स्वार्थाशंसनम्
अये ! मातरव्याज-कारुण्य-पूर्णे ! पदं तावकं मामकं चित्तमेतु !
जगद्-वासना-भासना-धर्षणाभिः परिक्लिष्टमालम्बमन्विष्यते तत् ॥ १॥
मनो-भूतमश्रान्तमश्रान्तमेव, भ्रमद्-भूत-सर्गेषु नो शंशमीति ।
न विन्देऽरविन्देक्षणे ! स्वास्थ्य-भावं भवत्याः प्रसादं समन्तात् प्रतीक्षे ॥ २॥
शरण्ये ! भवत्या लभे येन पादं न मय्यस्ति तादृग्गुणस्यांशकोऽपि
परित्राणकर्त्रि ! त्वमेवात्म-दृष्ट्या रुजाजाल-जीर्णाङ्गकं मामवाशु ॥ ३॥
यदाचार्य-मूर्त्त्या भवत्या प्रदिष्टं न तत्साधने सावधाना मतिर्मे ।
अहो विस्फुरद्-वासना-क्लेश-पाशावृतो बम्भ्रमीम्याशु मातः ! प्रसीद ॥ ४॥
लसद्-भूरि-सिन्दूर-पूरप्रकाशं किमप्युद्यदुद्दाम-मोद-प्रवाहम् ।
अकम्पानुकम्पा-परीतं प्रसन्नं भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ५॥
चतुर्वर्ग-सम्पत्-प्रदान-प्रवीणैः , स्फुरद्भिश्चतुर्भिर्भुजैर्भासमानम् ।
धनुर्बाण-पाशाङ्कुशं साधु बिभ्रद्-भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ६॥
शिवे ! यत्र नेत्रायते त्रायतेऽपि स्फुरन्नर्यमा चन्द्रमा जातवेदाः ।
तदाह्लादि कामेश्वराङ्कानुषक्तं भवत्याः स्वरूपं ममान्तश्चकास्तु ॥ ७॥
तदास्तां, त्वदीयं स्वरूपं विरूपं यदुद्भासने श्रान्तिमेत्यागमोऽपि ।
वयं मन्महे तन्महेशानुषङ्गि स्फुरत्सान्द्र-कारुण्य-सन्दोह-रङ्गि ॥ ८॥
शरणागत-दीनार्त-परित्राण-परायणा ।
नाम-पारायण-प्रीता सा नः पुष्णातु शाम्भवी ॥ ९॥
इति श्रीदुर्गाप्रसादद्विवेदीविरचितं स्वार्थाशंसनं सम्पूर्णम् ॥
Encoded and Proofread by Rajani Arjun Shankar