त्रिपुरसुन्दरीप्रातःस्मरणम्
श्रीगणेशाय नमः ।
ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ।
कस्तूरिकाकृतमनोज्ञललामभास्व-
दर्धेन्दुमुग्धनिटिलाञ्चलनीलकेशीम् ।
प्रालम्बमाननवमौक्तिकहारभूषां
प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥
एणाङ्कचूडसमुपार्जितपुण्यराशि-
मुत्तप्तहेमतनुकान्तिझरीपरीताम् ।
एकाग्रचित्तमुनिमानसराजहंसीं
प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥
ईषद्विकासिनयनान्तनिरीक्षणेन
साम्राज्यदानचतुरां चतुराननेड्याम् ।
ईशाङ्कवासरसिकां रससिद्धिदात्रीं
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥
लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः
संशोभिते च फलकेन सदाशिवेन ।
मञ्चे वितानसहिते ससुखं निषण्णां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥
ह्रींकारमन्त्रजपतर्पणहोमतुष्टां
ह्रींकारमन्त्रजलजातसुराजहंसीम् ।
ह्रींकारहेमनवपञ्जरसारिकां तां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥
हल्लीसलास्यमृदुगीतिरसं पिबन्ती-
माकूणिताक्षमनवद्यगुणाम्बुराशिम् ।
सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः
प्रातः स्मरामि मनसा ललिताधिनाथाम्॥ ६॥
सच्चिन्मयीं सकललोकहितैषिणी च
सम्पत्करीहयमुखीमुखदेवतेड्याम् ।
सर्वानवद्यसुकुमारशरीररम्यां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ७॥
कन्याभिरर्धशशिमुग्धकिरीटभास्व-
च्चूडाभिरङ्कगतहृद्यविपञ्चिकाभिः ।
संस्तूयमानचरितां सरसीरुहाक्षीं
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ८॥
हत्वाऽसुरेन्द्रमतिमात्रबलावलिप्त-
भण्डासुरं समरचण्डमघोरसैन्यम् ।
संरक्षितार्तजनतां तपनेन्दुनेत्रां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ९॥
लज्जावनम्ररमणीयमुखेन्दुबिम्बां
लाक्षारुणाङ्घ्रिसरसीरुहशोभमानाम् ।
रोलम्बजालसमनीलसुकुन्तलाड्यां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १०॥
ह्रींकारिणी हिममहीधरपुण्यराशिं
ह्रींकारमन्त्रमहनीयमनोज्ञरूपाम् ।
ह्रींकारगर्भमनुसाधकसिद्धिदात्रीं
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ११॥
सञ्जातजन्ममरणादिभयेन देवीं
सम्फुल्लपद्मविलयां शरदिन्दुशुभ्राम् ।
अर्धेन्दुचूडवनितामणिमादिवन्द्यां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १२॥
कल्याणशैलशिखरेषु विहारशीलां
कामेश्वराङ्कनिलयां कमनीयरूपाम् ।
काद्यर्णमन्त्रमहनीयमहानुभावां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १३॥
लम्बोदरस्य जननीं तनुरोमराजीं
बिम्बाधरां च शरदिन्दुमुखीं मृडानीम् ।
लावण्यपूर्णजलधिं जलजातहस्तां
प्रातः स्मरामि मनसा ललीताधिनाथाम् ॥ १४॥
ह्रींकारपूर्णनिगमैः प्रतिपाद्यमानां
ह्रींकारपद्मनिलयां हतदानवेन्द्राम् ।
ह्रींकारगर्भमनुराजनिषेव्यमाणां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १५॥
श्रीचक्रराजनिलयां श्रितकामधेनुं
श्रीकामराजजननीं शिवभागधेयाम् ।
श्रीमद्गुहस्य कुल्यमङ्गलदेवतां तां
प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १६॥
इति श्रीत्रिपुरसुन्दरीप्रातःस्मरणं समाप्तम् ॥
Proofread by Pallasena Narayanaswami ppnswami at gmail.com