श्रीविलापकुसुमाञ्जलिः
त्वं रूपमञ्जरि सखि प्रथिता पुरेऽस्मि-
न्पुंसः परस्य वदनं न हि पश्यसीति ।
बिम्बाधरे क्षतमनागतभर्तृकाया
यत्ते व्यधायि किमु तच्छुकपुङ्गवेन ॥ १॥ (वसन्त)
स्थलकमलिनि युक्तं गर्विता काननेऽस्मि-
न्प्रणयसि वरहास्यं पुष्पगुच्छच्छलेन ।
अपि निखिललतास्ताः सौरभाक्ताः स मुञ्च-
न्मृगयति तव मार्गं कृष्णभृङ्गो यदद्य ॥ २॥ (मालिनी)
व्रजेन्द्रवसतिस्थले विविधवल्लवीसङ्कुले
त्वमेव रतिमञ्जरि प्रचुरपुण्यपुञ्जोदया ।
विलासभरविस्मृतप्रणयिमेखलामार्गणे
यदद्य निजनाथया व्रजति नाथिता कन्दरम् ॥ ३॥ (पृथ्वी)
प्रभुरपि यदुनन्दनो च एष
प्रिययदुनन्दन उन्नतप्रभावः ।
स्वयमतुलकृपामृताभिषेकं
मम कृतवांस्तमहं गुरुं प्रपद्ये ॥ ४॥ (पुष्पिताग्रा)
यो मां दुस्तरगेहनिर्जलमहाकूपादपारक्लमा-
त्सद्यः सान्द्रदयाम्बुधिः प्रकृतितः स्वैरी कृपारज्जुभिः ।
उद्धृत्यात्मसरोजनिन्दिचरणप्रान्तं प्रपाद्य स्वयं
श्रीदामोदरसाच्चकार तमहं चैतन्यचन्द्रं भजे ॥ ५॥ (शार्दूल)
वैराग्ययुग्भक्तिरसप्रयत्नै-
रपाययन्मामनभीप्सुमन्धम् ।
कृपाम्बुधिर्यः परदुःखदुःखी
सनातनं तं प्रभुमाश्रयामि ॥ ६॥ (उपजाति)
अत्युत्कटेन नितरां विरहानलेन
दन्दह्यमानहृदया किल कापि दासी ।
हा स्वामिनि क्षणमिह प्रणयेन गाढं
आक्रन्दनेन विधुरा विलपामि पद्यैः ॥ ७॥ (वसन्त)
देवि दुःखकुलसागरोदरे
दूयमानमतिदुर्गतं जनम् ।
त्वं कृपाप्रबलनौकयाद्भुतं
प्रापय स्वपदपङ्कजालयम् ॥ ८॥ (रथोद्धता)
त्वदलोकनकालाहिदंशैरेव मृतं जनम् ।
त्वत्पादाब्जमिलल्लाक्षाभेषजैर्देवि जीवय ॥ ९॥ (अनुष्टुभ्)
देवि ते चरणपद्मदासिकां
विप्रयोगभरदावपावकैः ।
दह्यमानतरकायवल्लरीं
जीवय क्षणनिरीक्षणामृतैः ॥ १०॥ (रथोद्धता)
स्वप्नेऽपि किं सुमुखि ते चरणाम्बुजात
राजत्परागपटवासविभूषणेन ।
शोभां परामतितरामहहोत्तमाङ्गं
बिभ्रद्भविष्यति कदा मम सार्थनामा ॥ ११॥ (वसन्त)
अमृताब्धिरसप्रायैस्तव नूपुरसिञ्जितैः ।
हा कदा मम कल्याणि वाधिर्यमपनेष्यते ॥ १२॥ (अनुष्टुभ्)
शशकभृदभिसारे नेत्रभृङ्गाञ्चलाभ्यां
दिशि विदिशि भयेनोद्घुर्णिताभ्यां वनानि ।
कुवलयदलकोषाण्येव कॢप्तानि याभ्यां
किमु किल कलनीयो देवि ताभ्यां जनोऽयम् ॥ १३॥ (मालिनी)
यदवधि मम काचिन्मञ्जरी रूपपूर्वा
व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार ।
