श्रीविधिमानसहंसास्तोत्रम्
पापिषु प्रथमतो गणनीयं पुण्यवज्जनसुदूरगतं माम् ।
नागराजमिव पङ्कजचक्षुर्वाणि पाहि विधिमानसहंसे ॥ १॥
मांसरक्तमलपूर्णशरीरे पूतिगन्धनिलयेऽस्थिरवर्ये ।
आत्मबुद्धिमचलां दधतं मां वाणि पाहि विधिमानसहंसे ॥ २॥
मोहलोभमुखरोगविशीर्णं जन्ममृत्युभयतप्तहृदब्जम् ।
शान्तिदान्तिमुखमातृविहीनं वाणि पाहि विधिमानसहंसे ॥ ३॥
वेदशीर्षपरिशीलनशून्यं पादपद्मनमनेऽप्यलसं ते ।
पाणिपङ्कजलसच्छुकबाले वाणि पाहि विधिमानसहंसे ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीविधिमानसहंसास्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran