उमामहेश्वराष्टकम्
पितामहशिरच्छेदप्रवीणकरपल्लव ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ १॥
निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २॥
शैलराजस्य जामातः शशिरेखावतंसक ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ३॥
शैलराजात्मजे! मातः शातकुम्भनिभप्रभे!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४॥
भूतनाथपुराराते! भुजङ्गकृतभूषण!
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ५॥
पादप्रणतभक्तानां पारिजातगुणाधिके ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६॥
हालास्येश दयामूर्त्ते! हालाहललसद्गल ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ७॥
नितम्बिनि महेशस्य कदम्बवननायिके! ।
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८॥
इति श्रीहालास्यमाहात्म्ये सङ्घिलकृत उमामहेश्वराष्टकं सम्पूर्णम् ।
Encoded and proofread by PSA Easwaran