श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
न्यासः ।
अस्य श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रमहामन्त्रस्य,
समाधि ऋषिः, श्रीवासवीकन्यकापरमेश्वरी देवता,
अनुष्टुप्छन्दः, वं बीजम्, स्वाहा शक्तिः, सौभाग्यमिति कीलकम्,
श्रीवासवीकन्यकापरमेश्वरी प्रसादसिद्धयर्थे जपे विनियोगः ॥
ध्यानम् ।
वन्दे सर्वसुमङ्गलरूपिणीं वन्दे सौभाग्यदायिनीम् ।
वन्दे करुणामयसुन्दरीं वन्दे कन्यकापरमेश्वरीम् ॥
वन्दे भक्तरक्षणकारिणीं वासवीं वन्दे श्रीमन्त्रपुरवासिनीम् ।
वन्दे नित्यानन्दस्वरूपिणीं वन्दे पेनुकोण्डापुरवासिनीम् ॥
अथ सहस्रनामस्तोत्रम् ।
ॐ श्रीकन्यका कन्यकाम्बा कन्यकापरमेश्वरी ।
कन्यकावासवीदेवी माता वासवकन्यका ॥ १॥
मणिद्वीपादिनेत्रा च मङ्गला मङ्गलप्रदा ।
गौतमीतीरभूमिस्था महागिरिनिवासिनी ॥ २॥
सर्वमन्त्रात्मिका चैव सर्वयन्त्रादिनायिका ।
सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३॥
सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुशिवार्चिता ।
नव्या दिव्या च सेव्या च भव्या सव्या सतव्यया ॥ ४॥
चित्रघण्टमदच्छेद्री चित्रलीलामयी शुभा ।
वेदातीता वराश्रीदा विशालाक्षी शुभप्रदा ॥ ५॥
शुभश्रेष्ठिसुता ईषा विश्वा विश्वम्भरावनी ।
कन्या विश्वमयी पुण्याऽगण्या च रूपसुन्दरी ॥ ६॥
सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलाऽनघा ।
सत्या सत्यस्वरूपा च सत्या सत्यस्वरूपिणी ॥ ७॥
चराचरमयी चैव योगनिद्रा सुयोगिनी ।
नित्यधर्मा निष्कलङ्का नित्यधर्मपरायणा ॥ ८॥
कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा ।
कुसुमाम्बा कुमारी च विरूपाक्षसहोदरी ॥ ९॥
कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी ।
शर्मदा बलदा निष्ठा निर्मला निस्तुलप्रभा ॥ १०॥
इन्दीवरसमानाक्षी इन्द्रियाणां वशङ्करी ।
कृपासिन्दुः कृपावार्ता मणिनूपुरमण्डिता ॥ ११॥
त्रिमूर्तिपदवीधात्री जगद्रक्षणकारिणी ।
सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२॥
मणिकाञ्चनमञ्जीरा ह्यरुणाङ्ग्रिसरोरुहा ।
शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३॥
विष्णुवर्दनसम्मोहकारिणी पापहारिणी ।
सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४॥
आत्मगौरवसौजन्यबोधिनी मानदायिनी ।
मानरक्षाकरीमाता भुक्तिमुक्तिप्रदायिनी ॥ १५॥
शिवप्रदा निस्समा च निरतिका ह्यनुत्तमा ।
योगमाया महामाया महाशक्तिस्वरूपिणी ॥ १६॥
अरिवर्गापहारिणी भानुकोटिसमप्रभा ।
मल्लीचम्पकगन्धाढ्या रत्नकाञ्चनभूषिता ॥ १७॥
चन्द्रचूडा शिवमयी चन्द्रबिम्बसमानना ।
रागरूपकपाशाढ्या मृगनाभिविशेषका ॥ १८॥
अग्निपूज्या चतुर्भुजा नासाचाम्पेयपुष्पका ।
