वेदकृत देवीस्तुतिः
नमो देवि महामाये विश्वोत्पत्तिकरे शिवे ।
निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ १॥
त्वं भूमिः सर्व भूतानां प्राणः प्राणवतां तथा ।
धीः श्री कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ २॥
त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा ।
जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ३॥
त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान
दक्षां दयारसयुतां जननीं जनानाम् ।
विद्यां शिवां सकललोकहितां वरेण्यां
वाग्बीजवासनिपुणां भवनाशकर्तीम् ॥ ४॥
ब्रह्मा हरः शौरिसहस्रनेत्र
वाग्वाह्नि सूर्या भुवनाधिनाथाः ।
ते त्वत्कृताः सन्ति ततो न मुख्या
माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५॥
सकलभुवनमेतत् कर्तुकामा यदा त्वं
सृजसि जननि देवान् विष्णुरुद्राजमुख्यान् ।
स्थितिलयजननं तैः कारयस्येकरूपा
न खलु तव कथञ्चिद्देवि संसारलेशः ॥ ६॥
न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो
न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः ।
यदल्पं कीलालं कलयितुमशक्तः स तु नरः
कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ७॥
इति वेदकृत देवीस्तुतिः समाप्ता ।
देवीभागवतपुराणे प्रथम स्कन्धे अध्याय ५
Proofread by Ram ST