श्रीवाग्वादिनीषट्कम्
वरदाप्यहेतुकरुणाजन्मावनिरपि पयोजभवजाये ।
किं कुरुषेन कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १॥
किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा ।
किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २॥
किं जीवः परमशिवाद्भिन्नोऽभिन्नोऽथ भेदश्च ।
औपाधिकः स्वतो वा वद वदवाग्वादिनि स्वाहा ॥ ३॥
वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् ।
मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४॥
ज्ञानं कर्म च मिलितं हेतुर्मोक्षेऽथवा ज्ञानम् ।
तज्ज्ञानं केन भवेद्वद वदवाग्वादिनि स्वाहा ॥ ५॥
ज्ञानं विचारसाध्यं किं वा योगेन कर्मसाहस्रैः ।
कीदृक्सोऽपि विचारो वद वद वाग्वादिनि स्वाहा ॥ ६॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीवाग्वादिनीषट्कं सम्पूर्णम् ।
Proofread by PSA Easwaran