श्रीतुरजासहस्रनामावलिः
वरिष्ठ उवाच -
कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे ।
यानि गौणानि नामानि योगिकानि च शङ्कर ॥ १॥
तानि सर्वाणि कृपया साकल्येन तु कीर्तय ।
श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥ २॥
श्रीशङ्कर उवाच -
नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च ।
एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥ ३॥
विनियोगः अङ्गन्यासश्च -
ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्य श्रीरामचन्द्रऋषीः शिरसि ।
अनुष्टुपछन्दसे नमः मुखे । श्रीतुरजादेवतायै नमः हृदये ।
श्रीं बीजायै नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः सर्वाङ्गे ।
श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥
अथ करन्यासः -
ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं तमजायै तर्जनीभ्यां नमः ।
ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः ।
ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः ।
ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
ॐ ह्रीं तुरजायै नमः हृदयाय नमः ।
ॐ श्रीं तमजायै नमः शिरसे स्वाहा ।
ॐ क्लीं तीव्रायै नमः शिखायै वषट् ।
ॐ ब्रीं भैरव्यै नमः कवचाय हुम् ।
ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ।
अथ ध्यानं -
श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।
महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् ।
भुजाष्टकयुतां बाणचापशूलगदाधराम् ।
खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥ १॥
शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी ।
एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥ २॥
अथ सहस्रनामस्तोत्रप्रारम्भश्लोकानि -
वरिष्ठ उवाच -
कथं नामसहस्रन्तु रामप्रोक्तं वदस्वमे ।
यानि गौणानि नामानि योगिकानि च शङ्कर ॥ १॥
तानि सर्वाणि कृपया साकल्येन तु कीर्तय ।
श्रुत्वाहं देव परमां सिद्धिं यास्यामि शाश्वतीम् ॥ २॥
श्रीशङ्कर उवाच -
नामानि ते प्रवक्ष्यामि तुरजायाः शुभानि च ।
एतानि प्रपठेद्विद्वान्नमो तानि मुनेश्वर ॥ ३॥
विनियोगः अङ्गन्यासश्च -
ॐ अस्य श्रीतुरजासहस्रनामस्तोत्रमन्त्रस्य
श्रीरामचन्द्रऋषीः शिरसि ।
अनुष्टुपछन्दसे नमः मुखे ।
श्रीतुरजादेवतायै नमः हृदये ।
श्रीं बीजायै नमः गुह्ये ।
ह्रीं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः सर्वाङ्गे ।
श्रीतुरजाप्रीत्यर्थे जपे विनियोगः ॥
अथ करन्यासः -
ॐ ह्रीं तुरजायै अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं तमजायै तर्जनीभ्यां नमः ।
ॐ क्लीं तीव्रायै मध्यमाभ्यां नमः ।
ॐ ब्रीं भैरव्यै अनामिकाभ्यां नमः ।
ॐ घ्रीं कालिकायै कनिष्ठिकाभ्यां नमः ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
ॐ ह्रीं तुरजायै नमः हृदयाय नमः ।
ॐ श्रीं तमजायै नमः शिरसे स्वाहा ।
