विभिन्नरूपलक्ष्मीध्यानप्रकाराः
श्रीलक्ष्मीनारायण ध्यानम् ।
क्षीराम्भोनिधिरत्नमण्डपमहासौवर्णसिंहासने ।
वामाङ्के स्थितया प्रसन्नवदनं श्रीकान्तयाऽऽलिङ्गितम् ॥
दोर्दण्डाङ्कितशङ्खपङ्कजगदाचक्रैरुदारश्रियम् ।
त्वां नित्यं कलयामि जन्मविमुखः लक्ष्मीश नारायण ॥
द्विभुजालक्ष्मी - हेमवर्णा ।
हरेः समीपे कर्तव्या लक्ष्मीस्तु द्विभुजा नृप ।
दिव्यरूपाम्बुजकरा सर्वाभरणभूषिता ॥
गजलक्ष्मी - स्वर्णवर्णा ।
लक्ष्मीः शुक्लाम्बरा देवी रूपेणाप्रतिमा भुवि ।
पृथक् चतुर्भुजा कार्या देवी सिम्हासने शुभा ॥
सिम्हासनेऽस्या कर्तव्यं कमलं चारुकर्णिकम् ।
अष्टपत्रं महाभागा कर्णिकायां सुसंस्थिता ॥
विनायकवदासीना देवी कार्या चतुर्भुजा ।
बृहन्नालङ्करे कार्यं तस्याश्च कमलं शुभम् ॥
दक्षिणे यादवश्रेष्ठं केयूरभ्रान्तसंस्थितम् ।
वामेऽमृतघटः कार्यस्तदा राजन् मनोहरः ॥
तस्याऽन्यौ च करौ कार्यौ बिल्वशङ्खधरौ द्विज ।
अवर्जितकरं कार्यं तत्पृष्ठे कुञ्जरद्वयम् ॥
देवाश्च मस्तके कार्यं पद्मं चापि मनोहरम् ॥
महालक्ष्मी - स्वर्णवर्णा ।
कोल्लापुरं विनाऽन्यत्र महालक्ष्मीर्यथोच्यते ।
लक्ष्मीवत् सा सदाकार्या सर्वाभरणभूषिता ॥
दक्षिणाधः करे पात्रमूर्ध्वं कौमोदकीं तदा ।
वामोर्ध्वे खेटकञ्चैव श्रीबलं तदधः करे ॥
बिभ्रती मस्तके पद्मं पूजनीया विभूतये ॥
श्रीदेवी - हेमवर्णा
पाशाक्षमाली काम्भोजमणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां कुर्वीथ श्रियं त्रैलोक्यमातरम् ॥
चतुर्भुजा वीरलक्ष्मी - स्वर्णवर्णा ।
वीरलक्ष्मीरिति ख्याता वरदाभयहस्तिनी ।
ऊर्ध्वपद्मद्वयकरा तथा पद्मासने स्थिता ॥
द्विभुजा वीरलक्ष्मी - हेमवर्णा ।
दक्षिणे त्वभयं बिभ्रदुत्तरे वरदं तथा ।
ऊरू पद्मदलाकारौ वीरश्रीमूर्तिलक्षणम् ॥
अष्टभुजा वीरलक्ष्मी - हेमवर्णा ।
पाशाङ्कुशाक्षसूत्रवराभयगदाभद्रहस्ता ॥
प्रसन्नलक्ष्मी - स्वर्णवर्णा ।
वन्दे लक्ष्मीं वरशशिमयीं शुद्धजाम्बूनदाभां
तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनककलशं हेमपद्मे दधानां
आद्यां शक्तिं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥
महालक्ष्मी - प्रवालवर्णा ।
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिञ्च चर्मजलजं घण्टां सुराभाजनम् ।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां
सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥
श्रीलक्ष्मी - कनकवर्णा ।
अरुणकमलसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्वाभीतियुग्माम्बुजा च ।
मणिमकुटविचित्रालङ्कृता कल्पजातैः
भवतु भुवनमाता सन्ततं श्रीः श्रियै नः ॥
पद्मा - पद्मवर्णा
पद्मा पद्मासनासीना पद्माभा पद्मवासिनी ।
हेमरत्नोज्ज्वलन्नग्रकर्णकुण्डलमण्डिता ॥
चन्द्रबिम्बामलमुखी कर्णपूरायतेक्षणा ।
सयौवना सुरम्याङ्गी कुञ्चितभ्रूः सुविभ्रमा ॥
रक्तोष्ठी पीनकण्ठा च कञ्चुकाच्छादितस्तनी ।
शिरसो मण्डनं चक्रं सीमन्तं चैव पद्मकम् ॥
नागहस्तसमौ बाहु केयूरकटकोज्ज्वलौ ।
पङ्कजं श्रीफलं वामे दक्षिणे बिभ्रती परा ॥
शोभनाम्बरसम्पन्ना विपुलश्रोणिता तथा ।
मेखलाकटिसूत्राङ्गा लक्ष्मीः लक्ष्मीविवर्धनी ॥
श्रीलक्ष्मी (अपरा)
अभयवरदहस्तां रत्नसिम्हासनस्थां
जलजकमलवर्णां हेमवर्णोर्ध्वहस्ताम् ।
कनकमणिविभूषामास्थितां पद्मपादां
सकलभुवनभाग्यां भावये वीरलक्ष्मीम् ॥
वागीश्वरी - श्वेतवर्णा ।
श्वेतपद्मासनारूढा शुक्लवर्णा चतुर्भुजा ।
जटामकुटसम्युक्ता रत्नकुण्डलमण्डिता ॥
यज्ञोपवीतिनी हारमुक्ताभरणभूषिता ।
दुकूलवसना देवी नेत्रत्रयसमन्विता ॥
सुदण्डं दक्षिणे हस्ते वामहस्ते तु पुस्तकम् ।
दक्षिणेऽक्षमालाञ्च कुण्डिकां वामहस्तके ॥
शत्रुविध्वंसिनी - नीलवर्णा ।
शत्रुविध्वंसिनी रौद्रा त्रिशिरा रक्तलोचना ।
दिगम्बरा रक्तकेशी रक्तपाणिर्महोदरी ॥
एतैराविष्कृतैर्घोरैः शीघ्रमुच्चाटयेद्द्विषः ॥
मृतसञ्जीविनी - रक्तवर्णा ।
मृतसञ्जीविनीं देवीं शान्तरूपांश्च बिभ्रतीम् ।
पाशाहीन्द्राङ्कुशगदाखड्गशूलवराभयान् ॥
रक्तामष्टभुजां वन्दे फुल्लपद्मासने शुभे ॥
अणिमादि अष्टसिद्धिदेवता - रक्तवर्णा ।
अणिमा महिमा चैव गरिमा लघिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टसिद्धयः ॥
मुक्तिसिद्धिः सर्वसिद्धिः दशसिद्धय ईरिताः ।
एता देव्यश्चतुर्बाहाः जपाकुसुमसन्निभाः ॥
चिन्तामणिं कपालञ्च त्रिशूलं सिद्धकज्जलम् ।
दधाना दययापूर्णा योगिभिश्च निषेविता ॥
महालक्ष्मीसहित अष्टमातृकाः - रक्तवर्णाः ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चैव सप्तमा ॥
महालक्ष्मीरष्टमा च द्विभुजा शोणविग्रहाः ।
कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥
अथवान्यप्रकारेण केचित्तान् यं प्रचक्षते ।
ब्रह्मादिसदृशाकाराः ब्रह्मादिसदृशायुताः ॥
ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः ॥
सर्वमङ्गला - कनकवर्णा ।
शङ्खं चक्रञ्च चापं सृणिमपि सुमहाखेटखड्गौ सुचापं
बाणं कह्लारपुष्पं तदनुकरगतं मातुलङ्गं दधानाम् ।
उद्यद्बालार्कवर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां
देवीं पीताम्बराढ्यां कुचभरनमितां सन्ततं भावयामि ॥
हेमाभां करुणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां
द्वात्रिंशद्दलषोडशाष्टदलयुक् पद्मस्थितां सुस्मिताम् ॥
भक्तानां वरदां वरं च दधतीं वामेन हस्तेन तत्
दक्षेणाभयमातुलङ्गसुफलं श्रीमङ्गलां भावये ॥
ज्वालामालिनि - कनकवर्णा
कल्पान्ताग्निसमप्रभां स्मितमुखैः षड्भिर्भुजद्वादशैः
युक्तां पाशकखेटकञ्च सुशरं शूलं वरं वामके ।
दक्षेत्वङ्कुशखड्गशक्तिसुशरं चापाभये बिभ्रतीं
ज्वालामालिनि सञ्चितां मणिमयीभूषान्वितामाश्रये ॥
मित्रा - रक्तवर्णा
बालार्ककान्ति च शिलां जितवक्त्रशोभां
पाशाङ्कुशौ च वरमप्यभयं दधानाम् ।
चित्रांशुकां च नवरत्न विभूषिताङ्गीं
चित्राम्बिकां त्रिनयनां हृदि भावयामि ॥
गायत्री - रक्तवर्णा
देवीं पूर्वाह्नसंध्यायां गायत्रीं वह्निरूपिणीम् ।
कुमारीं रक्तवस्त्राङ्गीं रक्तस्रगनुलेपनाम् ॥
चतुर्भुजां चतुर्वक्त्रां वरदां चाष्टलोचनाम् ।
पद्माक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥
वामे कमण्डलुं पाणौ स्रुवं सव्येतरे करे ।
अभयं वामहस्ते च पद्मपीठे प्रतिष्ठिताम् ॥
ऋग्वेदरूपिणीं प्रातस्सवनां हंसवाहनाम् ।
रसायनाञ्च प्रहतीं गार्हपत्ये प्रतिष्ठिताम् ॥
सावित्री - शुक्लवर्णा (मध्याह्नम्)
देवीं मध्याह्नसन्ध्यायां सावित्रीं रुद्ररूपिणीम् ।
युवतीं श्वेतवस्त्राख्यां शुक्लस्रगनुलेपनाम् ॥
चतुर्भुजां चतुर्वक्त्रां वरदां द्वादशेक्षणाम् ।
रुद्राक्षमालावलयां बिभ्रतीं दक्षिणे करे ॥
वामे करेऽभयं देवीं तथैवार्केन्दुधारिणीम् ।
स्वर्णपीठे स्थितां सौम्ये यजुर्वेदस्वरूपिणीम् ॥
माध्यन्दिनाख्यसवने सतां गोवृषवाहनाम् ।
दक्षिणाग्निस्वरूपां तां ध्यायेन्नित्यं विशुद्धधीः ॥
सरस्वती - श्यामवर्णा (सायङ्कालं)
सरस्वतीं तु सायाह्ने सन्ध्यायां विष्णुरूपिणीम् ।
स्थविरेन्दीवरश्यामां नीलकुञ्चितमूर्धजाम् ॥
चतुर्भुजां चैकवक्त्रां पद्मपत्रायतेक्षणाम् ।
शङ्खं चक्रं गदाञ्चैव तथैवाभयदं पुनः ॥
पीताम्बरं दधानाञ्च दिव्यस्रगनुलेपनाम् ।
तृतीयसवनाख्याञ्च ध्यायेद्वै विष्णुरूपिणीम् ॥
नीलपीठे स्थितां सौम्ये सामवेदस्वरूपिणीम् ।
वरदां गरुडारूढां आहवनीये व्यवस्थिताम् ॥
वश्यमुखी - रक्तवर्णा
सन्धाय सुमनोबाणं कर्षन्तीमैक्षवं धनुः ।
जगज्जैत्रीं जपासक्तां देवीं वश्यमुखीं भजे ॥
सप्तमातृकासु -
ब्राह्मी - पीतवर्णा
तत्र ब्राह्मी चतुर्वक्त्रा षड्भुजा हंससंस्थिता ।
पिङ्गाभा भूषणोपेता मृगचर्मोत्तरीयका ॥
वरं सूत्रं स्रुवं धत्ते दक्षबाहूत्तरे क्रमात् ।
वामे तु पुस्तकं कुण्डीं बिभ्रती चाभयङ्करम् ॥
माहेश्वरी - श्वेतवर्णा
माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ।
श्वेतवर्णा दशभुजा चन्द्ररेखाविभूषिता ॥
खड्गं वज्रं त्रिशूलञ्च परशुं चाभयं वरम् ।
