वंशलाभाख्यकवचम्
नारद उवाच -
भगवन् सर्वधर्मज्ञ पार्वतीप्राणवल्लभ ।
वंशलाभाख्यकवचं कृपया मे प्रकाशय ॥
ईश्वर उवाच -
वंशलाभाख्यकवचं दुर्लभं भुवनत्रये ।
यस्य प्रसादात् कमला लेभे तनयमुत्तमम् ॥
कामदेवमपर्णा च विनायकषडाननौ ।
जयन्तभिन्द्रवनिता देवपत्न्यः सुतानपि ॥
विनियोगः -
अस्य वंशलाभाख्यकवचस्य भैरवऋषिरनुष्टुपछन्दः,
श्रीपार्वती देवता, जीविततनयप्राप्तये विनियोगः ।
पार्वती मे शिरः पातु वक्त्रं पातु महेश्वरी ।
भवानी नयने पातु भ्रुवौ शङ्करसुन्दरी ॥ १॥
मध्ये पातु महेशानी नितम्बं सुरवन्दिता ।
ऊरू गौरी सदा पातु कौषिकी जानुयुग्मकम् ॥ २॥
बाहु द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी ।
पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी ॥ ३॥
नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी ।
रुद्राणी हृदयं पातु स्तनद्वन्द्वं महेश्वरी ॥ ४॥
आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला ।
इति ते कथितं विप्र कवचं देवपूजितम् ॥ ५॥
पठित्वा धारयित्वा च अक्षयं तनयं लभेत् ।
ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ६॥
सहस्रादित्यसङ्काशां सर्वाभरणभूषिताम् ।
त्रिनेत्रां पाणिविन्यस्तपाशाङ्कुशवराभयाम् ॥ ७॥
॥ श्रीभैरवतन्त्रे शिवनारदसंवादे वंशलाभाख्यकवचं सम्पूर्ण ॥