स्वसङ्कल्पप्रकाशस्तोत्रम्
अनाराध्य राधापदाम्भोजरेणुं
अनाश्रित्य वृन्दाटवीं तत्पदाङ्काम् ।
असम्भाष्य तद्भावगम्भीरचित्ता-
न्कुतः श्यामसिन्धौ रस्यस्यावगाहः ॥ १॥
नवं दिव्यं काव्यं स्वकृतमतुलं नाटककुलं
प्रहेलीर्गूढार्थाः सखि रुचिरवीणाध्वनिगतीः ।
कदा स्नेहोल्लासैर्ललितललिताप्रेरणबला-
त्सलज्जं गान्धर्वा सरसमसकृच्छिक्षयति माम् ॥ २॥
अलं मानग्रन्थेर्निभृतचटुमोक्षाय निभृतं
मुकुन्दे हा हेति प्रथयति नितान्तं मयि जने ।
तदर्थं गान्धर्वाचरणपतितं प्रेक्ष्य कुटिलं
कदा प्रेमक्रौर्यात्प्रखरललिता भर्त्सयति माम् ॥ ३॥
मुदा वैदग्ध्यान्तर्ललितनवकर्पूरमिलन
स्फुरन्नानानर्मोत्करमधुरमाध्वीकरचने ।
सगर्वं गान्धर्वागिरिधरकृते प्रेमविवशा
विशाखा मे शिक्षां वितरतु गुरुस्तद्युतसखी ॥ ४॥
कुहूकण्ठीकण्ठादपि कमनकण्ठी मयि पुन-
र्विशाखा गानस्यापि च रुचिरशिक्षां प्रणयतु ।
यथाहं तेनैतद्युवयुगलमुल्लास्य सगणा-
ल्लेभे रासे तस्मान्मणिपदकहारानिह मुहुः ॥ ५॥
क्वचित्कुञ्जे कुञ्जे छलमिलित्गोपालमनु तां
मदीशां मध्याह्ने प्रियतरसखीवृन्दवलिताम् ।
सुधाजैत्रैरन्नैः पचनरसविच्चम्पकलता
कृतोद्यच्छिक्षोऽहं जन इह कदा भोजयति भोः ॥ ६॥
क्वचित्कुञ्जक्षेत्रे स्मरविषमसङ्ग्रामगरिम
क्षरच्चित्रश्रेणीं व्रजयुवयुगस्योत्कटमदैः ।
विधत्ते सोल्लासं पुनरसमयं पर्णकचयै-
र्विचित्रं चित्रातः सखि कलितशिक्षोऽप्यनु जनः ॥ ७॥
परं तुङ्गाद्या यौवतसदसि विद्याद्भुतगुणैः
स्फुटं जित्वा पद्माप्रभृतिनवनारीर्भ्रमति या ।
जनोऽयं सम्पाद्य सखि विविधविद्यास्पदतया
तया किं श्रीनाथाच्छलनिहितनेत्रेङ्गितलवैः ॥ ८॥
स्फुरन्मुक्तागुञ्जामणिसुमनसां हाररचने
मुदेन्दोर्लेखा मे रचयतु तथा शिक्षणविधिम् ।
यथा तैः सङ्कॢप्तैर्दयितसरसीमध्यसदने
स्फुटं राधाकृष्णावयमपि जनो भूषयति तौ ॥ ९॥
अये पूर्वं रङ्गेत्यमृतमयवर्णद्वयरस
स्फुरद्देवीप्रार्थ्यं नटनपटलं शिक्षयति चेत् ।
तदा रासे दृश्यं रसवलितलास्यं विदधतो-
स्तयोर्वक्त्रे युञ्जे नटनपटुवीटिं सखि मुहुः ॥ १०॥
सदक्षक्रीडानां विधिमिह तथा शिक्षयितुं सा
सुदेवी मे दिव्यं सदसि सुदृशां गोकुलभुवाम् ।
तयोर्द्वन्द्वे खेलामथ विदधतोः स्फूर्जति तथा
