श्रीवल्लीभुवनेश्वर्यष्टोत्तरशतनामावलिः
ॐ ह्रीं शिरालीक्षेत्रचैतन्यायै नमो नमः ।
ॐ ह्रीं श्रीचित्रापुरवासिन्यै नमो नमः ।
ॐ ह्रीं मठप्रासादसाम्राज्ञ्यै नमो नमः ।
ॐ ह्रीं श्रीवल्लीभुवनेश्वर्यै नमो नमः ।
ॐ ह्रीं आराध्यार्धाङ्गिनीपूर्णायै नमो नमः ।
ॐ ह्रीं भवानीशङ्करप्रियायै नमो नमः ।
ॐ ह्रीं रामाञ्जनेयचिद्वाण्यै नमो नमः ।
ॐ ह्रीं गणेशस्नेहसन्धितायै नमो नमः ।
ॐ ह्रीं क्षेत्रपालकजागर्य्यायै नमो नमः ।
ॐ ह्रीं गुरुपरम्परागिरायै नमो नमः । १०
ॐ ह्रीं दक्षिणामूर्तिमौनाभायै नमो नमः ।
ॐ ह्रीं भाष्यकारान्तरङ्गिण्यै नमो नमः ।
ॐ ह्रीं आश्रमसम्प्रदायाद्यायै नमो नमः ।
ॐ ह्रीं आश्रमवंशसूत्रिकायै नमो नमः ।
ॐ ह्रीं परिज्ञानेडितैश्वर्यायै नमो नमः ।
ॐ ह्रीं परिज्ञानजधर्मधृते नमो नमः ।
ॐ ह्रीं सारस्वतसमाराध्यायै नमो नमः ।
ॐ ह्रीं वात्सल्यपूर्णविग्रहायै नमो नमः ।
ॐ ह्रीं सहस्रांशुलसत्कायायै नमो नमः ।
ॐ ह्रीं पीयूषनिधिकैरव्यै नमो नमः । २०
ॐ ह्रीं लसच्चन्द्रकलाधात्र्यै नमो नमः ।
ॐ ह्रीं यौवनोत्पलसौरभ्यै नमो नमः ।
ॐ ह्रीं रक्तचन्दनवर्णाङ्ग्यै नमो नमः ।
ॐ ह्रीं चन्द्रार्कवह्निलोचनायै नमो नमः ।
ॐ ह्रीं स्मितालङ्कृतबिम्बौष्ठायै नमो नमः ।
ॐ ह्रीं पीनोत्तुङ्गकुचद्वय्यै नमो नमः ।
ॐ ह्रीं वेदवेदाङ्गपादाब्जायै नमो नमः ।
ॐ ह्रीं कुञ्चिततनुमध्यमायै नमो नमः ।
ॐ ह्रीं वरदभीतिहामुद्रायै नमो नमः ।
ॐ ह्रीं पाशाङ्कुशसुयन्त्रणायै नमो नमः । ३०
ॐ ह्रीं नागालङ्कृतधम्मिल्लायै नमो नमः ।
ॐ ह्रीं केतक्यङ्कितवेणिधृते नमो नमः ।
ॐ ह्रीं पद्मनिहितपादाङ्ग्यै नमो नमः ।
ॐ ह्रीं पन्नगेश्वरमेखलायै नमो नमः ।
ॐ ह्रीं नानावर्णाम्बरोपेतायै नमो नमः ।
ॐ ह्रीं नानाभावाङ्कितेक्षणायै नमो नमः ।
ॐ ह्रीं दर्शनात्पापभस्मीकृते नमो नमः ।
ॐ ह्रीं जपादकालमृत्युहायै नमो नमः ।
ॐ ह्रीं शिवगुरुकृपापाङ्ग्यै नमो नमः ।
ॐ ह्रीं दीर्घजाड्यविनाशिन्यै नमो नमः । ४०
ॐ ह्रीं मन्त्रोपदिष्टसङ्गोप्त्र्यै नमो नमः ।
ॐ ह्रीं अक्षमालाविलासिन्यै नमो नमः ।
ॐ ह्रीं वाग्बीजध्यानसन्तुष्टायै नमो नमः ।
ॐ ह्रीं ह्रींकाराक्षररूपिण्यै नमो नमः ।
ॐ ह्रीं ह्रींकारमणिचित्राङ्ग्यै नमो नमः ।
ॐ ह्रीं ह्रींबीजविश्वकारिण्यै नमो नमः ।
ॐ ह्रीं ह्रींकारवनसारङ्ग्यै नमो नमः ।
ॐ ह्रीं ह्रींकारकलशामृतायै नमो नमः ।
ॐ ह्रीं ह्रींकारमन्त्रसंल्लभ्यायै नमो नमः ।
ॐ ह्रीं ह्रींमन्त्रोपासनास्फुरायै नमो नमः । ५०
ॐ ह्रीं सुव्रतार्चितहृल्लेखायै नमो नमः ।
ॐ ह्रीं तापसार्चिततत्पदायै नमो नमः ।
ॐ ह्रीं विविक्तचित्तसंव्यक्तायै नमो नमः ।
ॐ ह्रीं अम्बुजदलमातृकायै नमो नमः ।
ॐ ह्रीं हृदम्भोजपराबीजायै नमो नमः ।
ॐ ह्रीं पश्यन्तीस्फुटपल्लव्यै नमो नमः ।
ॐ ह्रीं मध्यमाकलिकाभूतायै नमो नमः ।
ॐ ह्रीं पूर्णफुल्लितवैखर्यै नमो नमः ।
ॐ ह्रीं ह्रींकारमन्त्रचित्तस्थायै नमो नमः ।
ॐ ह्रीं क्षेत्रमण्डलिनीश्वर्यै नमो नमः । ६०
ॐ ह्रीं आधारकुण्डलीरूपायै नमो नमः ।
ॐ ह्रीं सहस्रदलगामिन्यै नमो नमः ।
ॐ ह्रीं सुषुम्नानाडिसङ्गन्त्र्यै नमो नमः ।
ॐ ह्रीं क्षेत्रषट्चक्रभेदिन्यै नमो नमः ।
ॐ ह्रीं शाम्भववेधसद्दीक्षायै नमो नमः ।
ॐ ह्रीं द्वादशान्तनिवासिन्यै नमो नमः ।
ॐ ह्रीं जपफलप्रदायित्र्यै नमो नमः ।
ॐ ह्रीं चिद्विमर्शतरङ्गिण्यै नमो नमः ।
ॐ ह्रीं श्रीसारस्वतयुक्ताङ्ग्यै नमो नमः ।
ॐ ह्रीं शब्दार्थसूक्ष्मदृष्टिदायै नमो नमः । ७०
ॐ ह्रीं वाणीब्रह्माण्डसाम्राज्ञ्यै नमो नमः ।
ॐ ह्रीं चिदाकाशतडिल्लतायै नमो नमः ।
ॐ ह्रीं त्रैलोक्यव्याप्तहृल्लेखायै नमो नमः ।
ॐ ह्रीं सूक्तिवीणासुवादिन्यै नमो नमः ।
ॐ ह्रीं छन्दश्शास्त्रमहेशान्यै नमो नमः ।
ॐ ह्रीं काव्यालङ्कारमोदिन्यै नमो नमः ।
ॐ ह्रीं सुधामाधुर्यसम्पूर्णायै नमो नमः ।
ॐ ह्रीं सर्वशास्त्रविशारदायै नमो नमः ।
ॐ ह्रीं तत्त्वातीतपराशक्त्यै नमो नमः ।
ॐ ह्रीं दहराकाशविस्तृतायै नमो नमः । ८०
ॐ ह्रीं अवकाशप्रदायित्र्यै नमो नमः ।
ॐ ह्रीं बाह्याकाशविधायिन्यै नमो नमः ।
ॐ ह्रीं शुश्रूषुसुष्ठुताकर्त्र्यै नमो नमः ।
ॐ ह्रीं शुश्रूषुगुरुवाक्यदायै नमो नमः ।
ॐ ह्रीं सच्छिष्यकार्यसङ्कर्त्र्यै नमो नमः ।
ॐ ह्रीं सच्छिष्य गुरुलक्ष्यदायै नमो नमः ।
ॐ ह्रीं दिव्यकार्यस्थितस्फूर्त्यै नमो नमः ।
ॐ ह्रीं गुरुसङ्केतदर्शन्यै नमो नमः ।
ॐ ह्रीं गुरुकार्यस्थसन्त्वक्त्रायै नमो नमः ।
ॐ ह्रीं कार्यसिद्धिप्रदायिन्यै नमो नमः । ९०
ॐ ह्रीं अर्पितकार्यसन्तुष्टायै नमो नमः ।
ॐ ह्रीं कृतव्रतोत्सवार्चितायै नमो नमः ।
ॐ ह्रीं क्षमायाचनसन्तृप्तायै नमो नमः ।
ॐ ह्रीं प्रायश्चित्तप्रकाशितायै नमो नमः ।
ॐ ह्रीं तपःसिद्धिददन्नित्यायै नमो नमः ।
ॐ ह्रीं नतदोषनिवारिण्यै नमो नमः ।
ॐ ह्रीं नतचित्तविवेकार्च्च्यै नमो नमः ।
ॐ ह्रीं सेवापूतविरागदायै नमो नमः ।
ॐ ह्रीं षट्सम्पत्तिपराकोशायै नमो नमः ।
ॐ ह्रीं भवार्णवैकतारिण्यै नमो नमः । १००
ॐ ह्रीं सर्वतीर्थसमायुक्तायै नमो नमः ।
ॐ ह्रीं अनुग्रहवहन्नद्यै नमो नमः ।
ॐ ह्रीं स्वतन्त्रतासुगन्धाढ्यायै नमो नमः ।
ॐ ह्रीं सच्छिष्यार्हविभूतिदायै नमो नमः ।
ॐ ह्रीं सच्चिदानन्दहृल्लेखायै नमो नमः ।
ॐ ह्रीं गाम्भीर्यतोषलक्षितायै नमो नमः ।
ॐ ह्रीं स्वानन्दनिर्झरीयोन्यै नमो नमः ।
ॐ ह्रीं श्रीश्रीपूर्णकलामय्यै नमो नमः । १०८
इति श्रीवल्लीभुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता ।
Encoded and proofread by Rajesh Thyagarajan