उमाऽष्टोत्तरशतनामावलिः
श्रीगणेशाय नमः ।
श्रीउमामहेश्वराभ्यां नमः ।
ध्यानम् -
पातु नः पार्वती दुर्गा हैमवत्यम्बिका शुभा ।
शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी ॥
ॐ उमायै नमः । कात्यायन्यै । गौर्यै । काल्यै (कालिन्यै) । हैमवत्यै । ईश्वर्यै ।
शिवायै । भवान्यै । रुद्राण्यै । शर्वाण्यै । सर्वमङ्गलायै ।
अपर्णायै । पार्वत्यै । दुर्गायै । मृडान्यै । चण्डिकायै । अम्बिकायै ।
आर्यायै । दाक्षायण्यै । गिरिजायै नमः । २०
ॐ मेनकात्मजायै नमः । स्कन्दामात्रे । दयाशीलायै । सुन्दर्यै ।
भक्तरक्षकायै । भक्तवश्यायै । लावण्यनिधये । सर्वसुखप्रदायै ।
महादेव्यै । भक्तमनोह्लादिन्यै । कठिनस्तन्यै । कमलाक्ष्यै ।
दयासारायै । कामाक्ष्यै । नित्ययौवनायै । सर्वसम्पत्प्रदायै ।
कान्तायै । सर्वसम्मोहिन्यै । मह्यै । शुभप्रियायै नमः । ४०
ॐ कम्बुकण्ठ्यै नमः । कल्याण्यै । कमलप्रियायै । सर्वेश्वर्यै ।
कमलहस्तायै । विष्णुसहोदर्यै । वीणावादप्रियायै ।
सर्वदेवसम्पूजिताङ्घ्रिकायै । कदम्बारण्यनिलयायै ।
विन्ध्याचलनिवासिन्यै । हरप्रियायै । कामकोटिपीठस्थायै ।
वाञ्छितार्थदायै । श्यामाङ्गायै । चन्द्रवदनायै ।
सर्ववेदस्वरूपिण्यै । सर्वशास्त्रस्वरूपायै । सर्वदेवमय्यै ।
पुरुहूतस्तुतायै । देव्यै नमः । ६०
ॐ सर्ववेद्यायै नमः । गुणप्रियायै । पुण्यस्वरूपिण्यै । वेद्यायै ।
पुरुहूतस्वरूपिण्यै । पुण्योदयायै । निराधारायै । शुनासीरादिपूजितायै ।
नित्यपूर्णायै । मनोगम्यायै । निर्मलायै । आनन्दपूरितायै । वागीश्वर्यै ।
नीतिमत्यै । मञ्जुलायै । मङ्गलप्रदायै । वाग्मिन्यै । वञ्जुलायै ।
वन्द्यायै । वयोऽवस्थाविवर्जितायै नमः । ८०
ॐ वाचस्पतये नमः । महालक्ष्म्यै । महामङ्गलनायिकायै ।
सिंहासनमय्यै । सृष्टिस्थितिसंहारकारिण्यै । महायज्ञायै ।
नेत्ररूपायै । सावित्र्यै । ज्ञानरूपिण्यै । वररूपधरायै । योगायै ।
मनोवाचामगोचरायै । दयारूपायै । कालज्ञायै । शिवधर्मपरायणायै ।
वज्रशक्तिधरायै । सूक्ष्माङ्ग्यै । प्राणधारिण्यै । हिमशैलकुमार्यै ।
शरणागतरक्षिण्यै नमः । १००
ॐ सर्वागमस्वरूपायै नमः । दक्षिणायै । शङ्करप्रियायै ।
दयाधारायै । महानागधारिण्यै । त्रिपुरभैरव्यै ।
नवीनचन्द्रचूडस्य प्रियायै । त्रिपुरसुन्दर्यै नमः । १०८
(फलश्रुतिः)
नाम्नामष्टोत्तरशतं उमायाः कीर्तितं सकृत् ।
शान्तिदं कीर्तिदं लक्ष्मीयशोमेधाप्रदायकम् ॥
इति श्रीउमाऽष्टोत्तरशतनामावलिः समाप्ता ॥
Proofread by PSA Easwaran