नासामौक्तिकसुज्वाला कुरुविन्दकपोलका ॥ १९॥
इन्दुरोचिस्मिता वीणा वीणास्वरनिवासिनी ।
अग्निशुद्धा सुकाञ्चिता गूढगुल्फा जगन्मयी ॥ २०॥
मणिसिम्हासनस्थिता करुणामयसुन्दरी ।
अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता ॥ २१॥
चिच्छक्तिः चेतनाकारा मनोवाचामगोचरा ।
चतुर्दशविद्यारूपा चतुर्दशकलामयी ॥ २२॥
महाचतुष्षष्टिकोटियोगिनीगणसेविता ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ २३॥
ध्यानरूपा ध्येयरूपा धर्माधर्मविवर्जिता ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ २४॥
चराचरजगन्नेत्रा चक्रराजनिकेतना ।
ब्रह्मादिसृष्टिकर्ती च गोप्त्री तेजस्वरूपिणी ॥ २५॥
भानुमण्डलमध्यस्था भगवतीसदाशिवा ।
ब्रह्माण्डकोटिजननी पुरुषार्थप्रदाम्बिका ॥ २६॥
आदिमध्यान्तरहिता हरिब्रह्मेश्वरार्चिता ।
नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी ॥ २७॥
राजराजार्चिता रम्या रञ्जनी मुनिरञ्जनी ।
कल्याणी लोकवरदा करुणारसमञ्जुला ॥ २८॥
वरदा वामनयना महाराज्ञी निरीश्वरी ।
रक्षाकरी राक्षसघ्नी दुष्टराजमदापहा ॥ २९॥
विधात्री वेदजननी राका चन्द्रसमानना ।
तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तपस्विनी ॥ ३०॥
शास्त्ररूपा शास्त्राधारा सर्वशास्त्रस्वरूपिणी ।
रागपाशा मनश्श्याभा पञ्चभूतमयी तथा ॥ ३१॥
पञ्चतन्मात्रसायका क्रोधाकाराङ्कुशाञ्चिता ।
निजकान्तिपराजण्डा मण्डला भानुमण्डला ॥ ३२॥
कदम्बमयताटङ्का चाम्पेयकुसुमप्रिया ।
सर्वविद्याङ्कुराकारा दन्तपङ्क्तिद्वयाञ्चिता ॥ ३३॥
सरसालापमाधुरी जितवाणी विपञ्चिका ।
ग्रैवेयमणिभूषिता कूर्मपृष्ठपदद्वया ॥ ३४॥
नखकान्तिपरिच्छिन्ना कामिनी कामरूपिणी ।
मणिकिङ्किणिका दिव्यरचना दामभूषिता ॥ ३५॥
रम्भा स्तम्भमनोज्ञा च मार्दवोरुद्वयान्विता ।
पदशोभाजिताम्बोजा महागिरिपुरीश्वरी ॥ ३६॥
देवरत्नगृहान्तस्था सर्वज्ञा ज्ञानमोचना ।
महापद्मासनस्था च कदम्बवनवासिनी ॥ ३७॥
निजांशभोगसरोल्लसितलक्ष्मीगौरीसरस्वती ।
मञ्जुकुञ्जन्मणिमञ्जीराऽलङ्कृतपदाम्भुजा ॥ ३८॥
हंसिका मन्दगमना महासौन्दर्यवारदी ।
अनवद्याऽरुणा गण्याऽगण्या दुर्गुणदूरका ॥ ३९॥
सम्पत्दात्री सौख्यदात्री करुणामयसुन्दरी ।
अश्विनिदेवसन्तुष्टा सर्वदेवसुसेविता ॥ ४०॥
गेयचक्ररथारूढा मन्त्रिण्यम्बासमर्चिता ।
कामदाऽनवद्याङ्गी देवर्षिस्तुतवैभवा ॥ ४१॥
विघ्नयन्त्रसमोभेदा करोत्यन्नैकमाधवा ।
सङ्कल्पमात्रनिर्धूता विष्णुवर्दनमर्दिनी ॥ ४२॥
मूर्तित्रयसदासेवा समयस्था निरामया ।
मूलाधारा भवाऽपारा ब्रह्मग्रन्थिविभेदिनी ॥ ४३॥
मणिपूरान्तरा वासा विष्णु ग्रन्थिविभेदिनी ।
आज्ञाचक्रगदामाया रुद्रग्रन्थिविभेदिनी ॥ ४४॥
सहस्रारसमारूढा सुधासाराभिवर्षिणी ।
तटिन्रेखा समापासा षट्चक्रोपरिवासिनी ॥ ४५॥
भक्तिवश्या भक्तिगम्या भक्तरक्षणकारिणी ।
भक्तिप्रिया भद्रमूर्तिः भक्तसन्तोषदायिनी ॥ ४६॥
सर्वदा कुण्डलिनी अम्बा शारदा शर्मदा शुभा ।
साध्वी श्रीकर्युदारा च धीकरी शम्भुमानिता ॥ ४७॥
शम्भु मानसिकामाता शरच्चन्द्रमुखी तथा ।
शिष्टा शिवा निराकारा निर्गुणाम्बा निराकुला ॥ ४८॥
निर्लेपा निस्तुलाकन्या निरवद्या निरन्तरा ।
निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरा ॥ ४९॥
नीरागा रागमथनी निर्मदा मदनाशिनी ।
निर्ममा सममाया च अनन्या जगदीश्वरी ॥ ५०॥
निरोगा निराबाधा च निजानन्दा निराश्रया ।
नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा ॥ ५१॥
निर्व्याधा व्याधिमथना निष्क्रिया निरुपप्लवा ।
निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ॥ ५२॥
निर्बाधा ममताहन्त्री निष्पापा पापनाशिनी ।
अभेदा साक्षिरूपा च निर्भेदा भेदनाशिनी ॥ ५३॥
निर्नाशा नाशमथनी पुष्कला लोभहारिणी ।
नीलवेणी निरालम्बा निरपाया भयापहा ॥ ५४॥
निस्सन्देहा संशयज्ञी निर्भवा च निरञ्जिता ।
सुखप्रदा दुष्टदूरा निर्विकल्पा निरत्यया ॥ ५५॥
सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता ।
सर्वशक्तिमयी सर्वमङ्गला सत्गतिप्रदा ॥ ५६॥
सर्वेश्वरी सर्वमयी सर्वतत्त्वस्वरूपिणी ।
महामाया महाशक्तिः महासत्वा महाबला ॥ ५७॥
महावीर्या महाबुद्धिः महैश्वर्या महागतिः ।
मनोन्मणी महादेवी महापातकनाशिनी ॥ ५८॥
महापूज्या महासिद्धिः महायोगीश्वरेश्वरी ।
महातन्त्रा महामन्त्रा महायन्त्रा महासना ॥ ५९॥
महायागक्रमाराध्या महायोगसमर्चिता ।
प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा ॥ ६०॥
शुचिस्वाहा हिरण्मयी धन्या सुता स्वधा तथा ।
मान्या श्रद्धा विभूदिता ब्रह्मविष्णुशिवात्मिका ॥ ६१॥
दीप्ता कान्ता च कामाक्षी भाविताऽनुग्रहप्रदा ।
शिवप्रिया रमाऽनघा अमृताऽऽनन्दरूपिणी ॥ ६२॥
लोकदुःखविनाशिनी करुणा धर्मवर्धिनी ।
पद्मिनी पद्मगन्धिनी सुप्रसन्ना सुनन्दिनी ॥ ६३॥
पद्माक्षी पुण्यगन्धा च प्रसादाभिमुखीप्रभा ।
आह्लादजननी पुष्टा लोकमातेन्दुशीतला ॥ ६४॥
पद्ममालाधराऽत्भुता अर्धचन्द्रविभूषिणी ।
आर्यवैश्यसहोदरी वैश्यसौख्यप्रदायिनी ॥ ६५॥
तुष्टिः पुष्टिश्शिवारूढा दारिद्र्यविनाशिनी ।
शिवधात्री च विमलास्वामिनी प्रीतिपुष्कला ॥ ६६॥
आर्या श्यामा सती सौम्या श्रीदा मङ्गलदायिनी ।
भक्तकोटिपरानन्दा सिद्धिरूपा वसुप्रदा ॥ ६७॥
भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी ।
ऊर्जिता च त्रिकालज्ञा सर्वकालस्वरूपिणी ॥ ६८॥
दारिद्र्यनाशिनी चैव सर्वोपद्रवहारिणी ।
अन्नदा चान्नदात्री च अच्युदानन्दकारिणी ॥ ६९॥
अनन्ता अच्युता व्यक्ता व्यक्ताव्यक्तस्वरूपिणी ।
शारदम्बोजभद्राक्षी अजया भक्तवत्सला ॥ ७०॥
आशा चाश्रिता रम्या च अवकाशस्वरूपिणी ।
आकाशमयपद्मस्था अनाद्या च द्वयोनिजा ॥ ७१॥
अबला चागजा चैव आत्मजा चात्मगोचरा ।
अनाद्या चादिदेवी च आदित्यदयभास्वरा ॥ ७२॥
कार्तेश्वरमनोज्ञा च कालकण्ठनिभस्वरा ।
आधारा चात्मदयिता अनीशा चात्मरूपिणी ॥ ७३॥
ईशिका ईशा ईशानी ईश्वरैश्वर्यदायिनी ।
इन्दुसुता इन्दुमाता इन्द्रिया इन्दुमन्दिरा ॥ ७४॥
इन्दुबिम्बसमानास्या इन्द्रियाणां वशङ्करी ।
एका चैव एकवीरा एकाकारैकवैभवा ॥ ७५॥
लोकत्रयसुसम्पूज्या लोकत्रयप्रसूतिता ।
लोकमाता जगन्माता कन्यका परमेश्वरी ॥ ७६॥
वर्णात्मा वर्णनिलया षोडषाक्षररूपिणी ।
काली कृत्या महारात्री मोहरात्री सुलोचना ॥ ७७॥
कमनीया कलाधारा कामिनी वर्णमालिनी ।
काश्मीरद्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७८॥
माणिक्यभासालङ्कारा कनका कनकप्रदा ।
कम्बुग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७९॥
कालस्था च निमेषा च कालदात्री कलावती ।
कालज्ञा कालमाता च कन्यका क्लेशनाशिनी ॥ ८०॥
कालनेत्रा कलावाणी कालदा कालविग्रहा ।
कीर्तिवर्धिनी कीर्तिज्ञा कीर्तिस्था कीर्तिदायिनी ॥ ८१॥
सुकीर्तिता गुणातीता केशवानन्दकारिणी ।
कुमारी कुमुदाबा च कर्मदा कर्मभञ्जनी ॥ ८२॥
कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा ।
कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ॥ ८३॥
कञ्चस्था कञ्चवदना कूटस्था कुलरूपिणी ।
लोकेश्वरी जगद्धात्री कुशला कुलसम्भवा ॥ ८४॥
चितज्ञा चिन्तितपदा चिन्तस्था चित्स्वरूपिणी ।
चम्पकापमनोज्ञा च चारु चम्पकमालिनी ॥ ८५॥
चण्डस्वरूपिणी चण्डी चैतन्यघनकेहिनी ।
चितानन्दा चिताधारा चिताकारा चितालया ॥ ८६॥
चबलापाङ्गलतिका चन्द्रकोटिसुभास्वरा ।
चिन्तामणिगुणाधारा चिन्तामणिविभूषिता ॥ ८७॥
भक्तचिन्तामणिलता चिन्तामणिसुमन्दिरा ।
चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना ॥ ८८॥
छत्रदा छत्रदारी च चारुचामरवीजिता ।
भक्तानां छत्ररूपा च छत्रछाया कृतालया ॥ ८९॥
जगज्जीवा जगद्धात्री जगदानन्दकारिणी ।
यज्ञरता च जननी जपयज्ञपरायणा ॥ ९०॥
यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ।
यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ॥ ९१॥
कर्मयोगा कर्मरूपा कर्मविघ्नविनाशिनी ।
कर्मदा कर्मफलदा कर्मस्थानकृतालया ॥ ९२॥
अकालुष्यसुचारित्रा सर्वकर्मसमञ्चिता ।
जयस्था जयदा जैत्री जीविता जयकारिणी ॥ ९३॥
यशोदा यशसाम्राज्या यशोदानन्दकारिणी ।
ज्वलिनी ज्वालिनी ज्वाला ज्वलद्पावकसन्निभा ॥ ९४॥
ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया ।
जन्मदा च जन्महता जन्मनी जन्मरञ्जनी ॥ ९५॥
जननी जन्मभूः चैव वेदशास्त्रप्रदर्शिनी ।
जगदम्बा जनित्री च जीवकारुण्यकारिणी ॥ ९६॥
ज्ञातिदा जातिदा जातिज्ञानदा ज्ञानगोचरा ।
ज्ञानमयी ज्ञानरूपा ईश्वरी ज्ञानविग्रहा ॥ ९७॥
ज्ञानविज्ञानशालिनी जपापुष्पसमष्टिता ।
जिनजैत्री जिनाधारा जपाकुसुमशोभिता ॥ ९८॥
तीर्थङ्करी निराधारा जिनमाता जिनेश्वरी ।
अमलाम्बरधारिणी च विष्णुवर्दनमर्दिनी ॥ ९९॥
शम्भुकोटिदुराधर्षा समुद्रकोटिगम्भीरा ।
सूर्यकोटिप्रतीकाशा वायुकोटिमहाबला ॥ १००॥
यमकोटिपराक्रमा कामकोटिफलप्रदा ।
रतिकोटिसुलावण्या चक्रकोटिसुराज्यदा ॥ १०१॥
पृथ्विकोटिक्षमाधारा पद्मकोटिनिभानना ।
अग्निकोटिभयङ्करी श्रीकन्यकापरमेश्वरी ॥ १०२॥
ईशानादिकचिच्छक्तिः धनाधारा धनप्रदा ।
अणिमा महिमा प्राप्तिः करिमा लधिमा तथा ॥ १०३॥
प्राकाम्या वशित्वा चैव ईशित्वा सिद्धिदायिनी ।
महिमादिगुणैर्युक्ता अणिमाद्यष्टसिद्धिदा ॥ १०४॥
यवनाङ्गी जनादीना अजरा च जरावहा ।
तारिणी त्रिगुणा तारा तारिका तुलसीनता ॥ १०५॥
त्रयीविद्या त्रयीमूर्तिः त्रयज्ञा तुरीया तथा ।
त्रिगुणेश्वरी त्रिविदा विश्वमाता त्रपावती ॥ १०६॥
तत्त्वज्ञा त्रिदशाराद्या त्रिमूर्तिजननी तथा ।
त्वरा त्रिवर्णा त्रैलोक्या त्रिदिवा लोकपावनी ॥ १०७॥
त्रिमूर्ती त्रिजननी चैव त्रिभूः तारा तपस्विनी ।
तरुणी तापसाराध्या तपोनिष्टा तमोपहा ॥ १०८॥
तरुणा त्रिदिवेशाना तप्तकाञ्चनसन्निभा ।
तापसी तारारूपिणी तरुणार्कप्रदायिनी ॥ १०९॥
तापज्ञी तर्किका तर्कविद्याऽविद्यास्वरूपिणी ।
त्रिपुष्करा त्रिकालज्ञा त्रैलोक्यव्यापिनीश्वरी ॥ ११०॥
तापत्रयविनाशिनी तपस्सिद्धिप्रदायिनी ।
गुणाराध्या गुणातीता कुलीना कुलनन्दिनी ॥ १११॥
तीर्थरूपा तीर्थकरी शोकदुःखविनाशिनी ।
अदीना दीनवत्सला दीनानाथप्रियङ्करी ॥ ११२॥
दयात्मिका दयापूर्णा देवदानवपूजिता ।
दक्षिणा दक्षिणाराध्या देवानां मोदकारिणी ॥ ११३॥
दाक्षायणी देवसुता दुर्गा दुर्गतिनाशिनी ।
घोराग्निदाहदमनी दुःखदुःस्वप्नवारिणी ॥ ११४॥
श्रीमतिः श्रीमयी श्रेष्ठा श्रीकरी श्रीविभावरी ।
श्रीदा श्रीशा श्रीनिवासा परमानन्ददायिनी ॥ ११५॥
श्रीयुता श्रीमतिः माताधनदा दामिनी दया ।
दान्ता धर्मदा शान्ता च दाडिमीकुसुमप्रभा ॥ ११६॥
धरणी धारणी धैर्या धैर्यदा धनशालिनी ।
धनञ्जया धनाकारा धर्मा धात्री च धर्मिणी ॥ ११७॥
देदीप्यमाना धर्मिणी दुरावारा दुरासदा ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ११८॥
नीरजास्या निरातङ्गा नवलावण्यसुन्दरी ।
दमना निधिता नित्या निजा निर्णयसुन्दरी ॥ ११९॥
परमा च निर्विकारा निर्वैरा निखिला तथा ।
प्रमदा प्रथमा प्राज्ञा सर्वपावनपावनी ॥ १२०॥
सर्वप्रिया सर्वव्रता पावना पापनाशिनी ।
वासव्यंशभागाऽपूर्वा परञ्ज्योतिस्वरूपिणी ॥ १२१॥
परोक्षा पारगा कन्या परिशुद्धाऽपारगा ।
परासिद्धिः परागतिः पशुपाशविमोचनी ॥ १२२॥
पद्मगन्धा च पद्माक्षी परब्रह्मस्वरूपिणी ।
पद्मकेसरमन्दिरा परब्रह्मनिवासिनी ॥ १२३॥
परमानन्दमुदिता पूर्णपीठनिवासिनी ।
परमेशी पृथ्वी चैव परचक्रनिवासिनी ॥ १२४॥
परावरा पराविद्या परमानन्ददायिनी ।
वाग्रूपा वाग्मयी वाग्दा वाग्नेत्री वाग्विशारदा ॥ १२५॥
धीरूपा धीमयी धीरा धीदात्री धीविशारदा ।
वृन्दारकवृन्दवन्द्या वैश्यवृन्दसहोदरी ॥ १२६॥
राजराजेश्वरार्चिता भक्तसर्वार्थसाधका ।
पणिभूषा बालापूजा प्राणरूपा प्रियंवदा ॥ १२७॥
भक्तिप्रिया भवाराध्या भवेशी भयनाशिनी ।
भवेश्वरी भद्रमुखी भवमाता भवा तथा ॥ १२८॥
भट्टारिका भवागम्या भवकण्टकनाशिनी ।
भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२९॥
भगवती च भूदात्री भूतेशी भूतरूपिणी ।
भूतस्था भूतमाता च भूतज्ञा भवमोचनी ॥ १३०॥
भक्तशोकतमोहन्त्री भवभारविनाशिनी ।
भूगोपचारकुशला दात्री च भूचरी तथा ॥ १३१॥
भीतिहा भक्तिरम्या च भक्तानामिष्टदायिनी ।
भक्तानुकम्पिनी भीमा भक्तानामार्तिनाशिनी ॥ १३२॥
भास्वरा भास्वती भीतिः भास्वदुत्थानशालिनी ।
भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १३३॥
महाजिह्वा महादंष्ट्रा मणिपूरनिवासिनी ।
मानसी मानदा मान्या मनःचक्षुरगोचरा ॥ १३४॥
महाकुण्डलिनीमाता महाशत्रुविनाशिनी ।
महामोहान्तकारज्ञा महामोक्षप्रदायिनी ॥ १३५॥
महाशक्तिः महाविर्या महिषासुरमर्दिनी ।
मधुरा च मेधा मेध्या महावैभववर्धिनी ॥ १३६॥
महाव्रता महामूर्ता मुक्तिकाम्यार्थसिद्धिदा ।
महनीया माननीया महादुःखविनाशिनी ॥ १३७॥
मुक्ताहारालतोभेता मत्तमातङ्गकामिनी ।
महाघोरा मन्त्रमाता महाचोरभयापहा ॥ १३८॥
मालिनी च महासूक्ष्मा मकराकृतिकुण्डला ।
महाप्रभा महाचिन्त्या महामन्त्रमहौषधिः ॥ १३९॥
मणिमण्डलमध्यस्था मणिमालाविराजिता ।
मनोरमा महारूपा राज्ञी राजीवलोचना ॥ १४०॥
विद्यार्थिनी रमामाता विष्णुरूपाविनोदिनी ।
वीरेश्वरी च वरदा विशालनयनोत्पला ॥ १४१॥
वीरसुता वीरवन्द्या विश्वभूः वीरनन्दिनी ।
विश्वेश्वरी विशालाक्षी विष्णुमायाविमोहिनी ॥ १४२॥
विख्याता विलसत्कचा ब्रह्मेशी ब्रह्मरूपिणी ।
ब्रह्मविद्या च ब्रह्माणी विश्वा च विश्वरूपिणी ॥ १४३॥
विश्ववन्द्या विश्वशक्तिः वीरा विचक्षणा तथा ।
बाला बालिका बिन्दुस्था विश्वपाशविमोचनी ॥ १४४॥
शिशुप्राया वैद्यविद्या शीलाशीलप्रदायिनी ।
क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४५॥
कुसुमश्रेष्ठिसत्पुत्री कुसुमाम्बाकुमारिका ।
बालनगरसम्पूज्या विरूपाक्षसहोदरी ॥ १४६॥
सर्वसिद्धेश्वराराद्या सर्वाभीष्टफलप्रदा ।
सर्वदुःखप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४७॥
विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी ।
