सुरभिस्तोत्रम्
पुरन्दर उवाच ।
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ॥ १॥
नमो राधाप्रियायै च पद्मांशायै नमो नमः ।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ॥ २॥
कल्पवृक्षस्वरूपायै सर्वेषां सततं परम् ।
श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।
यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥
स्तोत्रस्मरणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्वदुर्लभम् ।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।
दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।
स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम् ॥ ९॥
सुचिरं निवसेत्तत्र कुरुते कृष्णसेवनम् ।
न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥
इति श्रीब्रह्मवैवर्तपुराणे प्रकृतिखण्डे
इन्द्रकृतं सुरभिस्तोत्रं समाप्तम् ॥
देवीभागवतपुराणे नवमस्कन्धे अध्याय ४९
Proofread by PSA Easwaran