ॐ क्लीं तीव्रायै नमः शिखायै वषट् ।
ॐ ब्रीं भैरव्यै नमः कवचाय हुम् ।
ॐ घ्रीं कालिकायै नमः नेत्रत्रयाय वौषट् ।
ॐ फ्रीं भ्रीं स्वाहा सिद्धिप्रदायै नमः अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥
अथ ध्यानं -
श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् ।
महामेघनिनादान्तां निर्वाते दीपवत् स्थिराम् ।
भुजाष्टकयुतां बाणचापशूलगदाधराम् ।
खड्गं शङ्खं तथा चक्रं वरदां भयहारिणीम् ॥ १॥
शङ्करप्रियवामाङ्के वैष्णवी भयहारिणी ।
एवं रूपां तु तुरजां नमामि परमेश्वरीम् ॥ २॥
अथ सहस्रनामावलिः ।
ॐ तुरजायै नमः । तमजायै । तीव्रायै । त्रिविधायै ।
त्रिगुणात्मिकायै । पङ्कजायै । पद्मिन्यै । पद्मायै । सुगन्धायै ।
गन्धवर्धिन्यै । रसजायै । मूलजायै । धारायै । घटजायै ।
घटसंस्थितायै । घटोदर्यै । घटाकारायै । कर्णिकायै ।
निकुम्भिकायै । गिरजायै नमः । २०
ॐ शैलसंस्थायै नमः । दुर्गजायै । दुर्गवासिन्यै । सिद्धिमार्गायै ।
मण्डलिन्यै । उत्तरायै । तरलायै । समायै । अम्बष्ठायै ।
शिरोनिष्ठायै । मनोनिष्ठायै । घोषितायै । वाटिकायै । मालिन्यै ।
पुष्पायै । सुगन्धायै । मधुपायै । मध्वै । बलादिकायै । बलकर्यै नमः । ४०
ॐ पार्थिव्यै नमः । पार्थिवद्रुमायै । रसाधिकायै । निरसायै ।
स्वादुग्रायै । हितकाङ्क्षिण्यै । विजितायै । कुलितायै । शाखायै ।
छायायै । जटिलमूलिकायै । विस्तारायै । स्थावरायै । मौर्व्यै ।
जङ्गमायै । निगमायै । गमायै । भवान्यै । भैरव्यै । भूत्यै नमः । ६०
ॐ प्रतिमायै नमः । प्राणदायै । बल्यै । दीपरूपायै । धूपगन्धायै ।
ज्वालामालाप्रकाशिन्यै । पञ्चाननायै । तिमिरायै । अरुणायै ।
श्यामलायै । शुभायै । पानप्रियायै । भुक्तिदायै । पूजादि
बलिभक्षिण्यै । महादेव्यै । महामुर्ध्ने । दीर्घायै । कुमारिकायै ।
महोदर्यै । महानाभ्यै नमः । ८०
ॐ बलदन्त्यै नमः । महाबलायै । सुरनिद्रायै । घोरनिद्रायै ।
भोगनिद्रायै । भोगदायै । महानिद्रायै । मोहनिद्रायै । सुखनिद्रायै ।
सुखोद्भवायै । खेटहस्तायै । पाशहस्तायै । गदाहस्तायै । तोमरायै ।
चक्रहस्तायै । शङ्खहस्तायै । चापहस्तायै । बाणभृते ।
सिन्दूरवर्णायै । उदितायै नमः । १००
ॐ अन्हायै नमः । अन्धकघातिन्यै । अपर्णायै । विकर्णायै । परायै ।
चन्द्रकलायै । पूर्णछिन्नायै । कौमुद्यै । निरस्तायै । नवग्रहायै ।
अक्षानक्तायै । कङ्कुमाभायै । कान्तायै । कुमारिकायै । भ्रान्तायै ।
तरङ्गिण्यै । काल्यै । कङ्काल्यै । नलकूबर्यै । कपालिन्यै नमः । १२०
ॐ काकमूर्ध्ने नमः । करतन्त्र्यै । त्रिवादिन्यै । शालिकायै ।
यन्त्रिण्यै । दण्ड्यै । नाठिन्यै । तुम्बर्यै । तालनादप्रियायै ।
मृदङ्गध्वनितत्परायै । रक्तपायै । रक्तलिप्तायै ।
रक्तबीजनिपातिन्यै । रक्ताक्ष्यै । रक्तसर्वायै । रक्तदन्त्यै ।
सुदन्तिकायै । रक्तदन्तायै । रक्तबिम्बायै । रक्तधाराप्रवाहिकायै नमः । १४०
ॐ रक्तमूर्ध्ने नमः । रक्तजिह्वायै । रसनायै । भद्रकालिकायै ।
भद्रायै । सुभद्रायै । रुद्रार्द्रायै । सर्वाभद्रविनाशिन्यै ।
हिङ्गुलायै । हेमाङ्ग्यै । ह्यग्रीवायै । तपस्विन्यै । तर्पणायै ।
कर्षणायै । होमायै । सङ्कल्पायै । होत्रमन्त्रिकायै । स्रुवायै ।
दर्व्यै । द्रोण्यै नमः । १६०
ॐ स्वाहायै नमः । कलशवेदिकायै । आहुत्यै । समिते । दर्भायै ।
स्रुवायै । पिङ्गललोचनायै । प्रकृष्टायै । फलदायै ।
शान्तायै । पित्रे । वेदोदयायै । अपर्णायै । सुफलायै । यज्ञायै ।
यज्ञाङ्गफलदायिन्यै । विश्वमात्रे । विश्वबलायै । विश्वगर्भायै ।
प्रवर्तिकायै नमः । १८०
ॐ विश्वोदर्यै नमः । विश्वमुख्यै । विश्वसम्भतिकारिण्यै ।
विश्वेश्वर्यै । विश्वधरायै । मरुद्भूतायै । सर्पिण्यै ।
पृथ्वीधरायै । पद्मिन्यै । नाग्यै । उरगायै । पक्षिण्यै ।
मलयावासायै । धत्तूरकुसुमप्रियायै । सलिलार्घ्यप्रियायै । शैलायै ।
लिङ्गनिष्ठायै । घण्टिकायै । शिखायै । दीक्षायै नमः । २००
ॐ तुलस्यै नमः । सेवासंयमतत्परायै । निवृत्तायै । शयनायै ।
सुत्पायै । सौसुत्पिकजनप्रियायै । वृत्तमालायै । नियमायै ।
यज्ञियायै । नन्दिन्यै । नारायण्यै । अमोघायै । प्रकटायै । तरुण्यै ।
प्रियायै । समुद्रायै । सङ्गमायै । पूर्णायै । कल्लोलायै । उर्मिमालिन्यै नमः । २२०
ॐ मुमूर्षायै नमः । रोषरुष्टायै । जुगुप्सितविरोधिन्यै । इन्दिरायै ।
ईडितायै । इन्द्रायै । नुतायै । निलाम्बरायै । महाकृष्णायै ।
कृष्णवर्णायै । कृष्णस्रुचे । कृष्णवासिन्यै । शुक्लाम्बरायै ।
कोटिचन्द्रायै । मार्तण्डायै । अग्निरुचे । रत्नदन्त्यै । रत्ननासायै ।
रत्नमालाविभूषणायै । रत्नाम्बरायै नमः । २४०
ॐ रत्नकञ्चवे नमः । रत्नाक्ष्यै । रत्नकुण्डलायै । रत्नहस्तायै ।
रत्ननखायै । रत्नकङ्कणमण्डितायै । रत्नछत्रायै । रत्नवर्णायै ।
रत्नेशायै । रत्नहेलिकायै । रत्नासनायै । रत्नराशये । रत्नोष्ठ्यै ।
रत्नजिह्वीकायै । जगत्कत्र्यै । जगत्कार्यायै । जगद्वासायै ।
जगन्निध्यै । जगत्प्राणायै । जगद्द्रष्ट्रे नमः । २६०
ॐ जगज्जिह्वायै नमः । जगद्रसायै । जगच्चक्षुषे । जगत्प्राणायै ।
जगच्छ्रोत्रे । जगन्मुख्यै । जगद्वन्द्यायै । जगद्रूपायै ।
जगत्स्वप्नायै । जागृत्यै । जगच्छत्रायै । जगद्धात्र्यै ।
जगद्भर्त्र्यै । जगत्पित्रे । जगत्पत्न्यै । जगन्मात्रे । जगद्भ्रात्रे ।
जगते । जगज्जायायै । जगद्वन्द्यायै नमः । २८०
ॐ जगद्धर्म्यै नमः । जगन्मय्यै । जगद्धात्र्यै । जगत्प्राणायै ।
जगद्योन्यै । जगन्मय्यै । जगत्स्थित्यै । जगत्सर्गाय । जगत्सर्वायै ।
जगन्मय्यै । जगच्छायायै । जयन्त्यै । जगन्मोहायै । जागृत्यै ।
सर्वस्तम्भ्यै । महामायायै । जगद्दीक्षायै । जयायै ।
भक्तैकलभ्यायै । द्विविधायै नमः । ३००
ॐ त्रिविधायै नमः । चतुर्विधायै । इन्द्राक्ष्यै । पञ्चरूपायै ।
सहस्ररूपधारिण्यै । रुद्राक्ष्यै । कमलाक्ष्यै । तिमिरायै । दीपिकायै ।
वर्तिरूपायै । हडायै । तैलायै । प्रख्यायै । निर्वाणिकायै । शिवायै ।
