श्रीवासवीकन्यकापरमेश्वरीस्तोत्रम्
कैलासाचलसन्निभे गिरिपुरे सौवर्णशृङ्गे महत्
बोधायन्मणिमण्डपे सुरुतरुप्रान्ते च सिंहासने ।
असीनां सकलैस्समर्चितपदां भक्तार्तिविध्वंसिनीं
वन्दे वासवीकन्यकां स्मितमुखीं सर्वार्थदामम्बिकाम् ॥ १॥
नमस्ते वासवीदेवि नमस्ते विश्वपावनि ।
व्रतसम्बन्धकौमारि भक्तत्रात्रे नमो नमः ॥ २॥
नमस्ते भयसंहारि नमस्ते भवनाशिनि ।
भाग्यदे सुखदे देवि वासवी ते नमो नमः ॥ ३॥
नमस्तेऽद्भुतसन्धाने नमस्ते भद्ररूपिणि ।
नमस्ते पद्मपत्राक्षि सुन्दराङ्गि नमो नमः ॥ ४॥
नमस्ते विबुधानन्दे नमस्ते भक्तरञ्जनि ।
नमस्ते योगसंयुक्ते वाणिकन्ये नमो नमः ॥ ५॥
नमस्ते बुधसंसेव्ये नमस्ते मङ्गलप्रदे ।
नमस्ते शीतलापाङ्गि शङ्करि ते नमो नमः ॥ ६॥
नमस्ते च जगन्मातः नमस्ते कामदायिनि ।
नमस्ते भक्तनिलये वरदे ते नमो नमः ॥ ७॥
नमस्ते सिद्धसंसेव्ये नमस्ते चारुहासिनि ।
नमस्तेऽद्भुतकल्याणि शर्वाणि ते नमो नमः ॥ ८॥
नमस्ते भक्तसंरक्षादीक्षासम्बद्धकङ्कणे ।
नमस्ते सर्वकाम्यार्थे वर्धे ते च नमो नमः ॥ ९॥
देवीं प्रणम्य सद्भक्त्या सर्वकामार्थसम्पदान् ।
लभते नात्र सन्देहो देहान्ते मुक्तिमान् भवेत् ॥ १०॥
श्रीमाता कन्यकापरमेश्वरी देव्यै नमः ।
इति श्रीवासवीकन्यकापरमेश्वरीस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran