वेत्रवतीस्तोत्रम्
%६१
वे त्रवत्या महानद्या गु णान्वक्तुं क ईशिरे ।
त्र पामवाप देवर्षि रु क्तये यत्स्तुतेरलम् ॥ १॥
व रदा वेत्रवत्येषा दे वर्षिनरसेविता ।
ती व्रतापाघशमनी व न्द्या नः पातु सर्वदा ॥ २॥
स्तु तिं कर्तुमनीशोऽहं द याब्धेऽत्र कलौ युगे ।
ति मिरघ्नी नमस्ते हृ त्ता पं हर सरिद्वरे ॥ ३॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीवेत्रवतीस्तोत्रं सम्पूर्णम् ।