श्रेयस्करीस्तोत्रम्
श्रीः ।
श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये
स्वानन्दपूर्णहृदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं
माङ्गल्यमातनु सदैव मुदैव मातः ॥ १॥
श्रेयस्करि श्रितजनोद्धरणैकदक्षे
दाक्षायणि क्षपितपातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे
मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २॥
श्रेयस्करि प्रणतपामरपारदान-
ज्ञानप्रदानसरणिश्रितपादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि
तत्रैव मे वसतु मानसराजहंसः ॥ ३॥
श्रेयस्करीति तव नाम गृणाति भक्त्या
श्रेयांसि तस्य सदने च करी पुरस्तात् ।
किं किं न सिद्ध्यति सुमङ्गलनाममालां
धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४॥
श्रेयस्करीति वरदेति दयापरेति
वेदोदरेति विधिशङ्करपूजितोति ।
वाणीति शम्भुरमणीति च तारिणीति
श्रीदेशिकेन्द्रकरुणेति गृणामि नित्यम् ॥ ५॥
श्रेयस्करि प्रकटमेव तवाभिधानं
यत्रास्ति तत्र रविवत्प्रथमानवीर्यम् ।
ब्रह्मेन्द्ररुद्रमरुतादिगृहाणि सौख्यैः
पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६॥
श्रेयस्करि प्रणतवत्सलता त्वयीति
वाचं शृणुष्व सरलां सरसां च सत्याम् ।
भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्-
पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७॥
श्रेयस्करीचरणसेवनतत्परेण
कृष्णेन भिक्षुवपुषा रचितं पठेद्यः ।
तस्य प्रसीदति सुरारिविमर्दनीयम्-
अम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८॥
यथामतिकृतस्तुतौ मुदमुपैति माता न किं
यथाविभवदानतो मुदभुपैति पात्रं न किम् ।
भवानि तव संस्तुतिं विरचितुं न चाहं क्षमस्-
तथापि मुदभेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं
श्रेयस्करीसुमङ्गलस्तोत्रं समाप्तम् ।
Proofread by Nat Natarajan nat.natarajan at gmail.com, NA