तदवधि तव वृन्दारण्यराज्ञि प्रकामं
चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ १४॥ (मालिनी)
यदा तव सरोवरं सरसभृङ्गसङ्घोल्लस-
न्सरोरुहकुलोज्ज्वलं मधुरवारिसम्पूरितम् ।
स्फुटत्सरसिजाक्षि हे नयनयुग्मसाक्षाद्बभौ
तदैव मम लालसाजनि तवैव दास्ये रसे ॥ १५॥ (पृथ्वी)
पादाब्जयोस्तव विना वरदास्यमेव
नान्यत्कदापि समये किल देवि याचे ।
सख्याय ते मम नमोऽस्तु नमोऽस्तु नित्यं
दास्यास्य ते मम रसोऽस्तु रसोऽस्तु सत्यम् ॥ १६॥ (वसन्त)
अतिसुललितलाक्षाश्लिष्टसौभाग्यमुद्रा
ततिभिरधिकतुष्ट्या चिह्नितीकृत्य बाहू ।
नखदलितहरिद्रागर्वगौरि प्रियां मे
चरणकमलसेवां हा कदा दास्यसि त्वम् ॥ १७॥ (मालिनी)
प्रणालीं कीलालैर्बहुभिरभि सङ्क्षाल्य मधुरै-
र्मुदा सम्मार्ज्य स्वैर्विवृतकचवृन्दैः प्रियतया ।
कदा बाह्यागारं वरपरिमलैर्धूपनिवहै-
र्विधास्ये ते देवि प्रतिदिनमहो वासितमहम् ॥ १८॥ (शिखरिणी)
प्रातः सुधांशुमिलितां मृदमत्र यत्ना-
दाहृत्य वासितपयश्च गृहान्तरे च ।
पादाम्बुजे बत कदा जलधारया ते
प्रक्षाल्य भाविनि कचैरिह मार्जयामि ॥ १९॥ (वसन्त)
प्रक्षाल्य पादकमलं कृतदान्तकाष्ठां
स्नानार्थमन्यसदने भवतीं निविष्टाम् ।
अभ्यज्य गन्धिततरैरिह तैलपूरैः
प्रोद्वर्तयिष्यति कदा किमु किङ्करीयम् ॥ २०॥ (वसन्त)
अयि विमलजलानां गन्धकर्पूरपुष्पै-
र्जितविधुमुखपद्मे वासितानां घटोघैः ।
प्रणयललितसख्या दीयमानैः पुरस्ता-
त्तव वरमभिषेकं हा कदाहं करिष्ये ॥ २१॥ (मालिनी)
पानीयं चीनवस्त्रैः शशिमुखि शनकै रम्यमृद्वङ्गयष्टे-
र्यत्नादुत्सार्य मोदाद्दिशि दिशि विचलन्नेत्रमीनाञ्चलायाः ।
श्रोणौ रक्तं दुकूलं तदपरमतुलं चारुनीलं शिरोऽग्रा-
त्सर्वाङ्गेषु प्रमोदात्पुलकितवपुषा किं मया ते प्रयोज्यम् ॥ २२॥ (स्रग्धरा)
प्रक्षाल्य पादकमलं तदनुक्रमेण
गोष्ठेन्द्रसूनुदयिते तव केशपाशम् ।
हा नर्मदाग्रथितसुन्दरसूक्ष्ममाल्यै-
र्वेणीं करिष्यति कदा प्रणयैर्जनोऽयम् ॥ २३॥ (वसन्त)
सुभगमृगमदेनाखण्डशुभ्रांशुवत्ते
तिलकमिह ललाटे देवि मोदाद्विधाय ।
मसृणघुसृणचर्चामर्पयित्वा च गात्रे
स्तनयुगमपि गन्धैश्चित्रितं किं करिष्ये ॥ २४॥ (मालिनी)
सिन्दूररेखा सीमन्ते देवि रत्नशलाकया ।
मया या कल्पिता किं ते सालकाञ्छोभयिष्यति ॥ २५॥ (अनुष्टुभ्)