पाशं घण्टां तथा नागमङ्कुशं बिभ्रती करैः ॥
कौमारी - पाटलवर्णा
षडानना तु कौमारी पाटलाभा सुशीलका ।
रविबाहुर्मयूरस्था वरदा शक्तिधारिणी ॥
पताकां बिभ्रती दण्डं पात्रं बाणञ्च दक्षिणे ।
वामे चापमथो घण्टां कमलं कुक्कुटं तथा ॥
परशुं बिभ्रती चैव दधतस्त्वभयान्विता ॥
वैष्णवी - नीलवर्णा
वैष्णवी तार्क्ष्यका श्यामा षड्भुजा वनमालिनी ।
वरदा गदिनी दक्षे बिभ्रती च करेऽम्बुजम् ॥
शङ्खचक्राभयान्वामे सा चेयं विलसद्भुजा ॥
वाराही - कृष्णवर्णा
कृष्णवर्णा तु वाराही महिषस्था महोदरी ।
वरदा दण्डिनी खड्गं बिभ्रती दक्षिणे करे ॥
खेटपात्राभयान्वामे सूकरास्या लसद्भुजा ॥
ऐन्द्री - कनकवर्णा
ऐन्द्री सहस्रदृक् सौम्या हेमाभा गजससस्थिता ।
वरदा सूत्रिणी वज्रं बिभ्रत्यूर्ध्वं तु दक्षिणे ॥
वामे तु कमलं पात्रं ह्यभयं तदधः करे ॥
चामुण्डा - कृष्णवर्णा
चामुण्डा प्रेतका कृष्णा विकृता चाहिभूषणा ।
दंष्ट्राला क्षीणदेहा च कर्ताक्षी कामरूपिणी ॥
दिग्बाहुः क्षौमकुक्षी च मुसलं चक्रचामरे ।
अङ्कुशं बिभ्रती खड्गं दक्षिणे चाथ वामके ॥
खेटं पाशं धनुर्दण्डं कुठारं चापि बिभ्रती ॥
सिद्धिदायिनी - श्वेतवर्णा
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात्सिद्धिदा सिद्धिदायिनी ॥
अपराजिता - नीलवर्णा
नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्जितकेशाग्नां निम्ननाभीवलित्रयाम् ॥
वराभयकराम्भोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्रग्विभूषिताम् ॥
वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जनीम् ।
शङ्खचक्रगदाऽभीतिरम्यहस्तां त्रिलोचनाम् ॥
सर्वकामप्रदां देवीं ध्यायेत्तामपराजिताम् ॥
तुलसी - श्यामवर्णा
ध्यायेच्च तुलसीं देवीं श्यामां कमललोचनाम् ।
प्रसन्नां पद्मकल्हार वराभय चतुर्भुजाम् ॥
किरीटहारकेयूरकुण्डलादिविभूषिताम् ।
धवलांशुकसभ्युक्तां पद्मासननिषेदुषीम् ॥
भूदेवी - स्वर्णवर्णा
स्वर्गवर्णा द्विहस्ता च दक्षिणेनाभयप्रदा ।
दाडिमीफलसम्युक्ता वामे कल्पतरोरधः ॥
वामपादेन संस्पृष्टनिधिकुम्भाधरा तथा ।
सर्वालङ्कारभूषाढ्या ध्येया सर्वफलप्रदा ॥
नीलादेवी - श्यामवर्णा
नीलोत्पलघनश्यामा नीलवस्त्रविभूषिता ।
चतुर्भुजा सुखासीना वराभयकरान्विता ॥
इतराभ्यां तु हस्ताभ्यां कुमुदद्वयधारिणी ।
सर्वाभरणसम्युक्ता नीलादेवी समीरिता ॥
अश्वारूढा राजलक्ष्मी - हिरण्यवर्णा
चतुरङ्गबलोपेतां धनधान्यसुखेश्वरीम् ।
अश्वारूढामहं वन्दे राजलक्ष्मीं हिरण्मयीम् ॥
इति विभिन्नरूपलक्ष्मीध्यानप्रकाराः सम्पूर्णाः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com