इति श्रीनन्दकिशोरात्मज-दुर्गादत्तकृता
श्रीयमुनालहरी समाप्ता ।
Encoded and proofread by Mandar Mali aryavrutta at gmail.com