श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रम्
क्ष्माम्ब्वग्नीरणखार्केन्दुयष्ट्टप्राययुगाक्षरैः ।
मातृभैरवगां वन्दे देवीं त्रिपुरभैरवीम् ॥ १॥
कादिवर्गाष्टकाकारसमस्ताष्टकविग्रहाम् ।
अष्टशक्त्यावृतां वन्दे देवीं त्रिपुरभैरवीम् ॥ २॥
स्वरषोडशकानां तु षट् त्रिंशद्भिः परापरैः ।
षट् त्रिंशत्तत्वगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ३॥
षट् त्रिंशत्तत्वसंस्थाप्यशिवचन्द्रकलास्वपि ।
कादितत्त्वान्तरां वन्दे देवीं त्रिपुरभैरवीम् ॥ ४॥
आ ई माया द्वयोपाधिविचित्रेन्दुकलावतीम् ।
सर्वात्मिकां परां वन्दे देवीं त्रिपुरभैरवीम् ॥ ५॥
षडध्वपिण्डयोनिस्थां मण्डलत्रयकुण्डलीम् ।
लिङ्गत्रयातिगां वन्दे देवीं त्रिपुरभैरवीम् ॥ ६॥
स्वयम्भूहृदयां बाणभ्रूकामान्तःस्थितेतराम् ।
प्राच्यां प्रत्यक्चितिं वन्दे देवीं त्रिपुरभैरवीम् ॥ ७॥
अक्षरान्तर्गताशेषनामरूपां क्रियापराम् ।
शक्तिं विश्वेश्वरीं वन्दे देवीं त्रिपुरभैरवीम् ॥ ८॥
वर्गान्ते पठितव्यं स्यात् स्तोत्रमेतत्समाहितैः ।
सर्वान् कामानवाप्नोति अन्ते सायुज्यमाप्नुयात् ॥ ९॥
इति श्रीत्रिपुरार्णवोक्तवर्गान्तस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Aruna Narayanan narayanan.aruna at gmail.com