श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
न्यासः -
अस्य श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य
समाधि ऋषिः । श्रीकन्यकापरमेश्वरी देवता । अनुष्टुप्छन्दः
वं बीजम् । स्वाहा शक्तिः । सौभाग्यमिति कीलकम् ।
मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥
ध्यानम् -
वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् ।
वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥
वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् ।
वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥
वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् ।
वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥
अथ अष्टोत्तरशतनामावलिः ।
० ॐ सौभाग्यजनन्यै मात्रे नमः
१ माङ्गल्यायै
२ मानवर्धिन्यै
३ महाकीर्तिप्रसारिण्यै
४ महाभाग्यप्रदायिन्यै
५ वासवाम्बायै
६ कामाक्ष्यै
७ विष्णुवर्धनमर्दिन्यै
८ वैश्यवंशोद्भवायै
९ कन्यकाचित्स्वरूपिण्यै
१० कुलकीर्तिप्रवर्द्धिन्यै
११ कुमार्यै
१२ कुलवर्धिन्यै
१३ कन्यकायै
१४ काम्यदायै
१५ करुणायै
१६ कन्यकापरमेश्वर्यै
१७ विचित्ररूपायै बालायै
१८ विशेषफलदायिन्यै
१९ सत्यकीर्त्यै
२० सत्यवत्यै
२१ सर्वावयवशोभिन्यै
२२ दृढचित्तमहामूर्त्यै
२३ ज्ञानाग्निकुण्डनिवासिन्यै
२४ त्रिवर्णनिलयायै
२५ वैश्यवंशाब्धिचन्द्रिकायै
२६ पेनुकोण्डापुरवासायै
२७ साम्राज्यसुखदायिन्यै
२८ विश्वख्यातायै
२९ विमानस्थायै
३० विरूपाक्षसहोदर्यै
३१ वैवाहमण्डपस्थायै
३२ महोत्सवविलासिन्यै
३३ बालनगरसुप्रीतायै
३४ महाविभवशालिन्यै
३५ सौगन्धकुसुमप्रीतायै
३६ सदासौगन्धलेपिन्यै
३७ सत्यप्रमाणनिलयायै
३८ पद्मपाण्यै
३९ क्षमावत्यै
४० ब्रह्मप्रतिष्ठायै
४१ सुप्रीतायै
४२ व्यासोक्तविधिवर्धिन्यै
४३ सर्वप्राणहिते रतायै
४४ कान्तायै
४५ कमलगन्धिन्यै
४६ मल्लिकाकुसुमप्रीतायै
४७ कामितार्थप्रदायिन्यै
४८ चित्ररूपायै
४९ चित्रवेषायै
५० मुनिकारुण्यतोषिण्यै
५१ चित्रकीर्तिप्रसारिण्यै
५२ नमितायै
५३ जनपोषिण्यै
५४ विचित्रमहिमामात्रे
५५ निरञ्जनायै
५६ नारायण्यै
५७ गीतकानन्दकारिण्यै
५८ पुष्पमालाविभूषिण्यै
५९ स्वर्णप्रभायै
६० पुण्यकीर्ति?स्वार्तिकालाद?कारिण्यै
६१ स्वर्णकान्त्यै
६२ कलायै
६३ कन्यायै
६४ सृष्टिस्थितिलयकारणायै
६५ कल्मषारण्यवह्न्यै
६६ पावन्यै
६७ पुण्यचारिण्यै
६८ वाणिज्यविद्याधर्मज्ञायै
६९ भवबन्धविनाशिन्यै
७० सदासद्धर्मभूषण्यै
७१ बिन्दुनादकलात्मिकायै
७२ धर्मप्रदायै
७३ धर्मचित्तायै
७४ कलायै
७५ षोडशसम्युतायै
७६ नगरस्थायै
७७ नायक्यै
७८ कल्याण्यै
७९ लाभकारिण्यै
८० ?मृडाधारायै?
८१ गुह्यायै
८२ नानारत्नविभूषणायै
८३ कोमलाङ्ग्यै
८४ देविकायै
८५ सुगुणायै
८६ शुभदायिन्यै
८७ सुमुख्यै
८८ जाह्नव्यै
८९ देवदुर्गायै
९० दाक्षायण्यै
९१ त्रैलोक्यजनन्यै
९२ कन्यायै
९३ पञ्चभूतात्मिकायै
९४ परायै
९५ सुभाषिण्यै
९६ सुवासिन्यै
९७ ब्रह्मविद्याप्रदायिन्यै
९८ सर्वमन्त्रफलप्रदायै
९९ वैश्यजनप्रपूजितायै
१०० करवीरनिवासिन्यै
१०१ हृदयग्रन्थिभेदिन्यै
१०२ सद्भक्तिशालिन्यै मात्रे
१०३ श्रीमत्कन्याशिरोमण्यै
१०४ सर्वसम्मोहकारिण्यै
१०५ ब्रह्मविष्णुशिवात्मिकायै
१०६ वेदशास्त्रप्रमाणायै
१०७ विशालाक्ष्यै
१०८ शुभप्रदायै
१०९ सौन्दर्यपीठनिलयायै
११० सर्वोपद्रवनाशिन्यै
१११ सौमङ्गल्यादिदेवतायै
११२ श्रीमन्त्रपुरवासिन्यै
११३ वासवीकन्यकामात्रे
११४ नगरेश्वरमानितायै
११५ वैश्यकुलनन्दिन्यै
११६ वासव्यै
११७ सर्वमङ्गलायै
॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः समाप्ता ॥
समर्पणम् -
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देवि वासवाम्बा नमोऽस्तुते ॥ १॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ २॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥ ३॥
Proofread by PSA Easwaran, Bala Umamaheshwari