तुलसीविवाहविधिः
(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः । तुलसी
हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते ... शुभतिथौ
तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये । (अप उपस्पृश्य)
विघ्नेश्वरपूजां कलशपूजां तुलसी पूजां च यथाविधि निर्वर्त्य ...
विष्णुं विवाहार्थे वरार्ह वस्रालङ्करण पुष्पमालादिभिः अलङ्कृत्य
वाद्यधोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफल -
ताम्बूलादिभिः उपसृत्य मण्डपे आसने प्रतिष्ठाप्य प्रार्थयेत्-
आगच्छ भगवन् देव अर्हयिष्यामि केशव ।
तुभ्यं ददामि तुलसीं प्रतीच्छन् कामदो भव ॥
आसनमिदं, अलङ्क्रियताम् । पाद्यं समर्पयामि ।
अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि ।
मधुपर्कं समर्पयामि । हरिद्रालेप-मङ्गलविधिं समर्पयामि ।
तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं समर्पयामि ।
वस्रालङ्करणपुष्पमालाः समर्पयामि । गन्धान्धारयामि । गन्धोपरि
हरिद्राकुङ्कमं समर्पयामि । पुष्पै: पूजयामि । १२-२४-१०८
नामभिरर्चयेत् । (वधूवरौ परस्परमभिमुखौ स्थापयित्वा) ...
गोत्रोद्भवां ... शर्मणः प्रपौत्रीं, ...
शर्मणः पौत्रीं, शर्मणः पुत्रीं
तुलसीनाम्नीं इमां कन्यकां अजाय अनादये श्री विष्णवे वराय ददामि ।
(त्रिरुक्त्वा)
अनादिमध्यनिधन त्रैलोक्य प्रतिपालक ।
इमां गृहाण तुलसीं विवाह विधिनेश्वर ।तुलसीविवाहविधि।इन्फ़्
पार्वती बीजसंभूतां बृन्दाभस्मनि संस्थिताम् ।
अनादिमध्यनिधनां वल्लभां ते ददाम्यहम् ॥
पयोघृतैश्च सेवाभिः कन्यावद्वर्धितां मया ।
त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः ॥
वाद्यघोष - वेदस्वस्तिवाचन - मङ्गलाशीर्भिः उभौ मेलयित्वा
गीतादिभिः सन्तोषयेत् । सायमपि पुनः पूजां कृत्वा स्रीधनं
यथाशक्ति दद्यात् ।
विवाहोत्सवपूर्तौ
वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो ।
मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा ।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर ।
यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन ।
इति उभौ अभ्यनुज्ञापयेत् मङ्गलारार्तिकेन सह ।
तुलसीं यथापूर्वं रक्षेत् ।
Encoded and proofread by Shree Devi Kumar