हन्त देवि तिलकस्य समन्ता-
द्बिन्दवोऽरुणसुगन्धिरसेन ।
कृष्णमादनमहौषधिमुख्या
धीरहस्तमिह किं परिकल्प्याः ॥ २६॥ (स्वागता)
गोष्ठेन्द्रपुत्रमदचित्तकरीन्द्रराज
बन्धाय पुष्पधनुषः किल बद्धरज्ज्वोः ।
किं कर्णयोस्तव वरोरु वरावतंस
युग्मेन भूषणमहं सुखिता करिष्ये ॥ २७॥ (वसन्त)
या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता
श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् ।
किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं
प्राणेभ्योऽप्यधिकं स्वकं निधियुगं सङ्गोपयत्येव हि ॥ २८॥ (शार्दूल)
नानामणिप्रकरगुम्फितचारुपुष्टा
मुक्तास्रजस्तव सुवक्षसि हेमगौरि ।
श्रान्त्याभृतालसमुकुन्दसुतूलिकायां
किं कल्पयिष्यतितरां तव दासिकेयम् ॥ २९॥ (वसन्त)
मणिचयखचिताभिर्नीलचूडावलीभि-
र्हरिदयितकलाविद्द्वन्द्वमिन्दीवराक्षि ।
अपि बत तव दिव्यैरङ्गुलीरङ्गुलीयैः
क्वचिदपि किल काले भूषयिष्यामि किं नु ॥ ३०॥ (मालिनी)
पादाम्भोजे मणिमयतुलाकोटियुग्मेन यत्ना-
दभ्यर्चे तद्दलकुलमपि प्रेष्टपादाङ्गुलीयैः ।
काञ्चीदाम्ना कटितटमिदं प्रेमपीठं सुनेत्रे
कंसारातेरतुलमचिरादर्चयिष्यामि किं ते ॥ ३१॥ (मन्दाक्रान्ता)
ललिततरमृणालीकल्पबाहुद्वयं ते
मुरजयिमतिहंसीधैर्यविध्वंसदक्षम् ।
मणिकुलरचिताभ्यामङ्गदाभ्यां पुरस्ता-
त्प्रमदभरविनम्रा कल्पयिष्यामि किं वा ॥ ३२॥ (मालिनी)
रासोत्सवे य इह गोकुलचन्द्रबाहु
स्पर्शेन सौभगभरं नितरामवाप ।
ग्रैवेयकेण किं तं तव कण्ठदेशं
सम्पूजयिष्यति पुनः सुभगे जनोऽयम् ॥ ३३॥ (वसन्त)
दत्तः प्रलम्बरिपुणोद्भटशङ्खचूड
नाशात्प्रतोषि हृदयं मधुमङ्गलस्य ।
हस्तेन यः सुमुखि कौस्तुभमित्रमेतं
किं ते स्यमन्तकमणिं तरलं करिष्ये ॥ ३४॥ (वसन्त)
प्रान्तद्वये परिविराजितगुच्छयुग्म
विभ्राजितेन नवकाञ्चनडोरकेण ।
क्षीणं त्रुटत्यथ कृशोदरि चेदितीव
बध्नामि भोस्तव कदातिभयेन मध्यम् ॥ ३५॥ (वसन्त)
कनकगुणितमुच्चैर्मौक्तिकं मत्करात्ते
तिलककुसुमविजेत्री नासिका सा सुवृत्तम् ।
मधुमथनमहालिक्षोभकं हेमगौरि
प्रकटतरमरन्दप्रायमादास्यते किम् ॥ ३६॥ (मालिनी)
अङ्गदेन तव वामदोःस्थले
स्वर्णगौरि नवरत्नमालिकाम् ।
पट्टगुच्छपरिशोभितामिमां
आज्ञया परिणयामि ते कदा ॥ ३७॥ (रथोद्धता)
