तुलसीमहिमा
महादेव उवाच ।
विष्णुप्रीतिं करोत्वेषा तरुर्भूत्वा महीतले ।
शरीरमर्ज्यतामस्याः श्रीविष्णुप्रीतये गणाः ॥ १॥
अस्याः पत्रेण वृन्दायाः पूजितः स्यात् स्वयं हरिः ।
नान्येनेति सुविज्ञेयं मणिमुक्तादिनापि च ॥ २॥
नामास्यास्तुलसीत्यस्तु पवित्रायाः सुपावनम् ।
तकारो मरणं प्रोक्तं तद्योगः स्यादुकारतः ॥ ३॥
मृता लसति चेत्येवं तुलसीत्येव गीयते ।
स्थितः प्रतिदलेष्वस्या मन्त्रो द्वादशवर्णकः ॥ ४॥
अधिष्ठात्री देवतास्यामावां देवीमहेश्वरौ ।
नारायण उपास्योऽस्याः प्रियेयं वैष्णवी मता ॥ ५॥
(द्वादशवर्णकः अथवा द्वादशाक्षरविष्णुमन्त्रः
ॐ नमो भगवते वासुदेवाय ।)
॥ इति बृहद्धर्मपुराणे सप्तमोऽध्याये महादेवप्रोक्तं
तुलसी प्रादुर्भावसहिता तुलसीमहिमा सम्पूर्णा ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ७। ६०.२-६४॥
This follows a story of Vrinda, the wife
(Vaishnavi) of Dharmadeva, both devotees
of Vishnu. By fate and curse, she became
a Rakshasi but did not hurt Dharmadeva.
As an ardent devotee of Vishnu, she was
seen by shivagaNas to have the Vishnu
mantra `OM namo bhagavate vAsudevAya'
absorbed in her each and every cell.
Even long after her death, her skin/body
was as glowing as before. So it is said
that each and every leaf of Tulasi
is engraved with the mantra.