मूलाद्रिवासिन्यै । वराट्यै । मूलिकायै । परायै । मूलज्वालायै नमः । ३२०
ॐ मूलमन्त्रायै नमः । मधुकैटभघातिन्यै । सप्तज्वालायै ।
महाज्वालायै । ज्वालमालिन्यै । नवकुम्भायै । नवरुच्यै । कामज्वालायै ।
नवाननायै । गर्भज्वालायै । बालायै । चक्षुर्वालायै । नवाम्बरायै ।
नवभूत्यै । नवबलायै । नवरक्तायै । नववृतायै । नवखण्डायै ।
देशायै । नवदण्डायै नमः । ३४०
ॐ नवाक्षरायै नमः । नवजङ्घायै । सुवीर्यायै । नवदुर्गायै ।
जाग्रत्यै । नवमार्गायै । नवम्यै । नवसस्यायै । नवेश्वर्यै ।
नवरूपायै । नवकलायै । नवनाड्यै । नवाननायै । नवक्रीडायै ।
नवविधायै । नवयोगिनिकायै । नवम्यै । मङ्गलायै । विजयायै ।
दशम्यै नमः । ३६०
ॐ याम्यायै नमः । दिग्वासिन्यै । विदिशायै । दिशायै ।
कुलुपाद्यन्तरिक्षायै । दक्षिणामुख्यै । दधिवर्णायै । रामवरदायै ।
दशास्यवंशभेदिन्यै । विन्ध्यासिन्यै । सिद्धिहस्तायै । अन्नपूर्णायै ।
सुन्दर्यै । अष्टाक्षरपरानन्दायै । चामुण्डायै । मुण्डवाहिन्यै ।
पीताम्बरायै । दीप्तिहस्तायै । मङ्गलायै । मङ्गलोदयायै नमः । ३८०
ॐ कालनाशायै नमः । कर्मनाशायै । कलिनाशायै । कालिकायै ।
एणरूपायै । वृषाश्वायै । अजायै । क्रोडायै । कुक्कुट्यै । सुकण्ठायै ।
कोकिलायै । काल्यै । मुखर्यै । वैखर्यै । मृग्यै । मयूर्यै ।
माक्षिण्यै । गृध्र्यै । बलाकायै । करालिन्यै नमः । ४००
ॐ जलनिष्ठायै नमः । काकजङ्घायै । निर्गुणायै । गुरुवन्दितायै ।
भ्रामर्यै । अम्बिकायै । मन्दायै । अदन्तायै । सुदन्तिकायै ।
उक्तुङ्गायै । कलशायै । शोकायै । चतुर्दन्तायै । भृशुण्डिन्यै ।
ऊर्ध्वनेत्रायै । ऊर्ध्वमुख्यै । तेजिष्ठायै । त्राटिकायै । रवये ।
रथिन्यै नमः । ४२०
ॐ रथसंस्थायै नमः । चक्रिकायै । रथवाहिन्यै । भ्रामितायै ।
सप्ततुण्डायै । भीमायै । हयमुख्यै । प्रथिकायै । प्रखुरायै ।
अङ्कायै । दक्षिणायै । परिदक्षिणायै । रचनायै । रोचनायै ।
रामायै । रमितायै । शमितायै । शमायै । लतायै । ललितायै नमः । ४४०
ॐ लक्ष्म्यै नमः । कामितायै । कामनायै । अग्निधारायै । सप्तधारायै ।
भगधारायै । त्रिधास्मृतायै । अष्टप्रकृत्यै । अष्टभुजायै ।
वरदायै । अष्टनायकायै । अर्धधारायै । मूलधारायै । दशधारायै ।
गदाद्यै । जलदायै । निगडायै । मारणायै । अविलम्बायै । वाग्म्यै नमः । ४६०
ॐ प्राखुरायै नमः । वाग्विवादिन्यै । उड्डीयमानायै । ऊर्ध्वाक्ष्यै ।
बुद्बुदायै । बर्बराम्बरायै । धूर्णाक्ष्यै । पटलायै । कोपायै ।
उत्तीर्णायै । उल्लसाननायै । कल्लोलायै । उन्नतायै । बालायै ।
शुभायै । कल्लोलमालिन्यै । उपलक्षायै । उमालक्षायै । परिक्षायै ।
रक्षिकायै नमः । ४८०
ॐ उपेन्द्रायै नमः । इन्द्रवरदायै । महाकाल्यै । निशाचर्यै ।
पापघ्न्यै । पापनाशायै । ब्रह्मघ्न्यै । शापमोचन्यै । शर्वायै ।
तृष्णायै । उच्छिष्टायै । चाण्डाल्यै । परिघायुधायै । अपर्णायै ।
पर्णवलितायै । पत्यै । पतितपावन्यै । महाद्वन्द्वायै । महावाद्यै ।
एकवीरायै नमः । ५००
ॐ जगज्जयायै नमः । पञ्चाल्यै । पञ्चपाञ्चाल्यै । प्रपञ्च्यै ।
त्रिपद्यै । वेदमात्रे । त्रिगुणायै । गुणशाम्भव्यै । ॐकार्यै ।
वेदिकायै । वाचायै । ह्रीङ्कार्यै । सकलागमायै । त्रीङ्कार्यै ।
त्रिपुरायै । पूजायै । श्रीङ्कार्यै । सर्वसुन्दर्यै । क्लीङ्कार्यै ।
कालिकायै नमः । ५२०
ॐ केश्यै नमः । घ्रीङ्कार्यै । घटवासिन्यै । ब्रीङ्कार्यै । बगलायै ।
बालायै । फ्रीङ्कार्यै । फणिभूषणायै । भ्रीङ्कार्यै । भैरव्यै ।
भूत्यै । भगदात्र्यै । भगायै । ज्रीङ्कार्यै । जलजिह्वायै ।
जृम्भिकायै । जलयोगिन्यै । दिगम्बर्यै । जटाजूट्यै । कुमार्यै नमः । ५४०
ॐ पिङ्गकेशिन्यै नमः । कन्यायै । प्रकन्यायै । कन्दर्पायै ।
वेदनायै । वाल्मिक्यै । गुणायै । चतुर्भुजायै । चतुर्वाससे ।
चर्चिकायै । चतुराननायै । अर्चितायै । चर्चिकायै । चित्रायै ।
चक्रस्थायै । चक्ररूपिण्यै । आवाह्यायै । विसर्गायै । लिङ्गरूपायै ।
विसर्जन्यै नमः । ५६०
ॐ लिङ्गनिष्ठायै नमः । लिङ्गसेव्यायै । लिङ्गसेवया मथितायै ।
कर्मरेखायै । चन्द्ररेखायै । चित्ररेखायै । वसन्तिकायै ।
सदोदयायै । तालवासायै । खर्जूरायै । तालमूर्ध्निकायै ।
खण्डजङ्घायै । ऋतुपदायै । अङ्गुष्ठायै । दृढबन्धिन्यै ।
प्रबोधायै । गृन्थिकायै । गाधायै । ऊहावितर्कवादिन्यै । विनायक्यै नमः । ५८०
ॐ विनम्रायै नमः । प्रसिद्धायै । विजयायै । जयायै । लम्बोदर्यै ।
शिखोर्ध्वायै । चित्रवस्त्रावलम्बिन्यै । षोडश्यै । नारसिंह्यै ।
शीतलायै । परिशीतलायै । गुहायै । किरातायै । कदल्यै ।
कदलीवनवासिन्यै । महाव्याघ्रवरारोहायै । धनुर्बाणधराधरायै ।
लम्बिन्यै । विपाशायै । क्षुधायै नमः । ६००
ॐ सन्देशिकायै नमः । विलासिन्यै । विपुलिकायै । कालिकायै ।
प्रवेशिकायै । वाणिकायै । वनवासायै । बर्बरायै । खर्परासनायै ।
मौञ्ज्यै । भुजङ्गिन्यै । चारायै । प्रभुघण्टायै । जलाजरायै ।
बालाजरायै । योगवेण्यै । सुकेश्यै । वेणिकायै । रम्भायै ।
प्रखण्डायै नमः । ६२०
ॐ खंवास्यै नमः । स्वागतायै । स्थानदायकायै । श्यामायै ।
प्रसन्नायै । सुमुख्यै । वर्मिकायै । कर्णिकायै । शुचिकायै ।
मुग्धिकायै । गाधायै । भोगदायै । सुभगायै । भुक्तिदायै ।
मुक्तिदायै । देव्यै । ऋद्धिदायै । सुखदायिन्यै । सिद्धिदायै ।
बुद्धिदायै नमः । ६४०
ॐ मात्रे नमः । वर्मिण्यै । फलदायिन्यै । क्षुरिकायै । जिरिकायै ।
जङ्घायै । आणिकायै । गूढखड्गिन्यै । ध्वजिन्यै । वाजिन्यै । वाज्यै ।
पताकायै । वर्मिण्यै । हस्तिन्यै । कालिकायै । बाणायै । अत्रिजायै ।
वज्रधारिण्यै । छत्रिण्यै । रणिकायै नमः । ६६०
ॐ रोषायै नमः । अजितायै । दलभाजिन्यै । वाग्देव्यै । छिन्नमूर्ध्ने ।
गूढेन्द्रायै । पथिकायै । लोलिकायै । धूर्णिकायै । धूर्णायै ।
स्वशिकायै । निश्वासायै । व्यथायै । हाहायै । परिहायै । वश्यकायै ।
निर्भयायै । भयायै । वर्मिण्यै । परिवीरायै नमः । ६८०