कर्णयोरुपरि चक्रशलाके
चञ्चलाक्षि निहिते मयका ते ।
क्षोभकं निखिलगोपवधूनां
चक्रवद्भ्रमयतां मुरशत्रुम् ॥ ३८॥
कदा ते मृगशावाक्षि
चिबुके मृगनाभिना ।
बिन्दुमुल्लासयिष्यामि
मुकुन्दामोदमन्दिरे ॥ ३९॥ (अनुष्टुभ्)
दशनांस्ते कदा रक्त
रेखाभिर्भूषयाम्यहम् ।
देवि मुक्ताफलानीह
पद्मरागगुणैरिह ॥ ४०॥ (अनुष्टुभ्)
उत्खादिरेण नवचन्द्रविराजितेन
रागेण ते वरसुधाधरबिम्बयुग्मे ।
गाङ्गेयगात्रि मयका परिरञ्जितेऽस्मि-
न्दंशं विधास्यति हठात्किमु कृष्णकीरः ॥ ४१॥ (वसन्ततिलक)
यत्प्रान्तदेशलवलेशविघूर्णितेन
बद्धः क्षणाद्भवति कृष्णकरीन्द्र उच्चैः ।
तत्खञ्जरीटजयिनेत्रयुगं कदायं
सम्पूजयिष्यति जनस्तव कज्जलेन ॥ ४२॥ (वसन्त)
यस्याङ्करञ्जितशिरास्तव मानभङ्गे
गोष्ठेन्द्रसूनुरधिकां सुषमामुपैति ।
लाक्षारसं स च कदा पदयोरधस्ते
न्यस्तो मयाप्यतितरां छविमाप्स्यतीह ॥ ४३॥ (वसन्त)
कलावति नतांसयोः प्रचुरकामपुञ्जोज्ज्वल-
त्कलानिधिमुरद्विषः प्रकटराससम्भावयोः ।
भ्रमद्भ्रमरझङ्कृतैर्मधुरमल्लिमालां मुदा
कदा तव तयोः समर्पयति देवि दासीजनः ॥ ४४॥
सूर्याय सूर्यमणिनिर्मितवेदिमध्ये
मुग्धाङ्गि भावत इहालिकुलैर्वृतायाः ।
अर्घं समर्पयितुमुत्कधियस्तवारा-
त्सज्जानि किं सुमुखि दास्यति दासिकेयम् ॥ ४५॥
व्रजपुरपतिराज्ञ्या आज्ञया मिष्ठमन्नं
बहुविधमतियत्नात्स्वेन पक्वं वरोरु ।
सपदि निजसखीनां मद्विधानां च हस्तै-
र्मधुमथननिमित्तं किं त्वया सन्निधास्यम् ॥ ४६॥
नीतान्नमद्विधललाटतटे ललाटं
प्रीत्या प्रदाय मुदिता व्रजराजराज्ञी ।
प्रेम्णा प्रसूरिव भवत्कुशलस्य पृच्छां
भव्ये विधास्यति कदा मयि तावकत्वात् ॥ ४७॥
कृष्णवक्त्राम्बुजोच्छिष्टं
प्रसादं परमादरात् ।
दत्तं धनिष्ठया देवि
किमानेष्यामि तेऽग्रतः ॥ ४८॥ (अनुष्टुभ्)
नानाविधैरमृतसाररसायनैस्तैः
कृष्णप्रसादमिलितैरिह भोज्यपेयैः ।
हा कुङ्कुमाङ्गि ललितादिसखीवृता त्वं
यत्नान्मया किमुत्तरामुपभोजनीया ॥ ४९॥ (वसन्त)
पानाय वारि मधुरं नवपाटलादि
कर्पूरवासिततरं तरलाक्षि दत्त्वा ।
काले कदा तव मयाचमनीयदन्त
काष्ठादिकं प्रणयतः परमर्पणीयम् ॥ ५०॥ (वसन्त)
(युग्मकम्)
भोजनस्य समये तव यत्ना-
त्देवि धूपनिवहान्वरगन्धान्।
बीजनाद्यमपि तत्क्षणयोग्यं
हा कदा प्रणयतः प्रणयामि ॥ ५१॥ (स्वागता)
