श्रीवासवीकन्यकापरमेश्वरी षोडशनामस्तोत्रम्
श्रीगणेशाय नमः ।
ॐ सौभाग्यजननी माता कन्यकापरमेश्वरी ।
विष्णुवर्धनमर्दिनी वासवी सर्वमङ्गला ॥ १॥
वैश्यवंशोद्भवा चैव वैश्यवंशाब्धिचन्द्रिका ।
तृतीयवर्णनिलया ज्ञानाग्निकुण्डवासिनी ॥ २॥
पेनुकोण्डापुरावासा विरूपाक्षसहोदरी ।
वैवाहमण्डपस्था च बालनगरसुप्रीता ॥ ३॥
आर्यवैश्यप्रपूजिता श्रीमत्कन्याशिरोमणी ।
एतानि षोडशनामानि भक्तिवर्धक यः पठेत् ॥ ४॥
इति श्रीवासवीकन्यकापरमेश्वरी षोडशनामस्तोत्रं सम्पूर्णाम् ।
Proofread by Bala Umamaheshwari, PSA Easwaran