ॐ उत्कण्ठायै नमः । मुखमण्डितायै । कोटिन्यै । दलिन्यै । दीर्घायै ।
धूसुरायै । बलराक्षस्यै । नाविकायै । छिद्रिकायै । क्षेपायै ।
दुर्गन्धायै । घोरवासिन्यै । अघोरायै । परिघोरायै । महाघोरायै ।
तिघस्मरायै । सुवीर्यायै । घोरमन्त्रायै । किरीट्यै । घोरभक्षिण्यै नमः । ७००
ॐ पूर्णवक्त्रायै नमः । पूर्णमुख्यै । परमायै । परमेश्वर्यै ।
मौलिन्यै । बिम्बिन्यै । बिम्बायै । तर्षिण्यै । तुरजायै । तृषायै ।
तृतीयायै । चतुरीयायै । तुरजायै । भवतारिण्यै । सुदर्शायै ।
तरुण्यै । तारायै । चरितायै । दैत्यजायै । दक्षिणायै नमः । ७२०
ॐ कर्णिकायै नमः । काल्यै । कङ्काल्यै । नलकूबर्यै । नैऋत्यायै ।
नलिकायै । नित्यायै । नैमित्यायै । निमिषायै । निशायै ।
इच्छापूर्णायै । विन्ध्यकायै । हिङ्गुलायै । पाश्चिमायै । परायै ।
वायव्यायै । वरदायै । वन्द्यायै । वृन्दिकायै । वृन्दवर्धिन्यै नमः । ७४०
ॐ उच्चाटायै नमः । उत्तरायै । चण्ड्यै । नीलकण्ठ्यै । जलाश्रयायै ।
दक्षिणायै । कामाक्ष्यै । कामनायै । भुवनेश्वर्यै । प्रकाशायै ।
पिङ्गलायै । पूर्णायै । श्रियै । श्रीम्बीजकर्यै । अग्निकायै ।
रुचिकायै । वाचायै । अज्ञायै । प्रज्ञायै । प्रसाददायै नमः । ७६०
ॐ चकमायै नमः । विहङ्गायै । माण्डायै । राजकायै । रज्जुकायै ।
रजायै । गौर्यै । गोमयायै । गेयायै । मातङ्ग्यै । महिषाहल्यै ।
सदातुष्टायै । सदापुष्टायै । सन्दिष्टायै । सदाशिवायै । तिलकायै ।
रोचनायै । वृक्षायै । गम्बीजायै । त्रिपुरायै नमः । ७८०
ॐ ईहायै नमः । कल्परचनायै । यमुनायै । गिरिवासिन्यै ।
दुर्लभायै । अतिदुराराध्यायै । दुर्गमायै । गगनेश्वर्यै । अरण्यायै ।
परिरण्यायै । संयम्यायै । संयमायै । कमलायै । कुलजायै ।
लवणायै । सुरघातिन्यै । दधिजायै । कल्पसंस्थायै । कर्मजायै ।
फलदायिन्यै नमः । ८००
ॐ कामजायै नमः । केलिजायै । केश्यै । कर्षायै । कर्बुरजालिजायै ।
गिरिजायै । गर्वगोत्रायै । अकुलायै । कुलजायै । दिनजायै । दिनमान्यै ।
वेदजायै । वेदसम्भृतायै । क्रोधजायै । कुटजायै । धारायै ।
परमायै । बलगर्वितायै । शान्तायै । भ्रान्तायै नमः । ८२०
ॐ दिगन्तायै नमः । गुरुजायै । छत्रवासिन्यै । भयान्तायै ।
विभ्रमायै । भ्रान्तायै । पशुपालायै । शूरिण्यै । भूसुरायै ।
भासुर्यै । भग्नदैत्यायै । छिन्दाम्भिदायै । क्रोधायै । क्रोधमुख्यै ।
दंष्ट्र्यै । वज्रदन्त्यै । सुदन्तिकायै । सस्याचरायै । जलायै ।
मेघायै नमः । ८४०
ॐ प्रवाहायै नमः । सुरवृक्षजायै । ब्रह्मिष्टायै । ब्रह्मजायै ।
ब्राह्म्यै । चतुःशीर्षायै । चतुर्मुख्यै । चिरद्वैतायै ।
द्वैतरूपायै । अद्वैतप्रतिपादिन्यै । वेदान्तायै । वेदवन्द्यायै ।
आनन्द्यै । नन्ददानवायै । पुरुछायायै । मखायै । धुर्यायै ।
दुर्जयायै । पापहायै । भीत्यै नमः । ८६०
ॐ गतये नमः । जागरिष्टायै । हर्म्याक्ष्यै । शुक्लहर्मिण्यै ।
मेरुजायै । मेरूसंस्थायै । कल्लार्यै । कलिकल्पनायै । किरातिन्यै ।
भिल्लिरूपायै । प्रचण्डायै । चण्डवासिन्यै । अत्यन्तगुणयुक्तायै ।
चन्द्रास्यायै । चन्द्रवासिन्यै । चलाचलपदायै । शृङ्ग्यै ।
चन्द्रघण्टायै । घटध्वन्यै । पार्श्वस्थायै नमः । ८८०
ॐ प्रभुसेव्यायै नमः । गूढहास्यप्रवर्धिन्यै । ब्रह्माण्यै ।
वृत्तसंस्थायै । चतुर्वर्णायै । चतुर्विधायै । शिवरूपायै ।
शैलपुत्र्यै । शैलस्थायै । शिववन्दितायै । खण्डवादरतायै ।
खण्डायै । खण्डितायै । ब्रह्मचारिण्यै । नवखण्डायै ।
प्रखण्डायै । स्वरूपायै । सर्वरूपिण्यै । रत्नमण्डलमध्यस्थायै ।
रत्नकुण्डलमालिन्यै नमः । ९००
ॐ क्रौञ्चस्थायै नमः । कुचसंस्थायै । मत्तमातङ्गगामिन्यै ।
कूटस्थायै । नवसंस्थायै । कदल्यै । वज्रकङ्कणायै । विदेहायै ।
विमलायै । क्रूरायै । चौण्डायै । कर्नाटक्यै । त्रिमात्रायै ।
उत्कलायै । गौण्ड्यै । वीरेशायै । वीरवन्दितायै । शामलायै ।
गौर्यै । विपिनायै नमः । ९२०
ॐ मागधेश्वरवन्दितायै नमः । गण्डक्यै । कौशिक्यै । गङ्गायै ।
नर्मदायै । यमुनायै । पार्वत्यै । कर्मनाशायै । कैलासव्यापिकायै ।
कपालमोचनायै । हेमगर्भायै । शिलायै । शालग्रामशिलावल्ल्यै ।
शार्दूलायै । पिङ्गकेशिन्यै । मुग्धबोधप्रवर्गायै । कामितायै ।
कामनायै । पुण्याङ्ग्यै । पुण्यगन्धायै नमः । ९४०
ॐ कुरुक्षेत्रकृतालयायै नमः । केदारस्थायै । भारतस्थायै ।
मूलस्थायै । मूलदुर्गजायै । पुरुदुर्गायै । मोहदुर्गायै । प्रज्वालायै ।
ज्वालिन्यै । भस्मकुण्डायै । गेहायै । अम्बिकायै । अम्बिकालयायै ।
शारदायै । नारदायै । रेणुकायै । गगनेश्वर्यै । धेनुरूपायै ।
रुक्मिण्यै । गोपिकायै नमः । ९६०
ॐ यमुनाश्रयायै नमः । भूश्रयोन्नताङ्गुष्ठायै ।
नखराङ्गविरागिण्यै । सुकण्ठायै । कोकिलायै । मैनायै । चिरानन्दायै ।
शिवात्मिकायै । कन्दर्पकोटिलावण्यायै । सुन्दरायै । सुन्दरस्तन्यै ।
विश्वपक्षायै । विश्वरक्षायै । विश्वनाथप्रियायै । सत्यै ।
भेरिरूपायै । शङ्खरूपायै । पणवानकगोमुख्यै । उर्वश्यै ।
उरुगर्भायै नमः । ९८०
ॐ विवरायै नमः । पृष्ठसंस्थितायै । लहर्यै । महिमायै ।
शङ्खायै । विमलायै । मेखलायै । क्षमायै । शीघ्रायै ।
चिदानन्दायै । धराधारायै । धनुर्धर्यै । मालिकायै । प्रखुरायै ।
छायायै । प्रणामायै । अजितायै । अपरायै । वटरूपायै । वटाभायै नमः । १०००
ॐ वरारोहायै नमः । महातपसे । शङ्खादिनिधिरूपायै । औषध्यै ।
भगमालिन्यै । पुत्रदायै । पौत्रदायै । पौत्र्यै । दिव्यादायै ।
दिव्यभोगदायै । आशापूर्णायै । चिरञ्जीव्यै । लङ्काभयविवर्धिन्यै ।
सुतीक्ष्णायै । रूक्षलवणायै । कटुतिक्तायै । विदाहिन्यै । प्रतिपन्नायै ।
घृतायै । तैलायै नमः । १०२०
ॐ रसारसविवर्धिन्यै नमः । योगासनायै । योगपीठायै ।
मैथिलीशपदानुगायै । रुदितायै । विमलायै । शोकायै । अन्तस्थायै ।
रसनायै । दीर्घायै । स्थूलायै । सूक्ष्मायै । भृशुण्ड्यै ।
गणेश्वर्यै । द्वितीयायै । पूर्णकमलायै । पूर्णजा इति कीर्तितायै नमः । १०३७
श्रीशङ्कर उवाच -
इति नाम्नां सहस्रं तु रामेण परिकीर्तितम् ।
यः पठेत्प्रयतो भक्त्या सन्ध्याकाले द्विजोत्तमः ॥ १॥
सर्वान्कामानवाप्नोति नात्रकार्या विचारणा ।
नवरात्रं जिताहारो शतावृत्या पठेन्नरः ॥ २॥
रात्रौ मूर्तिमयीं देवीं तद्दिने वाञ्छितं फलम् ।
विद्याकामस्तु यो मर्त्यः षण्मासं च जितेन्द्रियः ॥ ३॥
जपन् लभेत् परमां विद्यां लोकोत्तरां तथा ।
अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥ ४॥
कुष्टरोगस्तथा दद्रू क्षयापस्मारचर्चिकाः ।
ते सर्वे नाशमायान्ति पायूपस्थव्रणानि च ॥ ५॥
बधिरत्वं दिवान्धत्वं मूकत्वं पङ्गुलं तथा ।
नश्यन्ति तत्क्षणादेव यथा सूर्योदये तमः ॥ ६॥
दशधा यः पठेन्नित्यं देव्यग्रे स्वस्थमानसः ।
सर्वानेताँलभेत्कामान् देवैरपि सुदुष्करान् ॥ ७॥
राजद्वारे पठेद्यस्तु चोरव्याघ्राकुले पथि ।
पठनात्सिद्धिमाप्नोति विघ्नेभ्योऽपि प्रमुच्यते ॥ ८॥
अनेन सदृशी विद्या नास्ति त्रैलोक्यमन्दिरे ।
धर्मार्थी लभते धर्मं कामार्थी लभते सुखम् ॥ ९॥
धनार्थी लभते द्रव्यं मोक्षार्थी मोक्षमाप्नुयात् ।
पुरश्चरणधर्मेण पठेन्नामसहस्रकम् ॥ १०॥
दशांशहवनं कुर्यात् पायसं शर्करान्वितम् ।
कुमारीं भोजयेद्विप्रान्यथा विभवसारतः ॥ ११॥
कुबेरसदृशो लक्ष्म्या बुध्या धिषणवान्नरः ।
भवेत्त्रैलोक्यजठरे देवैरपि सुपूजितः ॥ १२॥
किमत्र बहुनोक्तेन देवी सायुज्यमाप्नुयात् ।
इतीदं कथितं विप्र देव्या नामसहस्रकम् ॥ १३॥
अधिष्वावहितो भूत्वा सर्वैः कामैः सुपूज्यते ।
अनेन पूर्वसङ्कल्पित श्रीतुरजासहस्रनामपाठाङ्ग ओं तत्सत्
श्रीजगदम्बाप्रणमस्तु । श्रीकृष्णर्पणमस्तु ।
अपराधसहस्रभाजनं पतितं देवि भवार्णभूतले ।
आगतं शरणागतं शिवे कृपया केवलमात्मसात्कुरु ॥ १॥
माता भवानी जनको भवानी
बन्धुर्भवानी भगिनी भवानी ।
गोत्रं भवानी सकलं भवानी
वीना भवानी नहि किञ्चिदस्ति ॥ २॥
या माता मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षणचण्डमुडमथिनी या रक्तबीजाशनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलनी या सिद्धलक्ष्मीप्रदा ।
सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥
मन्दारमालाऽऽकुलितालकायै
भाले च मालाङ्कित शेखरायै ।
दिव्याम्बरायै च दिगम्बराय
नमः शिवायै च नमः शिवाय ॥ ४॥
यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तवः स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते ॥ ५॥
इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे तुरजामहात्म्ये
श्रीशङ्करवसिष्ठसंवादे श्रीतुरजासहस्रनामस्तोत्रौद्धृता
श्रीतुरजासहस्रनामावलिः समाप्ता ।
शुभं भवन्तु ।
श्रीजगदम्बार्पणमस्तु ।
इति श्रीतुरजासहस्रनामावलिः समाप्ता ।
तुलजासहस्रनामावलिः, तुळजासहस्रनामावलिः
The nAmAvalI is derived from the stotra and is found to have
more than 1000 names.
Proofread by PSA Easwaran