वाञ्छादात्रीस्तोत्रम्
ऐं विद्याक्षमालासुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् ।
मुक्ताफलालङ्कृतशोभनाङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ १॥
क्लीं भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाघूर्णिताक्षीम् ।
करैर्बीजपूरं कपालेषुचापं सपाशाङ्कुरां रक्तवर्णां दधानाम् ॥ २॥
सौः व्याख्यानमुद्रामृतकुम्भविद्यां अक्षस्रजं सन्दधतीं कराब्जैः ।
चिद्रूपिणीं शारदचन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३॥
पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधानां सकलामरार्च्याम्म् ।
रक्तां त्रिणोत्रां शशिशेखरां तां भजेऽखिलर्ध्यै त्रिपुरां च बालाम् ॥ ४॥
आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं
बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् ।
त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५॥
आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं
बीजं मान्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् ।
रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६॥
रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् ।
विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७॥
अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८॥
मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ।
पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९॥
वरपीयूषकलशपुस्तकाभीतिधारिणीम् ।
सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १०॥
शुक्लाबरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् ।
सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११॥
अकारादिक्षकारान्तवर्णावयवशालिनीम् ।
प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२॥
पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते ।
कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३॥
इति वाञ्छादात्रीस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran