श्रीतुरजास्तुतिः
अथ तुरजास्तुतिः
देवाउचुः -
नमो नमस्तेऽस्तु त्र्यम्बके शिवे त्र्यैलोक्यं सन्त्राण कृतावतारे ।
त्रिविष्टपैरर्चित पादपीठे त्रिधा त्रिवेधाद्युपगीय माने ॥ १॥
गुणैस्त्रिभिर्लोहितशुक्लकृष्णे उत्पत्ति संस्था प्रलयानं करोषि ।
त्वमेवमाद्या प्रकृतिः पुराणा त्वमस्य विश्वस्य परं निधानम् ॥ २॥
भुतेन्द्रियार्थास्त्रिविधाश्च लोके यागादि कर्मेद्रिय वृत्तयश्च ।
प्राणान्मनो बुद्धिरहं कृतिश्च प्रज्ञास्मृतिर्मोहविचेतना च ॥ ३॥
कोषाश्च चक्राणि च वायुमार्गा एधा तवः सप्तविद्याश्च मातः ।
परस्परं हे तव एत देहे त्वयैव वृतीङ्गमीताश्चतुर्विद्याम् ॥ ४॥
त्वं वै प्रसन्ना भुवि मुक्ति हेतुस्त्वया जगत्सर्वमिदं विराजते ।
त्वया विना किञ्चन नास्तिमातस्त्वं मुक्तिदात्री परमा मुनीनाम् ॥ ५॥
स्पष्टं त्वया यच्छुचित्तां लभेत त्यक्तं त्वया यद्य शुचीहमातः ।
त्वया विना नास्ति शरीर भाजां संवित्प्रदात्री गुणवृत्ति योगात् ॥ ६॥
पुर्वं त्वया यत्परि पालितं जगतहत्वा सुरां शुम्भ निशुम्भ मुख्यान् ।
इन्द्रोदयः स्वर्गपदे नियुक्तास्त्वमेव मातर्जगतोऽखिलस्य ॥ ७॥
श्रीशङ्कर उवाच -
इति स्तुत्वा भगवती तुरजा सिंहवाहिनी ।
पारिजातयुतैः पुष्पैः पूजयामासूरादरात ॥ ८॥
इति श्रीस्कन्दपुराणे सह्याद्रीखण्डे तुरजामहात्मे शङ्करवरिष्टसंवादे
देवकृता तुरजास्तुतिः समाप्ता ।
शुभं भवतु ।
तुलजास्तुतिः, तुळजास्तुतिः