करोमि श्रीनाथां सखि विजयिनीं नेत्रकथनैः ॥ ११॥
रहः कीरद्वाराप्यतिविषमगूडार्थरचनं
दले पाद्मे पद्यं प्रहितमुदयच्चाटुहरिणा ।
समग्रं विज्ञायाचलपतिवलत्कन्दरपदे
तदभ्यर्णे नेष्ये द्रुतमति मदीशां निशि कदा ॥ १२॥
अदभ्रं बिभ्राणौ स्मररणभरं कन्दरखले
मिथो जेतुं विद्धावपि निशितनेत्राञ्चलशरैः ।
अपि क्लिद्यद्गात्रौ नखदशनशस्त्रैरपि दरा
त्यजन्तौ द्रष्टुं तौ किमु तमसि वत्स्यामि समये ॥ १३॥
समानं निर्वाह्य स्मरसदसि सङ्ग्राममतुलं
तदाज्ञातः स्थित्वा मिलिततनु निद्रां गतवतोः ।
तयोर्युग्मं युक्त्या त्वरितमभिसङ्गम्य कुतुका-
त्कदाहं सेविष्ये सखि कुसुमपुञ्जव्यजनभाक् ॥ १४॥
मुदा कुञ्जे गुञ्जद्भ्रमरनिकरे पुष्पशयनं
विधायारान्मालाघुसृणमधुवीटीविरचनम् ।
पुनः कर्तुं तस्मिन्स्मरविलसितान्युत्कमनसो-
स्तयोस्तोषायालं विधुमुखि विधास्यामि किमहम् ॥ १५॥
जितोन्मीलन्नीलोत्पलरुचिनि कान्त्योरसि हरे-
र्निकुञ्जे निद्राणां द्युतिविजितगाङ्गेयगुरुताम् ।
कदा दृष्ट्वा राधां नभसि नवमेघे स्थिरतया
वलद्विद्युल्लक्ष्म्यां मुहुरिह दधे थुत्कृतिमहम् ॥ १६॥
विलासे विस्मृत्य स्खलितमुरुरङ्गैर्मणिसरं
द्रुतं भीत्यागत्य प्रियतमसखीसंसदि ह्रिया ।
तमानेतुं स्मित्वा तदविदितनेत्रान्तनटनैः
कदा श्रीमन्नाथा स्वजनमचिरात्प्रेरयति माम् ॥ १७॥
क्वचित्पद्माशैव्यादिकवलितचन्द्रावलिमुरु
प्रियालापोल्लासैरतुलमपि धिन्वन्नघहरः ।
कदा वा मत्प्रेक्षालवकलितवैलक्ष्यभरतः
क्व राधेत्याजल्पन्मलिनयति सर्वाः परमिमाः ॥ १८॥
सगर्वाः संरुद्ध्य प्रखरललिताद्याः सहचरी-
स्ततो दानं दर्पात्सखि मृगयता स्वं गिरिभृता ।
विशाखा मन्नाथानयननटनप्रेरणबला-
द्विधृत्यारान्नीता रुषमिह दधाना क्षिपतु नः ॥ १९॥
स्तनौ शैलप्रायावपि तव नितम्बो रथसमः
स्फुटं जीर्णा नौर्मे कलय तटिनीं वातविषमाम् ।
कथं पारं गच्छेरिह निवस रात्राविति हरे-
र्वचः श्रुत्वा राधा कपटकुपिता स्मेरयतु माम् ॥ २०॥
इदं स्वान्ते भुञ्जे कदलमपि यद्रङ्गणलता
भिधैकस्वर्वल्लीपवनलभनेनैव फलितम् ।
तदभ्यासे स्फूर्जन्मदनसुभगं तद्युवयुगं
भजिष्ये सोल्लासं प्रियजनगणैरित्थमिह किम् ॥ २१॥
इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां
स्वसङ्कल्पप्रकाशस्तोत्रं सम्पूर्णम् ।