विचित्रिणी विष्णुपूज्या विष्णुमायाविलासिनी ॥ १४८॥
वैश्यदात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी ।
वैश्यभोजनसन्तुष्टा महासङ्कल्परूपिणी ॥ १४९॥
सन्ध्या विनोदिनीवेद्या सत्यज्ञानप्रबोधिनी ।
विकाररहितामाता विजया विश्वसाक्षिणी ॥ १५०॥
तत्त्वज्ञा च तत्त्वाकारा तत्त्वमर्थस्वरूपिणी ।
तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १५१॥
विपुला विन्ध्यवासिनी नगरेश्वरमानिता ।
कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १५२॥
वन्दिता वररूपा च मतिता मत्तकाशिनी ।
माधवी मालिनी मान्या महापातकनाशिनी ॥ १५३॥
वरा च वरवर्णिनी वारिताकारवर्षिणी ।
सत्कीर्तिगुणसम्पन्ना वैश्यलोकवशङ्करी ॥ १५४॥
तत्त्वासना तपोफला तरुणादित्यपाटला ।
तन्त्रसारा तन्त्रमाता तपोलोकनिवासिनी ॥ १५५॥
तन्त्रस्था तन्त्रसाक्षिणी तन्त्रमार्गप्रदर्शिनी ।
सर्वसम्पत्तिजननी सत्पथा सकलेष्टदा ॥ १५६॥
असमाना सामदेवी समर्हा सकलस्तुता ।
सनकादिमुनिद्येया सर्वशास्त्रार्थगोचरा ॥ १५७॥
सदाशिवा समुत्तीर्णा सात्विका शान्तरूपिणी ।
सर्ववेदान्तनिलया समया सर्वतोमुखी ॥ १५८॥
सहस्रदलपद्मस्था सर्वचैतन्यरूपिणी ।
सर्वदोषविनिर्मुक्ता सच्चिदानन्दरूपिणी ॥ १५९॥
सर्वविश्वम्बरावेद्या सर्वज्ञानविशारदा ।
विद्याविद्याकरी विद्या विद्याविद्यप्रबोधिनी ॥ १६०॥
विमला विभवा वेद्या विश्वस्था विवितोज्वला ।
वीरहत्यप्रशमनी विनम्रजनपालिनी ॥ १६१॥
वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका ।
विश्वम्बरा समाराध्या विक्रमा विश्वमङ्गला ॥ १६२॥
विनायकी च वासवी कन्यका परमेश्वरी ।
नित्यकर्मफलप्रदा नित्यमङ्गलरूपिणी ॥ १६३॥
क्षेत्रपालसमर्चिता ग्रहपीडानिवारिणी ।
क्षेमकारुण्यकारिणी रुद्रलक्षणधारिणी ॥ १६४॥
सर्वानन्दमयी भद्रा वैश्यसौख्यप्रदायिनी ।
नित्यानन्दस्वरूपिणी वैश्यसम्पत्प्रदायिनी ॥ १६५॥
क्षेत्रज्येष्ठाचलस्थिता श्रीमन्त्रपुरवासिनी ।
सौमङ्गल्यादिदेवता श्रीकन्यकापरमेश्वरी ॥ १६६॥
फलश्रुतिः ।
सहस्रनामकं स्तोत्रं वासव्याः यः पठेन्नरः ।
पुत्रपौत्रमवाप्नोति सर्वसिद्धिञ्चविन्दति ॥ १॥
सर्वरोगप्रशमनं दीर्घायुष्यप्रदायकम् ।
अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥ २॥
यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।
तस्यैव भवति श्रद्धा कन्यका नामकीर्तने ॥ ३॥
॥ इति श्रीवासवीकन्यकापरमेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥
समर्पणम् ।
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १॥
विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरी ॥ २॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥ ३॥
Composed and proofread by Bala Umamaheshwari