तुलसीस्तवराजः
शौनकः --
सूत सूत महाप्राज्ञ सर्वशास्रविशारद ।
ब्रूहि मे स्तवराजं तु तुलस्याः पुण्यवर्धनम् ॥ १॥
श्री सूतः --
साधु साधु महाभाग कृतः प्रश्नस्त्वयाऽनघ ।
तुलस्याः स्तवराजं तु को नु वर्णयितुं क्षमः ॥ २॥
इह लोके परत्रापि ब्रह्मणाऽपि न शक्यते ।
तुलसीकाननं दृष्ट्वा यत्र कुत्रापि वै स्थले ॥ ३॥
स्मरणात्कीर्तनाद् ध्यानात् सर्वपापैः प्रमुच्यते ।
किमुत स्तवराजेन स्तुवतो मुक्तिरस्य वै ॥ ४॥
भविशष्यतीति सन्देहो रौरवं नरकं व्रजेत् ।
तुलसीस्तवराजस्य छन्दोऽनुष्टुप् प्रकीर्तितम् ।
ऋषिर्नारायणो देवो देवता श्रीरुदीरिता ॥ ५॥
श्रीरिति बीजं, तुमिति कीलकं, लमिति शक्तिः,
श्रीमिति दिग्बन्धः । नम इति सर्वभूतोच्वाटनम् ॥
अङ्गन्यासः -
ॐ श्री हृदयाय नमः । ॐ तुं शिरसे स्वाहा ।
ॐ लं शिखायै वषट् । ॐ स्यैं कवचाय हुम् ।
ॐ नं नेत्रत्रयाय वौषट्। ॐ मः अस्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
ध्यानं -
चतुर्बाहुयुतां देवीं शङ्खपुस्तकधारिणीम् ।
पद्माक्षमालां पुष्पं च धारिणीं पुण्यदायिनीम् ॥ ६॥
अमृताब्धिसमुत्पन्ने सर्वशोकविनाशिनी ।
सर्वसौभाग्यदात्री(यी ) त्वं तुलसि (सी) रक्षणं कुरु ॥ ७॥
दक्षिणे लोकविख्याते विष्णुधृतशरीरिणि ।
विश्वरूपी विश्वकर्त्री तुलसी रक्षणं कुरु ॥ ८॥
सर्वलोकमये(यी ) पूज्ये सर्वसम्पत्प्रदायिनि ।
सर्वतापप्रशमनि तुलसी रक्षणं कुरु ॥ ९॥
महिता लोकपूज्या च महिषासुरभञ्जनि ।
करवीरपुरावासे तुलसी रक्षणं कुरु ॥ १०॥
मायावती भगवती महिला भद्रकालिका ।
मोहिनी सङ्गता शौरी तुलसी रक्षणं कुरु ॥ ११॥
महालक्ष्मि महाकाली सर्वत्र विजया जया ।
अशरीरी शरीरी च तुलसी रक्षणं कुरु ॥ १२॥
ब्रह्माणी शङ्करी सौम्या वैष्णवी च स्वधा तथा ।
देवसेना महारौद्री तुलसी रक्षणं कुरु ॥ १३॥
चामुण्डा चञ्चला भीमा रेणुका मारिका तथा ।
पद्माक्षी पञ्ममाला च तुलसी रक्षणं कुरु ॥। १४॥
शुभाशुभप्रदात्री त्वं वृषभासुरभञ्जनी ।
वञ्जुला जर्झरी क्रूरा तुलसी रक्षणं कुरु ॥ १५॥
अतिगुह्यतमं दिव्यं पुत्रपौत्रप्रवर्धनम् ।
नास्तिकाय प्रदेयं न नाभक्ताय कदाचन । १६॥
शुश्रूषवे च भक्ताय प्रदेयं हितमिच्छता ।
विष्णुभक्ताय पूज्याय वैराग्य गुणशालिने ॥ १७॥
भृगुवारे भौमवारे प्रदोषे च विशेषतः ।
प्रभाते सर्वदा जप्यं लिखित्वा पुस्तकं यदि । १८॥
स्थापितं पूजितं चेत्स्यात् सर्वरोगैः प्रमुच्यते ।
महालक्ष्मीः सिन्धुतीरे विष्णुना प्रभविष्णुना ॥ १९॥
साऽपि विधये प्रोक्तवती तेनोक्तं नारदाय वै ।
नारदः प्रोक्तवान्मह्यं तदेतत्प्रोक्तवानहम् ॥ २०॥
एवं परम्पराप्राप्तं सर्वशास्रार्थ सङ्ग्रहम् ।
तुलसीकवचं पुण्यं तस्मात्स्तोत्रं महात्फलम् ॥ २१॥
तस्मात्कोटिगुणं पुण्यं तुलसीस्तवराजतः ।
पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयात् ॥ २२॥
किं तेन बहुनोक्तेन मोक्षार्थी मोक्षामाप्नुयात्त् ।
सप्तद्वीपवतीं पृथ्वीं दत्वा यत्फलमाप्नुयात् ।
तत्फलं समवाप्नोति तुलसीपत्रदानतः ॥ २३॥
इति ब्रह्मपुराणान्तर्गतः तुलसीस्तवराजः सम्पूर्णः ।
Encoded and proofread by Shree Devi Kumar