श्रीयदुगिरिनायकीसुप्रभातम्
श्रीयादवक्षिति भृदीश विशाल वक्षः
सौ?न्थरोज्वल मनोहर दिव्यमूर्ते ।
क्षीराम्बुधि प्रियसुते प्रणतेष्टदात्रि
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ १॥
कल्याण तीर्थमवगाह्य सुतीर्थ पूर्ण
सौवर्ण भद्रकलशान् शिरसा वहन्तः ।
तिष्टन्ति वैदिक शिखामणयोस्त्र हृष्टा
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ २॥
एतेपि नारदमुखा स्सुरवैणिकाश्च
त्वत्पाद पङ्कज विलीन निजान्थरङ्गाः ।
गायन्ति ते गुणगणान्निगमान्त गम्या-
न्यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ३॥
इन्द्रानलान्तक मुखाश्च दिशामधीशा
स्सम्प्रापितोन्नत पदास्त्वदपाङ्ग लेशैः ।
त्वां संस्तुवन्ति विहिताञ्जलयः प्रकामं
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ४॥
देवि त्वया सुचरितस्य सुते प्रसादा
द्यादृग्विढाः प्रकटताः करुणातरङ्गाः ।
तादृग्विढा निहतरङ्गय मय्यपाङ्गान्
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ५॥
यैरुन्नतिं समगमन्न च शङ्कराद्याः
यानीहते हरिरपि त्रिजगद्विढाने ।
मातस्त्वमद्य समुदं च यतानपाङ्गान्
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ६॥
सद्यः प्रफुल्ल करपद्मगलन्मकरन्द
पानोन्मुखा मधुकरास्तव सुप्रभातम् ।
शंसन्तिझङ्कृतिमिषेण किलाद्यदेवि
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ७॥
कर्णावतंसित सरोजयुगे प्रफुल्ले
सद्यस्समुन्मिषदपाङ्ग परम्परास्ते ।
निष्पन्द पु?रस पानरतालि माला
लीलांवहन्ति कमले तव सुप्रभातम् ॥ ८॥
दारिद्र दाव दहनान्तर तप्य मान
खेदापनोदन धुरीण कटाक्षपूरे ।
उत्फुल्ल पङ्कजदलायत लोचनान्ते
यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ९॥
जयतु जयतु देवी देवसङ्घाति पूजा
जयतु जयतु पद्मा पद्म सद्मास्भिवन्द्या ।
जयतु जयतु नित्या निर्मल ज्ञान वेद्या
जयतु जयतु सत्या सर्व भूतान्तरस्था ॥ १०॥
सुप्रभात मिदप्रमत्तधीर्यः प्रभातसमये पठेन्नरः ।
क्षिप्रमेति सकलानभीप्सितान् दीर्घमायुरथ शाश्वतं पदम् ॥
स्वामी सुशीलस्सुलभ स्सर्वज्ञस्सर्व शक्तिधृत् ।
वत्सलोयत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥
इति श्रीयदुगिरिनायकीसुप्रभातं सम्पूर्णम् ।
Proofread by Divya K Suresh