श्रीवाणीशरणागतिस्तोत्रम्
वेणीं सितेतरसमीरणभोजितुल्यां
वाणीं च केकिकुलगर्वहरां वहन्तीम् ।
श्रोणीं गिरिस्मयविभेदचणां दधानां
वाणीमनन्यशरणः शरणं प्रपद्ये ॥ १॥
वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा-
द्वाताहताब्धिलहरीमदहारदक्षाः ।
वादेषु यत्करुणया प्रगलन्ति तां त्वां
वाणीमनन्यशरणः शरणं प्रपद्ये ॥ २॥
राकाशशाङ्कसदृशाननपङ्कजातां
शोकापहारचतुराङ्घ्रिसरोजपूजाम् ।
पाकारिमुख्यदिविषत्प्रवरेड्यमानां
वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ३॥
बालोडुपप्रविलसत्कचमध्यभागां
नीलोत्पलप्रतिभटाक्षिविराजमानाम् ।
कालोन्मिषत्किसलयारुणपादपद्मां
वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ४॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीवाणीशरणागतिस्तोत्रं सम्पूर्णम् ।
Proofread by PSA Easwaran