कर्पूरपूरपरिपूरितनागवल्ली
पर्णादिपूगपरिकल्पितवीटिकां ते ।
वक्त्राम्बुजे मधुरगात्रि मुदा कदाहं
प्रोत्फुल्लरोमनिकरैः परमर्पयामि ॥ ५२॥ (वसन्त)
आरात्रिकेण भवतीं किमु देवि देवीं
निर्मञ्छयिष्यतितरां ललिता प्रमोदात् ।
अन्यालयश्च नवमङ्गलगानपुष्पैः
प्राणार्बुदैरपि कचैरपि दासिकेयम् ॥ ५३॥
आलीकुलेन ललिताप्रमुखेन सार्धं
आतन्वती त्वमिह निर्भरमर्मगोष्ठीम् ।
मत्पाणिकल्पितमनोहरकेलितल्पं
आभूषयिष्यसि कदा स्वपनेन देवि ॥ ५४॥
संवाहयिष्यति पदौ तव किङ्करीयं
हा रूपमञ्जरिरसौ च कराम्बुजे द्वे ।
यस्मिन्मनोज्ञहृदये सदयेऽनयोः किं
श्रीमान्भविष्यतितरां शुभवासरः सः ॥ ५५॥
तवोद्गीर्णं भोज्यं सुमुखि किल कल्लोलसलिलं
तथा पादाम्भोजामृतमिह मया भक्तिलतया ।
अयि प्रेम्णा सार्धं प्रणयिजनवर्गैर्बहुविधै-
रहो लब्धव्यं किं प्रचुरतरभोग्योदयबलैः ॥ ५६॥
भोजनावसरे देवि
स्नेहेन स्वमुखाम्बुजात् ।
मह्यं त्वद्गतचित्तायै
किं सुधास्त्वं प्रदास्यसि ॥ ५७॥ (अनुष्टुभ्)
अपि बत रसवत्याः सिद्धये माधवस्य
व्रजपतिपुरमुद्यद्रोमरोमा व्रजन्ती ।
स्खलितगतिरुदञ्चत्स्वान्तसौख्येन किं मे
क्वचिदपि नयनाभ्यां लप्स्यसे स्वामिनि त्वम् ॥ ५८॥ (मालिनी)
पार्श्वद्वये ललितयाथ विशाखया च
त्वां सर्वतः परिजनैश्च परैः परीताम् ।
पश्चान्मया विभृतभङ्गुरमध्यभागां
किं रूपमञ्जरिरियं पथि नेष्यतीह ॥ ५९॥
हम्बारवैरिह गवामपि बल्लवानां
कोलाहलैर्विविधवन्दिकलावतां तैः ।
सम्भ्राजते प्रियतया व्रजराजसूनो-
र्गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः ॥ ६०॥
प्राप्तां निजप्रणयिनीप्रकरैः परीतां
नन्दीश्वरं व्रजमहेन्द्रमहालयं तम् ।
दूरे निरीक्ष्य मुदिता त्वरितं धनिष्ठा
त्वामानयिष्यति कदा प्रणयैर्ममाग्रे ॥ ६१॥
(युग्मकम्)
प्रक्षाल्य पादकमले कुशले प्रविष्टा
नत्वा व्रजेशमहिषीप्रभृतीर्गुरूस्ताः ।
हा कुर्वती रसवतीं रसभाक्कदा त्वं
सम्मज्जयिष्यसितरां सुखसागरे माम् ॥ ६२॥
माधवाय नतवक्त्रमादृता
भोज्यपेयरससञ्चयं क्रमात् ।
तन्वती त्वमिह रोहिणीकरे
देवि फुल्लवदनं कदेक्ष्यसे ॥ ६३॥
भोजने गुरुसभासु कथञ्चि-
न्माधवेन नतदृष्टि मुदोत्कम् ।
वीक्ष्यमाणमिह ते मुखपद्मं
मोदयिष्यसि कदा मधुरे माम् ॥ ६४॥
अयि विपिनमटन्तं सौरभेयीकुलानां
