उमामहेश्वरमाहात्म्यम्
उमा भगवती येयं ब्रह्मविद्येति कीर्तिता ।
रुपयौवनसम्पन्ना वधूर्भूत्वात्र सा स्थिता ॥ १॥
नानाजातिवधूनां हि बिम्बभूता महेश्वरी ॥ २॥
यस्याः प्रसादतः सर्वः स्वर्गम् मोक्ष च गच्छति ।
इह लोके सुखं तद्वज्जन्तुर्देवादिकोऽपि वा ॥ ३॥
ब्रह्मा विष्णुस्तथा रुद्र शक्राद्याः सर्वदेवताः ।
कटाक्षपाततो यस्या भवन्ति न भवन्ति च ॥ ४॥
पीनान्नतस्तनी प्रौढजघना च कृशोदरी ।
चन्द्रानना मीननेत्रा केशभ्रमरमण्डिता ॥ ५॥
सर्वाङ्गसुन्दरी देवी धैर्यपुञ्जविनाशिनी ।
काञ्चीगुणेन चित्रेण वलयाङ्गदनूपुरेः ॥ ६॥
हरिमुक्तादिसञ्जातैः कण्ठाद्याभरणैरपि ।
मुकुटेनापि चित्रेण कुण्डलाद्यैः सहस्रशः ॥ ७॥
विराजिता ह्यनोपम्यरूपा भूषणभूषणा ।
जननी सर्वजगतो द्व्यष्टवर्षा चिरन्तनी ॥ ८॥
तया समेतं पुरुषं तत्पतिं तद्गुणाधिकम् ।
ब्रह्मादीनां प्रभुं नानासर्वभूषणभूषितम् ॥ ९॥
द्वीपिचर्मावृतं शश्वदथवापि दिगम्बरम् ।
भस्मोद्धूलितसर्वाङ्गं ब्रह्ममूर्घौघमालिनम् ॥ १०॥
तथैव चन्द्रखण्डेन विराजितजटातटम् ।
गङ्गाधरं स्मेरमुखं गोक्षीरधवलोज्जवलम् ॥ ११॥
कन्दर्पकोटिसदृशं सूर्यकोटिसमप्रभम् ।
सृष्टिस्थित्यन्तकारणं सृष्टिस्थित्यन्तवर्जितम् ॥ १२॥
पूर्णेन्दुवेदेनाम्भोजं सूर्यसोमाग्निवर्चसम् ।
सर्वाङ्गसुन्दरं कम्बुग्रीवं चातिमनोहरम् ॥ १३॥
आजानुबाहुं पुरुषं नागयज्ञोपवीतिनम् ।
पद्मासनसमासीनं नासाग्रन्यस्तलोचनम् ॥ १४॥
वामदेवं महादेवं गुरूणां प्रथमं गुरुम् ।
स्वयञ्ज्योतिःस्वरूपं तमानन्दात्मानमद्वयम् ॥ १५॥
यतो हिरण्यगर्भोऽयं विराजो जनकः पुमान् ।
जातः समस्तदेवानामन्येषां च नियामकः ॥ १६॥
नीलकण्ठममुं देवं विश्वेशं पापनाशनम् ।
हृदि पद्मेऽथवा सूर्ये वह्नौ वा चन्द्रमण्डले ॥ १७॥
कैलासादिगिरौ वापि चिन्तयेद्योगमाश्रितः ।
एवं चिन्तयतस्तस्य योगिनो मानसं स्थिरम् ॥ १८॥
यदा जातं तदा सर्वप्रपञ्चरहितं शिवम् ।
प्रपञ्चकरणं देवमवाङ्मनसगोचरम् ॥ १९॥
प्रयाति स्वात्मना योगी पुरुषं दिव्यमद्भुतम् ।
तमसः स्वात्ममोहस्य परं तेन विवर्जितम् ॥ २०॥
साक्षिणं सर्वबुद्धीनां बुद्ध्यादिपरिवर्जितम् ।
उमासहायो भगवान्सगुणः परिकीर्तितः ॥ २१॥
निर्गुणश्च स एवायं न यतोऽन्योऽस्ति कश्चन् ।
ब्रह्मा विष्णुस्तथा रुद्रः शक्रो देवसमन्वितम् ॥ २२॥
अग्निः सूर्यस्तथाकाशः कालः सृष्टयादिकारणम् ।
एकादशेन्द्रियाण्यन्तःकरणं च चतुर्विधम् ॥ २३॥
प्राणाः पञ्च महाभूतपञ्चकेन समन्विताः ।
दिशश्च प्रदिशस्तद्वदुपरिष्टादधोऽपि च ॥ २४॥
श्वेदजादीनि भूतानि ब्रह्माण्डं च विराड्वपुः ।
विराड् हिरण्यगर्भश्च जीव ईश्वर एव च ॥ २५॥
माया तत्कार्यमखिलं वर्तते सदसच्च यत् ।
यच्च भूतं यच्च भव्यं तत्सर्वं स महेश्वरः ॥ २६॥
॥ इति उमामहेश्वरमाहात्म्यं सम्पूर्णम् ॥
Encoded and proofread by Venkata Surya Jagannadha Rao Garimella