व्रजनृपतिकुमारं रक्षणे दीक्षितं तम् ।
विकलमतिजनन्या लाल्यमानं कदा त्वं
स्मितमधुरकपोलं वीक्ष्यसे वीक्ष्यमाणा ॥ ६५॥
गोष्ठेशयाथ कुतुकाच्छपथादिपूर्वं
सुस्निग्धया सुमुखि मातृपरार्धतोऽपि ।
हा ह्रीमति प्रियगणैः सह भोज्यमानां
किं त्वां निरीक्ष्य हृदये मुदमद्य लप्स्ये ॥ ६६॥
आलिङ्गनेन शिरसः परिचुम्बनेन
स्नेहावलोकनभरेण च खञ्जनाक्षि ।
गोष्ठेशया नववधूमिव लाल्यमानां
त्वां प्रेक्ष्य किं हृदि महोत्सवमातनिष्ये ॥ ६७॥
हा रूपमञ्जरि सखि प्रणयेन देवीं
त्वद्बाहुदत्तभुजवल्लरिमायताक्षीम् ।
पश्चादहं कलितकामतरङ्गरङ्गां
नेष्यामि किं हरिविभूषितकेलिकुञ्जम् ॥ ६८॥
साकं त्वया सखि निकुञ्जगृहे सरस्याः
स्वस्यास्तटे कुसुमभावितभूषणेन ।
शृङ्गारितं विदधती प्रियमीश्वरी सा
हा हा भविष्यति मदीक्षणगोचरः किम् ॥ ६९॥
श्रुत्वा विचक्षणमुखाद्व्रजराजसूनोः
शस्ताभिसारसमयं सुभगेऽत्र हृष्टा ।
सूक्ष्माम्बरैः कुसुमसंस्कृतकर्णपूर
हारादिभिश्च भवतीं किमलङ्करिष्ये ॥ ७०॥
नानापुष्पैः क्वणितमधुपैर्देवि सम्भाविताभि-
र्मालाभिस्तद्घुसृणविलसत्कामचित्रालिभिश्च ।
राजद्द्वारे सपदि मदनानन्ददाभिख्यगेहे
मल्लीजालैः शशिमुखि कदा तल्पमाकल्पयिष्ये ॥ ७१॥
श्रीरूपमञ्जरिकरार्चितपादपद्म
गोष्ठेन्द्रनन्दनभुजार्पितमस्तकायाः ।
हा मोदतः कनकगौरि पदारविन्द
संवाहनानि शनकैस्तव किं करिष्ये ॥ ७२॥
गोवर्धनाद्रिनिकटे मुकुटेन नर्म
लीलाविदग्धशिरसां मधुसूदनेन ।
दानच्छलेन भवतीमवरुध्यमानां
द्रक्ष्यामि किं भ्रूकुटिदर्पितनेत्रयुग्माम् ॥ ७३॥
तव तनुवरगन्धासङ्गिवातेन चन्द्रा
वलिकरकृतमल्लीकेलितल्पाच्छलेन ।
मधुरमुखि मुकुन्दं कुण्डतीरे मिलन्तं
मधुपमिव कदाहं वीक्ष्य दर्पं करिष्ये ॥ ७४॥
समन्तादुन्मत्तभ्रमरकुलझङ्कारनिकरै-
र्लसत्पद्मस्तोमैरपि विहगरावैरपि परम् ।
सखीवृन्दैः स्वीयैः सरसि मधुरे प्राणपतिना
कदा द्रक्ष्यामस्ते शशिमुखि नवं केलिनिवहम् ॥ ७५॥
सरोवरलसत्तटे मधुपगुञ्जिकुञ्जान्तरे
स्फुटत्कुसुमसङ्कुले विविधपुष्पसङ्घैर्मुदा ।
अरिष्टजयिना कदा तव वरोरु भूषाविधि-
र्विधास्यत इह प्रियं मम सुखाब्धिमातन्वता ॥ ७६॥
स्फीतस्वान्तं कयाचित्सरभसमचिरेणार्प्यमाणैर्दरोद्य-
न्नानापुष्पोरुगुञ्जाफलनिकरलसत्केकिपिञ्छप्रपञ्चैः ।
सोत्कम्पं रच्यमानः कृतरुचिहरिणोत्फुल्लमङ्गं वहन्त्याः
स्वामिन्याः केशपाशः किमु मम नयनानन्दमुच्चैर्विधाता ॥ ७७॥
माधवं मदनकेलिविभ्रमे
मत्तया सरसिजेन भवत्या ।
ताडितं सुमुखि वीक्ष्य किन्त्वियं
गूढहास्यवदना भविष्यति ॥ ७८॥
सुललितनिजबाह्वाश्लिष्टगोष्ठेन्द्रसूनोः
सुवलिततरबाह्वाश्लेषदीव्यन्नतांसा ।
मधुरमदनगानं तन्वती तेन सार्धं
सुभगमुखि मुदं मे हा कदा दास्यसि त्वम् ॥ ७९॥
जित्वा पाशकखेलायां आच्छिद्य मुरलीं हरेः ।
क्षिप्तां मयि त्वया देवि गोपयिष्यामि तां कदा ॥ ८०॥
अपि सुमुखि कदाहं मालतीकेलितल्पे
मधुरमधुरगोष्ठीं विभ्रतीं वल्लभेन ।
मनसिजसुखदेऽस्मिन्मन्दिरे स्मेरगण्डां
सपुलकतनुरेषा त्वां कदा बीजयामि ॥ ८१॥
आयातोद्यत्कमलवदने हन्त लीलाभिसारा-
द्गत्याटोपैः श्रमविलुलितं देवि पादाब्जयुग्मम् ।
स्नेहात्संवाहयितुमपि ह्रीपुञ्जमूर्तेऽप्यलज्जं
नामग्राहं निजजनमिमं हा कदा नोत्स्यसि त्वम् ॥ ८२॥
हा नप्त्रि राधे तव सूर्यभक्तेः
कालः समुत्पन्न इतः कुतोऽसि ।
इतीव रोषान्मुखरा लपन्ती
सुधेव किं मां सुखयिष्यतीह ॥ ८३॥
देवि भाषितपीयूषं स्मितकर्पूरवासितम् ।
श्रोत्राभ्यां नयनाभ्यां ते किं नु सेविष्यते मया ॥ ८४॥
कुसुमचयनखेलां कुर्वती त्वं परीता
रसकुटिलसखीभिः प्राणनाथेन सार्धम् ।
कपटकलहकेल्या क्वापि रोषेण भिन्ना
मम मुदमतिबेलं धास्यसे सुव्रते किम् ॥ ८५॥
नानाविधैः पृथुलकाकुभरैरसह्यैः
संप्रार्थितः प्रियतया बत माधवेन ।
त्वन्मानभङ्गविधये सदये जनोऽयं
व्यग्रः पतिष्यति कदा ललितापदान्ते ॥ ८६॥
प्रीत्या मङ्गलगीतनृत्यविलसद्वीणादिवाद्योत्सवैः
शुद्धानां पयसां घटैर्बहुविधैः संवासितानां भृशम् ।
वृन्दारण्यमहाधिपत्यविधये यः पौर्णमास्या स्वयं
धीरे संविहितः स किं तव महासेको मया द्रक्ष्यते ॥ ८७॥
भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं
श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे ।
नीतायाः सुखशोकरोदनभरैस्ते सन्द्रवन्त्याः परं
वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥ ८८॥
लज्जयालिपुरतः परतो मां
गह्वरं गिरिपतेर्बत नीत्वा ।
दिव्यगानमपि तत्स्वरभेदं
शिक्ष्ययिष्यसि कदा सदये त्वम् ॥ ८९॥
याचिता ललितया किल देव्या
लज्जया नतमुखीं गणतो माम् ।
देवि दिव्यरसकाव्यकदम्बं
पाठयिष्यसि कदा प्रणयेन ॥ ९०॥
निजकुण्डतटिकुञ्जे गुञ्जद्भ्रमरसङ्कुले ।
देवि त्वं कच्छपिशिक्षां कदा मां कारयिष्यसि ॥ ९१॥
विहारैस्त्रुटितं हारं गुम्फितुं दयितं कदा ।
सखीनां लज्जया देवि संज्ञया मां निदेक्ष्यसि ॥ ९२॥
स्वमुखान्मन्मुखे देवि कदा ताम्बूलचर्वितम् ।
स्नेहात्सर्वदिशे वीक्ष्य समये त्वं प्रदास्यसि ॥ ९३॥
निविडमदनयुद्धे प्राणनाथेन सार्धं
दयितमधुरकाञ्ची या मदाद्विस्मृतासीत् ।
शशिमुखि समये तां हन्त सम्भाल्य भङ्ग्या
त्वरितमिह तदर्थं किं त्वयाहं प्रहेया ॥ ९४॥
केनापि दोषलवमात्रलवेन देवि
सन्ताड्यमान इह धीरमते त्वयोच्चैः ।
रोषेण तल्ललितया किल नीयमानः
सन्द्रक्ष्यते किमु मनाक्सदरं जनोऽयम् ॥ ९५॥
तवैवास्मि तवैवास्मि न जीवामि त्वया विना ।
इति विज्ञाय देवि त्वं नय मां चरणान्तिके ॥ ९६॥
स्वकुण्डं तव लोलाक्षि सप्रियायाः सदास्पदम् ।
अत्रैव मम संवास इहैव मम संस्थितिः ॥ ९७॥
हे श्रीसरोवर सदा त्वयि सा मदीशा
प्रेष्ठेन सार्धमिह खेलति कामरङ्गैः ।
त्वं चेत्प्रियात्प्रियमतीव तयोरितीमां
हा दर्शयाद्य कृपया मम जीवितं ताम् ॥ ९८॥
क्षणमपि तव सङ्गं न त्यजेदेव देवी
त्वमसि समवयस्त्वान्नर्मभूमिर्यदस्याः ।
इति सुमुखि विशाखे दर्शयित्वा मदीशां
मम विरहहतायाः प्राणरक्षां कुरुष्व ॥ ९९॥
हा नाथ गोकुलसुधाकर सुप्रसन्न
वक्त्रारविन्द मधुरस्मित हे कृपार्द्र ।
यत्र त्वया विहरते प्रणयैः प्रियारा-
त्तत्रैव मामपि नय प्रियसेवनाय ॥ १००॥
लक्ष्मीर्यदङ्घ्रिकमलस्य नखाञ्चलस्य
सौन्दर्यबिन्दुमपि नार्हति लब्धुमीशे ।
सा त्वं विधास्यसि न चेन्मम नेत्रदानं
किं जीवितेन मम दुःखदवाग्निदेन ॥ १०१॥
आशाभरैरमृतसिन्धुमयैः कथञ्चि-
त्कालो मयातिगमितः किल साम्प्रतं हि ।
त्वं चेत्कृपां मयि विधास्यसि नैव किं मे
प्राणैर्व्रजेन च वरोरु बकारिणापि ॥ १०२॥
त्वं चेत्कृपामयि कृपां मयि दुःखितायां
नैवातनोरतितरां किमिह प्रलापैः ।
त्वत्कुण्डमध्यमपि तद्बहुकालमेव
संसेव्यमानमपि किं नु करिष्यतीह ॥ १०३॥
अयि प्रणयशालिनि प्रणयपुष्टदास्याप्तये
प्रकाममतिरोदनैः प्रचुरदुःखदग्धात्मना ।
विलापकुसुमाञ्जलिर्हृदि निधाय पादाम्बुजे
मया बत समर्पितस्तव तनोतु तुष्टिं मनाक् ॥ १०४॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
श्रीश्रीविलापकुसुमाञ्जलिः सम्पूर्णा ।